नायकभेदप्रकरणम्
रूपगोस्वामी ह्या महान विद्वानाने रचलेला महान् ग्रंथ उज्ज्वलनीलमणिः होय.
नामाकृष्टरसज्ञः शीलेनोद्दीपयन्सदानन्दं ।
निजरूपोत्सवदायी सनातनात्मा प्रभुर्जयति ॥१॥
मुख्यरसेषु पुरा यः संक्षेपेणोदितो रहस्यत्वात् ।
पृथगेव भक्तिरसराट्स विस्तरेणोच्यते मधुरः ॥२॥
वक्ष्यमाणैर्विभावाद्यैः स्वाद्यतां मधुरा रतिः ।
नीता भक्तिरसः प्रोक्तो मधुराख्यो मनीषिभिः ॥३॥
तत्र विभावेष्वालम्बनाः
अस्मिन्नालम्बनाः प्रोक्ताः कृष्णस्तस्य च वल्लभाः ॥४॥
पदद्युतिविनिर्धुतस्मरपरार्धरूपोद्धतिर्
दृगञ्चलकलानटीपटिमभिर्मनोमोहिनी ।
स्फुरन्नवघनाकृतिः परमदिव्यलीलानिधिः
क्रियात्तव जगत्त्रयीयुवतिभाग्यसिद्धिर्मुदम् ॥५॥
अयं सुरम्यो मधुरः सर्वसल्लक्षणान्वितः ।
वलीयान्नवतारुण्यो वावदूकः प्रियंवदः ॥६॥
सुधीः सप्रतिभो धीरो विदग्धश्चतुरः सुखी ।
कृतज्ञो दक्षिणः प्रेमवश्यो गम्भीराम्बुधिः ॥७॥
वरीयान्कीर्तिमान्नारीमोहनो नित्यनूतनः ।
अतुल्यकेलिसौन्दर्यप्रेष्ठवंशीस्वनाङ्कितः ॥८॥
इत्यादयोऽस्य शृङ्गारे गुणाः कृष्णस्य कीर्तिताः ।
उदाहृतिरमीषां तु पूर्वं एव प्रदर्शिता ॥९॥
पूर्वोक्तधीरोद्दात्तादिचतुर्भेदस्य तस्य तु ।
पतिश्चोपपतिश्चेति प्रभेदाविह विश्रुतौ ॥१०॥
तत्र पतिः
उक्तः पतिः स कन्याया यः पाणिग्राहको भवेत् ॥११॥
यथा
रुक्मिणं युधि विजित्य रुक्मिणीं
द्वारकां उपगमय्य विक्रमी ।
उत्सवोच्छलितपौरमण्डलः
पुण्डरीकनयनः करेऽग्रहीत् ॥१२॥
यथा वा
कलितयुगलभावः क्वापि वैदर्भ्यपुत्र्या
मखभुवि कृतदीक्षो दक्षिणार्थान्ददानः ।
विहरति हरिरुच्चैः सत्यया दीयमानः
क्वचिदलं अलसाङ्गः पुण्यके नारदाय ॥१३॥
यथा वा
कात्यायनि महामाये
महायोगिन्यधीश्वरि ।
नन्दगोपसुतं देवि
पतिं मे कुरु ते नमः ॥१४॥
इति सङ्कल्पं आचेरुर्या गोकुलकुमारिकाः ।
तास्वेव कियतीनां तु पतिभावो हरावभूत् ॥१५॥
मूलमाधवमाहात्म्ये श्रूयते तत एव हि ।
रुक्मिण्युद्वाहतः पूर्वं तासां परिणयोत्सवः ॥१६॥
अथोपपतिः
रागेणोल्लङ्घयन्धर्मं परकीयाबलार्थिना ।
तदीयप्रेमवसतिर्बुधैरुपपतिः स्मृतः ॥१७॥
यथा पद्यावल्यां (२०५)
संकेतीकृतकोकिलादिनिनदं कंसद्विषः कुर्वतो
द्वारोन्मोचनलोलशङ्खवलयक्वाणं मुहुः शृण्वतः ।
केयं केयं इति प्रगल्भजरतीवाक्येन दूनात्मनो
राधाप्राङ्गणकोणकोलिविटपिक्रोडे गता शर्वरी ॥१८॥
अत्रैव परमोत्कर्षः शृङ्गारस्य प्रतिष्ठितः ॥१९॥
तथा च मुनिः
बहु वार्यते खलु यत्र प्रच्छन्नकामुकत्वं च ।
या च मिथो दुर्लभता सा मन्मथस्य परमा रतिः ॥२०॥
लघुत्वं अत्र यत्प्रोक्तं तत्तु प्राकृतनायके ।
न कृष्णे रसनिर्यासस्वादार्थं अवतारिनि ॥२१॥
तथा च प्राञ्चः
शृङ्गाररससर्वस्वं शिखिपिच्छविभूषणं ।
अङ्गीकृतनराकारं आश्रये भुवनाश्रयम् ॥२२॥
अनुकूलदक्षिणशठा धृष्टश्चेति द्वयोरथोच्यन्ते ।
प्रत्येकं चत्वारो भेदा युक्तिभिरमी वृत्त्या ॥२३॥
शाठ्यधार्ष्ट्ये परं नाट्यप्रोक्ते उपपतेरुभे ।
कृष्णे तु सर्वं नायुक्तं तत्तद्भावस्य सम्भवात् ॥२४॥
तत्रानुकूलः
अतिरक्ततया नार्यां त्यक्तान्यललनास्पृहः ।
सीतायां रामवत्सोऽयं अनुकूलः प्रकीर्तितः ॥२५॥
राधायां एव कृष्णस्य सुप्रसिद्धानुकूलता ।
तदालोके कदाप्यस्य नान्यासङ्गः स्मृतिं व्रजेत् ॥२६॥
वैदग्धीनिकुरम्बचुम्बितधियः सौन्दर्यसारोज्ज्वलाः
कामिन्यः कति नाद्य वल्लवपतेर्दीव्यन्ति गोष्ठान्तरे ।
राधे पुण्यवतीशिखामणिरसि क्षामोदरि त्वां विना
प्रेङ्खन्ती न परासु यन्मधुरिपोर्दृष्टात्र दृष्टिर्मया ॥२७॥
धीरोदात्तानुकूलो, यथा
कुवलयदृशः सङ्केतस्था दृगञ्चलकौशलैर्
मनसिजकलानाटीप्रस्तावनां अभितन्वतां ।
न किल घटते राधारङ्गप्रसङ्गविधायिता
व्रतविलसिते शैथिल्यस्य च्छटाप्यघविद्विषः ॥२८॥
धीरललितानुकूलो, यथा
गहनादनुरागतः पितृभ्याम्
अपनीतव्यवहारकृत्यभारः ।
विहरन्सह राधया मुरारिर्
यमुनाकूलवनान्यलंचकार ॥२९॥
धीरशान्तानुकूलो. यथा
ब्रध्नोपास्तिविधौ तव प्रणयितापूरेण वेशं गते
क्ष्मादेवस्य कथं गुणोऽप्यघरिपौ द्रागद्य संचक्रमे
बुद्धिः पश्य विवेककौशलवती दृष्टिः क्षमोद्गारिणी
वागेतस्य मृगाक्षि रूढविनया मूर्तिश्च धीरोज्ज्वला ॥३०॥
धीरोद्धतानुकूलो, यथा
सत्यं मे परिहृत्य तावकसखीं प्रेमावदातं मनो
नान्यस्मिन्प्रमदाजने क्षणं अपि स्वप्नेऽपि सङ्कल्पते ।
सारग्राहिणि गौरि सद्गुणगुरौ मुक्तव्यलीकोद्यमे
मुद्रां किं नु मयि व्यनक्षि ललिते गूढाभ्यसूयामयीम् ॥३१॥
अथ दक्षिणः
यो गौरवं भयं प्रेम दाक्षिण्यं पूर्वयोषिति ।
न मुञ्चत्यन्यचित्तोऽपि ज्ञेयोऽसौ खलु दक्षिनः ॥३२॥
यथा
तथ्यं चन्द्रावलि कथयसि प्रेक्ष्यते न व्यलीकं
स्वप्नेऽप्यस्य त्वयि मधुभिदः प्रेमशुद्धान्तरस्य ।
श्रुत्वा जल्पं पिशुनमनसां तद्विरुद्धं सखीनां
युक्तः कर्तुं सखि सविनये नात्र विश्रम्भभङ्गः ॥३३॥
यद्वा
नायिकास्वप्यनेकासु तुल्यो दक्षिण उच्यते ॥३४॥
यथा दशरूपके
स्नाता तिष्ठति कुन्तलेश्वरसुता वारोऽङ्गराजस्वसुर्
द्यूते रात्रिरियं जिता कमलया देवी प्रसाद्याद्य च ।
इत्यन्तःपुरसुन्दरीः प्रति मया विज्ञाय विज्ञापिते
देवेनाप्रतिपत्तिमूढमनसा द्वित्राः स्थितं नाडिकाः ॥३५॥
यथा वा
पद्मा दृग्भङ्गिरलं कलयति कमला जृम्भते साङ्गभङ्गं
तारा दोर्मूलं अल्पं प्रथयति कुरुते कर्णकण्डूं सुकेशी ।
शैव्या नीव्यां विधत्ते करं इति युगपन्माधवः प्रेयसीभिर्
भावेनाहूयमानो बहुशिखरमनाः पश्य कुण्ठोऽयं आस्ते ॥३६॥
शठः
प्रियं व्यक्ति पुरोऽन्यत्र विप्रियं कुरुते भृशं ।
निगूढं अपराधं च शठोऽयं कथितो बुधैः ॥३७॥
यथा
स्वप्ने व्यलीकं वनमालिनोक्तं
पालीत्युपाकर्ण्य विवर्णवक्त्रा ।
श्यामा विनिःश्वस्य मधुत्रियामां
सहस्रयामां इव सा व्यनैषीत् ॥३८॥
यथा वा
तल्पितेन तपनीयकान्तिना
कृष्ण कुञ्जकुहरेऽद्य वाससा ।
अभ्यध्यायि तव निर्व्यलीकता
मुञ्च सामपटलीपटिष्ठताम् ॥३९॥
अथ धृष्टः
अभिव्यक्तान्यतरुणीभोगलक्ष्मापि निर्भयः ।
मिथ्यावचनदक्षश्च धृष्टोऽयं खलु कथ्यते ॥४०॥
यथा
नखाङ्का न श्यामे घनघुसृणरेखाततिरियं
न लाक्षान्तःक्रुरे परिचिनु गिरेर्गैरिकं इदं ।
धियं धत्से चित्रं वत मृगमदेऽप्यञ्जनतया
तरुण्यास्ते दृष्टिः किं इव विपरीतस्थितिरभूत् ॥४१॥
उदात्ताद्यैश्चतुर्भेदैस्त्रिभिः पूर्णतमादिभिः ।
चतुर्विंशत्यात्मा पत्यादियुग्मतः ॥४२॥
नायकः सोऽनुकूलाद्यैः स्यात्षन्नवतिधोदितः ।
नोक्तो धूर्तादिभेदस्तु मुनेः सम्मत्यभावतः ॥४३॥
इति श्रीश्रीमदुज्ज्वलनीलमणौ नायकभेदप्रकरणं ॥१॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP