संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद् भागवत पुराण|प्रथमः स्कन्धः| अध्यायः १२ प्रथमः स्कन्धः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ प्रथमः स्कन्धः - अध्यायः १२ भागवत पुराणात पुढे येणार्या कलियुगात काय घडणार आहे, याबद्दलचे सविस्तर वर्णन केले आहे. Tags : bhagavatpuranपुराणभागवतसंस्कृत अध्यायः १२ Translation - भाषांतर शौनक उवाचअश्वत्थाम्नोपसृष्टेन ब्रह्मशीर्ष्णोरुतेजसाउत्तराया हतो गर्भ ईशेनाजीवितः पुनःतस्य जन्म महाबुद्धेः कर्माणि च महात्मनःनिधनं च यथैवासीत्स प्रेत्य गतवान्यथातदिदं श्रोतुमिच्छामो गदितुं यदि मन्यसेब्रूहि नः श्रद्दधानानां यस्य ज्ञानमदाच्छुकःसूत उवाचअपीपलद्धर्मराजः पितृवद्रञ्जयन्प्रजाःनिःस्पृहः सर्वकामेभ्यः कृष्णपादानुसेवयासम्पदः क्रतवो लोका महिषी भ्रातरो महीजम्बूद्वीपाधिपत्यं च यशश्च त्रिदिवं गतम्किं ते कामाः सुरस्पार्हा मुकुन्दमनसो द्विजाःअधिजह्रुर्मुदं राज्ञः क्षुधितस्य यथेतरेमातुर्गर्भगतो वीरः स तदा भृगुनन्दनददर्श पुरुषं कञ्चिद्दह्यमानोऽस्त्रतेजसाअङ्गुष्ठमात्रममलं स्फुरत्पुरटमौलिनम्अपीव्यदर्शनं श्यामं तडिद्वाससमच्युतम्श्रीमद्दीर्घचतुर्बाहुं तप्तकाञ्चनकुण्डलम्क्षतजाक्षं गदापाणिमात्मनः सर्वतो दिशम्परिभ्रमन्तमुल्काभां भ्रामयन्तं गदां मुहुःअस्त्रतेजः स्वगदया नीहारमिव गोपतिःविधमन्तं सन्निकर्षे पर्यैक्षत क इत्यसौविधूय तदमेयात्मा भगवान्धर्मगुब्विभुःमिषतो दशमासस्य तत्रैवान्तर्दधे हरिःततः सर्वगुणोदर्के सानुकूलग्रहोदयेजज्ञे वंशधरः पाण्डोर्भूयः पाण्डुरिवौजसातस्य प्रीतमना राजा विप्रैर्धौम्यकृपादिभिःजातकं कारयामास वाचयित्वा च मङ्गलम्हिरण्यं गां महीं ग्रामान्हस्त्यश्वान्नृपतिर्वरान्प्रादात्स्वन्नं च विप्रेभ्यः प्रजातीर्थे स तीर्थवित्तमूचुर्ब्राह्मणास्तुष्टा राजानं प्रश्रयान्वितम्एष ह्यस्मिन्प्रजातन्तौ पुरूणां पौरवर्षभदैवेनाप्रतिघातेन शुक्ले संस्थामुपेयुषिरातो वोऽनुग्रहार्थाय विष्णुना प्रभविष्णुनातस्मान्नाम्ना विष्णुरात इति लोके भविष्यतिन सन्देहो महाभाग महाभागवतो महान् श्रीराजोवाचअप्येष वंश्यान्राजर्षीन्पुण्यश्लोकान्महात्मनःअनुवर्तिता स्विद्यशसा साधुवादेन सत्तमाः ब्राह्मणा ऊचुःपार्थ प्रजाविता साक्षादिक्ष्वाकुरिव मानवःब्रह्मण्यः सत्यसन्धश्च रामो दाशरथिर्यथाएष दाता शरण्यश्च यथा ह्यौशीनरः शिबिःयशो वितनिता स्वानां दौष्यन्तिरिव यज्वनाम्धन्विनामग्रणीरेष तुल्यश्चार्जुनयोर्द्वयोःहुताश इव दुर्धर्षः समुद्र इव दुस्तरःमृगेन्द्र इव विक्रान्तो निषेव्यो हिमवानिवतितिक्षुर्वसुधेवासौ सहिष्णुः पितराविवपितामहसमः साम्ये प्रसादे गिरिशोपमःआश्रयः सर्वभूतानां यथा देवो रमाश्रयःसर्वसद्गुणमाहात्म्ये एष कृष्णमनुव्रतःरन्तिदेव इवोदारो ययातिरिव धार्मिकःहृत्या बलिसमः कृष्णे प्रह्राद इव सद्ग्रहःआहर्तैषोऽश्वमेधानां वृद्धानां पर्युपासकःराजर्षीणां जनयिता शास्ता चोत्पथगामिनाम्निग्रहीता कलेरेष भुवो धर्मस्य कारणात्तक्षकादात्मनो मृत्युं द्विजपुत्रोपसर्जितात्प्रपत्स्यत उपश्रुत्य मुक्तसङ्गः पदं हरेःजिज्ञासितात्मयाथार्थ्यो मुनेर्व्याससुतादसौहित्वेदं नृप गङ्गायां यास्यत्यद्धाकुतोभयम्इति राज्ञ उपादिश्य विप्रा जातककोविदाःलब्धापचितयः सर्वे प्रतिजग्मुः स्वकान्गृहान्स एष लोके विख्यातः परीक्षिदिति यत्प्रभुःपूर्वं दृष्टमनुध्यायन्परीक्षेत नरेष्विहस राजपुत्रो ववृधे आशु शुक्ल इवोडुपःआपूर्यमाणः पितृभिः काष्ठाभिरिव सोऽन्वहम्यक्ष्यमाणोऽश्वमेधेन ज्ञातिद्रोहजिहासयाराजा लब्धधनो दध्यौ नान्यत्र करदण्डयोःतदभिप्रेतमालक्ष्य भ्रातरो ञ्च्युतचोदिताःधनं प्रहीणमाजह्रुरुदीच्यां दिशि भूरिशःतेन सम्भृतसम्भारो धर्मपुत्रो युधिष्ठिरःवाजिमेधैस्त्रिभिर्भीतो यज्ञैः समयजद्धरिम्आहूतो भगवान्राज्ञा याजयित्वा द्विजैर्नृपम्उवास कतिचिन्मासान्सुहृदां प्रियकाम्ययाततो राज्ञाभ्यनुज्ञातः कृष्णया सहबन्धुभिःययौ द्वारवतीं ब्रह्मन्सार्जुनो यदुभिर्वृतः N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP