असंगति अलंकारः - लक्षण ३

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


इत्यादौ भारजनितखेदांशे तदभावात्‍ । न च तत्रापि जलपूर्णघटादि-भारजनितखेदेन सह नितम्बभारजनितखेदस्याभेदाध्यवसायोऽस्त्येवेति वाच्यम्‍ । नितम्बभारजनितखेदस्य स्वस्वरूपेणापि खेदजनकत्वेन भारान्त-
रजनितखेदाध्यवसायानपेक्षणात्‍ । ‘ सा बाला व्ययमप्रगल्भमनस: सा स्त्री वयं कातरा: ’ इति प्राचीनानां पद्ये बालात्वस्त्रीत्वाद्यंशे तल्लेशस्याप्यसंभवाच्च ।
यत्तु ‘ विरोधालंकारे ह्मेकस्मिन्नधिकरणे द्वयो: संबन्धाद्विरोधप्रति-भानम्‍, असंगतौ त्वधिकरणद्वय इति तस्मादस्य वैलक्षण्यम्‍ इति विमर्शिनीकर आह, तदसत्‍ । इहापि तत्तत्कार्यतावच्छेदकधर्मतत्तत्का-रणवैयधिकरण्यरूपयोर्धर्मयोरेकस्मिन्कार्यरूपेऽधिकरणे संबन्धादेव विरोध-प्रतिभानोत्पत्ते: । तस्माद्विरोधालंकारे उत्पत्तिविमर्शं विनैव विरोधप्रति-भानम्‍ । इह तूत्पत्तिविमर्शपूर्विकैव विरोधप्रतिभोत्पत्ति: इति वैलक्षण्य-मिति । वस्तुस्तु-व्यधिकरणत्वेन प्रसिद्धयो: समानाधिकरणत्वेनोप-
निबन्धने विरोधालंकार: । समानाधिकरणत्वेन प्रसिद्धयोर्द्वयोर्वैयधिकर-ण्येनोपनिबन्धनेऽसंगति: । प्रागुक्तासंगतिलक्षणे हेतुकार्ययोरिति च समानाधिकरणमात्रोपलक्षणम्‍ । तेन ‘ नेत्रं निरञ्जनं तस्या: शून्यास्तु वयमद्भुतम्‍ ’ इत्यत्र निरञ्जनत्वशून्यत्वयोरुत्पादकभावलक्षणसंबन्धानन्त-र्भावेण शुद्धसमानाधिकरणत्वेन प्रसिद्धयोरप्यसंगति: संगच्छते । यथा-श्रुते तु सा न स्यात्‍ । इथं च स्फुट एव विरोधालंकारादसंगतेर्भेद: ।
यस्तु पुनर्विरोधालंकारादतिरिक्त: शुद्धविरोधांशो विरोधमूलेषु सर्वेष्वप्यलंकारेष्वनुस्यूत: , औपम्यांश इवोपमामूलेषु, सोऽलंकाराणां कतिपयानां निर्वर्तक:, नतु स्वयं पृथगलंकारास्पदम्‍, अलंकाराणां
भणितिविशेषमात्ररूपत्वात्‍ । एवं च विमर्शिनीकारोक्तमपि पद्यमनयैव दिशा नीयते तदा न दोष: । यत्तु-
“-‘ अन्यत्र करणीयस्य ततोऽन्यत्र कृतिश्च सा । अन्यत्कर्तुं प्रवृत्तस्य तद्विरुद्धकृतिस्तथा ॥
अपारिजातां वसुधां चिकीर्षन्द्यां तथाऽकृथा: । गोत्रोद्धारप्रवृत्तोऽपि गोत्रोद्भेदं पुरा‍ऽकरो: ॥ ’

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP