असंगति अलंकारः - लक्षण २
रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.
यथा वा-
‘ दृष्टिर्मृगीदृशोऽत्यन्तं श्रुत्यन्तपरिशीलिनी । मुच्यन्ते बन्धनात्केशा विचित्रा वैधसी गति: ॥ ’
अत्राद्योदाहरणे शुद्धा, द्वितीये तु श्लेषोपबृंहितेति विशेष: । प्रहरती-त्यत्राभेदाध्यवसायलक्षणेनातिशयेनापराधनिमित्तकताडनरूपतयावस्थिते कामपीडने विषय्यंशमालम्ब्य तं प्रति समानाधिकरणतया प्रसिद्धस्य हेतोरपराधरूपस्य वैयधिकरण्यज्ञानात्पुर: स्फुरन्विरोधो विषयांशवि-
मर्शोत्तरं तं प्रति कुसुमश्रीहरणाभिव्यक्तशोभाविशेषस्य भावनोपनीतस्य तद्भावनाया वा हेतुत्वस्य प्रतिसंधानान्निवर्तत इत्यभेदाध्यवसानमनुप्राण-कम्, विरोधाभासश्चोत्कर्षक: । एवमन्यत्रापि बोध्यम् ।
अस्यां च ‘ विभावनायामिव कार्यांशेऽतिशयोक्त्यनुप्राणनमावश्यकम् । अन्यथा विरोधो दुष्परिहर एव स्यात् ’ , इत्यलंकारसर्वस्वकारादीनां मतम् । तच्च ‘ दृष्टिर्मृगीदृश: ’ इत्यस्मन्निर्मितोदाहरणे व्यभिचारादसंगतम् । नहि ‘ मुच्यन्ते बन्धनात्केशा: ’ इत्यत्र केशबन्धनमुक्त्यंशेऽतिशयोक्तिरस्ति । किं तु श्लेषभित्तिकाभेदाध्यवसानमात्रम् । तस्माद्येन केनापि प्रकारेण कार्यांशेऽभेदाध्यवसानमावश्यकमिति तु संगतम् । यद्यपि ‘ दृष्टिर्मृगीदृश: ’
इत्यादौ कारणांशेऽपि श्लेषादिनाऽभेदाध्यव्यवसाय: संभवति, तथापि नासा तदंशे नियत: ।
‘ खिद्यति सा पथि यान्ती कोमलचरणा नितम्बभोरण । स्विद्यन्ति हन्त परितस्तद्रूपविलेकिनस्तरुणा: ॥ ’
N/A
References : N/A
Last Updated : January 17, 2018
TOP