संस्कृत सूची|पूजा विधीः|प्रातिवर्षिकपूजाकथासङ्ग्रह:|द्वितीयो भागः|अथ त्र्प्राश्विनमास:| गोपूजनविधि: अथ त्र्प्राश्विनमास: देवीनवरात्रारम्भ: उपाङ्गललिताव्रताङ्गपूजाविधि: उपाङ्गललिताकथा सरस्वतीस्थापनपूजाविधि: घटध्मानमहालक्ष्मीव्रतविधि: कूष्माण्डबलिदानविधि: नवरात्रोत्थापनविधि: कार्तिकमासकृत्यानि धात्रीपूजाविधि: लक्ष्मीन्द्रपूजनविधि: कोजागरव्रताङ्गलक्ष्मीन्द्रपूजाविधि: कोजागरव्रतकथाप्ररम्भ: गोपूजनविधि: नरकचतुर्दश्यामभ्यङ्गस्नानविधि: लक्ष्मीकुबेरपूजाविधि: आश्विनमास: - गोपूजनविधि: सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची. Tags : poojavratपूजाव्रतसंस्कृत गोपूजनविधि: Translation - भाषांतर ॥ आश्विनकृष्णगोवत्सद्वादश्यां गोपूजनविधि: ॥द्वादशी च प्रदोषव्यापिनी ग्राह्या । दिनद्वये तत्सत्वे पूर्वा । तस्यां सायंसन्ध्योत्तरं वत्सतुल्यवर्णां पयस्विनीं सवत्सां तदलाभेऽ:यां वा गां पूजयेतू । आचम्य देशकालौ स्मृत्वा, मम सकलाभीष्टसिद्धिद्वारा सवत्सगोदेवताप्रीत्यर्थं गोवत्सद्वादश्यां विहितं सवत्सगो:पूजनं करिष्ये । रुद्ररूपिण्यै सवत्सायै गवे नम इति मन्त्रेण चन्दनहरिद्राकुङ्कुमादिभि: पुष्पमालाभिश्च सम्पूज्य, ताम्रपात्रे गन्धपुष्पतिलाक्षतहिरण्ययुतं जलं गृहीत्वा मातारुद्राणां० वधिष्ट । क्षीरोदार्णवसम्भूते सुरासुरनमस्कृते । सर्वदेवमये मातर्गृहाणार्ध्यं नमोऽस्तु ते ॥ रुद्ररूपिण्यै सवत्सायै गवे इद मर्ध्यं समर्पयामि इति गो:पादमूले दद्यात् । तज्जलं साक्षतं स्वमूर्ध्नि निक्षिप्य, गोग्रासार्थं माषादिसंसिद्धान् वटकान् दद्यात् । तत्र मन्त्र:-सुरभिस्त्वं जगन्मातर्नित्यं विष्णुपदे स्थिते । सर्वदेवमये ग्रासं मया दत्तमिमं ग्रस ॥ ततो गां प्रदक्षिणीकृत्य नमस्कृत्वा, प्रार्थयेत्-सर्वदेवमये देवि सर्वदेवैरलङ्कृते । मातर्ममाभिलषितं सफलं कुरु नन्दिनि ॥ तत: गां दीपैर्नीराजयेत् । यस्य स्मृत्या० । अनेन सवत्सपूजनाख्येन कर्मणा गोदेवता प्रींयताम् । तद्दिने तैलपव्कं स्थालीपक्चं गो:क्षीरादि च न भक्षयेत् ॥अद्य० अद्यप्रभृतिपञ्चदिनपर्यन्तं देवादीनां नीराजनं करिष्ये । एतत्प्रभृतिपञ्चदिनेषु योषित: देवादीन् नीराजयेयु:, देवागारे दीपरचनां च कुर्यु: ॥॥ त्रयोदश्यां यमदीपदानविधि: ॥त्रयोदशी प्रदोषव्यापिनी ग्राह्या । दिनद्वये तत्सत्वेऽस्तोत्तरं किञ्चिद्वयाप्तावपि परैव ॥ अथ प्रयोग: ॥ त्रयोदश्यां सायंसन्ध्यावन्दनोत्तरं आचम्य देशकालौ स्मृत्वा, मम अपमृत्युनिरसनद्वारा श्रीयमप्रीत्यर्थं आश्विनकृषणत्रयोदश्यां विहितं यमदीपदानं करिष्ये । तिलतैलयुतं दीपं प्रज्वान्य, दीपदेवताभ्यो नम इति चन्दनादिभिरभ्यर्च्य गृहाद् बहिर्दक्षिणस्यां दिशि निधाय मन्त्रं पठेत्मृत्युना पाशदण्डाभ्यां कालेन श्यामया सह । त्रयोदश्यां दीपदानात्सूर्यज: प्रीयतां मम ॥ अनेन दीपदानेन श्रीयम: प्रीयताम् । हस्तौ पादौ प्रक्षालयेत् ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP