संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद् भागवत पुराण|प्रथमः स्कन्धः| अध्यायः ७ प्रथमः स्कन्धः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ प्रथमः स्कन्धः - अध्यायः ७ भागवत पुराणात पुढे येणार्या कलियुगात काय घडणार आहे, याबद्दलचे सविस्तर वर्णन केले आहे. Tags : bhagavatpuranपुराणभागवतसंस्कृत अध्यायः ७ Translation - भाषांतर शौनक उवाचनिर्गते नारदेसूत भगवान्बादरायणःश्रुतवांस्तदभिप्रेतं ततः किमकरोद्विभुःसूत उवाचब्रह्मनद्यां सरस्वत्यामाश्रमः पश्चिमे तटेशम्याप्रास इति प्रोक्त ऋषीणां सत्रवर्धनःतस्मिन्स्व आश्रमे व्यासो बदरीषण्डमण्डितेआसीनोऽप उपस्पृश्य प्रणिदध्यौ मनः स्वयम्भक्तियोगेन मनसि सम्यक्प्रणिहितेऽमलेअपश्यत्पुरुषं पूर्णं मायां च तदपाश्रयम्यया सम्मोहितो जीव आत्मानं त्रिगुणात्मकम्परोऽपि मनुतेऽनर्थं तत्कृतं चाभिपद्यतेअनर्थोपशमं साक्षाद्भक्तियोगमधोक्षजेलोकस्याजानतो विद्वांश्चक्रे सात्वतसंहिताम्यस्यां वै श्रूयमाणायां कृष्णे परमपूरुषेभक्तिरुत्पद्यते पुंसः शोकमोहभयापहास संहितां भागवतीं कृत्वानुक्रम्य चात्मजम्शुकमध्यापयामास निवृत्तिनिरतं मुनिः शौनक उवाचस वै निवृत्तिनिरतः सर्वत्रोपेक्षको मुनिःकस्य वा बृहतीमेतामात्मारामः समभ्यसत्सूत उवाचआत्मारामाश्च मुनयो निर्ग्रन्था अप्युरुक्रमेकुर्वन्त्यहैतुकीं भक्तिमित्थम्भूतगुणो हरिःहरेर्गुणाक्षिप्तमतिर्भगवान्बादरायणिःअध्यगान्महदाख्यानं नित्यं विष्णुजनप्रियःपरीक्षितोऽथ राजर्षेर्जन्मकर्मविलापनम्संस्थां च पाण्डुपुत्राणां वक्ष्ये कृष्णकथोदयम्यदा मृधे कौरवसृञ्जयानां वीरेष्वथो वीरगतिं गतेषुवृकोदराविद्धगदाभिमर्श भग्नोरुदण्डे धृतराष्ट्रपुत्रेभर्तुः प्रियं द्रौणिरिति स्म पश्यन्कृष्णासुतानां स्वपतां शिरांसिउपाहरद्विप्रियमेव तस्य जुगुप्सितं कर्म विगर्हयन्तिमाता शिशूनां निधनं सुतानां निशम्य घोरं परितप्यमानातदारुदद्वाष्पकलाकुलाक्षी तां सान्त्वयन्नाह किरीटमालीतदा शुचस्ते प्रमृजामि भद्रे यद्ब्रह्मबन्धोः शिर आततायिनःगाण्डीवमुक्तैर्विशिखैरुपाहरे त्वाक्रम्य यत्स्नास्यसि दग्धपुत्राइति प्रियां वल्गुविचित्रजल्पैः स सान्त्वयित्वाच्युतमित्रसूतःअन्वाद्रवद्दंशित उग्रधन्वा कपिध्वजो गुरुपुत्रं रथेनतमापतन्तं स विलक्ष्य दूरात्कुमारहोद्विग्नमना रथेनपराद्रवत्प्राणपरीप्सुरुर्व्यां यावद्गमं रुद्रभयाद्यथा कःयदाशरणमात्मानमैक्षत श्रान्तवाजिनम्अस्त्रं ब्रह्मशिरो मेने आत्मत्राणं द्विजात्मजःअथोपस्पृश्य सलिलं सन्दधे तत्समाहितःअजानन्नपि संहारं प्राणकृच्छ्र उपस्थितेततः प्रादुष्कृतं तेजः प्रचण्डं सर्वतो दिशम्प्राणापदमभिप्रेक्ष्य विष्णुं जिष्णुरुवाच ह अर्जुन उवाचकृष्ण कृष्ण महाबाहो भक्तानामभयङ्करत्वमेको दह्यमानानामपवर्गोऽसि संसृतेःत्वमाद्यः पुरुषः साक्षादीश्वरः प्रकृतेः परःमायां व्युदस्य चिच्छक्त्या कैवल्ये स्थित आत्मनिस एव जीवलोकस्य मायामोहितचेतसःविधत्से स्वेन वीर्येण श्रेयो धर्मादिलक्षणम्तथायं चावतारस्ते भुवो भारजिहीर्षयास्वानां चानन्यभावानामनुध्यानाय चासकृत्किमिदं स्वित्कुतो वेति देवदेव न वेद्म्यहम्सर्वतो मुखमायाति तेजः परमदारुणम्श्रीभगवानुवाचवेत्थेदं द्रोणपुत्रस्य ब्राह्ममस्त्रं प्रदर्शितम्नैवासौ वेद संहारं प्राणबाध उपस्थितेन ह्यस्यान्यतमं किञ्चिदस्त्रं प्रत्यवकर्शनम्जह्यस्त्रतेज उन्नद्धमस्त्रज्ञो ह्यस्त्रतेजसासूत उवाचश्रुत्वा भगवता प्रोक्तं फाल्गुनः परवीरहास्पृष्ट्वापस्तं परिक्रम्य ब्राह्मं ब्राह्मास्त्रं सन्दधेसंहत्यान्योन्यमुभयोस्तेजसी शरसंवृतेआवृत्य रोदसी खं च ववृधातेऽर्कवह्निवत्दृष्ट्वास्त्रतेजस्तु तयोस्त्रील्लोकान्प्रदहन्महत्दह्यमानाः प्रजाः सर्वाः सांवर्तकममंसतप्रजोपद्रवमालक्ष्य लोकव्यतिकरं च तम्मतं च वासुदेवस्य सञ्जहारार्जुनो द्वयम्तत आसाद्य तरसा दारुणं गौतमीसुतम्बबन्धामर्षताम्राक्षः पशुं रशनया यथाशिबिराय निनीषन्तं रज्ज्वा बद्ध्वा रिपुं बलात्प्राहार्जुनं प्रकुपितो भगवानम्बुजेक्षणःमैनं पार्थार्हसि त्रातुं ब्रह्मबन्धुमिमं जहियोऽसावनागसः सुप्तानवधीन्निशि बालकान्मत्तं प्रमत्तमुन्मत्तं सुप्तं बालं स्त्रियं जडम्प्रपन्नं विरथं भीतं न रिपुं हन्ति धर्मवित्स्वप्राणान्यः परप्राणैः प्रपुष्णात्यघृणः खलःतद्वधस्तस्य हि श्रेयो यद्दोषाद्यात्यधः पुमान्प्रतिश्रुतं च भवता पाञ्चाल्यै शृण्वतो ममआहरिष्ये शिरस्तस्य यस्ते मानिनि पुत्रहातदसौ वध्यतां पाप आतताय्यात्मबन्धुहाभर्तुश्च विप्रियं वीर कृतवान्कुलपांसनःसूत उवाचएवं परीक्षता धर्मं पार्थः कृष्णेन चोदितःनैच्छद्धन्तुं गुरुसुतं यद्यप्यात्महनं महान्अथोपेत्य स्वशिबिरं गोविन्दप्रियसारथिःन्यवेदयत्तं प्रियायै शोचन्त्या आत्मजान्हतान्तथाहृतं पशुवत्पाशबद्धमवाङ्मुखं कर्मजुगुप्सितेननिरीक्ष्य कृष्णापकृतं गुरोः सुतं वामस्वभावा कृपया ननाम चउवाच चासहन्त्यस्य बन्धनानयनं सतीमुच्यतां मुच्यतामेष ब्राह्मणो नितरां गुरुःसरहस्यो धनुर्वेदः सविसर्गोपसंयमःअस्त्रग्रामश्च भवता शिक्षितो यदनुग्रहात्स एष भगवान्द्रोणः प्रजारूपेण वर्ततेतस्यात्मनोऽर्धं पत्न्यास्ते नान्वगाद्वीरसूः कृपीतद्धर्मज्ञ महाभाग भवद्भिर्गौरवं कुलम्वृजिनं नार्हति प्राप्तुं पूज्यं वन्द्यमभीक्ष्णशःमा रोदीदस्य जननी गौतमी पतिदेवतायथाहं मृतवत्सार्ता रोदिम्यश्रुमुखी मुहुःयैः कोपितं ब्रह्मकुलं राजन्यैरजितात्मभिःतत्कुलं प्रदहत्याशु सानुबन्धं शुचार्पितम्सूत उवाचधर्म्यं न्याय्यं सकरुणं निर्व्यलीकं समं महत्राजा धर्मसुतो राज्ञ्याःप्रत्यनन्दद्वचो द्विजाःनकुलः सहदेवश्च युयुधानो धनञ्जयःभगवान्देवकीपुत्रो ये चान्ये याश्च योषितःतत्राहामर्षितो भीमस्तस्य श्रेयान्वधः स्मृतःन भर्तुर्नात्मनश्चार्थे योऽहन्सुप्तान्शिशून्वृथानिशम्य भीमगदितं द्रौपद्याश्च चतुर्भुजःआलोक्य वदनं सख्युरिदमाह हसन्निवश्रीभगवानुवाचब्रह्मबन्धुर्न हन्तव्य आततायी वधार्हणःमयैवोभयमाम्नातं परिपाह्यनुशासनम्कुरु प्रतिश्रुतं सत्यं यत्तत्सान्त्वयता प्रियाम्प्रियं च भीमसेनस्य पाञ्चाल्या मह्यमेव चसूत उवाचअर्जुनः सहसाज्ञाय हरेर्हार्दमथासिनामणिं जहार मूर्धन्यं द्विजस्य सहमूर्धजम्विमुच्य रशनाबद्धं बालहत्याहतप्रभम्तेजसा मणिना हीनं शिबिरान्निरयापयत्वपनं द्रविणादानं स्थानान्निर्यापणं तथाएष हि ब्रह्मबन्धूनां वधो नान्योऽस्ति दैहिकःपुत्रशोकातुराः सर्वे पाण्डवाः सह कृष्णयास्वानां मृतानां यत्कृत्यं चक्रुर्निर्हरणादिकम् N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP