संस्कृत सूची|संस्कृत साहित्य|शंकराचार्यविरचितम् साहित्यः| ब्रह्मानुचिन्तनम् शंकराचार्यविरचितम् साहित्यः उपदेशसाहस्री अद्वैत पञ्चरत्नम् अद्वैतरसमञ्जरी अद्वैतानुभूति अनात्मश्रीविगर्हणम् अपरोक्षानुभूति अष्टादशशक्तिपीठ स्तोत्रम् आत्मबोधः आत्मषटक् कौपीन पंचकम् जीवन्मुक्तानन्दलहरी अथ दशश्लोकी निर्गुणमानसपूजा निर्वाणमञ्जरी पञ्चिकरणं प्रश्नोत्तररत्नमालिका प्रौढानुभूतिः ब्रह्मज्ञानावलीमाला ब्रह्मानुचिन्तनम् मठाम्नायमहानुशासनम् पुष्पमाला स्तवः मातृपञ्चकम् मायापञ्चकम् यतिपञ्चकम् योगतारावली वाक्यवृत्तिः साधन पञ्चकं ब्रह्मानुचिन्तनम् भारतीय संस्कृतिच्या विकासात आद्य शंकराचार्यांचे विशेष योगदान आहे. Tags : sahityashankaracharyaशंकराचार्यसंस्कृतसाहित्य ब्रह्मानुचिन्तनम् Translation - भाषांतर अहमेव परं ब्रह्म वासुदेवाख्यमव्ययम् । इति स्यान्निश्चितो मुक्तो बद्ध एवान्यथा भवेत् ॥१॥अहमेव परं ब्रह्म निश्चितं चित्त चिन्त्यताम् । चिद्रूपत्वादसञ्गत्वादबाध्यत्वात् प्रयत्नतः ॥२॥अहमेव परं ब्रह्म न चाहं ब्रह्मणः पृथक् । इत्येवं समुपासीत ब्राह्मणो ब्रह्मणि स्थितः ॥३॥सर्वोपाधिविनिर्मुक्तं चैतन्यं च निरन्तरम् । तद्ब्रह्माहमिति ज्ञात्वा कथं वर्णाश्रमी भवेत् ॥४॥अहं ब्रह्मास्मि यो वेद स सर्वं भवति त्विदम् । नाभूत्या ईशते देवास्तेओआमात्मा भवेद्धि सः ॥५॥अन्यो असावहमन्यो अस्मीत्युपास्ते यो अन्यदेवताम् । न स वेद नरो ब्रह्म स देवानां यथा पशुः ॥६॥अहमात्मा न चान्योऽस्मि ब्रह्मैवाहं न शोकभाक् । सच्चिदानन्दरूपोऽहं नित्यमुक्तस्वभाववान् ॥७॥आत्मानं सततं ब्रह्म संभाव्य।विहरन्ति ये । न तेषां दुष्कृतं किञ्चिद्दुष्कृतोत्था न चापदः ॥आत्मानं सततं ब्रह्म संभाव्य विहरेत्सुखम् ॥८॥९॥ क्षणं ब्रह्माहमस्मीति यः कुर्यादात्मचिन्तनम् । तन्महापातकं हन्ति तमः सूर्योदयो यथा ॥१०॥अज्ञानाद्ब्रह्मणो ज्ञातमाकाशं बुद्बुदोपमम् । आकाशाद्वायुरुत्पन्नो वायोस्तेजस्ततः पयः ॥११॥अद्भ्यश्च पृथिवी ज्ञाता ततो व्रीहियवादिकम् । पृथिव्यप्सु पयो वह्नौ वह्निर्वायौ नभस्यसौ ।नभोऽप्यव्याकृते तच्च शुद्धे शुद्धोऽस्म्यहं हरिः ॥१२॥अहं विष्णुरहं विष्णुरहं विष्णुरहं हरिः । कर्तृभोक्त्रादिकं सर्वं तदविद्योत्थमेव च ॥१३॥अच्युतोऽहमनन्तोऽहं गोविन्दोऽहमहंहरिः । आनन्दोऽहमशेषोऽहमजोऽहममृतोऽस्म्यहम् ॥१४॥नित्योऽहं निर्विकल्पोऽहं निराकारोऽहमव्ययः । सच्चिदानन्दरूपोऽहं पङ्चकोशातिगोऽस्म्यहम् ॥१५॥अकर्ताऽहमभोक्ताऽहमसङ्गः परमेश्वरः। सदा मत्सन्निधानेन चेष्टते सर्वमिन्द्रियं।॥१६॥आदिमध्यान्तमुक्तोऽहं न बद्धोऽहं कदाचन । स्वभावनिर्मलः शुद्धः स एवाहं न संशयः ॥१७॥ब्रह्मैवाहं न संसारी मुक्तोऽहमिति भावयेत् । अशक्नुवन्भावयितुं वाक्यमेतत्सदाऽभ्यसेत् ॥१८॥यदभ्यासेन तद्भावो भवेद्भ्रमरकीटवत् । अत्रापहाय सन्देहमभ्यसेत्कृतनिश्चयः ॥१९॥ध्यानयोगेन मासैकाद्ब्रह्महत्यां व्यपोहति ।संवत्सरं सदाऽभ्यासात्सिद्ध्यष्टकमवाप्नुयात् । यावज्जीवं सदाऽभ्यासाज्जीवन्मुक्तो भवेद्यतिः ॥२०॥नाहं देहो न च प्राणो नेन्द्रियाणि तथैव च । न मनोऽहं न बुद्धिश्च नैव चित्तमहङ्कृतिः ॥२१॥नाहं पृथ्वी न सलिलं न च वह्निस्तथाऽनिलः । न चाकाशो न शब्दश्च न च स्पर्शस्तथा रसः ॥२२॥नाहं गन्धो न रूपं च न मायाऽहं न संसृतिः । सदा साक्षिस्वरूपत्वाच्छिव एवास्मि केवलः ॥२३॥मय्येव सकलं जातं मयि सर्वं प्रतिष्ठितम् । मयि सर्वं लयं याति तद्ब्रह्मास्म्यहमद्वयम् ॥२४॥सर्वज्ञोऽहमनन्तोऽहं सर्वेशः सर्वशक्तिमान् । आनन्दः सत्यबोधोऽहमिति ब्रह्मानुचिन्तनम् ॥२५॥अयं प्रपञ्चो मिथ्यैव सत्यं ब्रह्माहमव्ययम् । अत्र प्रमाणं वेदान्ता गुरवोऽनुभवस्तथा ॥२६॥ब्रह्मैवाहं न संसारी न चाहं ब्रह्मणः पृथक् । नाहं देहो न मे देहः केवलोऽहं सनातनः ॥२७॥॥इति श्रीमद् शङ्कराचार्यविरचितं ब्रह्मानुचिन्तनं समाप्तं ॥ N/A References : Encoded and roofread by Sorin Suciu aka SeSe at sorins at hotmail।com। Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP