नायकसहायभेदप्रकरणं
रूपगोस्वामी ह्या महान विद्वानाने रचलेला महान् ग्रंथ उज्ज्वलनीलमणिः होय.
अथैतस्य सहायाः स्युः पञ्चधा चेटको विटः ।
विदूषकः पीठमर्दः प्रियनर्मसखस्तथा ॥१॥
नर्मप्रयोगे नैपुण्यं सदा गाढानुरागिता ।
देशकालज्ञता दाक्ष्यं रुष्टगोपीप्रसादनं ।
निगूढमन्त्रतेत्याद्याः सहायानां गुणाः स्मृताः ॥२॥
सन्धानचतुरश्चेटो गूढकर्मा प्रगल्भधीः ।
स तु भङ्गुरभृङ्गारादिकः प्रोक्तोऽत्र गोकुले ॥३॥
यथा
न पुनरिदमपूर्वं देवि कुत्रापि दृष्टं
शरदि यदियमारान्माधवी पुष्पिताभूत् ।
इति किल वृषभानोर्लम्भितासौ कुमारी
व्रजनवयुवराज व्याजतः कुञ्जवीथिम् ॥४॥
अथ विटः
वेशोपचारकुशलो धूर्तो गोष्ठीविशारदः ।
कामतन्त्रकलावेदी विट इत्यभिधीयते ।
कडारो भारतीवन्धुरित्यादिर्विट ईरितः ॥५॥
यथा
व्रजे सारङ्गाक्षीविततिभिरनुल्लङ्घ्यवचनः
सखाहं तद्बन्धोश्चटुभिरभियाचे मुहुरिदं ।
कलक्रीडद्वंशीस्थगितजगतीयौवतधृति
स्त्वया युक्तः श्यामे न खलु परिहर्तुं सखि हरिः ॥६॥
अथ विदूषकः
वसन्ताद्यभिधो लोलो भोजने कलहप्रियः ।
विकृताङ्गवचोवेषैर्हास्यकरी विदूषकः ।
विदग्धमाधवे ख्यातो यथासौ मधुमङ्गलः ॥७॥
यथा
तुष्टेन स्मितपुष्पवृष्टिरधुना सद्यस्त्वया मुच्यताम्
आरूढः कुतुकी विमानमतुलं मां गोकुलाखण्डलः ।
इथं देवि मनोरथेन रभसादभ्यर्थ्यमानो.अप्यसौ
यत्ते मानिनि नाधरः प्रयतते तन्नाद्भुतं रागिषु ॥८॥
यथा वा
ममोपहरति स्वयं भवदभीष्टदेवो नम
न्नवं कमलमुज्ज्वलं कमलबन्धुरुत्कण्ठया ।
मया तु तदवज्ञया भुवि निरस्यते रुष्यता
न मानयसि मद्वचस्तदपि मानिनि त्वं कुतः ॥९॥
अथ पीठमर्दः
गुणैर्नायककल्पो यः प्रेम्ना तत्रानुवृत्तिमान् ।
पीठमर्दः स कथितः श्रीदामा स्याद्यथा हरेः ॥१०॥
यथा
कालिन्दीपुलिने मुकुन्दचरितं विश्वस्य विस्मापनं
द्रष्टुं गच्छति गोष्ठमेव निखिलं नैकात्र चन्द्रावली ।
ब्रूमस्तस्य सुहृत्तमाः स्वयममी पथ्यञ्च तथ्यञ्च ते
मा गोवर्धनमल्ल घट्टय मुधा गोवर्धनोद्धारिणम् ॥११॥
यथा वा
तवेयं श्रीदामन्भणितिरिह विश्रम्भयति मां
प्रसादो रुद्राण्याः किं इव चपलासु प्रसरतु ।
वने यान्तीं दुर्गार्चनघुसृणमाल्याङ्कितकरां
वधूं दृष्ट्वा शङ्के प्रथयति कलङ्कं खलजनः ॥१२॥
अथ प्रियनर्मसखः
आत्यन्तिकरहस्यज्ञः सखीभावसमाश्रितः ।
सर्वेभ्यः प्रणयिभ्योऽसौ प्रियनर्मसखो वरः ।
स गोकुले तु सुबलस्तथा स्यादर्जुनादयः ॥१३॥
यथा
प्रत्यावर्तयति प्रसाद्य ललनां क्रीडाकलिप्रस्थितां
शय्यां कुञ्जगृहे करोत्यघभिदः कन्दर्पलीलोचितां॥
स्विन्नं बीजयति प्रियाहृदि परिस्रस्ताङ्गं उच्चैरमुं
क्व श्रीमानधिकारितां न सुबलः सेवाविधौ विन्दति ॥१४॥
यथा वा
याभिः साचिदृगञ्चलेन चटुलं कंसारिरालिह्यते
दोर्द्वन्द्वेन कुचोपपीडमुरसि स्वैरं परिष्वज्यते ।
एतस्याधरसीधुरुद्धुरतया सामोदमास्वाद्यते
किं जानासि सखे व्यधायि कतरद्गोपीभिराभिस्तपः ॥१५॥
चतुर्धाः सखायो.अत्र चेटः किङ्कर ईर्यते ।
पीठमर्दस्य वीरादावपि साहाय्यकारिता ॥१६॥
हरिप्रियाप्रकरणे वक्ष्यन्ते यास्तु दूतिकाः ।
अत्रापि ता यथायोग्यं विज्ञेया रसवेदिभिः ॥१७॥
तत्र स्वयं, यथा
सखि माधवदृग्दूत्याः
कर्मठता कार्मणे विचित्रास्ति ।
उपधाशुद्धापि यया
रुद्धा त्वं चित्रितेवासि ॥१८॥
वंशी यथा श्रीललितमाधवे
ह्रियमवगृह्य गृहेभ्यः
कर्षति राधां वनाय या निपुणा ।
सा जयति निसृष्टार्था
वरवंशजकाकली दूती ॥१९॥
आप्तदूती
वीरावृन्दादिरप्याप्तदूती कृष्णस्य कीर्तिता ।
वीरा प्रगल्भवचना वृन्दा चाटूक्तिपेशला ॥२०॥
यथा
विमुखी मा भव गर्विणि
मद्गिरि गिरिणा धृते न कृतरक्षं ।
मूढे समुढवयसं
माधवमाधाव रागेण ॥२१॥
यथा वा
वृन्दा सुन्दरि वन्दनं विदधती यत्पृच्छति त्वामसौ
चञ्चन्मञ्जुलखञ्जरीटनयने तत्रोत्तरं व्यञ्जय ।
केयं भ्रूभुजगी तवातिविषमा बंभ्रम्यते यद्भिया
क्लान्तः कालियमर्दनो.अपि कुरुते नाद्य प्रवेशं व्रजे ॥२२॥
अस्यासाधारणा दूत्यो वीवाद्याः कथिता हरेः ।
लिङ्गिन्यन्तास्तु वक्ष्यन्ते यास्ताः साधारणा द्वयोः ॥२३॥
इति श्रीश्रीउज्ज्वलनीलमणौ नायकसहायभेदप्रकरणं ॥२॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP