अद्वैतानुभूति

भारतीय संस्कृतिच्या विकासात आद्य शंकराचार्यांचे विशेष योगदान आहे.


॥श्रीः ॥
॥अद्वैतानुभूतिः ॥
अहमानन्दसत्यादिलक्षणः केवलः शिवः । सदानन्दादिरूपं यत्तेनाहमचलोऽद्वयः॥१॥
अक्षिदोषाद्यथैकोऽपि द्वयवद्भाति चन्द्रमाः । एकोऽप्यात्मा तथा भाति द्वयवन्मायया मृषा॥२॥
अक्षिदोषविहीनानामेक एव यथा शशी । मायादोषविहीनानामात्मैवैकस्तथा सदा॥३॥
द्वित्वं भात्यक्षिदोषेण चन्द्रे स्वे मायया जगत् । द्वित्वं मृषा यथा चन्द्रे मृषा द्वैतं तथात्मनि॥४॥
आत्मनः कार्यमाकाशो विनात्मानं न सम्भवेत् । कार्यस्य पूर्णता सिद्धा किं पुनः पूर्णतात्मनः॥५॥
कार्यभूतो यथाकाश एक एव न हि द्विधा । हेतुभूतस्तथात्मायमेक एव विजानतः॥६॥
एकोऽपि द्वयवद्भाति यथाकाश उपाधितः । एकोऽपि द्वयवत्पूर्णस्तथात्मायमुपाधितः॥७॥
कारणोपाधिचैतन्यं कार्यसंस्थाच्चितोऽधिकम् । न घटाभ्रान्मृदाकाशः कुत्रचिन्नाधिको भवेत्॥८॥
निर्गतोपाधिराकाश एक एव यथा भवेत् । एक एव तथात्मायं निर्गतोपाधिकः सदा॥९॥
आकाशादन्य आकाश आकाशस्य यथा न हि । एकत्वादात्मनो नान्य आत्मा सिध्यति चात्मनः॥१०॥
मेघयोगाद्यथा नीरं करकाकारतामियात् । मायायोगात्तथैवात्मा प्रपञ्चाकारतामियात्॥११॥
वर्षोपल इवाभाति नीरमेवाभ्रयोगतः । वर्षोपलविनाशेन नीरनाशो यथा न हि॥१२॥
आत्मैवायं तथा भाति मायायोगात्प्रपञ्चवत् । प्रपञ्चस्य विनाशेन स्वात्मनाशो न हि क्वचित्॥१३॥
जलादन्य इवाभाति जलोत्थो बुद्बुदो यथा । तथात्मनः पृथगिव प्रपञ्चोऽयमनेकधा॥१४॥
यथा बुद्बुदनाशेन जलनाशो न कर्हिचित् । तथा प्रपञ्चनाशेन नाशः स्यादात्मनो न हि॥१५॥
अहिनिर्ल्वयनीजातः शुच्यादिर्नाहिमाप्नुयात् । तथा स्थूलादिसम्भूतः शुच्यादिर्नाप्नुयादिमम्॥१६॥
त्यक्तां त्वचमहिर्यद्वदात्मत्वेन न मन्यते । आत्मत्वेन सदा ज्ञानी त्यक्तदेहत्रयं तथा॥१७॥
अहिनिर्ल्वयनीनाशादहेर्नाशो यथा न हि । देहत्रयविनाशेन नात्मनाशस्तथा भवेत्॥१८॥
तक्रादिलवणोपेतमज्ञैर्लवणवद्यथा । आत्मा स्थूलादिसंयुक्तो दूष्यते स्थूलकादिवत्॥१९॥
अयःकाष्ठादिकं यद्वद्वह्निवद्वह्नियोगतः । भाति स्थूलादिकं सर्वमात्मवत्स्वात्मयोगतः॥२०॥
दाहको नैव दाह्यं स्याद्दाह्यं तद्वन्न दाहकः । नैवात्मायमनात्मा स्यादनात्मायं न चात्मकः॥२१॥
प्रमेयादित्रयं सार्थं भानुना घटकुड्यवत् । येन भाति स एवाहं प्रमेयादिविलक्षणः॥२२॥
भानुस्फुरणतो यद्वत्स्फुरतीव घटादिकम् । स्फुरतीव प्रमेयादिरात्मस्फुरणतस्तथा॥२३॥
पिष्टादिगुलसम्पर्काद्गुलवत्प्रीतिमान्यथा । आत्मयोगात्प्रमेयादिरात्मवत्प्रीतिमान्भवेत्॥२४॥
घटनीरान्नपिष्टानामुष्णत्वं वह्नियोगतः । वह्निं विना कथं तेषामुष्णता स्याद्यथा क्वचित्॥२५॥
भूतभौतिकदेहानां स्फूर्तिता स्वात्मयोगतः । विनात्मानं कथं तेषां स्फूर्तिता स्यात्तथा क्वचित्॥२६॥
नानाविधेषु कुम्भेषु वसत्येकं नभो यथा । नानाविधेषु देहेषु तद्वदेको वसाम्यहम्॥२७॥
नानाविधत्वं कुम्भानां न यात्येव यथा नभः । नानाविधत्वं देहानां तद्वदेव नयाम्यहम्॥२८॥
यथा घटेषु नष्टेषु घटाकाशो न नश्यति । तथा देहेषु नष्टेषु नैव नश्यामि सर्वगः॥२९॥
उत्तमादीनि पुष्पाणि वर्तन्ते सूत्रके यथा । उत्तमाद्यास्तथा देहा वर्तन्ते मयि सर्वदा॥३०॥
यथा न संस्पृशेत्सूत्रं पुष्पाणामुत्तमादिता । तथा नैकं सर्वगं मां देहानामुत्तमादिता॥३१॥
पुष्पेषु तेषु नष्टेषु यद्वत्सूत्रं न नश्यति । तथा देहेषु नष्टेषु नैव नश्याम्यहं सदा॥३२॥
पर्यङकरज्जुरन्ध्रेषु नानेवैकापि सूर्यभा । एकोऽप्यनेकवद्भाति तथा क्षेत्रेषु सर्वगः॥३३॥
रज्जुरन्ध्रस्थदोषादि सूर्यभां न स्पृशेद्यथा । तथा क्षेत्रस्थदोषादि सर्वगं मां न संस्पृशेत्॥३४॥
तद्रज्जुरन्ध्रनाशेषु नैव नश्यति सूर्यभा । तथा क्षेत्रविनाशेषु नैव नश्यामि सर्वगः॥३५॥
देहो नाहं प्रदृश्यत्वाद्भौतिकत्वान्न चेन्द्रियम् । प्राणो नाहमनेकत्वान्मनो नाहं चलत्वतः॥३६॥
बुद्धिर्नाहं विकारित्वात्तमो नाहं जडत्वतः । देहेन्द्रियादिकं नाहं विनाशित्वाद्घटादिवत्॥३७॥
देहेन्द्रियप्राणमनोबुद्ध्यज्ञानानि भासयन् । अहङ्कारं तथा भामि चैतेषामभिमानिनम्॥३८॥
सर्वं जगदिदं नाहं विषयत्वादिदन्धियः । अहं नाहं सुषुप्त्यादौ अहमः साक्षितः सदा॥३९॥
सुप्तौ यथा निर्विकारस्तथावस्थाद्वयेऽपि च । द्वयोर्मात्राभियोगेन विकारीव विभाम्यहम्॥४०॥
उपाधिनीलरक्ताद्यैः स्फटिको नैव लिप्यते । तथात्मा कोशजैः सर्वैः कामाद्यैर्नैव लिप्यते॥४१॥
फालेन भ्राम्यमाणेन भ्रमतीव यथा मही । अगोऽप्यात्मा विमूढेन चलतीव प्रदृश्यते॥४२॥
देहत्रयमिदं नित्यमात्मत्वेनाभिमन्यते । यावत्तावदयं मूहो नानायोनिषु जायते॥४३॥
निद्रादेहजदुःखादि जाग्रद्देहं न संस्पृशेत् । जाग्रद्देहजदुःखादिस्तथात्मानं न संस्पृशेत्॥४४॥
जाग्रद्देहवदाभाति निद्रादेहस्तु निद्रया । निद्रादेहविनाशेन जाग्रद्देहो न नश्यति॥४५॥
तथायमात्मवद्भाति जाग्रद्देहस्तु जागरात् । जाग्रद्देहविनाशेन नात्मा नश्यति कर्हिचित्॥४६॥
हित्वायं स्वाप्निकं देहं जाग्रद्देहमपेक्षते । जाग्रद्देहप्रबुद्धोऽयं हित्वात्मानं यथा तथा॥४७॥
स्वप्नभोगे यथैवेच्छा प्रबुद्धस्य न विद्यते । असत्स्वर्गादिके भोगे नैवेच्छा ज्ञानिनस्तथा॥४८॥
भोक्त्रा बहिर्यथा भोग्यः सर्पो दृषदि कल्पितः । रूपशीलादयश्चात्मभोगा भोग्यस्वरूपकाः॥४९॥
ज्ञस्य नास्त्येव संसारो यद्वदज्ञस्य कर्मिणः । जानतो नैव भीर्यद्वद्रज्जुसर्पमजानतः॥५०॥
सैन्धवस्य घनो यद्वज्जलयोगाज्जलं भवेत् । स्वात्मयोगात्तथा बुद्धिरात्मैव ब्रह्मवेदिनः॥५१॥
तोयाश्रयेषु सर्वेषु भानुरेकोऽप्यनेकवत् । एकोऽप्यात्मा तथा भाति सर्वक्षेत्रेष्वनेकवत्॥५२॥
भानोरन्य इवाभाति जलभानुर्जले यथा । आत्मनोऽन्य इवाभासो भाति बुद्धौ तथात्मनः॥५३॥
बिम्बं विना यथा नीरे प्रतिबिम्बो भवेत्कथम् । विनात्मानं तथा बुद्धौ चिदाभासो भवेत्कथम्॥५४॥
प्रतिबिम्बचलत्वाद्या यथा बिम्बस्य कर्हिचित् । न भवेयुस्तथाभासकर्तृत्वाद्यास्तु नात्मनः॥५५॥
जले शैत्यादिकं यद्वज्जलभानुं न संस्पृशेत् । बुद्धेः कर्मादिकं तद्वच्चिदाभासं न संस्पृशेत्॥५६॥
बुद्धेः कर्तृत्वभोक्तृत्वदुःखित्वाद्यैस्तु संयुतः । चिदाभासो विकारीव शरावस्थाम्बुभानुवत्॥५७॥
शरावस्थोदके नष्टे तत्स्थो भानुर्विनष्टवत् । बुद्धेर्लये तथा सुप्तौ नष्टवत्प्रतिभात्ययम्॥५८॥
जलस्थार्कं जलं चोर्मिं भासयन्भाति भास्करः । आत्माभासं धियं बुद्धेः कर्तृत्वादीनयं तथा॥५९॥
मेघावभासको भानुर्मेघच्छन्नोऽवभासते । मोहावभासकस्तद्वन्मोहच्छन्नो विभात्ययम्॥६०॥
भास्यं मेघादिकं भानुर्भासयन्प्रतिभासते । तथा स्थूलादिकं भास्यं भासयन्प्रतिभात्ययम्॥६१॥
सर्वप्रकाशको भानुः प्रकाश्येर्नैव दूष्यते । सर्वप्रकाशको ह्यात्मा सर्वैस्तद्वन्न दूष्यते॥६२॥
मुकुरस्थं मुखं यद्वन्मुखवत्प्रथते मृषा । बुद्धिस्थाभासकस्तद्वदात्मवत्प्रथते मृषा॥६३॥
मुकुरस्थस्य नाशेन मुखनाशो भवेत्कथम् । बुद्धिस्थाभासनाशेन नाशो नैवात्मनः क्वचित्॥६४॥
ताम्रकल्पितदेवादिस्ताम्रादन्य इव स्फुरेत् । प्रतिभास्यादिरूपेण तथात्मोत्थमिदं जगत्॥६५॥
ईशजीवात्मवद्भाति यथैकमपि ताम्रकम् । एकोऽप्यात्मा तथैवायमीशजीवादिवन्मृषा॥६६॥
यथेश्वरादिनाशेन ताम्रनाशो न विद्यते । तथेश्वरादिनाशेन नाशो नैवात्मनः सदा॥६७॥
अध्यस्तो रज्जुसर्पोऽयं सत्यवद्रज्जुसत्तया । तथा जगदिदं भाति सत्यवत्स्वात्मसत्तया॥६८॥
अध्यस्ताहेरभावेन रज्जुरेवावशिष्यते । तथा जगदभावेन सदात्मैवावशिष्यते॥६९॥
स्फटिके रक्तता यद्वदुपाधेर्नीलताम्बरे । यथा जगदिदं भाति तथा सत्यमिवाद्वये॥७०॥
स्फटिके रक्तता मिथ्या मृषा खे नीलता यथा । तथा जगदिदं मिथ्या एकस्मिन्नद्वये मयि॥७१॥
जीवेश्वरादिभावेन भेदं पश्यति मूढधीः । निर्भेदे निर्विशेषेऽस्मिन्कथं भेदो भवेद्ध्रुवम्॥७२॥
लिङगस्य धारणादेव शिवोऽयं जीवतां व्रजेत् । लिङगनाशे शिवस्यास्य जीवतावेशता कुतः॥७३॥
शिव एव सदा जीवो जीव एव सदा शिवः । वेत्त्यैक्यमनयोर्यस्तु स आत्मज्ञो न चेतरः॥७४॥
क्षीरयोगाद्यथा नीरं क्षीरवद्दृश्यते मृषा । आत्मयोगादनात्मायमात्मवद्दृश्यते तथा॥७५॥
नीरात्क्षीरं पृथक्कृत्य हंसो भवति नान्यथा । स्थूलादेः स्वं पृथक्कृत्य मुक्तो भवति नान्यथा॥७६॥
क्षीरनीरविवेकज्ञो हंस एव न चेतरः । आत्मानत्मविवेकज्ञो यतिरेव न चेतरः॥७७॥
अध्यस्तचोरजः स्थाणोर्विकारः स्यान्न हि क्वचित् । नात्मनो निर्विकारस्य विकारो विश्वजस्तथा॥७८॥
ज्ञाते स्थाणौ कुतश्चोरश्चोराभावे भयं कुतः । ज्ञाते स्वस्मिन्कुतो विश्वं विश्वाभावे कुतोऽखिलम्॥७९॥
गुणवृत्तित्रयं भाति परस्परविलक्षणम् । सत्यात्मलक्षणे यस्मिन्स एवाहं निरंशकः॥८०॥
देहत्रयमिदं भाति यस्मिन्ब्रह्मणि सत्यवत् । तदेवाहं परं ब्रह्म देहत्रयविलक्षणः॥८१॥
जाग्रदादित्रयं यस्मिन्प्रत्यगात्मनि सत्यवत् । स एवाहं परं ब्रह्म जाग्रदादिविलक्षणः॥८२॥
विश्वादिकत्रयं यस्मिन्परमात्मनि सत्यवत् । स एव परमात्माहं विश्वादिकविलक्षणः॥८३॥
विराडादित्रयं भाति यस्मिन्साक्षिणि सत्यवत् । स एव सच्चिदानन्दलक्षणोऽहं स्वयम्प्रभः॥८४॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ अद्वैतानुभूतिः सम्पूर्णा॥

N/A

References :
Proofread by ।: Sunder Hattangadi

Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP