उपदेशसाहस्री - उपदेश ५

भारतीय संस्कृतिच्या विकासात आद्य शंकराचार्यांचे विशेष योगदान आहे.


मूत्राशञ्को यथोदञ्को नाग्रहीदमृतं मुनिः । कर्मनाशभयाज् जन्तोरात्मज्ञानाग्रहस्तथा ॥
बुद्धिस्थश्चलतीवात्मा ध्यायतीव च दृश्यते ।  नौगतस्य यथा वृक्षास्तद्वत् संसारविभ्रमः ॥
नौस्थस्य प्रातिलोम्येन नगानां गमनं यथा । आत्मनः संसृतिस्तद्वद् ध्यायतीवेति हि श्रुतिः ॥
चैतन्यप्रतिबिम्बेन व्याप्तो बोधो हि जायते । बुद्धेः शब्दादिनिर्भासस्तेन मोमुह्यते जगत् ॥
चैतन्याभासताहमस्तादर्थ्यं च तदस्य यत् । इदमंशप्रहाणे न परः सोऽनुभवो भवेत् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP