संस्कृत सूची|पूजा विधीः|प्रातिवर्षिकपूजाकथासङ्ग्रह:|द्वितीयो भागः|अथ त्र्प्राश्विनमास:| घटध्मानमहालक्ष्मीव्रतविधि: अथ त्र्प्राश्विनमास: देवीनवरात्रारम्भ: उपाङ्गललिताव्रताङ्गपूजाविधि: उपाङ्गललिताकथा सरस्वतीस्थापनपूजाविधि: घटध्मानमहालक्ष्मीव्रतविधि: कूष्माण्डबलिदानविधि: नवरात्रोत्थापनविधि: कार्तिकमासकृत्यानि धात्रीपूजाविधि: लक्ष्मीन्द्रपूजनविधि: कोजागरव्रताङ्गलक्ष्मीन्द्रपूजाविधि: कोजागरव्रतकथाप्ररम्भ: गोपूजनविधि: नरकचतुर्दश्यामभ्यङ्गस्नानविधि: लक्ष्मीकुबेरपूजाविधि: आश्विनमास: - घटध्मानमहालक्ष्मीव्रतविधि: सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची. Tags : poojavratपूजाव्रतसंस्कृत घटध्मानमहालक्ष्मीव्रतविधि: Translation - भाषांतर ॥ घटध्मानमहालक्ष्मीव्रतविधि: ॥आश्विनशुक्लाष्टम्यां चित्तपावनप्रसिद्धोऽयमाचार: । अन्न पूजाजागरणं च प्रधानम् । अष्टमी चार्धरात्रव्यापिनी ग्राह्या, शिष्टाचारात् । तत्र विवाहोत्तरप्रथमाश्चिनशुक्लाष्टम्यां प्रातस्तिलामलकपूर्वकमभ्यङ्गस्नानं विधाय नूतने श्वेतवाससी परिधाय मध्याह्ने मिलिता: सौभाग्यवत्यस्त्रिय: जलाशयसमीपस्था: क्षुद्रा: शिला: विवाहात् प्रथमवर्षादिक्रमेण तत्सङ्ख्याका आनीय तत्र महालक्ष्मीं आवाह्य तत्समीपे षोडशतन्तुमयं कुङ्कुमाक्तं दोरकं निर्माय वर्षादिसङ्ख्यया ग्रन्थियुतं कृत्वा तत्सहितां महालक्ष्मीं सम्पूज्य, तण्डुलपिष्टनिर्मितान् षोडशदीपान् पिण्डीश्च भक्षयेयु: । तत: रात्रौ कद्लीस्तम्भमण्डिते तोरणाद्यलङ्कृते पीठे धान्यपूरितभाण्डोपरि तण्डुलपिष्टमयीं शिरोमात्रां महालक्ष्मीप्रतिमां संस्थाप्य तां भूषणादिभिरलङ्कृत्य पञ्चोपचारपूजां कृत्वा श्रृङ्गाटकान् नारिकेलखण्डान् ताम्बूलानि च समर्प्य स्वयं भक्षयित्वा तद्दोरकं वामकरे बध्वा तत्पुरत: घटं धूपयित्वा तदध्मानपूर्वकं गीतनृत्यादिना निशीथपर्यन्तं जागरणं कुर्यु: । तत: प्रभाते पञ्चोपचारपूजां कृत्वा दधिभक्तनैवेद्यं समर्प्य दोरकं उत्तार्य तां प्रतिमां क्षुद्रा: शिलाश्च यांतुदेवेति विसृज्य नद्यां क्षिपेयु: । तद्दोरकं संरक्ष्य तदुत्तराष्टमीचतुर्दशीद्वये दोरकं पञ्चोपचारै: सम्पूज्य, षोडशार्घ्यान् दत्वा षोडश नमस्कारान् कृत्वा तद्दोरकं नद्यां विसृजेयु: । एवं पञ्चवर्षपर्यन्तं कुर्यु: ॥प्रथमे वत्सरे व्रतग्रहणसङ्कल्प: । भर्ता पत्न्यासहोपविश्य, आचम्य देशकालौ सङ्कीर्त्य, मम सपत्नीकस्य पुत्रपोत्राद्यैहिकनानाविधभोगप्राप्तिपूर्वकअवैधव्यप्राप्तये च श्रीघटध्मानमहालक्ष्मीप्रीत्यर्थं पञ्चवर्षपर्यन्तं घटध्मानमहालक्ष्मीव्रतग्रहणं करिष्ये ॥ अथ पूजाविधि: ॥ आचम्य देशकालौ सङ्कीर्त्य, हस्तेऽक्षतोदकं गृहीत्वा, मम इह जन्मनि जन्मान्तरेण च अखण्डितसुखसौभाग्यावाप्त्यर्थं पुत्रपौत्राद्यभिवृद्धये अवैधव्यायुरारोग्यैश्वर्याद्यभीष्टसकलसिद्धिद्वारा श्रीमहालक्ष्मीप्रीत्यर्थं मया आचरितपञ्चवर्षात्मकघटध्मानमहालक्ष्मीव्रताङ्गत्वेन विहितंयथामिलितषोडशोपचारद्रव्यै: पुराणोक्तमन्त्रै: दोरकसहितमहालक्ष्मीपूजनमहं करिष्ये । आदौ निर्विघ्नतासिध्यर्थं महागणपतिपूजन कलशघण्टापूजनं च करिष्ये । गणपतिं कलशं घण्टां च सम्पूज्य, अपवित्र: प० पूजासम्भारान् प्रोक्ष्य महालक्ष्मीदोरकं आवाह्य पूजयेत् ॥ अथ ध्यानम् ॥ शारदेन्दुकलाकान्तिस्निग्धनेत्रां चतुर्भुजाम् । पद्मयुग्मामभपदां वरव्यग्रकराम्बुजाम् । अभितो गजयुग्मेन सिच्यमानां घटाम्बुभि: ॥ श्रीमहालक्ष्मै नम: महालक्ष्मीं ध्यायामि ॥ महालक्ष्मि समागच्छ पद्मनाभपदादिह । पञ्चोपचारपूजेयं त्वदर्थं देवि संभृता ॥ आवाहनं० ॥ आलयस्ते हि कथित: कमलं कमलालये । विमले कमले ह्यस्मिन् स्थितिं त्वं कमले कुरु ॥ आसनं० ॥ गङ्गादिसलिलाधारं तीर्थमन्त्राभिमन्त्रितम् । दूरयात्राश्रमहरं पाद्यं मे प्रति० ॥ पाद्यं० ॥ निधीनां सर्वरत्नानां त्वमनर्ध्यगुणा ह्यसि । तथापि भक्तिसंयुक्तं गृहाणार्ध्यं नमोऽस्तु ते ॥ अर्ध्यं० ॥ आचम्य जगदाधारे सिद्धिलक्ष्मि जगत्प्रिये । चपले देवि ते दत्तं तोयं गृह्ल नमोऽस्तु ते ॥ आचमनीयं० ॥ इदं तव महालक्ष्म्या: कर्पूरागरुवासितम् । तीर्थेभ्य: सुसमानीतं स्नानार्थं प्रति० ॥ स्नानं० ॥ पयो दधि घृतं क्षौद्रं सितया च समर्पितम् । स्नानं पञ्चामृतेनाद्य कुरु देवि दयानिधे ॥ पञ्चामृतस्नानं० ॥ आचमनीयं० ॥ अभ्यङ्गार्थं मयाऽऽनीतं तैलं पुष्पादिवासितम् । प्रयत्नेनार्जितं शुद्धं महालक्ष्मी गृहाण भो: ॥ सुगन्धतैलस्नानं० ॥ अङ्गोद्वर्तनकं देवि कस्तूर्या कुङ्कुमेन च । अन्यै: सुगन्धद्रव्यैश्च निर्मितं प्रतिगृ० ॥ अङ्गोद्वर्तनकं० । नानातीर्थादाहृतं च तोयमुष्णं मया कृतम् । स्नानार्थं च मया दत्तं गृह्य० ॥ उष्णोदकस्नानं० ॥ नाममन्त्रेण पञ्चोपचारपूजां कृत्वा, सुरास्त्वेत्यादिनाऽभिषेक: । तन्तुसन्तानसंसिद्धं कलाकौशेयकल्पितम् । सर्वाङ्गाभरणं श्रेष्ठं वसनं परिधीयताम् ॥ वस्त्र० ॥ मुक्तामणिगणोपेतामनर्ध्यां च सुखप्रदाम् । कञ्चुकीं ते सुखस्पर्शां ददामि हरिवल्लभे ॥ कञ्चुकीं० ॥ कण्ठसूत्रं ताडपत्रं हरिद्रां कुङ्कुमाञ्जनम् । सिन्दूरादि प्रदास्यामि सौभाग्यं देहि मेऽव्ययम् ॥ सौभाग्यद्रव्याणि स० । हारकङ्कणकेयूरमेखलाकुण्डलानि च । रत्नाढयं मुकुटोपेतं भूषणानि प्रगृह्यताम् ॥ आभूषणानि स० ॥ मलयाचलसम्भूतं नानापन्नगसेवितम् । शीतलं बहुलामोदं चन्दनं प्रति० ॥ चन्दनं० ॥ अक्षतानरविन्दाक्षि नक्षत्रेण सहोदरि । माणिक्यप्रतिमा:पद्मे गृहाण त्वं मयार्पितान् ॥ अक्षतान्० ॥ मिलत्परिमलामोदं मत्तालिकुलसङ्कुलम् । आनन्दि नन्दनोद्यानं पद्मायै कुसुमं नम: ॥ पुष्पाणि० ॥॥ अथाङ्गपूजा ॥१. लक्ष्म्यैनम: पादौ पूजयामि ।२. पद्मायै नम: गुल्फौ पूज० ।३. कमलायै न० जानुनी पू० ।४. हरिप्रियायै न० उरू पू० ।५. इन्दिरायै न० कटी पूज० ।६. मङ्गलायै० नाभिं पू० ।७. मन्मथवासि० स्तनौ पू० ।८. क्षमायै० हृदयं पू० ।९. क्षीराब्धितनयायै० कण्ठं पू० ।१०. उमायै नम: नेत्रे पू० ।११. रमायै नम: शिर: पू० ।१२. श्रीमहालक्ष्म्यै० सर्वाङ्गं पू० ।॥ पत्रपूजा ॥१. महालक्ष्म्यै० अपामार्गप० ।२. गौर्यै नम: दूर्वापत्रं० ।३. पार्वत्यै न० धत्तूरपत्रं० ।४. जगद्धात्र्यै० बिल्वपत्रं० ।५. जगत्प्रतिष्ठा० चम्पकपत्रं० ।६. शान्तिरूपिण्यै० सेवन्तिकाप० ।७. देव्यै नम: सिन्दूरपत्रं० ।८. लोकवन्द्यायै० जातीपत्रं० ।९. काल्यै न० अशोकप० ।१०. शिवायै० शमीपत्रं० ।११. भवान्यै० कदलीपत्रं० ।१२. इन्द्राण्यै० बदरीपत्रं० ।१३. शर्वाण्यै० करवीरपत्रं० ।१४. मङ्गलायै० बकुलपत्रं० ।१५. पुत्रदायिन्यै० अगस्तिपत्रं० ।१६. भक्तवत्सलायै० तुलसीपत्रं ।॥ अथ षोडशदूर्वापत्रपूजा ॥१. श्रियै नम: दूर्वापत्रं० ।२. लक्ष्म्यै नम: दूर्वापत्रं० ।३. कालिकायै नम: दूर्वापत्रं० ।४. ,महाकाल्यै नम: दूर्वापत्रं० ।५. विकराल्यै नम: दूर्वापत्रं० ।६. त्रैलोक्यजनन्यै नम: दूर्वापत्रं० ।७. एकनाथायै नम: दूर्वापत्रं० ।८. रेणुकायै नम: दूर्वापत्रं० ।९. राममात्रे नम: दूर्वापत्रं० ।१०. शिवायै नम: दूर्वापत्रं० ।११. भूतनाथायै नम: दूर्वापत्रं० ।१२. भक्तवत्सलायै नम: दूर्वापत्रं० ।१३. भवान्यै नम: दूर्वापत्रं० ।१४. सिद्धेश्वयैं नम: दूर्वापत्रं० ।१५. विश्वरूपिण्यै नम: दूर्वापत्रं० ।१६. शिवायै नम: दूर्वापत्रं० ।गन्धसम्भारसन्नद्धं कस्तूरीमोदसम्भवम् । सुरासुरनरानन्दि धूपं देवि गृहाण मे ॥ धूपमा० ॥ मार्तण्डमण्डलाखण्डचन्द्रबिम्बाग्नितजसाम् । निधानं देवि दीपोऽयं निर्मितस्तव भक्तित: ॥ दीपं द० ॥देवतालयपातालभूतलाधारधान्यजम् । षोडशाकारसम्भारं नैवेद्यं ते नम: श्रिये ॥ नैवेद्यं स० ॥ मध्येपानीयं । उ०, ह०, मु० । सुगन्धद्रव्यसंयुक्तं सुवासितजगत्त्रयम् । करोद्वर्तनकं मातर्गृहा० ॥ करोद्वार्तनं स० ॥ बीजपूराम्रपनसखर्जूरीदलसंयुतम् । नारिकेलफलं दिव्यं गृहाण कमलालये ॥ फलानि स० ॥पातालतलसम्भूतं वदनाम्भोजभूषणम् । नानागुणसमाकीर्णं ताम्बूलं देवि ते नम: ॥ ताम्बूलं० ॥सुवर्णं सर्वधातूनां श्रेष्ठं देवि प्रियं सदा । भक्त्या ददामि वरदे स्वर्णवृष्टिं प्रदेहि मे ॥ दक्षिणां० ॥सुरासुरशिरोंरत्नप्रभानीराजितक्रमे । रूपसाम्राज्यसंसिध्यै कुर्वे नीराजनं विधिम् ॥ आर्तिक्यदीपं द० ॥ कर्पूरनिर्मितं दीपं स्वर्णपात्रे निवेशितम् । नीराजनं मया दत्तं गृहा० ॥ कर्पूरदीपं द० ॥ कायवाङमानसं पापं यत्कृतं जन्मजन्मनि । तन्मे नाशय देवि त्वं प्रदक्षिणविधानत: ॥ प्रदक्षिणां स० ॥ या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम: ॥ नमस्कारान्० ॥ पारिजातादिजातीयं नानाकुसुमसञ्चयम् । अर्पयेऽनल्पसंसिध्यै पूजासम्पूर्णताकृते ॥ पुष्पाजलिं स० ॥ विष्णोर्वक्षसि पद्मे च शङ्खे चक्रे तथाम्बरे । लक्ष्मीर्नित्या यथासि त्वं मयि नित्या तथा भव ॥ प्रार्थनां० । तत: तद्दोरकं ताम्रपात्रे निधाय तदुपरि गन्धाक्षतोदकफलपुष्पहिरण्यसहितान् षोडशार्ध्यान्दद्यात् । तत्र मन्त्र:-महालक्ष्मि जगन्मात: सुखसौभाग्यदायिनि । महालक्ष्मि जगन्नाथे अर्ध्यं गृह्ण नमोऽस्तु ते ॥ श्रीमहालक्ष्म्यै नम: इदमर्ध्यं स० इति मन्त्रेण षोडशार्ध्यान् दद्यात् । षोडशनमस्कारांश्च कुर्यात् । यस्प स्मृ० । अनेन मया कृतेन पूजनेन श्रीमहालक्ष्मी प्रीयताम् ॥ पूजासाङ्गतासिध्यर्थं ब्राह्मणाय सौभाग्यवायनदानं ब्राह्मणपूजनं च करिष्ये । इदमर्ध्यं० अस्त्व० स्वस्त्यस्तु, दी० । उपायनमिदं तुभ्यं व्रतसम्पूर्णहेतवे । वाणकं द्विजवर्याय सहिरण्यं ददाम्यहम् ॥ इदं सौभाग्यवायनदानं सदक्षिणाकं सताम्बूलं अमुकशर्मणे ब्रा० प्र०, प्र,० । अनेन वायनदानेन श्रीमहालक्ष्मी प्रीयताम् ॥ तत: सायङ्काले पिष्टमय्या महालक्ष्म्या: पञ्चोपचारपूजां कृत्वा, मधुकै: शङ्खपुष्पैश्च शतपत्रैर्विचित्रिताग् । पुष्पमालां प्रयच्छामि गुहाण परमेश्वरि ॥ इति पुष्पमालां समर्प्य, घटं धूपयित्वा, दोरकं बामकरं बध्वा प्रार्थयेत्-स्तुतिभि: सह दिव्याभि: सहितं नर्तितं मया । नृत्यं सकल्पितं भक्त्या गृहाण परमेश्वरि ॥ घटध्मानं निशीथपर्यन्तं कुर्यु: । तत: प्रात: पञ्चोपचारपूजां कृत्वा दधिभक्तनैवेद्यं समर्प्य यान्तुदेवेतिविसृज्य, प्रतिमां शिलाश्च नद्यां क्षिपेयु: । दोरकमुत्तार्य संरक्ष्य स्थापयेयु: । यस्प स्मृत्या० । अनेन घटध्मानमहालक्ष्मीव्रताख्येन कर्मणा महालक्ष्मी प्रीयताम् ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP