असंगति अलंकारः - लक्षण ४
रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.
अत्र श्रीकृष्णं प्रति शक्तस्योपालम्भवाक्ये भुवि चिकीर्षिततया तत्र करणीयमपारिजातत्वं दिवि कृतमित्येकाऽसंगति: । पुरा गोत्राया उद्धारे प्रवृत्तेन वराहरूपिणा तद्विरुद्धं गोत्राणां दलनं खुरकुट्टनै: कृतमिति द्वितीय । यथा वा-
‘ त्वत्खड्रखण्डितसपत्नविलसिनीनां भूषा भवन्त्यभिनवा भुवनैकवीर ।
नेत्रेषु कंकणमथोरुषु पत्रवल्ली चोलेन्द्रसिंह तिलकं करपल्लवेषु ॥ ’
‘ मोहं जगत्रयभुवामपनेतुमेत-दादाय रूपमखिलेश्वर देहभाजाम् । नि:सीमकान्तिरसनीरधिनाभुनैव मोहं प्रवर्धयसि मुग्धविलसिनीनाम् ॥ ’
अत्राद्योदाहरणे कंकणादीनामन्यत्र करणीयत्वं प्रसिद्धमिति नोप-न्यस्तम् । भवतिना भावनारूपान्यत्र कृतिराक्षिप्यतेईति लक्षणानुगति: ”
इति कुवलयानन्दकृताऽसंगतेरन्यद्भेदद्वयं लक्षयित्वोदाह्लतम्, तन्न । तत्र तावत् ‘ अपारिजातां वसुधां चिकीर्षन्द्यां तथाकृथा: ’
इत्यत्र पारिजात-राहित्यचिकीर्षया कारणभूतया सह पारिजातराहित्यस्य कार्यस्य विरुद्धवैय-धिकरण्योपनिबन्धात्, ‘ विरुद्ध्म भिन्नदेशत्व्म कार्यहेत्वोरसंगति: ’ इति
प्राथमिकाऽसंगतितो वैलक्षण्यानुपपत्ते: । आलम्बनाख्यविषयतासंबन्धेन चिकीर्षाया: सामानाधिकरण्येन कार्यमात्रं प्रति हेतुत्वस्य प्रसिद्धे: । न च पारिजातराहित्यस्याभावरूपस्य नित्यत्वात्कारणाप्रसिद्धिरिति वाच्यम् । आलंकारिकनये तस्यापि जन्यत्वस्येष्टे: । लक्षणे कार्यकारणपदयोरुपलक्षण-त्वस्योक्तत्वाच्च । ‘ गोत्रोद्धारप्रवृत्तोऽपि ’ इत्युदाहरणे तु ‘ विरुद्धात्कार्य-संपत्तिर्दृष्टा काचिद्विभावना ’ इति पञ्चमविभावनालक्षणाऽऽक्तान्तत्वाद्विभा-वनयैव गतार्थत्वादसंगतिभेदान्तरकल्पनानुचिता । गोत्रोद्धारविषयकप्रवृत्ते-र्गोत्रोद्भेदरूपकार्ये विरुद्धत्वात् । सिद्धान्तेऽपि विभावनाविशेषोक्त्यो: संकर
एवात्रोचित: । ‘ नेत्रेषु कंकणं ’ इत्यादौ कंकणत्व-नेत्रालंकारत्वयोर्व्यधिकरण-त्वेन प्रसिद्धयो: सामानाधिकरण्यवर्णनाद्विरोधाभासत्वमुचितम् । एवं मोहनिवर्तकत्व-मोहजनकत्वयोरपीति । ननु तवापि विरोधाभासेनैवोप-पत्तेर्विभावनादिकल्पनानर्थक्यमिति चेत्, न । दत्तोत्तरत्वात् ।
इति रसगंगाधरेऽसंगातिप्रकरणम् ।
N/A
References : N/A
Last Updated : January 17, 2018
TOP