संस्कृत सूची|संस्कृत स्तोत्र साहित्य|शंकराचार्यविरचितम् साहित्यः|उपदेशसाहस्री| उपदेश १४ उपदेशसाहस्री उपदेश १ उपदेश २ उपदेश ३ उपदेश ४ उपदेश ५ उपदेश ६ उपदेश ७ उपदेश ८ उपदेश ९ उपदेश १० उपदेश ११ उपदेश १२ उपदेश १३ उपदेश १४ उपदेश १५ उपदेश १६ उपदेश १७ उपदेश १८ उपदेश १९ उपदेशसाहस्री - उपदेश १४ भारतीय संस्कृतिच्या विकासात आद्य शंकराचार्यांचे विशेष योगदान आहे. Tags : sahityashankaracharyaशंकराचार्यसंस्कृतसाहित्य उपदेश १४ Translation - भाषांतर स्वप्नस्मृत्योर्घटादेर्हि रूपाभासः प्रदृश्यते । पुरा नूनं तदाकारा धीर्दृष्टेत्यनुमीयते ॥ भिक्षाम३अन् यथा स्वप्ने दृष्टो देहो न स स्वयम् । जाग्रद्दृश्यात् तथा देहाद् द्रष्टृत्वादन्य एव सः ॥ मूषासिक्तं यथा ताम्रं तन्निभं जायते तथा । रूपादीन् व्याप्नुवच् चित्तं तन्निभं दृश्यते ध्रुवम् ॥ व्यञ्जको वा यथालोको व्यञ्ग्यस्याकारतामियात् । सर्वार्थव्यञ्जकत्वाद् धिरर्थाकारा प्रदृश्यते ॥ धीरेवार्थस्वरूपा हि पुंसा दृष्टा पुरापि च । न चेत् स्वप्ने कथं पश्येत् स्मरतो वाकृतिः कुतः ॥ व्यञ्जकत्वं तदेवास्या रूपाद्याकारदृश्यता । द्रष्टृत्वं च दृशेस्तद्वद् व्याप्तिः स्याद् धिय उद्भवे ॥ चिन्मात्रज्योतिषा सर्वाः सर्वदेहेषु बुद्धयः । मया यस्मात् प्रकाश्यन्ते सर्वस्यात्मा ततो ह्यहम् ॥ करणं कर्म कर्ता च क्रिया स्वप्ने फलं च धीः । जाग्रत्येवं यतो दृष्टा द्रष्टा तस्मात् ततोऽन्यथा ॥ बुद्ध्यादीनामनात्मत्वं हेयोपादेयरूपतः । हानोपादानकर्तात्मा न त्याज्यो न च गृह्यते ॥ सबाह्याभ्यन्तरे शुद्धे प्रज्ञानैकरसे घने । बाह्यमाभ्यन्तरं चान्यत् कथं हेयं प्रकल्प्यते ॥ य आत्मा नेति नेतीति परापोहेन शेषितः । स चेद् ब्रह्मविदात्मेष्टो यतेतातः परं कथम् ॥ अशनायाद्यतिक्रान्तं ब्रह्मैवास्मि निरन्तरम् । कार्यवान् स्यां कथं चाहं विमृशेदेवमञ्जसा ॥ पारगस्तु यथा नद्यास्तत्स्थः पारं यियासति । आत्मज्ञश्चेत् तथा कार्यं कर्तुमन्यदिहेच्छति ॥ आत्मज्ञस्यापि यस्य स्याद् धानोपादानता यदि । अ मोक्षार्हः स विज्ञेयो वान्तोऽसौ ब्रह्मणा ध्रुवम् ॥ सादित्यं हि जगत् प्राणस्तस्मान् नाहर्निशैव वा । प्राणज्ञस्यापि न स्यातां कुतो ब्रह्मविदोऽद्वये ॥ न स्मरत्यात्मनो ह्यात्मा विस्मरेद् वाप्यलुप्तचित् । मनोऽपि स्मरतीत्येतज् ज्ञानमज्ञानहेतुजम् ॥ ज्ञातुर्ज्ञेयः परो ह्यात्मा सोऽविद्याकल्पितः स्मृतः । अपोढे विद्यया तस्मिन् रज्ज्वां सर्प इवाद्वयः ॥ कर्तृकर्मफलाभावात् सबाह्याभ्यन्तरं ह्यजम् । ममाहं चेति यो भावस्तस्मिन् कस्य कुतो भवेत् ॥ आत्मा ह्यात्मीय इत्येष भावोऽविद्याप्रकल्पितः । आत्मैकत्वे ह्यसौ नास्ति बीजाभावे कुतः फलम् ॥ द्रष्टृ श्रोतृ तथा मन्तृ विज्ञात्रेव तदक्षरम् । द्रष्ट्राद्यन्यन् न तद् यस्मात् तस्माद् द्रष्टाहमक्षरम् ॥ स्थावरं जञ्गमं चैव द्रष्टृत्वादिक्रियायुतम् । सर्वमक्षरमेवातः सर्वस्यात्माक्षरं त्वहम् ॥ अकार्यशेषमात्मानमक्रियात्मक्रियाफलम् । निर्ममं निरहंकारं यः पश्यति स पश्यति ॥ ममाहंकारयत्नेच्छाः शून्या एव स्वभावतः । आत्मनीति यदि ज्ञातमाध्वं स्वस्थाः किमीहितैः ॥ योऽहंकर्तारमात्मानं तथा वेत्तारमेव यः । वेत्त्यनात्मज्ञ एवासौ योऽन्यथाज्ञः स आत्मवित् ॥ यथान्यत्वेऽपि तादात्म्यं देहादिष्वात्मनो मतम् । तथाकर्तुरविज्ञानात् फलकर्मात्मतात्मनः ॥ दृष्टिः श्रुतिर्मतिर्ज्ञातिः स्वप्ने दृष्टा जनैः सदा । तासामात्मस्वरूपत्वादतः प्रत्यक्षतात्मनः ॥ परलोकभयं यस्य नास्ति मृत्युभयं तथा । तस्यात्मज्ञस्य शोच्याः स्युः सब्रह्मेन्द्रा अपीश्वराः ॥ ईश्वरत्वेन किं तस्य ब्रह्मेन्द्रत्वेन वा पुनः । तृष्णा चेत् सर्वतश्छिन्ना सर्वदैन्योद्भवाशुभा ॥ अहमित्यात्मधीर्या च मम्मेत्यात्मीयधीरपि । अर्थशून्ये यदा यस्य स आत्मज्ञो भवेत् तदा ॥ बुद्ध्यादौ सत्युपाधौ च तथासत्यविशेषता । यस्य चेदात्मनो ज्ञाता तस्य कार्यं कथं भवेत् ॥ प्रसन्ने विमले व्योम्नि प्रज्ञानैकरसेऽद्वये । उत्पन्नात्मधियो ब्रूत किमन्यत् कार्यमिष्यते ॥ आत्मानं सर्वभूतस्थममित्रं चात्मनोऽपि यः । पश्यन्निच्छत्यसौ नूनं शीतीकर्तुं विभावसुम् ॥ प्रज्ञाप्राणानुकार्यात्मा छायेवाक्षादिगोचरः । ध्यायतीवेति चोक्तो हि शुद्धो मुक्तः स्वतो हि सः ॥ अप्राणस्यामनस्कस्य तथासंसर्गिणो दृशेः । व्योमवद् व्यापिनो ह्यस्य कथं कार्यं भवेन् मम ॥ असमाधीं न पश्यामि निर्विकारस्य सर्वदा । ब्रह्मणो मे विशुद्धस्य शोध्यं चान्यद् विपाप्मनः ॥ गन्तव्यं च तथैवाहं सर्वगस्याचलस्य च । नोर्ध्वं नाधस्तिरो वापि निष्कलस्यागुणत्वतः ॥ चिन्मात्रज्योतिषो नित्यं तमस्तस्मिन् न विद्यते । कथं कार्यं ममैवाद्य नित्यमुक्तस्य शिष्यते ॥ अमनस्कस्य का चिन्ता क्रिया वानिन्द्रियस्य का । अप्राणो ह्यमनाः शुभ्र इति सत्यं श्रुतेर्वचः ॥ अकालत्वाददेशत्वाददिकत्वादनिमित्तः । आत्मनो नैव कालादेरपेक्षा ध्यायतः सदा ॥ यस्मिन् देवाश्च वेदश्च पवित्रं कृत्स्नमेकताम् । व्रजेत् तन् मानसं तीर्थं यस्मिन् स्नात्वामृतो भवेत् ॥ न चास्ति शब्दादिरनन्यवेदनः परस्परेणापि न चैव दृश्यते । परेण दृश्यास्तु यथा रसादयस्तथैव दृश्यत्वत एव दैहिकाः ॥ अहं ममेत्येषणयत्नविक्रियाः सुखादयस्तद्वदिह प्रदृश्यतः । दृश्यत्वयोगाच् च परस्परेण ते न दृश्यतां यान्ति ततः परो भवेत् ॥ अहंक्रियाद्या हि समस्तविक्रिया सकर्तृका कर्मफलेन संहिता । चितिस्वरूपेण समन्ततोऽर्कवत् प्रकाश्यमानासिततात्मनो ह्यतः ॥ दृशिस्वरूपेण हि सर्वदेहिनां वियद् यथा व्याप्य मनांस्यवस्थितः । अतो न तस्मादपरोऽस्ति वेदिता परोऽपि तस्मादत एक ईश्वरः ॥ शरीरबुद्ध्योर्यदि चान्यदृश्यता निरात्मवादाः सुनिराकृता मया । परश्च सिद्धो ह्यविशुद्धिकर्मतः सुनिर्मलः सर्वगतोऽसितोऽद्वयः ॥ घटादिरूपं यदि ते न गृह्यते मनः प्रवृत्तं बहुधा स्ववृत्तिभिः । अशुद्ध्यचिद्रूपविकारदोषता मतेर्यथा वारयितुं न पार्यते ॥ यथा विशुद्धं गगनं निरन्तरं न सज्जते नापि च लिप्यते तथा । समस्तभूतेषु सदैव तेष्वयं समः सदात्मा ह्यजरोऽमरोऽभयः ॥ अमूर्तमूर्तानि च कर्मवासना दृशिस्वरूपस्य बहिः प्रकल्पिताः । अविद्यया ह्यात्मनि मूढदृष्टिभिरपोह्य नेतीति अवशेषितो दृशिः ॥ प्रबोधरूपं मनसोऽर्थयोगजं स्मृतौ च सुप्तस्य च दृश्यतेऽर्थवत् । तथैव देहप्रतिमानतः पृथग् दृशेः शरीरं च मनश्च दृश्यतः ॥ स्वभावशुद्धे गगने घनादिके मलेऽपायते सति चाविशेषता । यथा च तद्वच् छ्रुतिवारितद्वये सदाविशेषो गगनोपमे दृशौ ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP