स्मरणालंकार: - लक्षण ३
रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.
‘ सौमित्रे ननु सेव्यतां तरुतलं चण्डांशुरुज्जृम्भते चण्डांशोर्निशि का कथा रघुपते चन्द्रोऽयमुन्मीलति । वत्सैतद्विदितं कथं नु भवता धत्ते कुरड्रं यत: कासि प्रेयसि हा कुरड्रनयने चन्द्रानने जानकि ॥’
अत्र श्रुतकुरड्रसंबन्धिनस्तत्रयनस्य स्मरणात्तत्सदृशसीतानयनस्मृति-
स्तत्संबन्धिसीतास्मृतिश्चेति । किं त्वेषा व्यड्रया अलंकार्यभूता च तव्द्यावृत्त-र्थमव्यड्रत्वविशेषणम् ।
‘ अत्युच्चा: परित: स्फुरन्ति गिरय: स्फारास्तथाम्भोधय-स्तानेतानपि बिभ्रती किमपि न श्रान्तासि तुभ्यं नम: । आश्चर्येण मुहुर्मुहु: स्तुतिमिति प्रस्तौमिति प्रस्तौमि यावद्भुव-स्तावद्विभ्रदिमां स्मृतस्तव भुजो वाचस्ततो मुद्रिता: ॥
अत्र स्तूयमानभूसंबन्धिनो भूभृत: स्मृतिर्न सादृश्यमूलेति नात्र स्मरणा-लंकार: । किं तु स्मृते: संचारिभावस्य भूभृद्विषयरतिभावाड्रत्वात्प्रेयोलं-कार: । एतव्द्यावृत्तये सादृश्यमूलेति विशेषणम् । ” इत्याहु: ।
तदेतत्सर्वमरमणीयम् । यत्तावदुच्यते सदृशासदृशयो: केशपाशजलनि-धिमन्थनयो: संग्रहाय लक्षणे वस्त्वन्तरग्रहणमर्थवदिति । तत्र सादृश्यमूला
स्मृति: स्मरणालंकार इत्येतवतैव केशपाशस्मरणस्येव जलनिधिमन्थन-स्मरणस्यपि संग्रहाद्वस्त्वन्तरसमाश्रयत्वविशेषणमनर्थकम् । एकत्र सादृश्य-दर्शनोद्बुद्धसंस्कारजन्यत्वेन, अपरात्र च सादृश्यदर्शनोद्बुद्धसंस्कारजलक्ष्मी-स्मरणोद्बुद्धसंस्कारजन्यत्वेन च सादृश्यमूलत्वाविशेषात् । नहि साद्रुश्यभूले-त्युक्ते सदृशविषयेति लभ्यते, येन जलनिधिमन्थनस्मृतेरसंग्रह: स्यात् । यदपि ‘ सौमित्रे ननु सेव्यतां-’ इत्यत्र स्मृतिर्व्यड्रया अलंकार्यभूता च, तव्द्यावृत्तयेऽव्यड्रयत्वविशेषणमित्युक्तम् । तत्र नेयं स्मतिरलंकार्यभूता । किं तु जानक्यालम्बनो निशासमयोद्दीपित: संतापादिनानुभावित उन्मादेन संचा-
रिणा परिपोषितो विप्रलम्भ: प्रधानत्वेनालंकार्य: । तस्य च स्मृतिरुत्कर्षहेतु-त्वादलंकार एव । अतो नितरां तव्द्यावृत्त्यर्थमव्यड्रयत्वविशेषणदानमनु-चितम् । नहि व्यड्रयत्वालंकारत्वयोर्विरोध इति वक्तुं शक्यम् । नित्य-व्यड्रयानां रसभावादीनामपि पराड्रतायामलंकारत्वाभ्युपगमात् । प्रधान-व्यड्रयव्यावृत्त्यर्थं पुनरुपस्कारकत्वं सर्वेष्वलंकारलक्षणेषु देयमिति प्रागेवा-वेदितम् । यदप्युक्तम् ‘ अत्युच्चा: परित: स्फुरन्ति गिरय: ’ इत्यत्र स्मृते: संचारिभावस्य भूभृद्विषयरतिभावाड्रत्वात्प्रेयोलंकार इति, तन्न । भावस्य हि भावाद्यड्रतायां प्रेयोलंकारत्वम् । नह्यत्र स्मृतिर्भाव: । तस्या: स्मरतिना वाच्प केनाभिधानात् । नहि वाच्यस्य व्यभिचारिणो भावत्वं वक्तुं युक्तम् । ‘ व्यभि-चार्यञ्जितो भाव: ’ इति सिद्धान्तविरोधात् । तथा चोक्तं सर्वस्वकृता-
N/A
References : N/A
Last Updated : January 17, 2018
TOP