संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|उज्ज्वलनीलमणिः| यूथेश्वरीभेदप्रकरणं उज्ज्वलनीलमणिः नायकभेदप्रकरणम् नायकसहायभेदप्रकरणं श्रीहरिप्रियाप्रकरणम् श्रीराधाप्रकरणम् नायिकाभेदप्रकरणम् यूथेश्वरीभेदप्रकरणं सखीप्रकरणं हरिवल्लभाप्रकरणं उद्दीपनविभावप्रकरणं अनुभावप्रकरणं सात्त्विकप्रकरणं व्यभिचारिप्रकरणं स्थायिभावप्रकरणम् शृङ्गारभेदप्रकरणम् यूथेश्वरीभेदप्रकरणं रूपगोस्वामी ह्या महान विद्वानाने रचलेला महान् ग्रंथ उज्ज्वलनीलमणिः होय. Tags : rupagoswamiउज्ज्वलनीलमणिःरूपगोस्वामीसंस्कृत यूथेश्वरीभेदप्रकरणं Translation - भाषांतर एतासां यूथमुख्यानां विशेषो वर्णितोऽप्यसौ ।सुहृदादौ व्यवहृतिव्यक्तये वर्ण्यते पुनः ॥१॥सौभाय्गादेरिहाधिक्यादधिका साम्यतः समा ।लघुत्वाल्लघुरित्युक्तास्त्रिधा गोकुलसुभ्रुवः ॥२॥प्रत्येकं प्रखरा मध्या मृद्वी चेति पुनस्त्रिधा ॥३॥प्रगल्भवाक्या प्रखरा ख्याता दुलङ्घ्यभाषिता ।तदूनत्वे भवेन्मृद्वी मध्या तत्साम्यं आगता ॥४॥तत्र अधिकात्रिकम्आत्यन्तिकी तथैवापेक्षिकी चेत्यधिका त्रिधा ॥५॥सर्वथैवासमोर्धा या सा स्यादात्यन्तिकाधिका ।सा राधा स तु मध्यैव यन्नान्या सदृशी व्रजे ॥६॥तत्र आत्यन्ताधिकायथातावद्भद्रा वदति चटुलं फुल्लतां एति पालीशालीनत्वं त्यजति विमला श्यामलाहङ्करोति ।स्वैरं चन्द्रावलिरपि चलत्युन्नमय्योत्तमाङ्गंयावत्कर्णे न हि निविशते हन्त राधेति मन्त्रः ॥७॥अथ आपेक्षिकाधिकामध्ये यूथाधिनाथानां अपेक्ष्यैकतमां इह ।या स्यादन्यतमा श्रेष्ठा सा प्रोक्तापेक्षिकाधिका ॥८॥अथ अधिकप्रखरा, यथापश्य क्षौणीधरादुपैति पुरतः कृष्णो भुजङ्गाग्रणीस्तूर्णं भीरुभिरालिभिः समं इतस्त्वं याहि मन्त्रोज्झिते ।आचार्याहं अटामि भोगिरमणीवृन्दस्य वृन्दाटवींकिं नः कामिनि कार्मणेन वशतां नीतः करिष्यत्यसौ ॥९॥अथ अधिकमध्याआलीभिर्मे त्वं असि विदिता पूर्णिमाया प्रदोषेरोषेणासौ प्रथयसि कथं पाटवेनावहित्थां ।धृत्वा धूर्ते सहपरिजनां मद्गृहे त्वां निरुन्ध्यांवर्त्मप्रेक्षी गुणयतु स ते जागरं कुञ्जराजः ॥१०॥अथ अधिकमृद्वीन्यञ्चन्मूर्धा सह परिजनैर्दूरतो मा प्रयासीर्मां आलोक्य प्रियसखि यतः प्रेमपात्री ममासि ।माला मौलौ तव परिचिता मत्कलाकौशलाढ्याद्यूते जित्वा दनुजदमनं या त्वया स्वीकृतास्ति ॥११॥अथ समात्रिकम्साम्यं भवेदधिकयोस्तथा लघुयुगस्य च ॥१२॥तत्र समप्रखरान भवति तव पार्श्वे चेत्सखी कापि माभूत्परिहर हृदि कम्पं किं हरिस्ते विधाता ।अहं अतिचतुराभिर्वेष्टितालीघटाभिःप्रियसखि पुरतस्ते दुस्तरा बाहुदास्मि ॥१३॥अथ सममध्यालोले न स्पृश मां तवालिकतटे धातुर्यदालक्ष्यतेत्वं स्पृश्यासि कथं भुजङ्गरमणी दूरादतस्त्यज्यसे ।धिग्वामं वदसि त्वं एव कुहकप्रेष्ठासि भोगाङ्कितेयेनाद्य च्युतकञ्चुकाः शुषिरतःसख्योऽपि सर्पन्ति ते ॥१४॥अथ सममृद्वीप्रत्याख्यातु सुहृज्जनः कथं अयं ताराभिधत्ते गिरंप्राणास्त्वं हि ममोच्चकैरुरसि शपे धर्माय लीलावति ।किन्तु तां अहं अर्थये परं इदं कल्याणि तं वल्लभंस्वीयं शाधि यथा स गौरि सरले कुर्याज्जने न च्छलम् ॥१५॥यथा वाप्रहित्य कठिने निजं परिजनं मदार्या त्वयानिकामं उपजप्यतां किं उ विभीषिकाडम्बरैः ।व्रजामि रविजातटे गुरुगिरा मृषाशङ्किनि प्रदोषसमये समं सवयसा शिवां सेवितुम् ॥१६॥अथ लघुत्रिकम्लघुरापेक्षिकी चात्यन्तिकी चेति द्विधोदिता ॥१७॥तत्र आपेक्षिकी लघुःमध्ये यूथाधिनाथानां अपेक्ष्यैकतमां इह ।या स्यादन्यतमा न्यूना सा प्रोक्तापेक्षिकी लघुः ॥१८॥तत्र लघुप्रखरात्वं मिथ्यागुणकीर्तनेन चटुले वृन्दाटवीतस्करेगाढं देवि निबध्य मां किं अधुना तुष्टा तटस्थायसे ।हृत्वा धैर्यधनानि हन्त रभसादाच्छिद्य ह्रीवैभवंयेनायं सखि वञ्चितोऽपि बहुधा दुःखी जनो वञ्च्यते ॥१९॥अथ लघुमध्यागोष्ठाधीशसुतस्य सा नवनवप्रेष्ठस्य यावद्दृशोःपन्थानं वृषभानुजा सखि वशीकारौष्धिज्ञा ययौ ।तावत्त्वय्यपि कूर्क्षं अस्य बलवद्दाक्षिण्यं एवेक्ष्यते का चन्द्रावलि एवि दुर्भगतया दूनात्मनां नः कथा ॥२०॥अथ लघुमृद्वीअपसरणं इतो नः साम्प्रतं स्याद्यदपि हरिचकोरं चित्रं आलओचयामः ।कलयत सहचर्यः पर्यटद्गौरदीप्तिस्तटभुवि नवशोभां सौति चन्द्रावलीयम् ॥२१॥अथ आत्यन्तिकी लघुःअन्या यतोऽस्ति न न्यूना सा स्यादात्यन्तिकी लघुः ।त्रैविध्यसम्भवेऽप्यस्या मृदुतैवोचिता भवेत् ॥२२॥यथानिजनिखिलसखीनां आग्रहेणाघवैरीकथं अपि स मयाद्य व्यक्तं आमन्त्रितोऽस्ति ।क्षणं उरुकरुणाभिः संवरीतुं त्रपां मेमदुदवसितलक्ष्मीं गोष्ठदेव्यस्तनुध्वम् ॥२३॥न समा न लघुश्चाद्या भवेन्नैवाधिकान्तिमा ।अन्यास्त्रिधाधिकाश्च स्युः समाश्च लघवश्च ताः ॥२४॥विनात्यन्ताधिकां तेन सर्वासु लघुता भवेत् ।सर्वास्वधिकता च स्याद्विनैवात्यन्तिकीं लघुम् ॥२५॥आद्यैकैवान्तिमा द्वेधा मध्यस्था नवधोदिताः ।इत्यसौ यूथनाथानां भिदा द्वादशधोदिता ॥२६॥इति श्रीश्रीउज्ज्वलनीलमणौ यूथेश्वरीभेदप्रकरणं ॥६॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP