संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद् भागवत पुराण|प्रथमः स्कन्धः| अध्यायः १४ प्रथमः स्कन्धः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ प्रथमः स्कन्धः - अध्यायः १४ भागवत पुराणात पुढे येणार्या कलियुगात काय घडणार आहे, याबद्दलचे सविस्तर वर्णन केले आहे. Tags : bhagavatpuranपुराणभागवतसंस्कृत अध्यायः १४ Translation - भाषांतर सूत उवाचसम्प्रस्थिते द्वारकायांजिष्णौ बन्धुदिदृक्षयाज्ञातुं च पुण्यश्लोकस्य कृष्णस्य च विचेष्टितम्व्यतीताः कतिचिन्मासास्तदा नायात्ततोऽर्जुनःददर्श घोररूपाणि निमित्तानि कुरूद्वहःकालस्य च गतिं रौद्रां विपर्यस्तर्तुधर्मिणःपापीयसीं नृणां वार्तां क्रोधलोभानृतात्मनाम्जिह्मप्रायं व्यवहृतं शाठ्यमिश्रं च सौहृदम्पितृमातृसुहृद्भ्रातृदम्पतीनां च कल्कनम्निमित्तान्यत्यरिष्टानि काले त्वनुगते नृणाम्लोभाद्यधर्मप्रकृतिं दृष्ट्वोवाचानुजं नृपः युधिष्ठिर उवाचसम्प्रेषितो द्वारकायां जिष्णुर्बन्धुदिदृक्षयाज्ञातुं च पुण्यश्लोकस्य कृष्णस्य च विचेष्टितम्गताः सप्ताधुना मासा भीमसेन तवानुजःनायाति कस्य वा हेतोर्नाहं वेदेदमञ्जसाअपि देवर्षिणादिष्टः स कालोऽयमुपस्थितःयदात्मनोऽङ्गमाक्रीडं भगवानुत्सिसृक्षतियस्मान्नः सम्पदो राज्यं दाराः प्राणाः कुलं प्रजाःआसन्सपत्नविजयो लोकाश्च यदनुग्रहात्पश्योत्पातान्नरव्याघ्र दिव्यान्भौमान्सदैहिकान्दारुणान्शंसतोऽदूराद्भयं नो बुद्धिमोहनम्ऊर्वक्षिबाहवो मह्यं स्फुरन्त्यङ्ग पुनः पुनःवेपथुश्चापि हृदये आराद्दास्यन्ति विप्रियम्शिवैषोद्यन्तमादित्यमभिरौत्यनलाननामामङ्ग सारमेयोऽयमभिरेभत्यभीरुवत्शस्ताः कुर्वन्ति मां सव्यं दक्षिणं पशवोऽपरेवाहांश्च पुरुषव्याघ्र लक्षये रुदतो मममृत्युदूतः कपोतोऽयमुलूकः कम्पयन्मनःप्रत्युलूकश्च कुह्वानैर्विश्वं वै शून्यमिच्छतःधूम्रा दिशः परिधयः कम्पते भूः सहाद्रिभिःनिर्घातश्च महांस्तात साकं च स्तनयित्नुभिःवायुर्वाति खरस्पर्शो रजसा विसृजंस्तमःअसृग्वर्षन्ति जलदा बीभत्समिव सर्वतःसूर्यं हतप्रभं पश्य ग्रहमर्दं मिथो दिविससङ्कुलैर्भूतगणैर्ज्वलिते इव रोदसीनद्यो नदाश्च क्षुभिताः सरांसि च मनांसि चन ज्वलत्यग्निराज्येन कालोऽयं किं विधास्यतिन पिबन्ति स्तनं वत्सा न दुह्यन्ति च मातरःरुदन्त्यश्रुमुखा गावो न हृष्यन्त्यृषभा व्रजेदैवतानि रुदन्तीव स्विद्यन्ति ह्युच्चलन्ति चइमे जनपदा ग्रामाः पुरोद्यानाकराश्रमाःभ्रष्टश्रियो निरानन्दाः किमघं दर्शयन्ति नःमन्य एतैर्महोत्पातैर्नूनं भगवतः पदैःअनन्यपुरुषश्रीभिर्हीना भूर्हतसौभगाइति चिन्तयतस्तस्य दृष्टारिष्टेन चेतसाराज्ञः प्रत्यागमद्ब्रह्मन्यदुपुर्याः कपिध्वजःतं पादयोर्निपतितमयथापूर्वमातुरम्अधोवदनमब्बिन्दून्सृजन्तं नयनाब्जयोःविलोक्योद्विग्नहृदयो विच्छायमनुजं नृपःपृच्छति स्म सुहृन्मध्ये संस्मरन्नारदेरितम् युधिष्ठिर उवाचकच्चिदानर्तपुर्यां नः स्वजनाः सुखमासतेमधुभोजदशार्हार्ह सात्वतान्धकवृष्णयःशूरो मातामहः कच्चित्स्वस्त्यास्ते वाथ मारिषःमातुलः सानुजः कच्चित्कुशल्यानकदुन्दुभिःसप्त स्वसारस्तत्पत्न्यो मातुलान्यः सहात्मजाःआसते सस्नुषाः क्षेमंदेवकीप्रमुखाः स्वयम्कच्चिद्राजाहुको जीवत्यसत्पुत्रोऽस्य चानुजःहृदीकः ससुतोऽक्रूरो जयन्तगदसारणाःआसते कुशलं कच्चिद्ये च शत्रुजिदादयःकच्चिदास्ते सुखं रामो भगवान्सात्वतां प्रभुःप्रद्युम्नः सर्ववृष्णीनां सुखमास्ते महारथःगम्भीररयोऽनिरुद्धो वर्धते भगवानुतसुषेणश्चारुदेष्णश्च साम्बो जाम्बवतीसुतःअन्ये च कार्ष्णिप्रवराः सपुत्रा ऋषभादयःतथैवानुचराः शौरेः श्रुतदेवोद्धवादयःसुनन्दनन्दशीर्षण्या ये चान्ये सात्वतर्षभाःअपि स्वस्त्यासते सर्वे रामकृष्णभुजाश्रयाःअपि स्मरन्ति कुशलमस्माकं बद्धसौहृदाःभगवानपि गोविन्दो ब्रह्मण्यो भक्तवत्सलःकच्चित्पुरे सुधर्मायां सुखमास्ते सुहृद्वृतःमङ्गलाय च लोकानां क्षेमाय च भवाय चआस्ते यदुकुलाम्भोधावाद्योऽनन्तसखः पुमान्यद्बाहुदण्डगुप्तायां स्वपुर्यां यदवोऽर्चिताःक्रीडन्ति परमानन्दं महापौरुषिका इवयत्पादशुश्रूषणमुख्यकर्मणा सत्यादयो द्व्यष्टसहस्रयोषितःनिर्जित्य सङ्ख्ये त्रिदशांस्तदाशिषो हरन्ति वज्रायुधवल्लभोचिताःयद्बाहुदण्डाभ्युदयानुजीविनो यदुप्रवीरा ह्यकुतोभया मुहुःअधिक्रमन्त्यङ्घ्रिभिराहृतां बलात्सभां सुधर्मां सुरसत्तमोचिताम्कच्चित्तेऽनामयं तात भ्रष्टतेजा विभासि मेअलब्धमानोऽवज्ञातः किं वा तात चिरोषितःकच्चिन्नाभिहतोऽभावैः शब्दादिभिरमङ्गलैःन दत्तमुक्तमर्थिभ्य आशया यत्प्रतिश्रुतम्कच्चित्त्वं ब्राह्मणं बालं गां वृद्धं रोगिणं स्त्रियम्शरणोपसृतं सत्त्वं नात्याक्षीः शरणप्रदःकच्चित्त्वं नागमोऽगम्यां गम्यां वासत्कृतां स्त्रियम्पराजितो वाथ भवान्नोत्तमैर्नासमैः पथिअपि स्वित्पर्यभुङ्क्थास्त्वं सम्भोज्यान्वृद्धबालकान्जुगुप्सितं कर्म किञ्चित्कृतवान्न यदक्षमम्कच्चित्प्रेष्ठतमेनाथ हृदयेनात्मबन्धुनाशून्योऽस्मि रहितो नित्यं मन्यसे तेऽन्यथा न रुक् N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP