संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसेन्द्रचिन्तामणि| अध्यायः ८ रसेन्द्रचिन्तामणि अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ रसेन्द्रचिन्तामणि - अध्यायः ८ रसेन्द्रचिन्तामणि चौदाव्या शतकांतील गद्यपद्य मिश्रित ग्रंथ आहे. Tags : rasendrachintamaniVedआयुर्वेदरसेन्द्रचिन्तामणि अध्यायः ८ Translation - भाषांतर अथातः प्रयोगीयं अध्यायं व्याचक्ष्महे ॥१॥तत्रश्लोकचतुष्टयं प्रागधिगन्तव्यम् ॥२॥साग्नीनां चरकमतं फलमूलाद्यौषधं यदविरुद्धम् ।तद्यदि रसानुपीतं भवेत्तदा त्वरितं उल्लाघः ॥३॥मात्रावृद्धिः कार्या तुल्यायामुपकृतौ क्रमाद्विदुषा ।मात्राह्रासः कार्यो वैगुण्ये त्यागसमये च ॥४॥वल्मीककूपतरुतलरथ्यादेवालयश्मशानेषु ।जाता विधिनापि हृता ओषध्यः सिद्धिदा न स्युः ॥५॥कचकचिति न दन्ताग्रे कुर्वन्ति समानि केतकीरजसा ।योज्यानि हि प्रयोगे रसोपरसलोहचूर्णानि ॥६॥सर्वप्रयोगयोग्यतया रसेन्द्रमारणाय शाम्भवीमुद्रामभिदध्मः ॥७॥अधस्ताप उपर्यापो मध्ये पारदगन्धकौ ।यदि स्यात्सुदृढा मुद्रा मन्दभाग्योऽपि सिध्यति ॥८॥यदि कार्यं अयोयन्त्रं तदा तत्सार इष्यते ॥९॥समे गन्धे तु रोगघ्नो द्विगुणे राजयक्ष्मनुत् ।जीर्णे गुणत्रये गन्धे कामिनीदर्पनाशनः ॥१०॥चतुर्गुणे तु तेजस्वी सर्वशास्त्रविशारदः ।भवेत्पञ्चगुणे सिद्धः षड्गुणे मृत्युजिद्भवेत् ॥११॥षड्गुणे रोगघ्न इतियदुक्तं तत्तु बहिर्धूममूर्च्छायां एवाधिगन्तव्यं तत्र गन्धस्य समग्रजारणाभावात्स्वर्णादिपिष्टिकायामपि रीतिरियम् ॥१२॥वंशे वा माहिषे शृङ्गे स्थापयेत्साधितं रसम् ॥१३॥अमृतं च विषं प्रोक्तं शिवेन च रसायनम् ।अमृतं विधिसंयुक्तं विधिहीनं तु तद्विषम् ॥१४॥(गन्धामृत)भस्मसूतं द्विधा गन्धं शतं कन्याम्बुमर्दितम् ।रुद्ध्वा लघुपुटे पच्यादुद्धृत्य मधुसर्पिषा ॥१५॥निष्कमात्रं जरामृत्युं हन्ति गन्धामृतो रसः ।समूलं भृङ्गराजं तु छायाशुष्कं विमर्दयेत् ॥१६॥तत्समं त्रिफलाचूर्णं सर्वतुल्या सिता भवेत् ।पलैकं भक्षयेच्चानु वर्षान्मृत्युजरापहम् ॥१७॥(हेमसुन्दररसः)मृतसूतस्य पादांशं हेमभस्म प्रकल्पयेत् ।क्षीराज्यमधुना मिश्रं माषैकं कान्तपात्रके ॥१८॥लोहयेन्माषषट्कं तु जरामृत्युविनाशनम् ।वाकुचीचूर्णकर्षैकं धात्रीफलरसप्लुतम् ।अनुपानं लिहेन्नित्यं स्याद्रसो हेमसुन्दरः ॥१९॥(चन्द्रोदयरसः)पलं मृदु स्वर्णदलं रसेन्द्रात्पलाष्टकं षोडशगन्धकस्य ।शोणैः सुकार्पासभवप्रसूनैः सर्वं विमर्द्याथ कुमारिकाद्भिः ॥२०॥तत्काचकुम्भे निहितं सुगाढे मृत्कर्पटैस्तद्दिवसत्रयं च ।पचेत्क्रमाग्नौ सिकताख्ययन्त्रे ततो रसः पल्लवरागरम्यः ॥२१॥संगृह्य चैतस्य पलं पलं पलानि चत्वारि कर्पूररजस्तथैव ।जातीफलं शोषणं इन्द्रपुष्पं कस्तूरिकाया इह शाण एकः ॥२२॥चन्द्रोदयोऽयं कथितोऽस्य वल्लो भुक्तोऽहिवल्लो दलमध्यवर्ती ।मदोन्मदानां प्रमदाशतानां गर्वाधिकत्वं श्लथयत्यकाण्डे ॥२३॥शृतं घनीभूतं अतीवदुग्धं गुरूणि मांसानि समण्डकानि ।माषान्नपिष्टानि भवन्ति पथ्यान्यानन्ददायीन्यपराणि चात्र ॥२४॥रतिकाले रतान्ते च सेवितोऽयं रसेश्वरः ।मानहानिं करोत्येष प्रमदानां सुनिश्चितम् ॥२५॥कृत्रिमं स्थावरं चैव जङ्गमं चैव यद्विषम् ।न विकाराय भवति साधकेन्द्रस्य वत्सरात् ॥२६॥यथामृत्युञ्जयोऽभ्यासान्मृत्युं जयति देहिनाम् ।तथायं साधकेन्द्रस्य जरामरणनाशनः ॥२७॥वलीपलितनाशनस्तनुधृतां वयःस्तम्भनः ।समस्तगदखण्डनः प्रचुररोगपञ्चाननः ।गृहे च रसराडयं भवति यस्य चन्द्रोदयः ।स पञ्चशरदर्पितो मृगदृशां भवेद्वल्लभः ॥२८॥(मृत्युञ्जयरसः)बलिः सूतो निम्बूरसविमृदितो भस्मसिकताह्वये यन्त्रे कृत्वा समरविकणाटङ्कणरजः ।त्रिघस्रं लुङ्गाम्भोलवकदलितः क्षौद्रहविषा विलीढो माषैको दलयति समस्तं गदगणम् ॥२९॥जरां वर्षैकेन क्षपयति च पुष्टिं वितनुते तनौ तेजस्कारं रमयति वधूनामपि शतम् ।रसः श्रीमान्मृत्युञ्जय इति गिरीशेन गदितः प्रभावं को वान्यः कथयितुमपारं प्रभवति ॥३०॥(गन्धदाह)पिष्टिः कार्या गन्धकेनेन्दुमौलेरूर्ध्वं चाधो गन्धमादाय तुल्यम् ।धार्या मध्ये पक्वमूषा तुषाग्नौ स्थाप्या चेत्थं मन्यते गन्धदाहः ॥३१॥(आनन्दसूतरसः)शुद्धं रसं समविषं प्रहरं विमर्द्य तद्गोलकं कनकचारुफले निधाय ।दोलागतं पञ्चदिनं विषमुष्टितोये प्रक्षाल्य तत्पुनरपीह तथा द्विवारम् ॥३२॥तत्सूतके गिरिशलोचनयुग्मगन्धं युक्त्यावजार्य कुरु भस्म समं च तस्य ।वैक्रान्तभस्म जयपालनवांशकार्धं सर्वैर्विषं द्विगुणितं मृदितं च खल्वे ॥३३॥घस्रत्रयं कनकभृङ्गरसेन गाढं आवेश्य भाजनतले विषधूपभाजि ।भृङ्गद्रवेण शिथिलं लघुकाचकूप्यां आपूर्य रुद्धवदनां सिकताख्ययन्त्रे ॥३४॥तां वासरार्थं उपदीप्य निसर्गशीतां दृष्ट्वा विचूर्ण्य गदशालिषु शालिमात्रम् ।आनन्दसूतं अखिलामयकुम्भिसिंहं गद्याणकार्धसितया सह देहि पश्चात् ॥३५॥रोगानुरूपमनुपानमपि प्रकाशं क्षोणीभुजां प्रचुरपूजनमाप्नुहि त्वम् ।कीर्त्या दिशो धवलय स्फुरदिन्दुकान्त्या वैद्येश्वरेति विरुदं भज वैद्यराज ॥३६॥(अर्कानलेश्वररसः)माक्षीककनकौ गन्धं भ्रामयित्वा विचूर्णयेत् ।रसं गन्धाद्द्विभागं च सिकतायन्त्रगं पचेत् ॥३७॥दिनमेवं च तारं वा जरारोगहरं महत् ।(रविचन्द्रेश्वररसः)रसेन पिष्ट्वा स्वर्णं वा ताप्यं पश्चाद्विमिश्रयेत् ॥३८॥ताप्यस्थाने मृतं तालं तारकर्मणि कस्यचित् ।रससंख्यान्पुटान्दद्याद्गन्धैर्वा वीर्यवृद्धये ॥३९॥(प्राणिकल्पद्रुमगुटी)सूतं गन्धं कान्तपाषाणमिश्रं ब्राह्मैर्बीजैर्मर्दयेदेकघस्रम् ।गोलं कृत्वा टङ्कणेन प्रवेष्ट्य पश्चान्मृत्स्नागोमयाभ्यां धमेत्तम् ॥४०॥शुष्कं यन्त्रे सत्त्वपातप्रधाने किट्टः सूतो बद्धतामेति नूनम् ।बद्धं पश्चात्सारकाचप्रयोगाद्धेम्ना तुल्यं सूतमावर्तयेत्तु ॥४१॥वक्त्रे गोलः स्थापितो वत्सरार्थं रोगान्सर्वान्हन्ति सौख्यं करोति ।यद्वा दुग्धे गोलकं पाचयित्वा दद्याद्दुग्धं पिप्पलीभिः क्षये तत् ॥४२॥लौहे पात्रे पाचयित्वा तु देयं शुष्के पाण्डौ कामले पित्तरोगे ।वाते गोलं व्योषवातारितैले पक्त्वा तैलं गन्धयुक्तं ददीत ॥४३॥भार्ङ्गीमुण्डीकासमर्दाटरूषद्रावैर्गोलं पाचयेच्छ्लेष्मनुत्त्यै ।कासे श्वासे तं च दद्यात्कषायं माध्वीकाक्तं पिप्पलीचूर्णयुक्तम् ॥४४॥यस्मिन्रोगे यः कषायोऽस्ति चोक्तस्तस्मिन्गोलं पाचयित्वा कषाये ।दद्यात्तत्तद्रोगनाशाय पथ्यं तत्तद्रोगे कीर्तितं यत्तदेव ॥४५॥उक्तो गोलः प्राणिकल्पद्रुमोऽयं पूजां कृत्वा योजयेद्भक्तियोगात् ।(रसशार्दूलरसः)रसस्य द्विगुणं गन्धं शुद्धं संमर्दयेद्दिनम् ।प्रतिलौहं सूततुल्यमष्टलौहं मृतं क्षिपेत् ॥४६॥ब्राह्मी जयन्ती निर्गुण्डी मधुयष्टी पुनर्नवा ।नीलिका गिरिकर्ण्यर्ककृष्णधत्तूरकं यवाः ॥४७॥आटरूषः काकमाची द्रवैरासां विमर्दयेत् ।गुञ्जात्रयं चतुष्कं वा सर्वरोगेषु योजयेत् ।रोगोक्तमनुपानं वा कवोष्णं वा जलं पिबेत् ॥४८॥(त्रिनेत्ररसः)रसगन्धकताम्राणि सिन्धुवाररसौदनम् ।मर्दयेदातपे पश्चाद्वालुकायन्त्रमध्यगम् ॥४९॥रुद्ध्वा मूषागतं यामत्रयं तीव्राग्निना पचेत् ।तद्गुञ्जा सर्वरोगेषु पर्णखण्डिकया सह ॥५०॥दातव्या देहसिद्ध्यर्थं पुष्टिवीर्यबलाय च ।रसोऽयं हेमताराभ्यां अपि सिध्यति कन्यया ॥५१॥(अमृतार्णवरसः)सूतभस्म चतुर्भागं लौहभस्म तथाष्टकम् ।मेघभस्म च षड्भागं शुद्धगन्धस्य पञ्चकम् ॥५२॥भावयेत्त्रिफलाक्वाथैस्तत्सर्वं भृङ्गजैर्द्रवैः ।शिग्रुवह्णिकटुक्यद्भिः सप्तधा भावयेत्पृथक् ॥५३॥सर्वतुल्या कणा योज्या गुडैर्मिश्रं पुरातनैः ।निष्कमात्रं सदा खादेज्जरां मृत्युं निहन्त्यलम् ॥५४॥ब्रह्मायुःस्याच्चतुर्मासै रसोऽयममृतार्णवः ।तिलकौरण्टपत्राणि गुडेन भक्षयेदनु ॥५५॥(रत्नेश्वररसः)अर्धं पारदतुल्येन तारं ताम्रेण मेलयेत् ।मारयेत्सिकतायन्त्रे शिलाहिङ्गुलगन्धकैः ॥५६॥अयं रत्नेश्वरः सूतः सर्वत्रैव प्रयुज्यते ।हेम्नोऽन्तर्योजितो ह्येषो हेमतां प्रतिपद्यते ॥५७॥शेषोऽर्कश्चेद्गन्धकैर्वा कुनट्या वाहतद्विपैः ।शोधयेत्कनकं सम्यगन्यैर्वा कालिकापहैः ।वर्णह्रासे तु ताप्येन कारयेद्वर्णमुत्तमम् ॥५८॥(दुर्नामारि)प्रणम्य शङ्करं रुद्रं दण्डपाणिं महेश्वरम् ।जीवितारोग्यमन्विच्छन्नारदोऽपृच्छदीश्वरम् ॥५९॥सुखोपायेन हे नाथ शस्त्रक्षाराग्निभिर्विना ।दुर्बलानां च भीरूणां चिकित्सां वक्तुमर्हसि ॥६०॥तच्छिष्यवचनं श्रुत्वा लोकानां हितकाम्यया ।अर्शसां नाशनं श्रेष्ठं भैषज्यं इदं ईरितम् ॥६१॥पाण्डिवज्रादिलोहानां आदायान्यतमं शुभम् ।कृत्वा निर्मलं आदौ तु कुनट्या माक्षिकेण च ॥६२॥पत्तूरमूलकल्केन स्वरसेन दहेत्ततः ।वह्नौ निक्षिप्य विधिवच्छालाङ्गारेण निर्धमेत् ॥६३॥ज्वाला च तस्य रोद्धव्या त्रिफलाया रसेन च ।ततो विज्ञाय गलितं शङ्कुनोर्ध्वं समुत्क्षिपेत् ॥६४॥त्रिफलाया रसे पूते तदाकृष्य तु निर्वपेत् ।न सम्यग्गलितं यत्तु तेनैव विधिना पुनः ॥६५॥ध्मातं निर्वापयेत्तस्मिंल्लौहं तत्त्रिफलारसे ।यल्लौहं न मृतं तत्र पाच्यं भूयोऽपि पूर्ववत् ॥६६॥मारणान्न मृतं यच्च तत्त्यक्तव्यं अलौहवत् ।ततः संशोष्य विधिवच्चूर्णयेल्लौहभाजने ॥६७॥लोहखल्वे तथा पिंष्याद्दृषदि श्लक्ष्णचूर्णितम् ।कृत्वा लोहमये पात्रे सार्द्रे वा लिप्तरन्धके ॥६८॥रसैः पङ्कसमं कृत्वा पचेत्तद्गोमयाग्निना ।पुटानि क्रमशो दद्यात्पृथगेषां विधानतः ॥६९॥त्रिफलार्द्रकभृङ्गाणां केशराजस्य बुद्धिमान् ।मानकन्दकभल्लातवह्नीनां सूरणस्य च ॥७०॥हस्तिकर्णपलाशस्य कुलिशस्य तथैव च ।पुटे पुटे चूर्णयित्वा लोहात्षोडशिकं पलम् ॥७१॥तन्मानं त्रिफलायाश्च पलेनाधिकं आहरेत् ।अष्टभागावशिष्टे तु रसे तस्याः पचेद्बुधः ॥७२॥अष्टौ पलानि दत्त्वा तु सर्पिषो लोहभाजने ।ताम्रे वा लोहदर्व्या तु चालयेद्विधिपूर्वकम् ॥७३॥ततः पाकविधानज्ञः स्वच्छे चोर्ध्वे च सर्पिषि ।मृदुमध्यादिभेदेन गृह्णीयात्पाकमन्यतः ॥७४॥आरभेत विधानेन कृतकौतुकमङ्गलः ।घृतभ्रामरसंयुक्तं लिहेदा रक्तिकं क्रमात् ॥७५॥वर्धमानानुपानं च गव्यं क्षीरोत्तमं मतम् ।गव्याभावेऽप्यजायाश्च स्निग्धवृष्यादिभोजनम् ॥७६॥सद्यो वह्णिकरं चैव भस्मकं च नियच्छति ।हन्ति वातं तथा पित्तं कुष्ठानि विषमज्वरम् ॥७७॥गुल्माक्षिपाण्डुरोगांश्च तन्द्रालस्यमरोचकम् ।परिणामभवं शूलं प्रमेहमपबाहुकम् ॥७८॥श्वयथुं रुधिरस्रावं दुर्नामानं विशेषतः ।बलकृद्बृंहणं चैव कान्तिदं स्वरवर्धनम् ॥७९॥शरीरलाघवकरमारोग्यं पुष्टिवर्धनम् ।आयुष्यं श्रीकरं चैव वयस्तेजस्करं तथा ॥८०॥सश्रीकपुत्रजननं वलीपलितनाशनम् ।दुर्नामारिरयं नाम्ना दृष्टो वारान्सहस्रशः ।निर्मूलं दह्यते शीघ्रं यथा तूलं च वह्णिना ॥८१॥सौकुमार्याल्पकायत्वे मद्यसेवां समाचरेत् ।जीर्णमद्यानि युक्तानि भोजनैः सह पाययेत् ॥८२॥लावतित्तिरिवर्तीरमयूरशशकादयः ।चटकः कलविङ्कश्च वर्तको हरितालकः ॥८३॥श्येनकश्च बृहल्लावो वनविष्किरकादयः ।पारावतमृगादीनां मांसं जाङ्गलजं तथा ॥८४॥मद्गुरो रोहितः श्रेष्ठः शकुलश्च विशेषतः ।मत्स्यराजा इमे प्रोक्ता हितमत्स्येषु योजयेत् ॥८५॥प्रशस्तं वार्ताकफलं पटोलं बृहतीफलम् ।प्रलम्बाभीरुवेत्राग्रजातुकं तण्डुलीयकम् ॥८६॥वास्तुकं धान्यशाकं च कर्णालुकपुनर्नवाम् ।नारिकेलं च खर्जूरं दाडिमं लवलीफलम् ॥८७॥शृङ्गाटकं च पक्वाम्रं द्राक्षा तालफलानि च ।जातिकोषं लवङ्गं च पूगं ताम्बूलपत्रकम् ।हितान्येतानि वसूनि लोहमेतत्समश्नताम् ॥८८॥नाश्नीयाल्लकुचं कोलकर्कन्धुबदराणि च ।जम्बीरं बीजपूरं च तिन्तिडीकरमर्दकम् ॥८९॥आनूपानि च मांसानि क्रकरं पुण्ड्रकादिकम् ।हंससारसदात्यूहचाषक्रौञ्चबलाकिकाः ॥९०॥माषकन्दकरीराणि चणकं च कलिङ्गकम् ।कूष्माण्डकं च कर्कोटीं केबुकं च विशेषतः ॥९१॥कञ्चटं कारवेल्लं च कशेरुं कर्कटीं तथा ।विदलानि च सर्वाणि ककारादींश्च वर्जयेत् ॥९२॥शङ्करेण समाख्यातो यक्षराजानुकम्पया ।जगतामुपकाराय दुर्नामारिरयं ध्रुवम् ॥९३॥स्थानादपैति मेरुश्च पृथ्वी पर्येति वायुना ।पतन्ति चन्द्रताराश्च मिथ्या चेदहमब्रुवम् ॥९४॥ब्रह्मघ्नाश्च कृतघ्नाश्च क्रूराश्चासत्यवादिनः ।वर्जनीया विदग्धेन भैषज्यगुरुनिन्दकाः ॥९५॥मुनिरसपिष्टविडङ्गं मुनिरसलीढं चिरस्थितं घर्मे ।द्रावयति लोहदोषान्वह्णिर्नवनीतपिण्डमिव ॥९६॥कृमिरिपुचूर्णं लीढं सहितं स्वरसेन वङ्गसेनस्य ।क्षपयत्यचिरान्नियतं लोहाजीर्णोद्भवं शूलम् ॥९७॥जीर्णे लौहे त्वपतति चूर्णं भुञ्जीत सिद्धिसाराख्यम् ।लौहव्यापन्नश्यति विवर्धते जाठरो वह्णिः ॥९८॥(सिद्धसार)पथ्यासैन्धवशुण्ठीमागधिकानां पृथक्समो भागः ।त्रिवृताभागौ निम्बूभाव्यं स्यात्सिद्धिसाराख्यम् ॥९९॥आरग्वधस्य मज्जाभी रेचनं किट्टशान्तये ।भवेद्यदतिसारस्तु दुग्धं पीत्वा तु तं जयेत् ॥१००॥रक्तिद्वादशकादूर्ध्वं वृद्धिरस्य भयप्रदा ॥१०१॥काले मलप्रवृत्तिर्लाघवमुदरे विशुद्धिरुद्गारे ।अङ्गेषु नावसादो मनःप्रसादोऽस्य परिपाके ॥१०२॥नागार्जुनो मुनीन्द्रः शशास यल्लोहशास्त्रं अतिगहनम् ।तस्यार्थस्य स्मृतये वयमेतद्विशदाक्षरैर्ब्रूमः ॥१०३॥मेने मुनिः स्वतन्त्रे यः पाकं न पलपञ्चकादर्वाक् ।सुबहुप्रयोगदोषादूर्ध्वं च पलत्रयोदशकात् ॥१०४॥तत्रायसि पचनीये पञ्चपलादौ त्रयोदशपलकान्ते ।लौहात्त्रिगुणा त्रिफला ग्राह्या षड्भिः पलैरधिका ॥१०५॥मारणपुटनस्थालीपाकास्त्रिफलैकभागसंपाद्याः ।त्रिफलाभागद्वितयं ग्रहणीयं लौहपाकार्थम् ॥१०६॥सर्वत्रायः पुटनाद्यर्थैकांशे शरावसंख्यातम् ।प्रतिपलमेव त्रिगुणं पाथः क्वाथार्थमादेयम् ॥१०७॥सप्तपलादौ भागे पञ्चदशान्तेऽम्भसां शरावैश्च ।त्र्याद्यैकादशकान्तैरधिकं तद्वारि कर्तव्यम् ॥१०८॥तत्राष्टमो विभागः शेषः क्वाथस्य यत्नतः स्थाप्यः ।तेन हि मारणपुटनस्थालीपाका भविष्यन्ति ॥१०९॥पाकार्थे तु त्रिफलाभागद्वितये शरावसंख्यातम् ।प्रतिपलमम्बु समं स्यादधिकं द्वाभ्यां शरावाभ्याम् ॥११०॥तत्र चतुर्थो भागः शेषो निपुणैः प्रयत्नतो ग्राह्यः ।अयसः पाकार्थत्वात्स च सर्वस्मात्प्रधानतमः ॥१११॥पाकार्थमश्मसारे पञ्चपलादौ त्रयोदशपलान्ते ।दुग्धशरावद्वितयं पादैरेकादिकैरधिकम् ॥११२॥पञ्चपलादिर्मात्रा तदभावे तदनुसारतो ग्राह्यम् ।चतुरादिकं एकान्तं शक्तावधिकं त्रयोदशकात् ॥११३॥(इरोनः प्रक्षेपचूर्ण)त्रिफलात्रिकटुकचित्रककान्तक्रामकविडङ्गचूर्णानि ।जातीफलस्य जातीकोषैलाकङ्कोललवङ्गानाम् ।सितकृष्णजीरकयोरपि चूर्णान्ययसा समानि स्युः ॥११४॥त्रिफलात्रिकटुविडङ्गा नियता अन्ये यथाप्रकृति बोध्याः ।कालायसदोषहृते जातीफलादेर्लवङ्गकान्तस्य ।क्षेपः प्राप्त्यनुरूपः सर्वस्योनस्य चैकाद्यैः ॥११५॥कान्तक्रामकमेकं निःशेषं दोषमपहरत्ययसः ॥११६॥द्विगुणत्रिगुणचतुर्गुणमाज्यं ग्राह्यं यथाप्रकृति ॥११७॥यदि भेषजभूयस्त्वं स्तोकत्वं वा तथापि चूर्णानाम् ।अयसा साम्यं संख्या भूयोऽल्पत्वेन भूयोऽल्पा ॥११८॥एवं धात्वनुसारात्तत्तत्कथितौषधस्य बाधेन ।सर्वत्रैव विधेयस्तत्तत्कथितस्यौषधस्योहः ॥११९॥(लौहमारणम्)कान्तादिलौहमारणविधानसर्वस्वं उच्यते तावत् ।यस्य कृते तल्लौहं पक्तव्यं तस्य शुभे दिवसे ॥१२०॥समृदङ्गारकरालितनतभूभागे शिवं समभ्यर्च्य ।वैदिकविधिना वह्णिं निधाय दत्त्वाहुतीस्तत्र ॥१२१॥धर्मात्सिध्यति सर्वं श्रेयस्तद्धर्मसिद्धये किमपि ।शक्त्यनुरूपं दद्याद्द्विजाय संतोषिणे गुणिने ॥१२२॥संतोष्य कर्मकारं प्रसादपूगादिदानसत्पानैः ।आदौ तदश्मसारं निर्मलमेकान्ततः कुर्यात् ॥१२३॥(??)तदनु कुठारच्छिन्नात्रिफलागिरिकर्णिकास्थिसंहारैः ।करिकर्णच्छदमूलशतावरीकेशराजाख्यैः ॥१२४॥शालिं च मूलकाशीमूलप्रावृड्जभृङ्गराजैश्च ।लिप्त्वा दग्धव्यं तद्दृष्टक्रियलौहकारेण ॥१२५॥चिरजलभावितनिर्मलशालाङ्गारेण परित आच्छाद्य ।कुशलाध्मापितभस्त्रानवरतमुक्तेन पवनेन ॥१२६॥(??)वह्णेर्बाह्यज्वाला बोद्धव्या जातु नैव कुञ्चिकया ।मृल्लवणसलिलभाजा किं तु स्वच्छाम्बुसंप्लुतया ॥१२७॥द्रव्यान्तरसंयोगात्स्वां शक्तिं भेषजानि मुञ्चन्ति ।मलधूलिमत्सर्वं सर्वत्र विवर्जयेत्तस्मात् ॥१२८॥सन्दंशेन गृहीत्वान्तः प्रज्वलिताग्निमध्यमुपनीय ।गलति यथायथमग्रे तथैव मृदु वर्धयेन्निपुणः ॥१२९॥(निर्वापणः)तलनिहितोर्ध्वमुखाङ्कुशलग्नं त्रिफलाजले विनिक्षिप्य ।निर्वापयेदशेषं शेषं त्रिफलाम्बु रक्षेच्च ॥१३०॥यल्लौहं न मृतं तत्पुनरपि पक्तव्यं उक्तमार्गेण ।यन्न मृतं तथापि तत्त्यक्तव्यं अलौहमेव हि यत् ॥१३१॥तदनु घनलौहपात्रे कालायसमुद्गरेण संचूर्ण्य ।दत्त्वा बहुशः सलिलं प्रक्षाल्याङ्गारं उद्धृत्य ॥१३२॥तदयः केवलं अग्नौ शुष्कीकृत्याथवातपे पश्चात् ।लौहशिलायां पिंष्यादसितेऽश्मनि वा तदप्राप्तौ ॥१३३॥(स्थालीपाक)अथ कृत्वायो भाण्डे दत्त्वा त्रिफलाम्बु शेषमन्यद्वा ।प्रथमं स्थालीपाकं दद्यादा तत्क्षयात्तदनु ॥१३४॥गजकर्णपत्रमूलशतावरीभृङ्गकेशराजरसैः ।प्राग्वत्स्थालीपाकं कुर्यात्प्रत्येकमेकं वा ॥१३५॥(पुटपाक)हस्तप्रमाणवदनं श्वभ्रं हस्तैकखाति सममध्यम् ।कृत्वा कटाहसदृशं तत्र करीषं तुषं च काष्ठं च ॥१३६॥अन्तर्घनतरं अर्धं सुषिरं परिपूर्य दहनमायोज्य ।पश्चादयसश्चूर्णं श्लक्ष्णं पङ्कोपमं कुर्यात् ॥१३७॥त्रिफलाम्बुभृङ्गकेशरशतावरीकन्दमाणसहजरसैः ।भल्लातककरिकर्णच्छदमूलपुनर्नवास्वरसैः ॥१३८॥क्षिप्त्वाथ लौहपात्रे मार्दे वा लौहमार्दपात्राभ्याम् ।तुल्याभ्यां पृष्ठेनाच्छाद्यान्ते रन्ध्रं आलिप्य ॥१३९॥तत्पुटपात्रं तत्र श्वभ्रज्वलने निधाय भूयोभिः ।काष्ठकरीषतुषैस्तत्संछाद्याहर्निशं दहेत्प्राज्ञः ॥१४०॥एवं नवभिरमीभिर्मेषजराजैः पचेत्तु पुटपाकम् ।प्रत्येकमेकमेभिर्मिलितैर्वा त्रिचतुरान्वारान् ॥१४१॥(पुटपाकःप्रति पुटनं तत्पिंष्यात्स्थालीपाकं विधाय तथैव तत् ।तादृशि दृषदि न पिंष्याद्विगलद्रजसा तु युज्यते यत्र ॥१४२॥तदयश्चूर्णं पिष्टं घृष्टं घनसूक्ष्मवाससि श्लक्ष्णम् ।यदि रजसा सदृशं स्यात्केतक्यास्तर्हि तद्भद्रम् ॥१४३॥पुटने स्थालीपाकेऽधिकृतपुरुषे स्वभावरुगधिगमात् ।कथितमपि हेयं औषधं उचितं उपादेयं अन्यदपि ॥१४४॥अभ्यस्तकर्मविधिभिर्वालकुशाग्रीयबुद्धिभिरलक्ष्यम् ।लौहस्य पाकमधुना नागार्जुनशिष्टमभिदध्मः ॥१४५॥(लौहपाकः)लोहारकूटताम्रकटाहे दृढमृन्मये प्रणम्य शिवम् ।तदयः पचेदचपलः काष्ठेन्धनेन वह्णिना मृदुना ॥१४६॥निक्षिप्य त्रिफलाजलं उदितं यत्तद्घृतं च दुग्धं च ।संचाल्य लौहमय्या दर्व्या लग्नं समुत्पाट्य ॥१४७॥(पाकः)मृदुमध्यखरभावैः पाकस्त्रिविधोऽत्र वक्ष्यते पुंसाम् ।पित्तसमीरणश्लेष्मप्रकृतीनां मध्यमस्तु समः ॥१४८॥(पाकः)अभ्यक्तदर्विलौहं सुखदुःखस्खलनयोगि मृदु मध्यम् ।उज्झितदर्विखरं परिभाषन्ते केचिदाचार्याः ॥१४९॥अन्ये विहीनदर्वीप्रलेपं आखूत्कराकृतिं ब्रुवते ।मृदु मध्यं अर्धचूर्णं सिकतापुञ्जोपमं तु खरम् ॥१५०॥त्रिविधोऽपि पाक ईदृक्सर्वेषां गुणकृदेव न तु विफलः ।प्रकृतिविशेषे सूक्ष्मौ गुणदोषौ जनयतीत्यल्पम् ॥१५१॥(प्रक्षेप)विज्ञाय पाकमेव द्रागवतार्य क्षितौ क्षणान्कियतः ।विश्राम्य तत्र लौहे त्रिफलादेः प्रक्षिपेच्चूर्णम् ॥१५२॥यदि कर्पूरप्राप्तिर्भवति ततो विगलिते तदुष्णत्वे ।चूर्णीकृतमनुरूपं क्षिपेन्न वा न यदि तल्लाभः ॥१५३॥पक्वं तदश्मसारं सुचिरघृतस्थित्यभाविरूक्षत्वे ।गोदोहनादिभाण्डे लौहभाण्डाभावे सति स्थाप्यम् ॥१५४॥यदि तु परिप्लुतिहेतोर्घृतं ईक्षेताधिकं ततोऽन्यस्मिन् ।भाण्डे निधाय रक्षेद्भाव्युपयोगो ह्यनेन महान् ॥१५५॥अयसि विरूक्षीभूते स्नेहस्त्रिफलाघृतेन संपाद्यः ।एतत्ततो गुणोत्तरमित्यमुना स्नेहनीयं तत् ॥१५६॥अत्यन्तकफप्रकृतेर्भक्षणं अयसोऽमुनैव शंसन्ति ।केवलं अपीदं अशितं जनत्ययसो गुणान्कियतः ॥१५७॥अथवा वक्तव्यविधिसंस्कृतकृष्णाभ्रचूर्णं आदाय ।लोहचतुर्थार्धसमद्वित्रिचतुःपञ्चगुणभागम् ॥१५८॥प्रक्षिप्यायः प्राग्वत्पचेदुभाभ्यां भवेद्रजो यावत् ।तावन्मानानुस्मृतेः स्यात्त्रिफलादिद्रव्यपरिमाणम् ॥१५९॥इदं आप्यायकं इदं अतिपित्तनुदिदमेव कान्तिबलजननम् ।स्तभ्नाति तृट्क्षुधौ परं अधिकाधिकमात्रया क्षिप्तम् ॥१६०॥(अभ्रः शोधनः निश्चन्द्रिक)कृष्णाभ्रं भेकवपुर्वज्राख्यं चैकपत्रकं कृत्वा ।काष्ठमयोदूखलके चूर्णं मुशलेन कुर्वीत ॥१६१॥भूयो दृषदि च पिष्टं वासः सूक्ष्मावकाशतलगलितम् ।मण्डूकपर्णिकायाःप्रचुररसे स्थापयेत्त्रिदिनम् ॥१६२॥उद्धृत्य तद्रसादथ पिंष्याद्धैमन्तिकधान्यभक्तस्य ।अक्षोदात्यन्ताम्लस्वच्छजलेन प्रयत्नेन ॥१६३॥मण्डूकपर्णिकायाः पूर्वरसेनैव मर्दनं कुर्यात् ।स्थालीपाकं पुटनं चाद्यैरपि भृङ्गराजाद्यैः ॥१६४॥अर्कादिपत्रमध्ये कृत्वा पिण्डं निधाय भस्त्राग्नौ ।तावद्दहेन्न यावन्नीलोऽग्निर्दृश्यते सुचिरम् ॥१६५॥निर्वापयेच्च दुग्धे दुग्धं प्रक्षाल्य वारिणा तदनु ।पिष्ट्वा घृष्ट्वा गाल्य वस्त्रे चूर्णं निश्चन्द्रकं कुर्यात् ॥१६६॥(सिद्धलौहसेवन)नानाविधरुक्शान्त्यै पुष्ट्यै कान्त्यै शिवं समभ्यर्च्य ।सुविशुद्धेऽहनि पुण्ये तदमृतमादाय लौहाख्यम् ॥१६७॥दशकृष्णलपरिमाणं शक्तिवयोभेदमाकलय्य पुनः ।इदमधिकं तदधिकतरं इयदेव न मातृमोदकवत् ॥१६८॥सममसृणामलपात्रे लौहे लौहेन मर्दयेच्च पुनः ।दत्त्वा मध्वनुरूपं तदनु घृतं योजयेदधिकम् ॥१६९॥बन्धं गृह्णाति यथा मध्वपृथक्त्वेन पङ्कमविशिंषत् ।इदमिह दृष्टोपकरणमेतददृष्टं तु मन्त्रेण ॥१७०॥स्वाहान्तेन विमर्दो भवति फडन्तेन लौहबलरक्षा ।सनमस्कारेण बलिर्भक्षणमयसो हूमन्तेण ॥१७१॥ओं अमृतोद्भवाय स्वाहा ओं अमृते हूं फट् ।ओं नमश्चण्डवज्रपाणये महायक्षसेनाधिपतये सुरगुरुविद्यामहाबलाय स्वाहा ।ओं अमृते हूम् ।जग्ध्वा तदमृतसारं नीरं वा क्षीरमेवानुपिबेत् ।कान्तक्रामकममलं संचर्व्य रसं पिबेद्गिलेन्न तु तत् ॥१७२॥आचम्य च ताम्बूलं लाभे घनसारसहितमुपयोज्यम् ॥१७३॥नात्युपविष्टो नाप्यतिभाषी नातिस्थितस्तिष्ठेत् ॥१७४॥अत्यन्तवातशीतातपयानस्नानवेगरोधादीन् ।जह्याच्च दिवानिद्रासहितं चाकालभुक्तं च ॥१७५॥वातकृतः पित्तकृतः सर्वान्कट्वम्लतिक्तकषायान् ।तत्क्षणविनाशहेतून्मैथुनकोपश्रमान्दूरे ॥१७६॥अशितं तदयः पश्चात्पततु न वा पाटवं छडु प्रथताम् ।आर्तिर्भवतु नवान्त्रे कूजति भोक्तव्यमव्याजम् ॥१७७॥प्रथमं पीत्वा दुग्धं शाल्यन्नं विशदसिद्धं अक्लिन्नम् ।घृतसंप्लुतं अश्नीयान्मांसैर्वैहङ्गमैः प्रायः ॥१७८॥उत्तममूषरभूचरविष्किरमांसं तथाजं ऐणादि ।अन्यदपि जलचराणां पृथुरोमापेक्षया ज्यायः ॥१७९॥मांसालाभे मत्स्या अदोषलाः स्थूलसद्गुणा ग्राह्याः ।मद्गुररोहितशकुला दग्धाः पललान्मनाङ्न्यूनाः ॥१८०॥शृङ्गाटकफलकशेरुकदलीफलतालनारिकेलादि ।अन्यदपि यच्च वृष्यं मधुरं पनसादिकं ज्यायः ॥१८१॥केबुकतालकरीरान्वार्ताकुपटोलफलदलसमेतान् ।मुद्गमसूरेक्षुरसान्शंसन्ति निरामिषेष्वेतान् ॥१८२॥शाकं प्रहेयमखिलं स्तोकं रुचये तु वास्तुकं दद्यात् ।विहितनिषिद्धादन्यन्मध्यमकोटिस्थितं विद्यात् ॥१८३॥तप्तदुग्धानुपानं प्रायः सारयति बद्धकोष्ठस्य ।अनुपीतमम्बु यद्वा कोमलशस्यस्य नारिकेलस्य ॥१८४॥यस्य न तथापि सरति सयवक्षारं जलं पिबेत्कोष्णम् ।कोष्णं त्रिफलाक्वाथं क्षारसनाथं ततोऽप्यधिकम् ॥१८५॥त्रीणि दिनानि समं स्यादह्नि चतुर्थे तु वर्धयेत्क्रमशः ।यावत्तदष्टमाषं न वर्धयेत्पुनरितोऽप्यधिकम् ॥१८६॥आदौ रक्तिद्वितयं द्वितीयवृद्धौ तु रक्तिकात्रितयम् ।रक्तीपञ्चकपञ्चकं अत ऊर्ध्वं वर्धयेन्नियतम् ॥१८७॥वात्सरिककल्पपक्षे दिनानि यावन्ति वर्धितं प्रथमम् ।तावन्ति वर्षशेषे प्रतिलोमं ह्रासयेत्तदयः ॥१८८॥तेष्वष्टमाषकेषु प्रातर्माषत्रयं समश्नीयात् ।सायं च तावदह्णो मध्ये माषद्वयं शेषम् ॥१८९॥एवं तदमृतमश्नन्कान्तिं लभते चिरस्थिरं देहम् ।सप्ताहत्रयमात्रात्सर्वरुजो हन्ति किं बहुना ॥१९०॥आर्याभिरिह नवत्या सप्तविधिभिर्यथावदाख्यातम् ।अमतिविपर्ययसंशयशून्यं अनुष्ठानं उन्नीतम् ॥१९१॥मुनिरचितशास्त्रपारं गत्वा सारं ततः समुद्धृत्य ।निबबन्ध बान्धवानामुपकृतये कोऽपि षट्कर्मा ॥१९२॥(ताम्रयोग)कन्यातोये ताम्रपत्रं सुतप्तं कृत्वा वारान्विंशतिं प्रक्षिपेत्तत् ।शुद्धं गन्धं तद्द्विभागं विमर्द्य निम्बूतोयैस्ताम्रपत्राणि लिप्त्वा ॥१९३॥भाण्डे कृत्वा रोधयित्वा तु भाण्डं शालाग्नौ तं निक्षिपेत्पञ्चरात्रम् ।शीतं जातं भावयेदुक्ततोयैर्यद्वा नीरैस्त्रैफलैरेकघस्रम् ॥१९४॥मध्वाज्याभ्यां पेषयित्वा पुटेत्तच्छुद्धं सिद्धं जायते देहसिद्ध्यै ।गुञ्जामात्रं शाल्मलीनीरयुक्तं मध्वाज्याभ्यां सेवयेद्वत्सरार्धम् ॥१९५॥दुग्धं खण्डं वानुपानं विदध्यात्साज्यं भोज्यं गौड्यं अम्लेन युक्तम् ।वीर्यं पुष्टिं दीपनं देहदार्ढ्यं दिव्यां दृष्टिं दीर्घमायुः करोति ॥१९६॥(ताम्रयोग (२))रसतस्ताम्रं द्विगुणं ताम्रात्कृष्णाभ्रकं तथा द्विगुणम् ।पृथगेवैषां शुद्धिस्ताम्रे शुद्धिस्ततो द्विविधा ॥१९७॥पत्त्रीकृतस्य गन्धकयोगाद्वा मारणं तथा लवणैः ।आक्ते ध्मापितताम्रे निर्गुण्डीकल्ककाञ्जिके मग्ने ॥१९८॥यद्भवति गैरिकाभं तत्पिष्टं अर्धगन्धकं तदनु ।पुटपाकेन विशुद्धं शुद्धं स्यादभ्रकं तु पुनः ॥१९९॥हिलमोचिमूलपिण्डे क्षिप्तं तदनु मार्दसम्पुटे लिप्ते ।तीक्ष्णं दग्धं पिष्टं अम्लाम्भसा साधु चन्द्रिकाविरहितम् ॥२००॥रेचितताम्रेण रसः खल्वशिलायां घृष्टः पिण्डिका कार्या ।उत्स्वेद्य गृहसलिलेन निर्गुण्डीकल्केऽसकृच्छुद्धौ ॥२०१॥एतत्सिद्धं त्रितयं चूर्णितताम्रार्धिकैः पृथग्युक्तम् ।पिप्पलीविडङ्गमरिचैः श्लक्ष्णं द्वित्रिमाषकं भक्ष्यम् ॥२०२॥शूलाम्लपित्तश्वयथुग्रहणीयक्ष्मादिकुक्षिरोगेषु ।रसायनं महदेतत्परिहारो नियमतो नात्र ॥२०३॥(लक्ष्मीविलासरसः)पलं कृष्णाभ्रचूर्णस्य तदर्धौ रसगन्धकौ ।कर्पूरस्य तदर्द्धं तु जातीकोषफले तथा ॥२०४॥वृद्धदारकबीजं च बीजमुन्मत्तकस्य च ।त्रैलोक्यविजयाबीजं विदारीकन्दं एव च ॥२०५॥नारायणी तथा नागबला चातिबला तथा ।बीजं गोक्षुरकस्यापि हैज्जलं बीजमेव च ॥२०६॥एतेषां कार्षिकं चूर्णं गृहीत्वा वारिणा पुनः ।निष्पिष्य वटिका कार्या त्रिगुञ्जाफलमानतः ॥२०७॥निहन्ति सन्निपातोत्थान्गदान्घोरान्सुदारुणान् ।वातोत्थान्पैत्तिकांश्चापि नास्त्यत्र नियमः क्वचित् ॥२०८॥कुष्ठमष्टादशविधं प्रमेहान्विंशतिं तथा ।नाडीव्रणं व्रणं घोरं गुदामयभगन्दरम् ॥२०९॥श्लीपदं कफवातोत्थं चिरजं कुलसम्भवम् ।गलशोथमन्त्रवृद्धिमतिसारं सुदारुणम् ॥२१०॥कासपीनसयक्ष्मार्शः स्थौल्यं दौर्बल्यमेव च ।आमवातं सर्वरूपं जिह्वास्तम्भं गलग्रहम् ॥२११॥उदरं कर्णनासाक्षिमुखवैजात्यमेव च ।सर्वशूलं शिरःशूलं स्त्रीणां गदनिषूदनम् ॥२१२॥वटिकां प्रातरेकैकां खादेन्नित्यं यथाबलम् ।अनुपानमिदं प्रोक्तं मांसं पिष्टं पयो दधि ॥२१३॥वारितक्रसुरासीधुसेवनात्कामरूपधृक् ।वृद्धोऽपि तरुणस्पर्धी न च शुक्रस्य संक्षयः ॥२१४॥न च लिङ्गस्य शैथिल्यं न केशा यान्ति पक्वताम् ।नित्यं शतस्त्रियो गच्छेन्मत्तवारणविक्रमः ॥२१५॥द्विलक्षयोजनी दृष्टिर्जायते पौष्टिकः परः ।प्रोक्तः प्रयोगराजोऽयं नारदेन महात्मना ॥२१६॥रसो लक्ष्मीविलासस्तु वासुदेवो जगद्गुरौ ।अभ्यासाद्यस्य भगवान्लक्षनारीषु वल्लभः ॥२१७॥हेमाद्याः सूर्यसंतप्ताः स्रवन्ति गिरिधातवः ।जत्वाभं मृदुमृत्स्नाच्छं यन्मलं तच्छिलाजतु ॥२१८॥(शिलाजतुः)अनम्लं चाकषायं च कटुपाकि शिलाजतु ।नात्युष्णशीतं धातुभ्यश्चतुर्भ्यस्तस्य सम्भवः ।हेम्नोऽथ रजतात्ताम्राद्वरात्कृष्णायसादपि ॥२१९॥(शिलाजतुः)मधुरश्च सतिक्तश्च जपापुष्पनिभश्च यः ।कटुर्विपाके शीतश्च स सुवर्णस्य निस्रवः ॥२२०॥(शिलाजतुः)रूप्यस्य कटुकः श्वेतः शीतः स्वादुर्विपच्यते ।(शिलाजतुः)ताम्रस्य बर्हिकण्ठाभस्तिक्तोष्णः पच्यते कटुः ॥२२१॥(शिलाजतुः)यस्तु गुग्गुलुकाभासस्तिक्तको लवणान्वितः ।कटुर्विपाके शीतश्च सर्वश्रेष्ठः स चायसः ॥२२२॥गोमूत्रगन्धयः सर्वे सर्वकर्मसु यौगिकाः ।रसायनप्रयोगेषु पश्चिमस्तु विशिष्यते ॥२२३॥यथाक्रमं वातपित्ते श्लेष्मपित्ते कफे त्रिषु ।विशेषेण प्रशस्यन्ते मला हेमादिधातुजाः ॥२२४॥(शिलाजतुः परीक्षा)लौहकिट्टायते वह्नौ विधूमं दह्यतेऽम्भसि ।तृणात्यग्रे कृतं श्रेष्ठमधो गलति तन्तुवत् ॥२२५॥(शिलाजतुः शोधन)मलिनं यद्भवेत्तच्च क्षालयेत्केवलाम्भसा ।लौहपात्रेषु विधिना ऊर्ध्वीभूतं च संहरेत् ॥२२६॥वातपित्तकफघ्नैस्तु निर्यूहैस्तत्सुभावितम् ।वीर्योत्कर्षं परं याति सर्वैरेकैकशोऽपि वा ॥२२७॥प्रक्षिप्योद्धृतमावानं पुनस्तत्प्रक्षिपेद्रसे ।कोष्णे सप्ताहमेतेन विधिना तस्य भावनाम् ॥२२८॥(शिलाजतुः)तुल्यं गिरिजेन जले चतुर्गुणे भावनौषधं क्वाथ्यम् ।ततः क्वाथे च पादांशे पूतोष्णे प्रक्षिपेद्गिरिजम् ।तत्समरसतां यातं संशुष्कं प्रक्षिपेद्रसे भूयः ॥२२९॥(शिलाजतुः)पूर्वोक्तेन विधानेन लौहैश्चूर्णीकृतैः सह ।तत्पीतं पयसा दद्याद्दीर्घमायुः सुखान्वितम् ॥२३०॥जराव्याधिप्रशमनं देहदार्ढ्यकरं परम् ।मेधास्मृतिकरं धन्यं क्षीराशी तत्प्रयोजयेत् ॥२३१॥प्रयोगः सप्तसप्ताहास्त्रयश्चैकश्च सप्तकः ।निर्दिष्टस्त्रिविधस्तस्य परो मध्योऽवरस्तथा ॥२३२॥(शिलाजतुः)मात्रा पलं त्वर्द्धपलं स्यात्कर्षं तु कनीयसी ॥२३३॥(शिलाजतुः)शिलाजतुप्रयोगेषु विदाहीनि गुरूणि च ।वर्जयेत्सर्वकालं च कुलत्थान्परिवर्जयेत् ॥२३४॥पयांसि शुक्तानि रसाः सयूषास्तोयं समूत्रं विविधाः कषायाः ।आलोडनार्थं गिरिजस्य शस्तास्ते ते प्रयोज्याः प्रसमीक्ष्य कार्यम् ॥२३५॥(कामेश्वरमोदक)सम्यङ्मारितमभ्रकं कटुफलं कुष्ठाश्वगन्धामृता मेथी मोचरसो विदारिमुशली गोक्षूरकं चेक्षुरम् ।रम्भाकन्दशतावरी ह्यजमोदा माषास्तिला धान्यकं यष्टी नागबला बला मधुरिका जातीफलं सैन्धवम् ॥२३६॥भार्ङ्गीकर्कटशृङ्गिका त्रिकटुकं जीरद्वयं चित्रकं चातुर्जातपुनर्नवे गजकणा द्राक्षा शठी वासकम् ।शाल्मल्यङ्घ्रिफलत्रिकं कपिभवं बीजं समं चूर्णयेत्चूर्णांशा विजया सिता द्विगुणिता मध्वाज्यमिश्रं तु तत् ॥२३७॥कर्षार्द्धा गुडिकाथ कर्षमथवा सेव्या सतां सर्वदा पेया क्षीरसितानुवीर्यकरणे स्तम्भेऽप्ययं कामिनाम् ।वामावश्यकरः सुखातिसुखदः प्रौढाङ्गनाद्रावकः क्षीणे पुष्टिकरः क्षयक्षयकरो नानामयध्वंसकः ॥२३८॥कासश्वासमहातिसारशमनो मन्दाग्निसन्दीपनः दुर्नामग्रहणीप्रमेहनिवहश्लेष्मास्रपित्तप्रणुत् ।नित्यानन्दकरो विशेषकवितावाचां विलासोद्भवं धत्ते सर्वगुणं महास्थिरवयो ध्यानावधानेऽप्यलम् ॥२३९॥अभ्यासेन निहन्ति मृत्युपलितं कामेश्वरो वत्सरात्सर्वेषां हितकारिणा निगदितः श्रीनित्यनाथेन सः ।वृद्धानां अपि कामवर्धनकरः प्रौढाङ्गनासङ्गमे सिद्धोऽयं मम दृष्टिप्रत्ययकरो भूपैः सदा सेव्यताम् ॥२४०॥(चूर्णरत्न)वृष्यगणचूर्णतुल्यं तत्पुटपक्वं घनं सिता द्विगुणम् ।वृष्यात्परमतिवृष्यं रसायनं चूर्णरत्नमिदम् ॥२४१॥(शृङ्गाराभ्ररसः)शुद्धं कृष्णाभ्रचूर्णं द्विपलपरिमितं शाणमानं यदन्यत् ।कर्पूरं जातिकोषं सजलमिभकणा तेजपत्रं लवङ्गम् ॥२४२॥मांसी तालीशचोचे गजकुसुमगदं धातकी चेति तुल्यम् ।पथ्या धात्री विभीतं त्रिकटुरथ पृथक्त्वर्द्धशाणं द्विशाणम् ॥२४३॥एलाजातीफलाख्यं क्षितितलविधिना शुद्धगन्धाश्मकोलं कोलार्द्धं पारदस्य प्रतिपदविहितं पिष्टमेकत्र मिश्रम् ।पानीयेनैव कार्याः परिणतचणकस्विन्नतुल्याश्च वट्यः प्रातः खाद्याश्चतस्रस्तदनु च हि कियच्छृङ्गवेरं सपर्णम् ॥२४४॥पानीयं पीतमन्ते ध्रुवमपहरति क्षिप्रमेतान्विकारान्कोष्ठे दुष्टाग्निजातान्ज्वरमुदररुजो राजयक्ष्मं क्षयं च ।कासं श्वासं सशोथं नयनपरिभवं मेहमेदोविकारान्छर्दिं शूलाम्लपित्तं तृषमपि महतीं गुल्मजालं विशालम् ॥२४५॥पाण्डुत्वं रक्तपित्तं गरलभवगदान्पीनसं प्लीहरोगं हन्यादामानिलोत्थान्कफपवनकृतान्पित्तरोगानशेषान् ।बल्यो वृष्यश्च योगस्तरुणतरकरः सर्वरोगे प्रशस्तः पथ्यं मांसैश्च यूषैर्घृतपरिलुलितैर्गव्यदुग्धैश्च भूयः ॥२४६॥भोज्यं योज्यं यथेष्टं ललितललनया दीयमानं मुदा यच्छृङ्गाराभ्रेण कामी युवतिजनशतां भोगयोगादतुष्टः ।वर्ज्यं शाकाम्लमादौ दिनकतिपयचित्स्वेच्छया भोज्यमन्यद्दीर्घायुः काममूर्तिर्गतवलिपलितो मानवोऽस्य प्रसादात् ॥२४७॥(जयावटी)विषं त्रिकटुकं मुस्तं हरिद्रा निम्बपत्रकम् ।विडङ्गमष्टमं चूर्णं छागमूत्रैः समं समम् ।चणकाभा वटी कार्या स्याज्जया योगवाहिका ॥२४८॥(त्रिनेत्ररसः)आदौ गन्धहतं शुल्वं पश्चात्तुल्याहिपारदम् ।त्रिनेत्रो हविषा पिष्टः शीतवीर्योऽर्द्धगन्धकः ॥२४९॥उष्णश्चेत्तुल्यगन्धेन कुर्यात्संमर्द्य पर्पटीम् ।देहसिद्धिकरो ह्येष सर्वरोगनिकृन्तनः ॥२५०॥(सिद्धयोगेश्वररसः)शुद्धं सूतं द्विधा गन्धं खल्वे घृष्ट्वा तु कज्जलीम् ।तयोः समं कान्तलौहमभावे तस्य तीक्ष्णकम् ॥२५१॥मेलितं देवदेवेशि मर्दितं कन्यकाद्रवैः ।यामद्वयं ततः पश्चात्तद्गोलं ताम्रसम्पुटे ॥२५२॥आच्छाद्यैरण्डपत्रैस्तु धान्यराशौ निधापयेत् ।त्रिदिनान्ते समुद्धृत्य पिष्टं वारितरं भवेत् ॥२५३॥कुमारी भृङ्गकोरण्टौ काकमाची पुनर्नवा ।नीली मुण्डी च निर्गुण्डी सहदेवी शतावरी ॥२५४॥अम्लपर्णी गोक्षुरकः कच्छूमूलं वटाङ्कुराः ।एतेषां भावयेद्द्रावैः सप्तवारान्पृथक्पृथक् ॥२५५॥त्र्यूषणत्रिफलासोमराजीनां च कषायकैः ।शुष्केऽस्मिंस्तोलितं चूर्णं सममेकादशाभिधम् ॥२५६॥वराव्योषाग्निविश्वैला जातीफललवङ्गकम् ।संयोज्य मधुनालोड्य विमर्द्येदं भजेत्सदा ॥२५७॥रात्रौ पिबेद्गवां क्षीरं कृष्णानां च विशेषतः ।संवत्सराज्जरामृत्युरोगजालं निवारयेत् ॥२५८॥वीर्यवृद्धिकरं श्रेष्ठं रामाशतसुखप्रदम् ।तावन्न च्यवते वीर्यं यावदम्लं न सेवते ॥२५९॥दीपनं कान्तिदं पुष्टितुष्टिकृत्सेविनां सदा ।सुगुप्तः कथितः सूतः सिद्धयोगेश्वराभिधः ॥२६०॥(पलितघ्नचूर्णम्)त्रिफला लोहजं चूर्णं रक्तचित्रकजा जटा ।च्युतक्षुद्राम्रकं बीजं पालाशं क्षुद्रदुग्धिका ॥२६१॥एतदष्टकमादाय पृथक्पञ्चपलोन्मितम् ।मिश्रयित्वा पलाशस्य सर्वाङ्गरसभावितम् ॥२६२॥महाकालजबीजानां भागत्रयमथाहरेत् ।भागं कृष्णतिलस्यैकं मिश्रयित्वा निपीडयेत् ॥२६३॥तेन तैलेन तच्चूर्णं पिण्डीकार्यं विमर्दनात् ।स्निग्धे भाण्डे तदाधाय शरावेण निरोधयेत् ॥२६४॥लिप्त्वा तदाशु धान्ये च पललौघे निधापयेत् ।मासमात्रात्समाहृत्य पूजयित्वा शिवं शिवम् ॥२६५॥तोलैकं भक्षयेत्प्रातस्तोलैकं भोजनोपरि ।एवं मासत्रयाभ्यासात्पलितं हन्त्यसंशयम् ।वर्षैकेन जरां हत्वा मृत्युं जयति मानवः ॥२६६॥(कामिनीमदनिधूननरसः)कज्जलीकृतसुगन्धकशम्भोस्तुल्यभागकनकस्य बीजम् ।मर्दयेत्कनकतैलयुतं स्यात्कामिनीमदविधूनन एषः ॥२६७॥अस्य वल्लयुगलं ससितं चेत्सेवितं हरति मेहगणौघम् ।वीर्यदार्ढ्यकरणं कमनीयं द्रावणं निधुवने वनितानाम् ॥२६८॥(चतुर्मुखरसः)रसगन्धकलौहाभ्रं समं सूताङ्घ्रि हेम च ।सर्वं खल्वतले क्षिप्त्वा कन्यास्वरसमर्दितम् ॥२६९॥त्रिफलातुलसीब्राह्मीरसैश्चानु विमर्दयेत् ।एरण्डपत्रैरावेष्ट्य धान्यराशौ दिनत्रयम् ॥२७०॥संस्थाप्य च तदुद्धृत्य त्रिफलामधुसंयुतम् ।एतद्रसायनवरं सर्वरोगेषु योजयेत् ॥२७१॥तद्यथाग्निबलं खादेद्वलीपलितनाशनम् ।पौष्टिकं बल्यमायुष्यं पुत्रप्रसवकारकम् ॥२७२॥क्षयमेकादशविधं कासं पञ्चविधं तथा ।कुष्ठमष्टादशविधं पाण्डुरोगान्प्रमेहकान् ॥२७३॥शूलं श्वासं च हिक्कां च मन्दाग्निं चाम्लपित्तकम् ।व्रणान्सर्वानामवातं विसर्पं विद्रधिं तथा ॥२७४॥अपस्मारं महोन्मादं सर्वार्शांसि त्वगामयान् ।क्रमेण शीलितं हन्ति वृक्षमिन्द्राशनिर्यथा ।चतुर्मुखेन देवेन कृष्णात्रेयाय सूचितम् ॥२७५॥(गन्धलौह)गन्धं लौहं भस्म मध्वाज्ययुक्तं सेव्यं वर्षं वारिणा त्रैफलेन ।शुक्ले केशे कालिमा दिव्यदृष्टिः पुष्टिवीर्यं जायते दीर्घमायुः ॥२७६॥(सिद्धलक्ष्मीश्वररसः)अष्टांशहेम्नि हरजे शिखिमूषिकायां संजार्य षड्गुणबलिं क्रमशोऽधिकं च ।ऊर्ध्वं पयोऽग्निं अधरे विनिधाय धीराः सिद्धीः समग्रमतुलाः स्वकरे कुरुध्वम् ॥२७७॥(वह्निसिद्धरसः)लौहं गन्धं टङ्कणं भ्रामयित्वा सार्धस्तस्मिन्सूतकोऽन्यश्च गन्धः ।कन्याम्भोभिर्मर्दितः काचकूप्यां क्षिप्तो वह्णौ सिद्धये वह्णिसिद्धः ॥२७८॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP