संस्कृत सूची|पूजा विधीः|विधिविधानः| गृत्समदीया बाह्यपूजा विधिविधानः शारदातिलकान्तर्गत: गणेशपटल : मन्त्रमहोदधौ गणेशतरड्ग: ब्रह्मणस्पतिसूक्तहवनविधि: अथर्वशीर्षगणहवनविधानम् गणहोमविधिकारिका नारिकेलखण्डहवनकल्प: बौधायनोक्त: विनायककल्प: अथर्वशीर्षन्यासा: गणेशाथर्वशीर्षपुरश्चरणविधि: महागणपतिमंत्रविधानम् गृत्समदीया बाह्यपूजा दादशावरणपूजा गणेशकल्पोक्तपूजाविधानम् पार्थिव गणपतिपूजा गृत्समदीया बाह्यपूजा गणेशाच्या प्रस्तुत उपासना केल्याने सर्व मनोकामना पूर्ण होतात. Tags : ganeshagodprayervidhiगणपतीगणेशदेवतादेवीविधी गृत्समदीया बाह्यपूजा Translation - भाषांतर ऐल उवाच ॥ बाह्मपूजां वद विभो गृत्समदप्रकीर्तिताम् ॥ येन मार्गेण विघ्नेशं भजिष्यसि निरन्तरम् ॥१॥गार्ग्य उवाच ॥ आदौ च मानसीं पूजां कृत्वा गृत्समदो मुनि: ॥ ब्राह्यां चकार विधिवत्तां शृणुश्व सुखप्रदाम् ॥२॥हदि ध्यात्वा गणेशानं परिवारादिसंयुतम् ॥नासिकारन्ध्रमार्गेण तं बाह्याङ्गं चकार ह ॥३॥आदौ वैदिकमन्त्रं स गणानां त्वेति संपठन् ॥ पश्चाच्छलोकं समुच्चार्य पूजयामास विघ्नपम् ॥४॥गृत्समद उवाच ॥ चतुर्बाहुं त्रिनेत्रं च गजास्यं रक्तवर्णकम् ॥पाशाङ्कुशादिसंयुक्तं विनायकं प्रचिन्तयेत् ॥५॥आगच्छ ब्रह्मणां नाथ सुरा-सुर-वरार्चित ॥सिद्धिबुध्द्यादिसंयुक्त भक्तिग्रहणलालस ॥६॥कृतार्थोऽहं कृतार्थोऽहंतवागमनत: प्रभो ॥विघ्नेशानुगृहीतोऽहं सफलो मे भवोऽभवत् ॥७॥रत्नसिंहसनं स्वामिन् गृहाण गणनायक ॥तत्रोपविश्य विघ्नेश रक्ष भक्तान् विशेषत: ॥८॥सुवासितामिरदभिश्च पादप्रक्षालनं विभो ॥शीतोष्णाम्भ:अ करोमि ते गृहाण पाद्यमुत्तमम् ॥९॥सर्वतीर्थह्रतं तोयं सुवासितं सुवस्तुभि: ॥आचमनं च तेनैव कुंरुष्व गणनायक ॥१०॥रत्नप्रवालमुक्ताद्यैरनर्ध्यै: संस्कृतं विभो ॥अर्ध्यं गृहाण हेरम्ब द्विरदानन तोषकम् ॥११॥दधिमधुघृतैर्युक्तं मधुपर्कं गजानन ॥ गृहाण भावसंयुक्तं मया दत्तं नमोऽस्तु ते ॥१२॥पाद्ये च मधुपर्के च स्नाने वस्त्रोपधारणे ॥उपवीते भोजनान्ते पुनराचमनं कुरु ॥१३॥चम्पकाद्यैर्गणाध्यक्ष वासितं तैलमुतमम् ॥अभ्यङ्गं कुरु सर्वेश लम्बोदर नमोऽस्तु ते ॥१४॥यक्षकदमकाद्यश्च विघ्नेश भक्तवत्सल ॥उद्वर्तनं क्रुरुष्व त्वं मया दत्तैर्महाप्रभो ॥१५॥नानातीर्थजलैर्ढुण्ढे सुखोष्णभावरूपकै: ॥कमण्डलूदभवै: स्नानं कुरु ढुण्ढे समर्पितै: ॥१६॥कामघेनुसमुद्भूतं पय: परमपावनम् ॥तेन स्नांन कुरुष्व त्वं हेरम्ब परमार्थवित् ॥१७॥पञ्चामृतानां मध्ये तु जलै: स्नानं पुन: पुन: ॥कुरु त्वं सर्वंतीर्थेभ्यो गङ्गादिभ्य: समाह्रतै: ॥१८॥दधि धेनुपयोद्भूतं मलापहरणं परम् ॥गृहाण स्नानकार्यार्थं विनायक दयानिधे ॥१९॥धेनुदुग्धोद्भवं ढुण्डे धृतं सन्तोषकारकम् ॥महामलापगातार्थं तेन स्नानं कुरु प्रभो ॥२०॥सारघं संस्कृतं पूर्णं मधु मधुरसोदभवम् ॥गृहाण स्नानकार्यार्थं विनायक नमोऽस्तु ते ॥२१॥इक्षुदण्डसमुद्भूतां शर्करांमलनाशिनीम् ॥ गृहाण गणनाथ त्वं तया स्नानं समाचार ॥२२॥यक्षकर्दमकाद्यैश्च स्नानं कुरु गणेश्वर ॥अन्त्यं मलहरं शुद्धं सर्वसौगन्घ्यकारकम् ॥२३॥ततो गन्धाक्षतादींश्च दूर्वाङकुरान् गजानन ॥समर्पयामि स्वल्पांस्त्वं गृहाण परमेश्वर ॥२४॥ब्रह्मणस्पतिसूक्तैश्च ह्येकविंशतिकारकै: ॥अभिषेकं करोमि ते गृहाण द्विरदानन ॥२५॥तत आचमनं देव सुवासितजलेन च ॥कुरुष्व गणनाथ त्वं सर्वतीर्थजलेन वै ॥२६॥वस्त्रयुग्मं गृहाण त्वमनर्ध्यं रक्तवर्णकम् ॥लोकलज्जाहरं चैव विघ्ननाथ नमोऽस्तु ते ॥२७॥उत्तरीयं सुचित्रं वै नभस्ताराङ्कितं यथा ॥गृहाण सर्वसिद्धीश मया दत्तं सुभक्तित: ॥२८॥उपवीतं गणाध्यक्ष गृहाण च तत: परम् ॥त्रैगुण्यमयरूपं तु प्रणवग्रन्थिवन्धनम् ॥२९॥तत: सिन्दूरकं देव गृहाण गणनायक ॥ अङ्गलेपनभावार्थं सदानन्दविवर्धनम् ॥३०॥नानाभूषणकानि त्वमङ्गेषु विविधेपु च ॥भासुरस्वर्णरत्नैश्च निर्मितानि गृहाण भो ॥३१॥अष्टगन्धसमायुक्तं गन्धं रक्तं गजानन ॥द्वादशाङ्गेषु ते ढुण्डे लेपयामि सुचित्रवत् ॥३२॥रक्तचन्दनसंयुक्तान् अथ वा कुङकुमैर्युतान् ॥अक्षतान् विघ्नराज त्वं गृहाण भालमण्डले ॥३३॥चम्पकादिसुवृक्षेभ्य: सम्भूतानि गजानन ॥पुष्पाणि शमिमन्दारदूर्वादीनि गृहाण च ॥३४॥द्शांङ्गं गुग्गुलं धूपं सर्वसौरभकारकम् ॥गृहाण त्वं मया दत्तं विनायक महोदर ॥३५॥नानाजातिभवं दीपं गृहाण गणनायक ॥अशानमलजं दोपं हस्तं ज्योतिरूपकम् ॥३६॥चतुर्विधान्नसंपन्नं मधुरं लड्डुकांदिकम् ॥ नैवेद्यं ते मया दत्तं भोजनं कुरु विघ्नप ॥३७॥सुवासितं गृहाणेदं जलं जीर्थसमाह्रतम् ॥ भुक्तिमध्ये च पानार्थं देवदेवेश ते नम" ॥३८॥भोजनान्ते करोद्वार्तं यककर्दमकेन च ॥कुरुष्व त्वं गणाध्यक्ष पिब तोयं सुवासितम् ॥३९॥दाडिमं खर्जुरं द्राक्षां रम्भादीनि फलानि वै ॥गृहाण देवदेवेश नानामधुरकाणि तु ॥४०॥अष्टाङ्गं देव ताम्बूलं गृहाण मुखवासनम् ॥असकृद्विघ्नराज त्वं मया दत्तं विशेषत: ॥४१॥दक्षिणां काञ्चनाद्यां तु नानाधातुसमुद्भवाम् ॥रत्नाद्यै: संयुतां ढुण्ढे गृहाण सकलप्रिय ॥४२॥राजोपचारकाद्यानि गृहाण गणनायक ॥दानानि तु विचित्राणि मया दत्तानि विघ्नप ॥४३॥तत आभरणं तेऽहमर्पयामि विधानत: ॥विविधैरुपचारैश्च तेन तुष्टो भव प्रभो ॥४४॥ततो दूर्वाङ्कुरान् ढुण्ढे एकविंशतिसङख्यकान् ॥गृहाण कार्यसिध्द्यर्थं भक्तवात्सल्यकारणात् ॥४५॥नानादीपसमायुक्तं नीराञ्जनं गजानन ॥गृहाण भावसंयुक्तं सर्वाशानादिनाशन ॥४६॥गणानां त्वेति मन्त्रस्य जपं साहस्रकं परम् ॥गृहाण गणनाथ त्वं सर्वसिद्धिप्रदो भव ॥४७॥आर्तिक्यं च सकर्पूरं नानादीपमयं प्रभो ॥गृहाण ज्योतिषां नाथ तथा नीराजयाम्यहम् ॥४८॥पादयोस्ते तु चत्वारि नाभौ द्वे वदने विभो ॥एकं तु सप्तवारं वै सर्वाङ्गेषु निरञ्जनम् ॥४९॥चतुर्वेदभवैर्मन्त्रै: गाणपत्यैर्गजानन ॥मन्त्रितानि गृहाण त्वं पुष्पपत्राणि विघ्नप ॥५०॥पञ्चप्रकारकै: स्तोत्रैर्गाणपत्यैर्गणाधिप ॥स्तौमि त्वां तेन सन्तुष्टो भव भक्तिप्रदायक ॥५१॥एकविंशतिसंख्यं वा त्रिसंख्यं वा गजानन ॥प्रादक्षिण्यं गृहाण त्वं ब्रह्मन् ब्रह्मेशभावन ॥५२॥साष्टाङ्गं प्रणतिं नाथ एकविंशतिसम्मिताम् ॥हेरम्ब सर्वपूज्य त्वं गृहाण तु मया कृताम् ॥५३॥न्यूनातिरिक्तभावार्थं किंचिद् दूर्वाङ्कुरान् प्रभो ॥समर्पयामि तेन त्वं साङ्गां पूजां कुरुष्व ताम् ॥५४॥त्वया दत्त स्वहस्तेन निर्माल्यं चिन्तयाम्यहम् ॥शिखायां धारयाम्येव सदा सर्वप्रदं च तत् ॥५५॥अपराधानसंब्यातान् क्षमस्व गणनायक ॥ भक्तं कुरु च मां ढुण्डे तव पादप्रियं सदा ॥५६॥त्वं माता त्वं पिता मे वै सुहत्संबंधिकादय: ॥त्वमेव कुलदेवश्च सर्वं त्वं मे न संशय: ॥५७॥जाग्रत्स्वप्रसुषप्तिमि: देहवाङमानसै: कृतम् ॥सांसर्गिकेण यत्कर्म गणेशाव समर्पये ॥५८॥बाह्यं नानाविधं पापं महोग्रं तल्लयं व्रजेत् ॥गणेशपादतीर्थस्य मस्तके धारणात्किल ॥५९॥पादोदकं गणेशस्य पीतं मर्त्येण तत्क्षणात् ॥सर्वान्तर्गतजं पापं नश्यति गणातिगम् ॥६०॥गणेशोच्छिगन्धं वै द्वादशाङ्गेषु चर्चमेत् ॥गणेशतुल्यरूप: स: दर्शनात्सर्वपापहा ॥६१॥यदि गणेशपूजादौ गन्धभस्मादिकं चरेत् ॥वयवोछिष्टगन्धं तु नोचेत्तत्र विर्धि चरेत् ॥६२॥द्वादशोङ्गोषु विघ्नेशं नाममन्त्रेण चार्चयेत् ॥तेन सोऽपि गणेशेन समो भवति भूतले ॥६३॥आदौ गणेश्वरं मूर्घ्नि ललाटे विघ्ननायकम् ॥दक्षिणे कर्णमूळे तु वक्रतुण्डं समर्चयेत् ॥६४॥वामे कर्णस्य मूले वै चैकदन्तं समर्चयेत् ॥कण्ठे लम्बोदरं देवं हदि चिन्तामर्णि तथा ॥६५॥बाहौ दक्षिणके चैव हेरम्ब वामबाहुके ॥विकटं नामिदेशे तु विघ्ननाथं समर्चयेत् ॥६६॥कुक्षौ दक्षिणगायं तु मय़ूरेश समर्चयेत् ॥वामकुक्षौ गजास्यं वै पृष्ठे स्वानन्दवासिनम् ॥६७॥सर्वाङ्गलेपनं शस्तं चित्रितं चाष्टगन्धकै: ॥गाणेसानां विशेषेण सर्वमद्रस्य कारणात् ॥६८॥ततोच्छिष्टं तु नैवेद्यं गणेशस्य भुनज्म्बहम् ॥मुक्तिमुक्तिप्रदं पुण्यं नानापापनिकृन्तनम् ॥६९॥गणेशस्मरणेनैव करोमि कालखण्डनम् ॥गाणपत्यैश्च संवास: सदाऽस्तु मे गजानन ॥७०॥गार्ग्य उवाच ॥ एवं गृत्समदश्चैव चकार बाह्यपूजनम् ॥त्रिकालेषु महायोगी सदा मक्तिसमन्वित: ॥७१॥तथा कुरु महीपाल गाणपत्यो भविष्यसि ॥ यथा गृत्समद: साक्षात्तथा त्वमपि निश्चितम् ॥७२॥मु, पु. गणेशबाह्मपूजा समाप्ता ॥ N/A References : N/A Last Updated : May 24, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP