प्रेमलीलाविहाराणां सम्यग्विस्तारिका सखी ।
विश्रम्भरत्नपेटी च ततः सुष्थु विविच्यते ॥१॥
एकयूथानुषक्तानां सखीनां एव मध्यतः ।
अधिकादेर्भिदा ज्ञेया प्रखरादेश्च पूर्ववत् ॥२॥
प्रेमसौभाग्यसाद्गुण्याद्याधिक्यादधिका सखी ।
समा तत्साम्यतो ज्ञेया तल्लघुत्वात्तथा लघुः ॥३॥
दुर्लङ्घ्यवाक्यप्रखरा प्रख्याता गौरवोचिता ।
तदूनत्वे भवेन्मृद्वी मध्या तत्साम्यं आगता ॥४॥
आत्यन्तिकाधिकत्वादिभेदः पूर्ववदत्र सः ।
स्वयूथे यूथनाथैव स्यादत्रात्यन्तिकाधिका ।
सा क्वापि प्रखरा यूथे क्वापि मध्या मृदुः क्वचित् ॥५॥
तत्र आत्यन्तिकाधिकात्रिकम्
तत्त्रिकं सकलापेक्ष्यं नातीवान्यवशं तथा ।
स्वयूथे तद्व्यवहृतिव्यक्तये पुनरुच्यते ॥६॥
तत्र आत्यन्तिकाधिकप्रखरा
नीले नीलनिचोलं अर्थये मघे देहि स्रजं दामनीं
त्वं कालागुरुकर्दमैः सखि तनुं लिम्पस्व चम्पे मम ।
जानीहि भ्रमराक्षि कुत्र गुरवः पश्य प्रदोषोद्गमे
कुञ्जाभिक्रमणाय मां त्वरयते स्फारान्धकारावली ॥७॥
अधिकप्रखराः श्यामामङ्गलाद्याः प्रकीर्तिताः ॥८॥
तत्र आत्यन्तिकाधिकमध्या
अनङ्गशरजर्जरं स्फुटति चेन्मनो वस्तदा
मदर्थनकदर्थनैः कृतं इतः स्वयं गच्छत ।
दृशां पथि भवादृशीप्रणयितानुरूपः सुखं
यदत्र रतहिण्डकः स किल पाति गोमण्डलम् ॥९॥
भवन्त्यधिकमध्यास्तु श्रीराधापालिकादयः ॥१०॥
तत्र आत्यन्तिकाधिकमृद्वी
शृणु सखि वचस्तथ्यं मानग्रहे मम का क्षतिः
स्फुरति मुरलीनादे को वा श्रमः श्रवणावृतौ ।
अतिकठिनतादुर्वादं ते निशम्य मया व्रजे
दमयितुं अमुं किन्तु क्षिप्रं दृगर्धं अघद्विषि ॥११॥
अधिका मृदवश्चन्द्रावलीभद्रादयो मताः ॥१२॥
अथ आपेक्षिकाधिकात्रिकम्
यौथिकीषु सखीष्वेव यूथेशातो लघुष्विह ।
याधिकैकां अपेक्षान्या सा स्यादापेक्षिकाधिका ॥१३॥
तत्र अधिकप्रखरा
सुमध्ये मा यासीस्त्वं अधिकं अमीभिर्मृदुलतां
मदस्योपादानैः शठकुलगुरोर्जल्पमधुभिः ।
अयि क्रीडालुब्धे किं उ निभृतभृङ्गेन्द्रभणिते
कुडुङ्गे राधायाः क्लमं अपि विसस्मार भवती ॥१४॥
यथा वा
मुग्धे तूष्णीं भव शठकलामण्डलाखण्डलेन
त्वं मन्त्रेण स्फुटं इह वशीकृत्य तेनानुशिष्टा ।
कुञ्जे गोवर्धनशिखरिणो जागरेणाद्य राधां
दृष्ट्वाप्युच्चैः सखि यदसि मे चाटुवादे प्रवृत्ता ॥१५॥
ललिताद्यास्तु गान्धर्वायूथेऽत्र प्रखराधिकाः ॥१६॥
अथ अधिकमध्या
दामार्प्यतां प्रियसखीप्रहितां त्वयैव
दामोदरे कुसुमं अत्र मयावचेयं ।
नाहं भ्रमाच्चतुरिके सखि सूचनीया
कृष्णः कदर्थयति मां अधिकं यदेषः ॥१७॥
यथा वा
गीरो गम्भीरार्थाः कथं इव हितास्ते न शृणुयां
निगूढो मां किन्तु व्यथयति मुरारेरविनयः ।
मयोल्लासात्तस्मै स्वयं उपहृता हन्त सखि या
कुरङ्गाक्षीकेशोपरि परिचिता सा स्रगधुना ॥१८॥
अत्र यूथे विशाखाद्या भवन्त्यधिकमध्यमाः ॥१९॥
अथ अधिकमृद्वी
दरापि न दृगर्पिता सखि शिखण्डचूडे मया
प्रसीद बत मा कृथा मयि वृथा पुरोभागितां ।
नटन्मकरकुण्डलं सपदि चण्डि लीलागतिं
तनोत्ययं अदूरतः किं इह संविधेयं मया ॥२०॥
अधिका मृदवश्चात्र चित्रा मधुरिकादयः ॥२१॥
अथ समात्रिकम्
गाढविश्रम्भनिर्भेदप्रेमबन्धं समात्रिकम् ॥२२॥
तत्र समप्रखरा
प्रविशति हरिरेष प्रेक्ष्य नौ हृष्टचेताः
सखि सपदि मुधा त्वं सम्भ्रमान्मा प्रयासीः ।
पृथुभुजपरिघाभ्यां स्कन्धयोरर्पिताभ्यां
तटभुवि सुखं आवां मण्डिते पर्यटावः ॥२३॥
अथ सममध्या
श्यामे गौरि हरिः क्व दीव्यति सखि क्षौणीभृतः कन्दरे
किं पञ्चास्यनखाः स्वविक्रममधुर्वक्षोजकुम्भे तव ।
आकर्षत्यभितः स नागमथनस्त्वां एव कृत्वा रवं
मिथ्यालास्यनटि त्वं एव रमसे तस्मिन्सुकण्ठिरवे ॥२४॥
अथ सममृद्वी
प्रालम्बं इन्दुमुखि यादृशं एव दत्तं
कृष्णेन तुभ्यं अपरं सखि तादृशं मे ।
त्वं चेन्मदीयं अपि दित्ससि नाद्य मा दा
हास्यं विमुञ्च चलिता तव पार्श्वतोऽस्मि ॥२५॥
अथ लघुत्रिकम्
लघुत्रिकं प्रियसखीसौख्योत्कर्षार्थचेष्टितम् ॥२६॥
यदप्यन्योन्यनिष्ठं स्यात्सख्यं तदपि युज्यते ।
सदा साहाय्यहेतुत्वान्मुख्यं तत्तु लघुत्रिके ॥२७॥
लघुरापेक्षिकी चात्यन्तिकी चेति द्विधेरिता ॥२८॥
तत्र आपेक्षिकलघुः
आपेक्षिकलघुश्चात्र कथिता ललितादिका ॥२९॥
तत्र लघुप्रखरा, यथा विदग्धमाधवे
धारा बाष्पमयी न याति विरतिं लोकस्य निमित्सतः
प्रेमास्मिन्निति नन्दनन्दनरतं लोभोन्मना मा कृथाः ।
इत्थं भूरि निवारितापि तरले मद्वाचि साचीकृत
भ्रूद्वन्द्वा न हि गौरवं त्वं अकरोः किं नाद्य रोदिष्यसि ॥३०॥
सा लघुप्रखरा द्वेधा भवेद्वामाथ दक्षिणा ॥३१॥
तत्र वामा
मानग्रहे सदोद्युक्ता तच्छैथिल्ये च कोपना ।
अभेद्या नायके प्रायः क्रूरा वामेति कीर्त्यते ॥३२॥
तत्र मानग्रहे सदोद्युक्ता, यथा पद्यावल्यां
कञ्चन वञ्चनचतुरे
प्रपञ्चय त्वं मुरान्तके मानं ।
बहुवल्लभे हि पुरुषे
दाक्षिण्यं दुःखं उद्वहति ॥३३॥
मानशैथिल्ये कोपना, यथा
सरभसं अभिव्यक्तिं याते नवाविनयोत्करे
चटुपटिमभिर्नीता मृद्वी प्रसादं अघद्विषा ।
असरलसखीचिल्लीव्यालीपरिभ्रमकम्पिता
विमुखितमुखी भूयो भद्रा हठाद्भ्रुकुटिं दधे ॥३४॥
नायकाभेद्या, यथोद्धवसन्देशे
कामं दूरे वसतु पटिमा चाटुवृन्दस्तत्रायं
राज्यं स्वामिन्विरचय मम प्राङ्गणं मा प्रयासीः ।
हन्त क्लान्ता मम सहचरी रात्रिं एकाकिनी इयं
नीता कुञ्जे निखिलपशुपीनागरोज्जागरेण ॥३५॥
नायके क्रूरा, यथा दानकेलिकौमुद्यां
अमूर्व्रजमृगेक्षणाश्चतुरशीतिलक्षाधिकाः
प्रतिस्वं इति कीर्तितं सवयसा तवैवामुना ।
इहापि भुवि विश्रुता प्रियसखी महार्घ्येत्यसौ
कथं तदपि साहसी शठ! जिघृक्षुरेनां असि ॥३६॥
यूथेऽत्र वामप्रखरा ललिताद्याः प्रकीर्तिताः ॥३७॥
अथ दक्षिणा
असहा माननिर्बन्धे नायके युक्तवादिनी ।
सामभिस्तेन भेद्या च दक्षिणा परिकीर्तिता ॥३८॥
तत्र माननिर्बन्धासहा, यथा श्रीगीतगोविन्दे
स्निग्धे यत्परुषासि प्रणमति स्तब्धासि यद्रागिणि
द्वेषस्थासि यदुन्मुखे विमुखतां यातासि तस्मिन्प्रिये ।
तद्युक्तं विपरीतकारिणि तव श्रीखण्डचर्चा विषं
शीतांशुस्तपनो हिमं हुतवहः क्रीडामुदो यातनाः ॥३९॥
नायके युक्तवादिनि, यथा पद्यावल्यां
अदोषाद्दोषाद्वा त्यजति विपिने तां यदि भवान्
अभद्रं भद्रं वा त्रिभुवनपते त्वां वदतु कः ।
इदं तु क्रूरं मे स्मरति हृदयं यत्किल तया
त्वदर्थं कान्तारे कुलतिलक नात्मापि गणितः ॥४०॥
नायकभेद्या, यथा
न व्यर्थां कुरुषे ममैव भणितिं मध्ये सखीनां इति
श्रुत्वा ख्यातिं असौ कृती मधुरिपुर्मां बाढं आशिश्रिये ।
दृष्ट्वा मद्वदनं प्रसीद रभसादेनं पुरः कातरं
कल्याणीभिरलं कृशोदरि दृशोर्भङ्गीभिरङ्गीकुरु ॥४१॥
तुङ्गविद्यादिका चात्र दक्षिणप्रखरा भवेत् ॥४२॥
अथ लघुमध्या
त्वया रचितसंकथां पथि समीक्ष्य मां मानिनी
सखी मम विषण्णधीः कृतकटाक्षं आक्षेप्यति ।
व्रजाधिपतिनन्दन त्वं अवधेहि मन्त्रं ब्रुवे
विनात्र ललिताश्रयं भवदुपक्रमोऽयं वृथा ॥४३॥
अथ लघुमृद्वी
सखि तव मुहुर्मूर्ध्ना पादग्रहोऽपि मया कृत
स्तदपि च हरौ जातासि त्वं प्रसादपराङ्मुखी ।
भवतु यमुनातीरे वेणोरुदञ्चति पञ्चमे
विचलितधृतिस्त्वं लोलाक्षी मयापि हसिष्यसे ॥४४॥
अथ आत्यन्तिकलघुः
आत्यन्तिकलघुस्तत्र प्रोक्ता कुसुमिकादिका ।
सर्वथा मृदुरेवेयं यन्नितान्तलघीयसी ॥४५॥
यथा
वन्दे सुन्दरि सन्दिश प्रियसखीं मानं विमुञ्चत्वसौ
सोत्कण्ठापि मनस्विनीव वसति त्वच्छङ्कया वेश्मनि ।
दूरे त्वन्मुखं ईक्षते हरिरियं मौनं शुकः शिक्षते
लास्यं नेच्छति चन्द्रकी सवयसः क्वासीमित्न स्वं विदुः ॥४६॥
प्रखरादिष्वन्यतमा यूथेशैकैव कीर्तिता ।
मध्यस्था नवधैवन्त्या समा लघुरिति द्विधा ॥४७॥
एकैकस्मिन्नतो यूथे भिदा द्वादशधा भवेत् ।
अथ दूत्यार्थं एतासां विशेषः पुनरुच्यते ॥४८॥
दूत्यं अत्र तु तद्दूराद्यूनोर्यदभिसारं ।
तत्र तु प्रथमा नित्यनायिकावात्र कीर्तिता ॥४९॥
स्युर्नायिकाश्च सख्यश्च तिस्रो मध्यस्थितास्ततः ॥५०॥
तत्राद्या नायिकाप्राया द्वितीया द्विसमा ततः ।
तृतीया तु सखीप्राया नित्यसख्येव पञ्चमी ॥५१॥
आद्यायां निखिलाः सख्यो दूत्य एव न नायिकाः ।
पूर्वोक्ता नायिका एव पञ्चम्यां न तु दूतिकाः ॥५२॥
तत्र नित्यनायिका
यात्र यूथेश्वरी प्रोक्ता सा भवेन्नित्यनायिका ।
अपेक्ष्यत्वादतीवास्या मुख्यं दूत्यं न विद्यते ॥५३॥
स्वयौथिक्यसखीमध्ये या यत्रातीव रागिणी ।
नियुक्तैरस्ति तद्दूत्ये सुष्ठु सा यूथमुख्यया ।
तथापि प्रणयां क्वापि कदाचिद्गौणं ईक्ष्यते ॥५४॥
दूरे गतागतं ऋते यद्दूत्यं गौणं अत्र तत् ।
गौणं हरेः समक्षं च परोक्षं चेति तद्द्विधा ॥५५॥
तत्र समक्षम्
साङ्केतिकं वाचिकं च समक्षं द्विविधं मतम् ॥५६॥
तत्र साङ्केतिकम्
तत्राद्यं स्याद्दृगन्ताद्यैः कृष्णं प्रेर्य स्वनिह्नुतिः ॥५७॥
यथा
प्रियसखि विदितं ते कर्म यत्प्रेरयन्ती
त्वं अघदमनं अक्ष्णा क्षिप्त्रं अन्तर्हितासि ।
अहह न हि लताः स्युस्तत्र चेत्कण्टकिन्यो
मम गतिरभविष्यत्तत्करात्का न वेद्मि ॥५८॥
इदं अधिकमृद्वीदूत्यं
अथ वाचिकम्
मिथः पुरो वा पश्चाद्वा वाक्यं एकत्र वाचिकम् ॥५९॥
तत्र मिथः पुरः कृष्णे वाचिकम्
मयापलपनं कियत्त्वयि करिष्यते या सखी
ममानिशं उपेन्द्र ते कुसुममञ्जरीर्लुञ्चति ।
इयं गुणवती करे तव विधृत्य दत्ताद्य सा
यथेच्छसि तथा कुरु स्वयं इतो गृहं गम्यते ॥६०॥
इदं अधिकप्रखरादूत्यं
कृष्णस्य पश्चात्सख्यं, यथा
मत्कण्ठादिह मौक्तिकानि विचिनु त्वं वीरुदारोधतः
स्रस्तान्येष किलास्ति माल्यरचनाव्यासक्तचित्तो हरिः ।
दिष्ट्या क्षेमं उपस्थितं सुमुखि नः सानौ यदस्य च्युतो
हस्ताद्वेणुरिति प्रयामि कपटान्निह्नोतुं एनं गिरौ ॥६१॥
इदं अधिकमध्यादूत्यं
सख्याः पश्चात्कृष्णे, यथा
विचकिलं अवचेतुं सा सखी मद्वचोभिः
कथं अपि तटपुष्पारण्यं एका गतास्ति ।
अघहर मम गेनाद्यान्तं अभ्यर्थये त्वां
पुनरियं अतिमुग्धा न त्वया खेदनीया ॥६२॥
अथ हरेः परोक्षम्
तत परोक्षं हरेः सख्याः सखीद्वारा यदर्पणं ।
व्यपदेशादिना वापि तत्पार्श्वे प्रेषणादिकम् ॥६३॥
तत्र सखीद्वारा, यथा
रुद्धां विद्धि गुरोर्गिरा शशिकलां आत्मद्वितीयां अत
स्त्वां उद्यम्य नयामि शर्मणि सदा जागर्ति ते राधिका ।
भृङ्गाः सुभ्रु तदङ्गसौरभभरैराकृष्यमाणाः क्रमात्
पन्थानं प्रथयन्ति ते कुरु पुरः कुञ्जप्रवेशे त्वराम् ॥६४॥
अथ व्यपदेशः
व्यपदेशो हरौ लेखोपायनाद्यर्पणक्रिया ।
निजप्रयोजनाश्चर्यदर्शनादिश्च कीर्तितः ॥६५॥
तत्र लेख्यव्यपदेशेन, यथा
दूतीपद्धतिं उद्धते परिहर त्वं साचि किं प्रेक्षसे
वामाक्षि स्वयं आहृतं प्रियसखीलेखं पुरो वाचय ।
शय्या पुष्पमयी निकुञ्जभवने सौरभ्यपुञ्जावृता
मृद्वी त्वां इयं आह्वयत्यलिघटा कोलाहलव्याजतः ॥६६॥
उपायनव्यपदेशेन, यथा
प्रसीद वसनाञ्चलं मम विमुञ्च निर्मञ्छनं
व्रजामि ननु निर्दय स्फुरति पश्य सन्ध्योर्जिता ।
विदत्यपि तवोन्नतं गुणं उपाहरं मन्दधीः
स्रजं प्रियसखीगिरा व्रजपते न ते दूषणम् ॥६७॥
निजप्रयोजनव्यपदेशेन, यथा
मुक्तावली निशि मया दयिता कदम्ब
बाटीकुटीरकुहरे सखि विस्म्.र्तास्ति ।
तां आहरेति व्.र्.सभानुजया नियुक्ता
तां प्रोज्झ्य किं शशिकले ग्.र्हं आगतासि ॥६८॥
आश्चर्यदर्शनव्यपदेशेन, यथा
सखि व्यालीं वक्त्रे द्युमणिपटलं कण्ठसविधे
दधच्चन्द्रान्मूर्धोपरि सकलरत्नानि वमति ।
अलिश्यामो हंसः स्फुटं इति मदुक्तासि चलिता
तदाश्चर्यं द्रष्टुं किं इव कुपितेवात्र मिलसि ॥६९॥
अथ नायिकाप्रायात्रिकम्
आपेक्षिकाधिकानां यत्तिसॄणां लघुषु स्फुटं ।
कदाचिदेव दूत्यं ता नायिकाप्रायिकास्ततः ॥७०॥
तत्र अधिकप्रखरादूत्यम्
पाणौ मे पतितासि शम्भलि चिरादत्याकुलं मा कृथाः
काकुं ते करवाणि निष्क्रयं अहं शीर्णाभिसारैः सदा ।
त्वं दिष्ट्यात्र निकुञ्जसीमनि समानीता किं उ स्तम्भसे
मुक्तास्त्वत्कुचकुम्भगाः क्षपतु श्यामः स सिंहीपतिः ॥७१॥
तत्र अधिकमध्यादूत्यम्
व्यथयसि सदा मां वाग्भङ्ग्या शनैरनुशिष्य यं
छलयसि च मां भ्रूनर्तक्या विनुद्य यं उद्धते ।
अहं इह वशीकृत्य स्वैरी मयाप्युपलम्भित
स्त्वयि वितनुतां कृष्णः पद्मी स पद्मिनि विभ्रमम् ॥७२॥
तत्र अधिकमृद्वीदूत्यम्
अनुदिनं अभिसारं कारितास्मि त्वयाहं
कुसुमितरविकन्यातीरवन्याकुटीषु ।
सकृदहं अकृतज्ञा त्वां पुरः कुञ्जमध्ये
यदियं उपनये का निष्कृतिस्ते ततोऽभूत् ॥७३॥
अथ द्विसमात्रिकम्
समानां प्रखरामध्यामृद्वीनां तु परस्परं ।
दूत्यं च नायिकात्वं च समं ता द्विसमास्ततः ॥७४॥
तत्र समप्रखरादूत्यम्
प्रागेकान्तरं एव निश्चितं अभूदन्योन्यदूत्यं हि नौ
वारस्तत्र तवायं अस्तु करवै दूत्यं तथाप्यद्य ते ।
भ्रूभङ्गं सखि मुञ्च मण्डय तनुं यद्याचते मां असौ
सव्या ते स्फुरती दृगद्य मृगये गोष्ठाङ्गने माधवम् ॥७५॥
अथ सममध्यादूत्यम्
त्वं न्यस्तासि मुरद्विषः शशिकले पाणौ मया गम्यते
दूती हन्त तवाहं एव कमले किं धिङ्मृषा जल्पसि ।
इत्यन्योन्यविक्षेपणप्रणयितामाधुर्यमुग्धो हरि
र्दोर्भ्यां ते हृदये निधाय युगपत्पश्योन्मदः खेलति ॥७६॥
यथा वा
क्व मालतिकयार्पिता चलसि माधवि त्वं मम
क्व माधविकयार्पिता त्वं अपि यास्यलं मालति ।
असम्भवसहोद्गमे रहसि कृष्णभृङ्गो युवा
युवां इह धयन्नयं वहतु कञ्चिदानन्दथुम् ॥७७॥
अतीवाभेदमधुरं सौहृदं सममध्ययोः ।
विरलं शक्यते ज्ञातुं किन्तु प्रेमविशेषिभिः ॥७८॥
अथ सममृद्वीदूत्यम्
द्रुतं अनुसरन्मन्दाराक्षीं मुकुन्द निवर्तय
व्रजति निभृतं या कुञ्जान्तःकुटीं उपनीय मां ।
इति तव सखीवाक्येन त्वां अहं सुखं आह्वये
स्फुरति हि मुहुर्मध्ये तिष्ठन्विधुः समतारयोः ॥७९॥
अथ सखीप्रायात्रिकम्
लघूनां प्रखरामध्यामृद्वीनां प्रायशः सदा ।
दूत्यं भवति तेनेमाः सखीप्रायाः प्रकीर्तिताः ॥८०॥
तत्र लघुप्रखरादूत्यं, यथा श्रीगीतगोविन्दे
त्वं चित्तेन चिरं वहन्नयं अतिश्रान्तो भृशं तापितः
कन्दर्पेण च पातुं इच्छति सुधासम्बाधबिम्बाधरं ।
अस्याङ्कं तदलङ्कुरु क्षणं इह भ्रूक्षेपलक्ष्मीलव
क्रीते दास इवोपसेवितपदाम्भोजे कुतः सम्भ्रमः ॥८१॥
अथ लघुमध्यादूत्यम्
किं इति कुटिलितभ्रूश्चण्डि वृत्ताद्य सद्य
स्त्वं इह कुसुमहेतोः सौहृदादाहृतासि ।
व्रजनरपतिपुत्रं सन्तं अन्तर्निलीय
प्रियसखि तटकुञ्जे हन्त जाने कथं वा ॥८२॥
अथ लघुमृद्वीदूत्यम्
कुञ्जगेहं अवगाह्य माधवं
सुप्तं अत्र सिचयेन वीजय ।
फुल्लं इन्दुकिरणैः कुमुद्वती
कोरकप्रकरं आहराम्यहम् ॥८३॥
आसां मध्ये भवेत्काचिन्नायिकात्वे दराग्रहा ।
तस्मिन्ननाग्रहा काचित्सख्यसौख्याभिलाषिणी ॥८४॥
तत्र आद्या, यथा
लेखां आहर नीपकुञ्जकुहरात्त्वं चन्द्रकाणां मया
न्यस्तानां इति मद्गिरा सरभसं स्मेरा स्वयं प्रस्थिता ।
तां उन्मुच्य मदीरितां शशिकले किं चन्द्रलेखाशतं
चेलेनावृतं अन्यदेव दधती लब्धासि नम्रा गृहम् ॥८५॥
द्वितीया, यथा
मां पुष्पाणां अवचयं इयाद्वृन्दशो मा प्रहैषी
र्वृन्दारण्ये परं इह भवद्दुःखभीत्या प्रयामि ।
सत्यं सत्यं सुमुखि सखितासौख्यतस्ते मम स्या
न्न स्वादीयानघविजयिनः केलिशय्याधिरोहः ॥८६॥
अथ नित्यसखी
सख्येनैव सदा प्रीता नायिकात्वानपेक्षिणी ।
भवेन्नित्यसखी सा तु द्विधैकात्यन्तिकी लघुः ।
आपेक्षिकलघूनां च मध्येऽन्या काचिदीरिता ॥८७॥
यथा
राधारङ्गलसत्त्वदुज्ज्वलकलासञ्चारणप्रक्रिया
चातुर्योत्तरं एव सेवनं अहं गोविन्द सम्प्रार्थये ।
येनाशेषवधूजनोद्भटमनोराज्यप्रपञ्चावधौ
नौत्सुक्यं भवदङ्गसङ्गमरसेऽप्यालम्बते मन्मनः ॥८८॥
यथा वा
त्वया यदुपभुज्यते मुरजिदङ्गसङ्गे सुखं
तदेव बहु जानती स्वयं अवाप्तितः शुद्धधीः ।
मया कृतविलोभनाप्यधिकचातुरीचर्यया
कदापि मणिमञ्जरी न कुरुतेऽभिसारस्पृहाम् ॥८९॥
तत्र तद्दूत्यं, यथा
अन्तः प्रविशति स सखी
कुप्यति मे कुञ्जदेहलीलीना ।
तदिमां भङ्गुरितभ्रुव
मनुनय वृन्दाटवीचन्द्र ॥९०॥
प्राख्यर्यं मार्दवं चापि यद्यप्यापेक्षिकं भवेत् ।
तथापि विस्तरभयात्तद्विशेषोऽत्र नेरितः ॥९१॥
प्राखर्यादिस्वभावोऽयं यथायथं उदीरितः ।
देशकालादिवैशिष्ट्ये स्यादस्यापि विपर्ययः ॥९२॥
तत्र प्राखर्यस्य विपर्ययो, यथा
ध्वान्तैर्गाढतमां तमीं अगणयन्वृष्टिं च धारामयीं
चण्डं चानिलमण्डलं सखि हरिद्वारं तवासौ श्रितः ।
हा क्रोधं विसृज प्रसीद तरसा कण्ठे गृहाण प्रियं
मूर्ध्नायं ललिताभिधस्तव पदं नत्वा जनो याचते ॥९३॥
मार्दवस्य विपर्ययो, यथा
गुणस्तवनकूटतः कुटिलधीः सखि त्वां असौ
कटाक्षितवती कथं तदपि नोज्झसि प्रश्रयं ।
रुषं कुरु करोषि चेन्मृदुतराद्य चित्राप्यसौ
विधास्यति तदौचितीं हिमघटेव पद्मोपरि ॥९४॥
दूत्यं तु कुर्वती सख्याः सखी रहसि सङ्गता ।
कृष्णेन प्रार्थ्यमानापि स्यात्कदापि न सम्मता ॥९५॥
यथा
दूत्येनाद्य सुहृज्जनस्य रहसि प्राप्तास्मि ते सन्निधिं
किं कन्दर्पधनुर्भयङ्करं अमुं भ्रूगुच्छं उद्यच्छसि ।
प्राणानर्पयितास्मि सम्प्रति वरं वृन्दाटवीचन्द्र ते
न त्वेतां असमापितप्रियसखीकृत्यानुबन्धां तनुम् ॥९६॥
मिथः प्रेमगुनोत्कीर्तिस्तयोरासक्तिकारिता ।
अभिसारो द्वयोरेव सख्याः कृष्णे समर्पणम् ॥९७॥
नर्माश्वासननेपथ्यं हृदयोद्घाटपाटवं ।
छिद्रसंवृतिरेतस्याः पत्यादेः परिवञ्चना ॥९८॥
शिक्षा सङ्गमनं काले सेवनं व्यजनादिभिः ।
तयोर्द्वयोरुपालम्भः सन्देशप्रेषणं तथा ।
नायिकाप्राणसंरक्षा प्रयत्नाद्याः सखीक्रियाः ॥९९॥
तत्र कृष्णे सखीप्रेमोत्कीर्तिः, यथा पद्यावल्यां
मुरहर साहसगरिमा
कथं इव वाच्यः कुरङ्गशावाक्ष्याः ।
खेदार्णवपतितापि
प्रेममधुरां ते न सा त्यजति ॥१००॥
सख्यां कृष्णप्रेमोत्कीर्तिः, यथा तत्रैव
केलिकलासु कुशला नगरे मुरारेर्
आभीरनीरजदृशः कति वा न सन्ति ।
राधे त्वया महदकारि तपो यदेष
दामोदरस्त्वयि परं परमानुरागः ॥१०१॥
तत्र तस्या गुणोत्कीर्तिः, यथा
निनिन्दि निजं इन्दिरा वपुरवेक्ष्य यस्याः श्रियं
विचार्य गुणचातुरीं अचलजा च लज्जां गता ।
अघार्दन त्वया विना जगति क्वानुरूपास्ति ते
परं परमदुर्लभा मिलतु कस्य सा मे सखी ॥१०२॥
तस्यां तस्य गुणोत्कीर्तिः, यथा ललितमाधवे
महेन्द्रमणिमण्डली[#१]मदविडम्बिदेहद्युतिर्
व्रजेन्द्रकुलचन्द्रमाः[#२] स्फुरति कोऽपि नव्यो युवा
सखि स्थिर[#३]कुलाङ्गनानिकरनीविबन्धार्गल
च्छिदाकरणकौतुकी जयति यस्य वंशीध्वनिः ॥१०३॥
कृष्णे सख्या आसक्तिकारिता, यथा विदग्धमाधवे (२.१०)
सा सौरभोर्मिपरिदिग्धदिगन्तरापि
बन्ध्यं जनुः सुतनु गन्धफली बिभर्ति ।
राधे न बिभ्रमभरः क्रियते यदङ्के
कामं निपीतमधुना मधुसूदनेन ॥१०४॥
तस्यां तस्यासक्तिकारिता, यथा
यद्येतस्यां वरपरिमलारब्धविश्वोत्सवायां
न त्वं कृष्णभ्रमर रमसे राधिकां अल्पिकायां ।
अर्थः को वा नवतरुणिमोद्भासिनस्ते ततः स्याद्
वृन्दाटव्यां इह विहरणप्रक्रियाचातुरीभिः ॥१०५॥
कृष्णस्याभिसारणं, यथा
अवरुद्धसुधांशुवैभवं
विनुदन्तं सखि सर्वतोमुखं ।
इह कृष्णघनं प्रगृह्य तं
ललिताप्रावृडियं समागता ॥१०६॥
सख्या अभिसारणं, यथा श्रीगीतगोविन्दे
त्वद्वाम्येन समं समग्रं अधुना तिग्मांशुरस्तं गतो
गोविन्दस्य मनोरथेन च समं प्राप्तं तमः सान्द्रतां ।
कोकानां करुणस्वनेन सदृशी दीर्घमदभ्यर्थना
तन्मुग्धे विफलं विलम्बनं असौ रम्योऽभिसारक्षणः ॥१०७॥
कृष्णे सख्याः समर्पणं, यथा
तदन्तरं उपासितुं कमलयोनिं ईजुर्गुणा
यदङ्गं उपसेवितुं तरुणिमापि चक्रे तपः ।
नवप्रणयमाधुरीप्रमदमेदुरेयं सखी
मयाद्य भवतः करे मुरहरोपहारीकृता ॥१०८॥
नर्म, यथा विदग्धमाधवे
देहं ते भुवनान्तरालविरलच्छायाविलासास्पदं
मा कौतूहलचञ्चलाक्षि लतिकाजाले प्रवेशं कृथाः ।
नव्यां अञ्जनपुञ्जमञ्जुलरुचिः कुञ्जेचरी देवता
कान्तां कान्तिभिरङ्कितां इह वने निःशङ्कं आकर्षति ॥१०९॥
आश्वासनं, यथा
मा गाः क्लमं सखि मुहुर्वृषभानुपुत्रि
भानुं प्रतीहि चरमाचलचङ्क्रमोत्कं ।
आनन्दयन्नयनं उद्धुरधेनुधूली
ध्वान्तं विधूय विधुरेष पुरोज्जिहीते ॥११०॥
नेपथ्यं, यथा
हृदयोद्घाटपाटवं, यथा
यथा वा
छिद्रसंवृतिर्, यथा विदग्धमाधवे
मुदा क्षिप्तैः पर्वोत्तरलहृदयाभिर्युवतिभिः
पयःपूयैः पीतीकृतं अतिहरिद्राद्रवमयैः ।
दुकूलं दोर्मूलोपरि परिदधानां प्रियसखीं
कथं राधां आर्ये कुटिलितदृगन्तं कलयसि ॥११४॥
पत्यादेः परिवञ्चना, यथा
शिक्षा, यथा
यथा वा
अथ काले सङ्गमनं, यथा
अथ व्यजनादिना सेवा, यथा
अथ तयोर्द्वयोरुपालम्भः । तत्र हरेरुपालम्भो, यथा
सख्या उपालम्भो, यथा
अथ सन्देशप्रेषणं, यथा हंसदूते
त्वया गोष्ठं गोष्ठीतिलक किल चेद्विस्मृतमिदं
न तूर्णं धूमोर्णापतिरपि विधत्ते यदि कृपां ।
अहर्वृन्दं वृन्दावनकुसुमपालीपरिमलैर्
दरालोकं शोकास्पदमिव कथं नेष्यति सखी ॥१२२॥
अथ नायिकाप्राणसंरक्षाप्रयत्नो, यथा
त्वां आयान्तं कथयसि मृषा कुर्वती दिव्यं उग्रं
मूर्च्छारम्भे तव मणिमयीं दर्शयत्याशु मूर्तिं ।
वन्ये वेणौ ध्वन्ति मरुता कर्णरोधं विधत्ते
रक्षत्यस्याः कथं अपि तनुं माधवी यादवेन्द्र ॥१२३॥
इति सखीक्रियाप्रकरणं ।
अथासां अपरः कोऽपि विशेषः पुनरुच्यते ।
असमं च समं चेति स्नेहं सख्यं स्वपक्षगाः ।
कृष्णे यूथाधिपायां च वहन्त्यो द्विविधा मताः ॥१२४॥
अथ असमस्नेहाः
अधिकं प्रियसख्यास्तु हरौ तस्यां ततस्तथा ।
वहन्त्यः स्नेहं असमस्नेहास्तु द्विविधा मताः ॥१२५॥
तत्र हरौ स्नेहाधिकाः
अहं हरेरिति स्वान्ते गूढानभिमतिं गताः ।
अन्यत्र क्वाप्यनासक्त्या स्वेष्टां यूथेश्वरीं श्रिताः ॥१२६॥
मनागेवाधिकं स्नेहं वहन्त्यस्तत्र माधवे ।
तद्दूत्यादिरताश्चेमा हरौ स्नेहाधिका मताः ॥१२७॥
यथा
न मे चेतस्यन्यद्वचसि पुनरन्यं कथं अपि
स्थवीयान्मानस्ते सखि मयि सुखं प्रथयति ।
रवेस्तापेनेव क्षणं उदयता येन जनितो
बकारेर्वक्त्रेन्दुच्छविशवलिमा मां ग्लपयति ॥१२८॥
यथा वा
सुरकुलं अखिलं प्रणम्य मूर्ध्ना
प्रवरं अमुं वरं अर्थये वराङ्गि ।
मुहुरभिमतसेवया यथाहं
सुबलसखं सुखयामि राधिकां च ॥१२९॥
याः पूर्वं सख्य इत्युक्तास्तास्तु स्नेहाधिका हरौ ॥१३०॥
अथ प्रियसख्यां स्नेहाधिकाः
तदीयताभिमानिन्यो याः स्नेहं सर्वदाश्रिताः ।
सख्यां अल्पाधिकं कृष्णात्सखीस्नेहाधिकास्तु ताः ॥१३१॥
यथा
विरमतु तव वृन्दे दूत्यचातुर्यचर्या
सहचरि विनिवृत्य ब्रूहि गोष्ठेन्द्रसूनुं ।
विषमविषधरेयं शर्वरी प्रावृषेण्या
कथं इह गिरिकुञ्जे भीरुरेषा प्रहेया ॥१३२॥
यथा वा
वयं इदं अनुभूय शिक्षयाम
कुरु चतुरे सह राधयैव सख्यं ।
प्रियसहचरि यत्र बाढं अन्त
र्भवति हरिप्रणयप्रमोदलक्ष्मीः ॥१३३॥
याः पूर्वं प्राणसख्यश्च नित्यसख्यश्च कीर्तिताः ।
सखीस्नेहाधिका ज्ञेयास्ता एवात्र मनीषिभिः ॥१३४॥
अथ समस्नेहाः
कृष्णे स्वप्र्यसख्यां च वहन्त्यः कं अपि स्फुटं ।
स्नेहं अन्यूनताधिक्यं समस्नेहास्तु भूरिशः ॥१३५॥
यथा
विना कृष्णं राधा व्यथयति समन्तान्मम मनो
विना राधां कृष्णोऽप्यहह सखि मां विक्लवयति ।
जनिः सा मे मा भूत्क्षणं अपि न यत्र क्षणदुहौ
युगेनाक्ष्णोर्लिह्यां युगपदनयोर्वक्त्रशशिनौ ॥१३६॥
तुल्यप्रमाणकं प्रेम वयन्त्योऽपि द्वयोरिमाः ।
राधाया वयं इत्युच्चैरभिमानं उपाश्रिताः ।
परमप्रेष्ठसख्यश्च प्रियसख्यश्च ता मताः ॥१३७॥
इति श्रीश्रीउज्ज्वलनीलमणौ सखीभेदप्रकरणं ॥८॥