संस्कृत सूची|पूजा विधीः|प्रातिवर्षिकपूजाकथासङ्ग्रह:|द्वितीयो भागः|अथ त्र्प्राश्विनमास:| सरस्वतीस्थापनपूजाविधि: अथ त्र्प्राश्विनमास: देवीनवरात्रारम्भ: उपाङ्गललिताव्रताङ्गपूजाविधि: उपाङ्गललिताकथा सरस्वतीस्थापनपूजाविधि: घटध्मानमहालक्ष्मीव्रतविधि: कूष्माण्डबलिदानविधि: नवरात्रोत्थापनविधि: कार्तिकमासकृत्यानि धात्रीपूजाविधि: लक्ष्मीन्द्रपूजनविधि: कोजागरव्रताङ्गलक्ष्मीन्द्रपूजाविधि: कोजागरव्रतकथाप्ररम्भ: गोपूजनविधि: नरकचतुर्दश्यामभ्यङ्गस्नानविधि: लक्ष्मीकुबेरपूजाविधि: आश्विनमास: - सरस्वतीस्थापनपूजाविधि: सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची. Tags : poojavratपूजाव्रतसंस्कृत सरस्वतीस्थापनपूजाविधि: Translation - भाषांतर ॥ अथ सरस्वतीस्थापनपूजाविधि: ॥आश्विनशुक्लपक्षे मूलस्य प्रथमपादे सूर्यारतात् प्राक् त्रिमुहूर्तव्यापिनि सररवत्या आवाहनम् ॥ तदसम्भवे द्वितीयादिपादे परदिने वा । एवं पूर्वाषाढादिनक्षत्रं पूजादौ दिनव्याप्येव ग्राह्यम् ॥ विसर्जनं तु श्रवणप्रथमपादे सार्धप्रहरपर्यन्तं रात्रिगतेऽपि कार्यम् । तदसम्भवे परदिने द्वितीयादिपादेऽपि । तत्र भद्रपीठे सर्वाणि पुस्तकानि आहृत्य स्थापयेत् ।आचम्य देशकालौ सङ्कीर्त्य, मम सरस्वतीप्रीतिद्वारा मूलनक्षत्रे पुस्तकेषु सरस्वत्यावाहनं पञ्चोपचारपूजनं च करिष्ये । अत्रागच्छ जगद्वन्द्ये सर्वलोकैकपूजिते । मया कृतामिमां पूजां गृहाण जगदीश्वरि । प्रणोदेवी स० ॥ श्रीसरस्वत्यै नम: सरस्वतीं साङ्गां सपरिवारां सायुधां सशक्तिकां आवाहयामि ॥ ॐ सरस्वत्यै नम: इति नाममन्त्रेण गन्धादिपञ्चोपचारपूजां कुर्यात् । अनेन सरस्वत्यावाहनेन श्रीसरस्वती प्रीयताम् ॥पूर्वाषाढानक्षत्रे विधिवन्मङ्गलस्नानं कृत्वा क्षौमवस्त्रं परिधाय नित्यकर्म समाप्य गुरूणां वन्दनं कृत्वा मण्डपं प्रविश्य पूजामारभेत । आचम्य देशकालौ सङ्कीर्त्य, मम श्रीसरस्वतीप्रीतिद्वारा सर्वशास्त्रार्थविज्ञानकवितापुत्रपौत्राद्यभिवृद्धिधनधान्यादिसम्पत्तिकीर्तिप्राप्त्यर्थं परत्रमोक्षार्थं च पूर्वाषाढानक्षत्रे पुस्तकेषु यथामिलितषोडशोपचारद्रव्यै: पुराणोक्तमन्त्रै: सरस्वतीपूजनं करिष्ये । तदङ्गत्वेन गणपतिपूजनमासनविध्यादिपूजासम्भारप्रोक्षणान्तं कृत्वा ध्यायेत् । प्रणवासनसंरूढां तदर्थत्वेन निश्चिताम् । अङ्कुशं चाक्षसूत्रं च पाशपुस्तकधारिणीम् ॥१॥मुक्ताहारसमायुक्तां मोदरूपां मनोहराम् । सितेन दर्पणाभेन वक्त्रेण परिशीभिताम् ॥२॥सुस्तनीं वेदमध्यान्तां चन्द्रार्धकृतशेखराम् । जटाकलापसंयुक्तां पूर्णचन्द्रनिभाननाम् ॥३॥त्रिलोचनां महादेवीं स्वर्णनूपुरधारिणीम् । कटकै: स्वर्णरत्नाढयैर्महावलयशोभिताम् ॥४॥कम्बुकण्ठीं सुताम्रोष्ठीं सर्वाभरणभूषिताम् । केयूरैर्मेखलाद्यैश्च द्योतयन्तीं जगत्त्त्रयम् । शब्दब्रह्मारणिं ध्यायेद्धयानकाम: समाहित: ॥५॥श्रीसरस्वत्यै नम: सरस्वतीं ध्यायामि । अनेकरत्नसंयुक्तं सुवर्णेन विराजितम् । मुक्तामण्यङकितं चारु चासनं ते ददाम्यहम् ॥ आसनं० ॥ गन्धपुष्पाक्षतै: सार्धं शुद्धतोयेन संयुतम् । शुद्धस्फटिकतुल्याङ्गि पाद्यं ते प्रति० ॥ पाद्यं० ॥भक्ताभीष्टप्रदे देवि देवदेवादिवन्दिते । आधारादि जगद्धात्रि ददाम्यर्ध्यं गृहाण मे ॥ अर्ध्यं० ॥पूर्णचन्द्रसमास्पे त्वं कोटिसूर्यसमप्रभे । भक्त्या समर्पितं वाणि गृहाणाचमनीयकम् ॥ आचमनीयं० ॥कमलभवनजाये कोटिसूर्यप्रकाशे शिवदशुचिविलासे कोमलाहारयुक्ते । दधिमधुघृतयुक्तं क्षीररम्भाफलाढयं शुचि रुचि मधुपर्क गृह्यतां देववन्द्ये ॥ मधुपर्कं० ।दधि क्षीरं घृतोपेतं शर्करामधुसंयुतम् । पञ्चामृतस्नानमिदं स्वीकृरुष्व महेश्वरि ॥ पञ्चामृतस्नानं० ॥ सुवर्णकलशानीतैर्नानागन्धसुवसितै: । शुद्धोदकस्नानमिदं स्वीकुरुष्व सुरेश्वरि ॥ शुद्धांदकस्नानं० । पञ्चोपचारपूजां कृत्वा सरस्वतीसूक्तेनाभिषेक: । शुक्लवस्त्रद्वयं देवि कोमलं कुटिलालके । भक्त्या मयार्पितं वाणि ब्रह्माणि प्रतिगृ० ॥ वाग्देव्यै नम: वस्त्रयुग्मं० ॥ आचमनीयं० ॥ शब्दब्रह्मारणे देवि शब्दशास्त्रकृतालये । ब्रह्मसूत्रं गृहाण त्वं ब्रह्मशक्रादिपूजिते ॥ ब्रह्माण्यै० यज्ञोपवीतं० ॥ आचमनं० ॥ कटकमुकुटहारैर्नूपुरैरङ्गदाद्यैर्विविधसुमणियुक्तैर्मेखलामुक्तहारै: कमलदलविलासे कामदात्रि गृहीष्व प्रकटितकरुणार्द्रे भूरिशी भूषणानि ॥ लोकमात्रे नम: आभरणानि सौभाग्यद्रव्याणि स० ॥ चन्दनागरुकस्तूरीकर्पूराद्यैश्च संयुतम् । गन्धं गृहाण वरदे विधिपत्नि नमोऽस्तु ते ॥ गम्भीरावर्तनायै० चन्दनं० ॥ अक्षतान्धवलान् दिव्यान् शालितण्डुलनिर्मितान् । गृहाण वरदे देवि ब्रह्मशक्ति शुभाक्षतान् ॥ चारुवेण्यै० अक्षतान् स० ॥ नद्यावर्तादिपुष्पैश्च मल्लिकाभिर्मनोहरै: । करवीरैर्मनोरम्यैर्बकुलै: केतकै: शुभै: ॥ पुन्नागैर्जातिकुसुमैर्मन्दारैश्च सुशोभितै: । नीलोत्पलै: शुभैश्चान्यैस्तत्कालतरुसम्भवै: ॥ प्रकल्पितानि माल्यानि गृहाणामरवन्दिते ॥ निखिलार्थदायै० पुषाणि स० ॥॥ अथाङ्गपूजा ॥१. ब्रह्माण्यै० पादौ पू० ।२. ब्रह्मण्यमूर्तये० गुल्फौ० ।३. जगत्स्वरूपायै० जङ्घे० ।४. जयदादये० जानुनी० ।५. चारुविलासिन्यै० उरू० ।६. कमलभूतये० कटी० ।७. जन्मंहीनायै० जधनं० ।८, गम्भीरनाभव० नाभिं० ।९. वारिपूज्यायै० उदरं० ।१०. लोकमात्रे० स्तनौ० ।११. विशालवक्षसे० वक्ष:० ।१२. सुविपश्चिते० कण्ठं पू० ।१३. स्कन्दप्रपूज्यायै० स्कन्धौ० ।१४. दीर्वसुबाहवे० बाहू० ।१५. पुस्तकधारिण्यै० हनुं० ।१६. श्रोत्रियजम्भवे०श्रोत्रे० ।१७. वेदस्वरूपायै० वक्त्रं० ।१८. सुनासायै० नासिकां० ।१९. बिम्बसमानोष्ठयै० औष्ठौ० ।२०. कमलचक्षुषे० नेत्रे० ।२१. तिलकधारिण्यै० भालं० ।२२. चन्द्रमूर्तये० केशान्० ।२३. सर्वेश्वर्यौसरस्वत्यै० शिर:० ।२४. ब्रह्मरूपिण्यै० सर्वाङ्गं पू० ।दशाङ्गं गुग्गुलोपेतं सुगन्धं च मनोहरम् । धूपं गृहाण कल्याणि भक्तिं मय्यचलां कुरु ॥ श्रीवाण्यै० ॥ धूपं० । घृताक्तवर्तित्रितयैर्दीपितं दीपम्बिके । गृहाण चित्स्वरूपे त्वं कमलासनवल्लभे ॥ वागीश्वर्यै० दीपं० ॥ अपूपान्विविधान् स्वादून् शालिपिष्टोपयाचितान् । मृदुलान् गुडसंमिश्रान् सजीरकमरीचिकान् ॥ कदलीपनसाम्राणां सुपक्वानि फलानि च । कन्दमूलव्यञ्जनादि सोपदंशं मनोहरम् । अन्नं चतुर्विधोपेतं क्षीरान्नं सघृतं दधि ॥ चित्स्वरूपायै० नैवेद्यं० । शीतोदकं च सुस्वादु कर्पूरैलादिवासितम् । मध्ये मध्ये गृहाणेदं कामधेनुशताधिके ॥ कमलासनवल्लभायै० पानीयं० । उत्तरापोशनं० । हस्तप्र० । मुखप्रक्षालनं० । करोद्वर्तनार्थे चन्दनं० । ताम्बूलं च सकर्पूरं पूगनागदलैर्युतम् । गृहाण देवि देवेशि तत्त्वरूपे नमोऽस्तु ते । विश्वमूर्त्यै० ताम्बूलं० । इदं फलं० फलं० ॥ हिरण्यगर्भ० दक्षिणां । नीराजनं गृहाण त्वं जगदानन्ददायिनि । जगत्तिमिरमार्तण्डमण्डले ते नमो नम: ॥ नीराजनं० । ज्ञानानन्दैकहेतवे० कर्पूरदीपं० । शारदे लोकमातस्त्वमाश्रिताभीष्टदायिनि । पुष्पाञ्जलिं गृहाणेमं मया भक्तिसमर्पितम् ॥ पुष्पाञ्जलिं० । तत: शिष्यादियुत: यानि कानि० प्रदक्षिणां कृत्वा, पाहि पाहि जगद्वन्द्ये नमस्ते भक्तवत्सले । नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमो नम: ॥ नमस्कारं कुर्यात् ॥ तत: प्रार्थयेत्-पाशाङ्कुशधरा वाणी वीणापुस्तकधारिणी । मम वक्त्रे वसेन्नित्यं दुग्धकुन्देन्दुनिर्मला ॥ चतुर्दशसु विद्यासु रमते या सरस्वती । चतुर्दशसु लोकेषु यैवैका पूज्यपादुका ॥ आवाहनं० इत्यादि प्रार्थयेत् । यस्य स्मृत्या० । अनेन मया कृतेन पूजनेन श्रीसरस्वती प्रीयताम् ।तत: विप्राग्रे चतुर्दशलङ्डुकान् तुतसंपृक्तान् दक्षिणाताम्बूलसहितान् निधाय वायनं दद्यात् । पूजासाङ्गतासिध्यर्थं ब्राह्मणाय लड्डुकवायनदानं ब्राह्मणपूजनं च करिष्ये । गन्धा: पान्तु०, स्वस्त्यस्तु दीर्घ० । सरस्वति नमस्तुभ्यं वरदे भक्तवत्सले । उपायनं प्रदास्यामि विद्यावृद्धिं कुरुष्व मे ॥ भारती प्रतिगृह्लाति भारतीयं ददाति च । भारती तारकोभाभ्यां भारत्यै ते नमो नम: ॥ इदं चतुर्दशसङ्ख्याकलड्डुकवायनं सघृतं सदक्षिणाकं सताम्बूलं अमु० ब्राह्म० तुभ्य० । प्रति०, प्रति० । अनेन वायनदानेन श्रीसरस्वती प्रीयताम् ॥तत: उत्तराषाढासु बलिदानं तदङ्गत्वेन पूजनं करिष्ये । पञ्चोपचारै: सम्पूज्य, सरस्वत्यै साङ्गायै सपरिवारायै सायुधायै सशक्तिकायै इमं यथासोपस्करबलिं समर्पयामि । तेन श्रीसरस्वती प्रीयताम् ॥तत: श्रवणे विसर्जनं कर्तुं आदौ तदङ्गत्वेन पूजनं करिष्ये । पञ्चोपचारै: सम्पूज्य, उतिष्ठब्रह्मण० इति उत्थापयेत् ॥ इति सरस्वतीपूजाविधि: ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP