संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद् भागवत पुराण|प्रथमः स्कन्धः| अध्यायः ६ प्रथमः स्कन्धः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ प्रथमः स्कन्धः - अध्यायः ६ भागवत पुराणात पुढे येणार्या कलियुगात काय घडणार आहे, याबद्दलचे सविस्तर वर्णन केले आहे. Tags : bhagavatpuranपुराणभागवतसंस्कृत अध्यायः ६ Translation - भाषांतर सूत उवाचएवं निशम्य भगवान्देवर्षेर्जन्म कर्म चभूयः पप्रच्छ तं ब्रह्मन्व्यासः सत्यवतीसुतः व्यास उवाचभिक्षुभिर्विप्रवसिते विज्ञानादेष्टृभिस्तववर्तमानो वयस्याद्ये ततः किमकरोद्भवान्स्वायम्भुव कया वृत्त्या वर्तितं ते परं वयःकथं चेदमुदस्राक्षीः काले प्राप्ते कलेवरम्प्राक्कल्पविषयामेतां स्मृतिं ते मुनिसत्तमन ह्येष व्यवधात्काल एष सर्वनिराकृतिः नारद उवाचभिक्षुभिर्विप्रवसिते विज्ञानादेष्टृभिर्ममवर्तमानो वयस्याद्ये तत एतदकारषम्एकात्मजा मे जननी योषिन्मूढा च किङ्करीमय्यात्मजेऽनन्यगतौ चक्रे स्नेहानुबन्धनम्सास्वतन्त्रा न कल्पासीद्योगक्षेमं ममेच्छतीईशस्य हि वशे लोको योषा दारुमयी यथाअहं च तद्ब्रह्मकुले ऊषिवांस्तदुपेक्षयादिग्देशकालाव्युत्पन्नो बालकः पञ्चहायनःएकदा निर्गतां गेहाद्दुहन्तीं निशि गां पथिसर्पोऽदशत्पदा स्पृष्टः कृपणां कालचोदितःतदा तदहमीशस्य भक्तानां शमभीप्सतःअनुग्रहं मन्यमानः प्रातिष्ठं दिशमुत्तराम्स्फीताञ्जनपदांस्तत्र पुरग्रामव्रजाकरान्खेटखर्वटवाटीश्च वनान्युपवनानि चचित्रधातुविचित्राद्रीनिभभग्नभुजद्रुमान्जलाशयाञ्छिवजलान्नलिनीः सुरसेविताःचित्रस्वनैः पत्ररथैर्विभ्रमद्भ्रमरश्रियःनलवेणुशरस्तन्ब कुशकीचकगह्वरम्एक एवातियातोऽहमद्राक्षं विपिनं महत्घोरं प्रतिभयाकारं व्यालोलूकशिवाजिरम्परिश्रान्तेन्द्रियात्माहं तृट्परीतो बुभुक्षितःस्नात्वा पीत्वा ह्रदे नद्या उपस्पृष्टो गतश्रमःतस्मिन्निर्मनुजेऽरण्ये पिप्पलोपस्थ आश्रितःआत्मनात्मानमात्मस्थं यथाश्रुतमचिन्तयम्ध्यायतश्चरणाम्भोजं भावनिर्जितचेतसाऔत्कण्ठ्याश्रुकलाक्षस्य हृद्यासीन्मे शनैर्हरिःप्रेमातिभरनिर्भिन्न पुलकाङ्गोऽतिनिर्वृतःआनन्दसम्प्लवे लीनो नापश्यमुभयं मुनेरूपं भगवतो यत्तन्मनःकान्तं शुचापहम्अपश्यन्सहसोत्तस्थे वैक्लव्याद्दुर्मना इवदिदृक्षुस्तदहं भूयः प्रणिधाय मनो हृदिवीक्षमाणोऽपि नापश्यमवितृप्त इवातुरःएवं यतन्तं विजने मामाहागोचरो गिराम्गम्भीरश्लक्ष्णया वाचा शुचः प्रशमयन्निवहन्तास्मिञ्जन्मनि भवान्मा मां द्रष्टुमिहार्हतिअविपक्वकषायाणां दुर्दर्शोऽहं कुयोगिनाम्सकृद्यद्दर्शितं रूपमेतत्कामाय तेऽनघमत्कामः शनकैः साधु सर्वान्मुञ्चति हृच्छयान्सत्सेवयादीर्घयापि जाता मयि दृढा मतिःहित्वावद्यमिमं लोकं गन्ता मज्जनतामसिमतिर्मयि निबद्धेयं न विपद्येत कर्हिचित्प्रजासर्गनिरोधेऽपि स्मृतिश्च मदनुग्रहात्एतावदुक्त्वोपरराम तन्महद्भूतं नभोलिङ्गमलिङ्गमीश्वरम्अहं च तस्मै महतां महीयसे शीर्ष्णावनामं विदधेऽनुकम्पितःनामान्यनन्तस्य हतत्रपः पठन्गुह्यानि भद्राणि कृतानि च स्मरन्गां पर्यटंस्तुष्टमना गतस्पृहः कालं प्रतीक्षन्विमदो विमत्सरःएवं कृष्णमतेर्ब्रह्मन्नासक्तस्यामलात्मनःकालः प्रादुरभूत्काले तडित्सौदामनी यथाप्रयुज्यमाने मयि तां शुद्धां भागवतीं तनुम्आरब्धकर्मनिर्वाणो न्यपतत्पाञ्चभौतिकःकल्पान्त इदमादाय शयानेऽम्भस्युदन्वतःशिशयिषोरनुप्राणं विविशेऽन्तरहं विभोःसहस्रयुगपर्यन्ते उत्थायेदं सिसृक्षतःमरीचिमिश्रा ऋषयः प्राणेभ्योऽहं च जज्ञिरेअन्तर्बहिश्च लोकांस्त्रीन्पर्येम्यस्कन्दितव्रतःअनुग्रहान्महाविष्णोरविघातगतिः क्वचित्देवदत्तामिमां वीणां स्वरब्रह्मविभूषिताम्मूर्च्छयित्वा हरिकथां गायमानश्चराम्यहम्प्रगायतः स्ववीर्याणि तीर्थपादः प्रियश्रवाःआहूत इव मे शीघ्रं दर्शनं याति चेतसिएतद्ध्यातुरचित्तानां मात्रास्पर्शेच्छया मुहुःभवसिन्धुप्लवो दृष्टो हरिचर्यानुवर्णनम्यमादिभिर्योगपथैः कामलोभहतो मुहुःमुकुन्दसेवया यद्वत्तथात्माद्धा न शाम्यतिसर्वं तदिदमाख्यातं यत्पृष्टोऽहं त्वयानघजन्मकर्मरहस्यं मे भवतश्चात्मतोषणम्सूत उवाचएवं सम्भाष्य भगवान्नारदो वासवीसुतम्आमन्त्र्य वीणां रणयन्ययौ यादृच्छिको मुनिःअहो देवर्षिर्धन्योऽयं यत्कीर्तिं शार्ङ्गधन्वनःगायन्माद्यन्निदं तन्त्र्या रमयत्यातुरं जगत् N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP