संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|रसगड्गाधर:|स्मरणालंकार:| लक्षण २ स्मरणालंकार: लक्षण १ लक्षण २ लक्षण ३ लक्षण ४ लक्षण ५ लक्षण ६ स्मरणालंकार: - लक्षण २ रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे. Tags : grammerrasagangadharरसगंगाधरव्याकरणसंस्कृत लक्षण २ Translation - भाषांतर ‘ इत एव निजालयं गताया वीनताया गुरुभि: समावृताया: । परिवर्तितकंधरं नतभ्रु स्मयमानं वदनाम्बुजं स्मरामि ॥’अत्र स्मरणं चिन्तोद्बुद्धसंस्कारप्रयोज्यत्वान्नालंकार: । व्यड्रयत्वविरहाच्च न भाव: ।एवम्-‘ दरानमत्कंधरबन्धमीषन्निमीलितस्निगधविलोचनाब्जम् । अनल्पनि: श्वासभरालसाड्रया: स्मरामि सड्रं चिरमड्रनाया: ॥’इहाआप स्मृतिर्न भावो नाप्यलंकार: । व्यड्रयस्यैव व्यभिचारिणो भाव-त्वात् । यथा ‘ सा वै कलड्कविधुरा मधुराननश्री: ’ । अयं चालंकारिकाणां संप्रदायो यत्सादृश्यमूलकत्वे स्मरणं निदर्शनादिवदलंकार: । तस्याभावे व्यड्रयतायां भाव: । तयोरभावे तु वस्तुमात्रम् ।अप्पयदीक्षितास्तु-“-‘ स्मृति: सादृश्यमूला या वस्त्वन्तरसमाश्रया । स्मरणालंकृति: सा स्यादव्यड्रयत्वविशेषिता ॥’यथा-‘ अपि तुरगसमीपादुत्पतन्तं मयूरं न स रुचिरकलापं बाणलक्ष्यीचकार । सपदि गतमनस्कश्चित्रमाल्यानुकीर्णे रतिविगलितबन्धे केशपाशे प्रियाया: ॥ ’यथा वा-‘ दिव्यानामपि कृतविस्मयां पुरस्तादम्भस्त: स्फुरदरविन्दचारुहस्ताम् । उद्वीक्ष्य श्रियमिव कांचिदुत्तरन्तीमस्मार्षीज्जलनिधिमन्थनस्य शौरि: ॥’एकत्र सदृशदर्शनात्तत्सदृशकर्भिका स्मृति: । इतरत्र सदृशदर्शनात्त-त्सदृशलक्ष्मीसंबन्धिनो जलनिधिमन्थनस्य स्मृति: । उभयत्रापि सादृश्य-मूलकवस्त्वन्तरस्मृतित्वमविशिष्टम् । अत एव सदृशासदृशसाधारण्यार्थतया लक्षणे वस्त्वन्तरग्रहणमर्थवत् । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP