स्मरणालंकार: - लक्षण ४
रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.
“ प्रेयोलंकारम्य तु सादृश्यव्यतिरिक्तनिमित्तोत्थापिता स्मृतिर्विषय: । तत्रापि विभावाद्यागूरितत्वे, यथा ‘ अहो कोपेऽपि कान्तं मुखम्’ इति । न तु स्वशब्दनिवेद्यत्वे ।
यथा-
‘ अत्रानुगोदं मृगयानिवृत्तस्तरड्रवातेन विनीतखेद: । रहस्त्वदुत्सड्रनिषण्णामूर्धा स्मरामि वानीरगृहेषु सुप्तम् ॥’
इत्यादाविति । ” ननु भावाद्यड्रीभूतभावात्वं न प्रेयोलंकारलक्षणम् । अपि तु भावाद्यड्रीभूतसंचारित्वमात्रम् । तथा च प्रकृते स्मरणस्य स्वशब्द-निवेद्यत्वेन भावत्वविरहेऽपि संचारित्वानपायात्प्रेयोलंकारत्वमविरुद्धमेवेति चेत्, एवं तर्हीतराड्रीभूतस्थायित्वमात्रं रसालंकारत्वम् , न तु व्यज्य-मानत्वविशिष्टम् , इत्यस्यापि सुवचत्वात् ।
एवं च-
‘ चराचरोभयाकारजगत्कारणविग्रहम् । कल्पान्तकालसंक्तुद्धं हरं सर्वहरं नुम: ॥’
इत्यत्र क्तोधस्य स्वशब्दनिवेदितत्वेऽपि देवताविषयकरतिभावाड्री-
भूतस्थायित्वानपायाद्रसालंकारता स्यात् । न चेष्टापति:, अपसिद्धान्तात् । तस्याव्द्यज्यमानस्यैव स्थायिन: पराड्रत्वे यथा रसालंकारत्वमेवं व्यज्य-मानस्यैव संचारिणो भावाद्यड्रतायां प्रेयोलंकारत्वमिति नात्र स्मृतिमादाय प्रेयोलंकारता वाच्या, किं तु भूविषयकरते: पूर्वार्धव्यड्रयाया उत्तरार्ध-व्यड्रयभूभृद्विषयरतिभावाड्रत्वाद्युक्ता प्रेयोलंकारता वक्तुम् ।
उक्तं च मम्मटभट्टै:- ‘ अत्र भूविषयो रत्याख्यो भावो राजविषयरतिभावस्य ’ इति । अपि च महदिदमाश्चर्यं यत् स्वेनैव निर्मित: कुवलयानन्दाख्य: संदर्भो विस्मृत: । उक्तं च तत्र- ‘ विभावानुभावाभ्याममिव्यञ्जितो निर्वेदादिर्भाव:, स यत्रापरस्याड्रं स प्रेयोलंकार: ’ इति ।
यदपि ‘ सदृशानुभवाद्वस्त्वन्तरस्मृति: स्मरणम् ’ इत्यलंकारसर्वस्व-रत्नाकर थो: स्मरणालंकारलक्षणमुक्तम्, तदपि न । सदृशस्मरणादुद्बुद्धेन संस्कारेण जनिते स्मरणे अव्याप्ते: ।
N/A
References : N/A
Last Updated : January 17, 2018
TOP