संस्कृत सूची|पूजा विधीः|विधिविधानः| गणहोमविधिकारिका विधिविधानः शारदातिलकान्तर्गत: गणेशपटल : मन्त्रमहोदधौ गणेशतरड्ग: ब्रह्मणस्पतिसूक्तहवनविधि: अथर्वशीर्षगणहवनविधानम् गणहोमविधिकारिका नारिकेलखण्डहवनकल्प: बौधायनोक्त: विनायककल्प: अथर्वशीर्षन्यासा: गणेशाथर्वशीर्षपुरश्चरणविधि: महागणपतिमंत्रविधानम् गृत्समदीया बाह्यपूजा दादशावरणपूजा गणेशकल्पोक्तपूजाविधानम् पार्थिव गणपतिपूजा गणहोमविधिकारिका गणेशाच्या प्रस्तुत उपासना केल्याने सर्व मनोकामना पूर्ण होतात. Tags : ganeshagodprayervidhiगणपतीगणेशदेवतादेवीविधी गणहोमविधिकारिका Translation - भाषांतर समिच्चर्वाज्यद्रव्येण गणानां त्वेति मन्त्रत: ॥हुनेदष्टोत्तरशतं अष्टाविंशतिरेव वा ॥१॥ततस्तु मूलमन्त्रेण मूलद्रव्येण होमयेत् ॥नारिकेलं च कदलीलाजामोदकमेव व ॥२॥पृथुंक सत्वसंयुक्तं तिलमिक्षुस्तथोत्तरम् ॥अष्टद्रव्याणि संयुज्य कवलीकृत्य होमयेत् ॥३॥आज्यसंस्कारमध्ये तु अष्टद्रव्यं प्रपूजयेत् ॥मोदकादिषु विघ्नेशान्पूर्वादिषु प्रपूजयेत् ॥४॥मोदकान्पृथुकान्लाजान् नारिकेलेक्षुसक्तव: ॥मध्वाज्यतिलसंयुक्तं तिलं कदलिमष्टमम् ॥५॥विघ्नेशो भूरवीशानसोमा: वह्निहरिस्तथा ॥ ब्रह्माणं च यजेदन्ते गन्धाद्यै; परिपूजयेत् ॥६॥अघोरास्त्रेण संप्रोक्ष्यास्त्रमन्त्रेण रक्षयेत् ॥द्रव्यमाज्यं च संस्कृत्य पश्चाद्वारादि होमयेत् ॥७॥लाजानां मुष्टयोऽप्यष्टौ पृथुकं सक्तवस्तथा ॥तिलानां मुष्टयोऽप्यष्टौ कदल्याष्टकमीरितम् ॥८॥मोदकाश्च तथैवाष्टौ इक्षुखण्डमथाष्टमम् ॥एकैकं पर्वमुद्दिष्टं इक्षुखण्डं गुडोत्तरम् ॥९॥चतुष्पलप्रमाणं तु गुडमत्र समीर्यते ॥क्षौद्रमाज्यं पयश्चैव पलदूयमितं भवेत् ॥१०॥पूर्वापराज्यसहितैरष्टद्रव्यं हुनेद्बुध: ॥अलामे ह्यष्टवस्तृनां चतुर्द्रव्येण होमयेत् ॥११॥तदभावे द्वयेनापि ह्येकद्रव्येण वा पुन: ॥सोदकं नारिकेलस्य फलाष्टकमिदं शुभम् ॥१२॥चर्माणी नारिकेलानां अशेषाण्यनले क्षिपेत् ॥उमावृषाङ्कयोश्चैव रतिकन्दर्पयोस्तथा ॥१३॥रमारमेशयोश्चैव भूवराहौ यथाक्रमम् ॥समीच्चर्वाज्यद्रव्येण ह्येकैकाहुतिपूर्वकम् ॥१४॥इन्द्रादिलोकपालानां अनेनैव प्रकारत: ॥एतेषां नाममन्त्रेण चतुर्थ्यन्तं च होमयेत् ॥१५॥चत्वारिंशच्चतु:पूर्वं चतु:शतजपं चरेत् ॥ प्रत्यहं तर्पणं कुर्यात् सदा तत्र विचक्षण: ॥१६॥चतुर्लक्षजपं कुर्यात्पुरश्चरणसिद्धये ॥तद्दशांशेन होमश्च दशांशं विप्रभोजनम् ॥१७॥करोति यदि पूतात्मा स तु लोके महीयते ॥गणेशदीक्षां कुर्वीत एकविंशतिरात्रकम् ॥१८॥नित्यमश्नन्पयो गब्यं गुरुवर्त्मप्रबोधक: ॥मार्गशीर्षे तथा भाद्रपदे चैकादशी सिता ॥१९॥गणेशनवरात्रं तु प्रारमेत विचक्षण: ॥चतुर्थ्यां तु समाप्याथ ब्राह्मणान्भोजयेत्तत: ॥२०॥तर्पणकारिकाहोमकाले तर्पणं तु होमान्ते वास्यकर्मणि ॥पूजान्ते वा जपान्ते वा तर्पणं तु चतुर्विधम् ॥१॥तर्पणं चतुरावृत्ति मंत्राणां मन्त्रमादिमम् ॥एकैकमक्षरं प्रोक्तं एकैकाक्षरवृद्धिदम् ॥२॥प्रणवाद्यैश्च संयुक्तं स्वाहाकारेण संयुतम् ॥तर्पयामीति युक्ताङ्गतर्पणस्य विधि: स्मृत: ॥३॥अष्टा विंशतिधा चैव चतुर्वारं प्रतर्पयेत् ॥बीजाक्षरेण संयुक्तं रमेशादींश्च तर्पयेत् ॥४॥गामित्यादि च संयुक्त गणपान् पट् प्रतर्ययेत् ॥दुर्वाङकुरयुतहस्तेन द्वौ निधी च प्रतर्पयेत् ॥५॥अष्टविंशतिरक्शराणि दशभिर्युक्तं चतुर्भि: पदै: । पश्चात् पञ्चरमादिकांश्च गणपान् षट द्वौ निधी तर्पयेत् । प्रत्येकं मनुनामुना च चतुरावृत्या विभोर्मस्तके चत्वारिंशदतो चतु:शतमयो चत्वारि संख्याविधि: ॥६॥इति तर्पणकारिका ॥ गणहोमविधिकारिका समाप्ता ॥ N/A References : N/A Last Updated : May 24, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP