स्मरणालंकार: - लक्षण १

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


साद्दश्यज्ञानोद्वुद्धसंस्कारप्रयोज्यं स्मरणं स्मरणालंकार: ॥

यथा-

‘ दोर्दण्डद्वयकुण्डलीकृतलसत्कोदण्डचण्डध्वनि ध्वस्तोद्दण्डविपक्षमण्डलमथ त्वां वीक्ष्य मध्येरणम्‍ । वल्गद्नाण्डिवमुक्तकाण्डवलयज्वालावलीताण्डव-भ्रश्यत्खाण्डवरुष्टपाण्डवमहो को न क्षितीश: स्मरेत्‍ ॥’

यथा वा-

‘ भुजभ्रमितपट्टिशोद्दलितदृप्तदन्तावलं भवन्तमरिमण्डलक्रथन पश्यत: संगरे । अमन्दकुलिशाहतिस्फुटविभिन्नविन्ध्याचलो न कस्य ह्लदयं झगित्यधिरुरोह देवेश्वर: ॥’

अनयो: पद्ययो: प्रधानीभूताया राजविषयककविनिष्ठरतेरुत्कर्षकतया

स्मरणमलंकार: आद्ये वाच्यम्‍, द्वितीये तु लक्ष्यमिति विशेष: । वीररसोऽपि चात्र प्रधानोत्कर्षकतयालंकार एव ।

एकीभवत्प्रलयकालपयोधिकल्प-मालोक्य संगरगतं कुरुवीरसैन्यम्‍ । सस्मार तल्पमहिपुंगवकायकान्तं निद्रां च योगकलितां भगवान्मुकुन्द: ॥

अत्र तल्पनिद्रयो: स्मरणं यद्यपि न तल्पनिद्रासादृश्यदर्शनोद्‍बुद्ध-संस्कारप्रयोज्यम्‍, तथापि सैन्यगतपयोधिसादृश्यदर्शनोद्‍बुद्धपयोधिविषयक-संस्कारजन्यपयोधिस्मरणाधीनत्वाद्भवत्येव यक्तिंचित्सादृश्यदर्शनोद्‍बुद्ध-संस्कारप्रयोज्यम्‍ । नहि सादृश्ये स्मर्यमाण़संबन्धित्वं विवक्षितम्‍ । एवं वाच्ययोस्तल्पनिद्रास्मरणयो:, एतत्कारणतया आक्षिप्तस्य पयोधिस्मरणस्य

चाविशेषेण संग्रहाय लक्षणे जन्यत्वमपहाय प्रयोज्यत्वमुपात्तम्‍ । केचितु सदृशज्ञानोद्‍बुद्धसंस्कारजन्यं सदृशविषयकमेव स्मरणमलंकार: । भुजगेन्द्र-निद्रादिस्मृतिस्तु नालंकार इत्याहु: ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP