संस्कृत सूची|पूजा विधीः|प्रातिवर्षिकपूजाकथासङ्ग्रह:|द्वितीयो भागः|अथ त्र्प्राश्विनमास:| उपाङ्गललिताव्रताङ्गपूजाविधि: अथ त्र्प्राश्विनमास: देवीनवरात्रारम्भ: उपाङ्गललिताव्रताङ्गपूजाविधि: उपाङ्गललिताकथा सरस्वतीस्थापनपूजाविधि: घटध्मानमहालक्ष्मीव्रतविधि: कूष्माण्डबलिदानविधि: नवरात्रोत्थापनविधि: कार्तिकमासकृत्यानि धात्रीपूजाविधि: लक्ष्मीन्द्रपूजनविधि: कोजागरव्रताङ्गलक्ष्मीन्द्रपूजाविधि: कोजागरव्रतकथाप्ररम्भ: गोपूजनविधि: नरकचतुर्दश्यामभ्यङ्गस्नानविधि: लक्ष्मीकुबेरपूजाविधि: आश्विनमास: - उपाङ्गललिताव्रताङ्गपूजाविधि: सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची. Tags : poojavratपूजाव्रतसंस्कृत उपाङ्गललिताव्रताङ्गपूजाविधि: Translation - भाषांतर ॥ शुक्लपञ्चम्यां उपाङ्गललिताव्रताङ्गपूजाविधि: ॥पञ्चमी चापराह्णव्यापिनी ग्राह्या । दिनद्वये तद्वयाप्तावव्याप्तौ पूर्वैव । परत्रैवापराह्णव्याप्तौ परैव ॥ अथ पूजाविधि: ॥ भूमिं गोमयेनोपलिप्य रङ्गवल्लीभिरलङकृत्य तदुपरि धान्यं निधाय, तस्योपरि कलशं निधाय, उपरि पूर्णपात्रं संस्थाप्य, अष्टदलं विलिख्य, सौवर्णराजतताम्रान्यतमपिधानं निधाय पूजामारभेत । आचम्य देशकालौ स्मृत्वा, मम मनेप्सितकामनासिध्यर्थं पुत्रपौत्रधनविद्यारोगनिर्मुक्तिसुखगोविजयपुष्टयायुष्यादिकाम: स्त्रीचेत् अवैधब्यकामा श्रीउपाङ्गललितादेवीप्रीत्यर्थं श्रीसूक्तेन पुराणोक्तमन्त्रैश्च यथामिलितषोडशोपचारद्रव्यै: पूजनं करिष्ये । आदौ निर्विघ्नतासिद्धयर्थं गणपतिपूजनं आसनविधिं कलशपूजनादि करिष्ये । गणानांत्वा० गणपतिं सम्पूज्य, आसनविध्यादिसम्भारप्रोक्षणान्तं कृत्वा महीद्यौरित्यादिना कलशस्थापनादिपूर्णपात्रनिधानान्ते उपरि देवीं आवाहयेत् । आगच्छ ललिते देवि सर्वसम्पत्प्रदायिनि । यावद्व्रतं समाप्येत तावत्त्वं सन्निधा भव ॥ श्रीउपाङ्गललितादेवीं साङ्गां सपरिवारां सायुधां सशक्तिकाआवाहयामि । हिरण्य० । नीलकौशेयवसनां हेखाभां कमलासनाम् । भक्तानां वरदा नित्यं ललितां चिन्तयाम्यहम् ॥ श्रीउपां०ध्यायामि ॥ तांम आ० । कार्तस्वरमयंदिव्यं नानामणिगणान्वितम् । अनेकशक्तिसुंयुक्तमासनं प्र० ॥ श्रीउपाङ्गललितादेव्यै नम: । आसनं० । अश्वपू० । गङ्गादिसर्वतीर्थेभ्यो मया प्रार्थनयाऽऽहृतम् । तोयमेतत्सुखस्पर्शं पाद्यार्थं प्र० ॥ श्रीउपां० पाद्यं० ॥ कांसोस्मि० । निधीनां सर्वरत्नानां त्वमनर्घ्यगुणा ह्यसि । तथापि भक्त्या ललिते गृहाणार्घ्यं नमोऽस्तु ते ॥ श्रीउपां० अर्ध्यं० ॥ चंद्रांप्र० । पाटलोशीरकर्पूरसुरभिस्वादुशीतलम् । तोयमाचमनीयार्थं ललिते प्रति० ॥ श्रीउपां० आचमनीयं० । आप्याय० । दधिक्रा० । घृतंमि० । मधुवा० । स्वादु:प० । इत्येतैर्मन्त्रै:, पयो दधि घृतं चैव शर्करा मधुसंयुतम् । पञ्चामृतेन स्नपनं क्रियतां परमेश्वरि ॥ श्रीउपां० पञ्चामृतस्नानं० । आदित्य० । मन्दाकिन्या: समुद्भतं हेमाम्भोरुहवासितम् । स्नानार्थं ते मया भक्तया दत्तं स्वीक्रियतां जलम् ॥ श्रीउपां० स्नानं० ॥ कनिक्र० । अभ्यङ्गार्थं मयाऽऽनीतं तैलं पुष्पादिवासितम् । प्रयत्नेनार्जितं शुद्धं स्नानार्थं प्रति० ॥ श्रीउपां० सुगन्धतैलस्नानं० ॥ अङ्गोद्वर्तनकं देवि कस्तूर्या कुङ्कुमेन च । अन्यै: सुगन्धद्रव्यैश्च निर्मितं प्रति० ॥ श्रीउपा० अङ्गोद्वर्तनकं० ॥ नानातीर्थादाहृतं च तोयमुष्णं मया कृतम् । स्नानार्थं च मया दत्तं ललिते प्रति० ॥ श्रीउपां० उष्णोदकस्नानं० ॥ पञ्चोपचारपूजां कृत्वा श्रीसूक्तादिनाभिषेक: । तत आचमनीयं० । उपैतु० । सर्वभूषाधिके सौम्ये लोकलज्जानिवारणे । मयोपपादिते तुभ्यं वाससी प्र० ॥ श्रीउपां० कञ्चुकीं स० । अहिरिव० । कण्ठसूत्रं ताडपत्रं हरिद्रां कुङ्कुमाञ्चनम् । सिन्दूरादि प्रदास्यामि सौभाग्यं देहि मेऽव्ययम् ॥ श्रीउपां० सौभाग्यद्रव्यं० ॥ गन्धद्व० । मलयाचलसम्भूतं घनसारं मनोहरम् । हृदयानन्दनं चारु चन्दनं प्रति० ॥ श्रीउपां० चन्दनं० ॥ अक्षता विमला शुद्धा मुक्ताभाससमप्रभा: । भूषणार्थं मया दत्ता गृ० ॥ श्रीउपां० अक्षतान्० ॥ मनस:० । मालतीकेतकीजातीतुलसीचम्पकानि च । पद्मादीनि सुगन्धीनि पुष्पाणि प्रति० ॥ श्रीउपां० पुष्पाणि स० ॥ ॥ अथाङ्गपूजा ॥१. उपाङ्गललितायै० पादौपू० ।२. भवान्यै नम: गुल्फौ पू० ।३. सिद्धेश्वर्यै० जङ्घे पू० ।४. भद्रकाल्यै० जानुनी पू० ।५. श्रियै नम: उरू पू० ।६. विश्वरूपिण्यै० कटी पू० ।७. देव्यै नम: नाभिं पू० ।८. वरदायै नम: कुक्षी पू० ।९. शिवायै नम: हृदयं पू० ।१०. वागीश्वर्यै० स्कन्धौ पू० ।११. महादेव्यै० बाहू पू० ।१२. प्रकृतिभद्रायै० करौ पू० ।१३. पद्मिन्यै० कण्ठं पू० ।१४. सरस्वत्यै० मुखं पू० ।१५. कमलासनायै० नासिकां० ।१६. महिषमर्दिन्यै० नेत्रे पू० ।१७. लक्ष्म्यै नम: कर्णों पू० ।१८. भवान्यै नम:० ललाटं पू० ।१९. विन्ध्यवासिन्यै० शिर: पू० ।२०. सिंहवाहिन्यै० सर्वाङ्गं पू० ॥॥ पत्रपूजा ॥१. महामायायै० सेवन्तिकाप० ।२. पार्वत्यै नम: तुलसीपत्रं० ।३. गिरिशप्रियायै० मल्लिकाप० ।४. गौर्यै नम: जातीपत्रं० ।५. कपालिन्ये० पुन्नागपत्रं० ।६. कालिकायै० विष्णुक्रान्तप० ।७. विकरालिन्यै० धत्तूरपत्रं० ।८. भवान्यै नम:० बिल्वपत्रं० ।९. मेधायै नम: दूर्वापत्रं० ।१०. दुर्गाये नम: मरीचिपत्रं० ।११. अम्बिकायै० कस्तूरिकापत्रं ।१२. शिवायै० गोकर्णिकापत्रं० ।१३. उमायै० धात्रीपत्रं० ।१४.चणिडकायै० नम: । नागचम्पकपत्रं० ।१५. सुन्दर्यै नम: आम्रपत्रं० ।१६. सुभगायै० अर्कपत्रं० ।१७. शुभायै नम: दाडिमपत्रं० ।१८. मृडान्यै० भृङ्गराजपत्रं० ।१९. आर्यायै० अपामार्गपत्रं० ।२०. कुमार्ये० जम्बीरपत्रं० ।२१. कामाक्ष्यै० बदरीपत्रं० ।॥ पुष्पपूजा ॥१. ईशप्रियायै० मल्लिकापु० ।२. शक्त्यै० बकुलपुष्पं० ।३. जगन्मात्रे० चम्पकपुष्पं० ।४. लीलावतारायै० पाटलपुष्पं० ।५. चण्डिकायै० अब्जपुष्पं० ।६. अम्बिकायै० पुन्नागपु० ।७. ईश्वर्यै नम: जातीपुष्पं० ।८. कात्यायन्यै० करवीरण्ष्पं० ।९. लक्ष्म्यै० रसालपुष्पं० ।१०. कमलवासिन्यै० मालतीपु० ।कर्दमेन० । देवद्रुमरसोद्भुत: कालागरुसमन्वित: । आघ्रेयतामयं धूपो भवानि घ्राणतर्पण:॥ श्रीउपां० धूपमा०॥ आप: सृ० । चक्षुर्दं सर्वलोकानां तिमिरस्य निवारणम् । आर्तिक्यंकल्पितं भक्तया गृ० ॥ श्रीउपां० दीपंद० ॥ आर्द्रां पु० । मोदकापूपलड्डूकवटकोदुम्बरादिभि: । सघृतं पायसान्नं च नैवेद्यं प्रति० ॥ अन्नं च० श्रीउपां० नैवेद्यं० । मध्येपानीयं० । उत्तरापोशनं० । हस्तप्र० । मुखप्र० । मलयाचलसम्भूतं घनसारं मनोहरम् । करोद्वर्तनकं चारु गृ० ॥ श्रीउपां० करोद्वर्तनार्थे चन्दनं० ॥ कर्पूरैलालवङ्गादिताम्बूलीदलसंयुतम् । क्रमुकस्य फलं तुभ्यं ताम्बूलं प्र० ॥ ताम्बूलं० । मातुलिङ्गं नारिकेलं फलं खर्जूरसम्भवम् ।जम्बीरं पनसं चापि गृ० ॥ श्रीउपां० फलं स० ॥ हिरण्यगर्भ० दक्षिणां० ॥ अथ दूर्वार्पणम् । अथ दूर्वाङ्कुरान् साग्रान् चत्वारिंशत्तथाष्टभि:। अधिकान् हस्त आदाय मन्त्रमेतज्जपेद्वुध: ॥ त्वं दूर्वेऽमृत सम्पन्ने वन्दितासि सुरासुरै: । सौभाग्यं सन्ततिं देहिसर्वकामफलप्रदे ॥ इति दूर्वां प्रार्थ्य, गन्धाक्षतयुतान् दूर्वा ङकुरान् अर्पयेत् । तत्र मन्त्र:-बहुप्ररोहा सततममृता हरिता लता । यथेयं ललिते मातस्तथा मे स्युर्मनोरथा: ॥ इति मन्त्रावृत्या अर्पयेत् । स्वच्छं जलप्रतीकाशं रत्नकाञ्चनमण्डितम् । दर्पणं ते मया दत्तं गृ० ॥ दर्पणं० ॥ हरिन्मणिगणाकीर्णदण्डं शशिकरप्रभम् । सुवर्णकलशं छत्रं ललिते प्र० ॥ छत्रं० ॥ लक्ष्मी वर्धयते नित्यं चामरं सौख्यदायकम् । चामरं गृह्यतां देवि प्रसन्ना वरदा भव ॥ चामरं० ॥ सुवर्णश्रृङ्खलायुक्तं मुक्ताफलबिभूषितम् । आन्दोलं गृह्यतां देवि प्रसन्ना वरदा भव ॥ आन्दोलं० ॥ उशीरनिर्मितं द्रिव्यं हेमदण्डपरिष्कृतम् । व्यजनं कल्पितं भक्त्या गृहा० ॥ व्यजनं० ॥ शङ्खभेरीमृदङ्गादिदुन्दुभीनां च नि:स्वन: । कृतस्त्वत्प्रीतये देवि प्रसन्ना भव सर्वदा ॥ वाद्यं० ॥ स्तुतिभिस्तवदिव्याभि: सहितं नृत्यगीतकम् । अद्य वैकल्पितं भक्त्या गृहाण प० ॥ नृत्यगीतं ० ॥ श्रियेजा० ॥ चन्द्रादित्यौ० ॥ आर्द्रांयष्क० । प्रदक्षिणात्रयं देवि प्रयत्नेन मया कृतम् । तेन पापानि सर्वाणि व्यपोहन्तु नमाम्यहम् ॥ प्रदक्षिणा: स० ॥ तांमआ० । साष्टाङ्गोऽयं प्रणामस्ते मत्कृतस्तु यथाविधि । त्वद्दास इति मां मत्वा प्रसीद परमेश्वरि ॥ नमस्कारान् स० ॥ य:शुचि:० । उपाङ्गललिते मातर्नमस्ते विन्ध्यवासिनि । दुर्गे देवि नमस्तुभ्यं नमस्ते विश्वरूपिणि ॥ पुष्पाञ्जलिं स० ॥ दामोदरि नमस्तेऽस्तु नमस्ते लोकनायके । नमस्तेऽस्तु महादेवि त्राहि मां परमेश्वरि ॥ दीनोऽहं पापयुक्तोऽहं दारिद्रयैकनिकेतन: । समुद्धर कृपासिन्धो कामान्मे सफलान्कुरु ॥ अवैधव्यं च मे देहि सौख्यं सौभाग्यमेव च । पुत्रान्देहि धनं देहि सर्वान्कामांश्च देहि मे ॥ प्रार्थयामि ॥ आवाहनं ० ॥ मन्त्रही० । यस्य स्मृ० । अनेन मया कृतेन षोडशोपचारपूजनाख्येन कर्मणा श्रीउपाङ्गललितादेवता प्रीयताम् ॥ अद्य०र्थं पूजासाङ्गतासिध्यर्थं ब्राह्मणाय विंशतिसङ्खयाकवायनदानं करिष्ये । तदङ्गत्वेन ब्राह्मणपू० । गन्धा:पान्तु० ॥ स्वस्त्यस्तु दी० । वायनदानमन्त्र:-उपाङ्गललितादेव्या व्रतसम्पूर्णहेतवे । वायनं द्विजवर्याय सहिरण्यं ददाम्यहम् ॥ इदं विंशतिसङ्खयाकापूपवायनं सफलं सदक्षिणाकं अमुकशर्मणे ब्राह्मणाय तुभ्यमहं सम्प्रददे । प्रति०, प्रति० । अनेन वायनदानाख्येन कर्मणा तेन श्रीउपाङ्गललितादेवता प्रीयताम् ॥ तत: कथां श्रुत्वा विंशतिसङ्ख याकैरपूपैर्बान्धवैर्ब्राह्मणै: सह स्वयं भुञ्जीत । ततो रात्रौ नृत्यगीतादिपुर:सरं जागरणं कुर्यात् । प्रभाते देवीं पञ्चोपचारै: पूजयित्वा, विसर्जयेत् । सवाहना शक्तियुता वरदा पूजिता मया । मातर्मामनुगृह्याथ गम्यतां निजमन्दिरम् ॥ इति ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP