संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसेन्द्रचिन्तामणि| अध्यायः ४ रसेन्द्रचिन्तामणि अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ रसेन्द्रचिन्तामणि - अध्यायः ४ रसेन्द्रचिन्तामणि चौदाव्या शतकांतील गद्यपद्य मिश्रित ग्रंथ आहे. Tags : rasendrachintamaniVedआयुर्वेदरसेन्द्रचिन्तामणि अध्यायः ४ Translation - भाषांतर अथाभ्रीयं व्याचक्ष्महे ॥१॥तत्किल निखिलजरामरणपरिहारेण सुधारससध्रीचीनत्वं अङ्गीकरोति ।साधनानामस्य बहुभिर्बहुधोपवर्णितानां रसमङ्गलीयमन्यतमं विलिखामः ॥२॥(अभ्रः वज्र)यदञ्जननिभं क्षिप्तं न वह्नौ विकृतिं व्रजेत् ।वज्रसंज्ञं हि तद्योज्यमभ्रं सर्वत्र नेतरत् ॥३॥(अभ्रः)वज्रं भेकवपुः कृष्णमभ्रकं त्रिविधं मतम् ।ततः कृष्णं समादाय पाचयेत्काण्डिके रसे ॥४॥(अभ्रः)ततः कृष्णं समादायेत्यनेन कृष्णत्वसामान्याद्वज्रकृष्णाभ्रयोर्ग्रहणम् ।भेकवपुस्तु हरितपीतादिवर्णं न ग्राह्यमिति ॥५॥(अभ्रः सत्त्वपातन)चूर्णीकृतं गगनपत्रमथारनाले धृत्वा दिनैकं अवशोष्य च सूरणस्य ।भाव्यं रसैस्तदनु मूलरसैः कदल्याः पादांशटङ्कणयुतं शफरैः समेतम् ॥६॥पिण्डीकृतं तु बहुधा महिषीमलेन संशोष्य कोष्ठगतमाशु धमेद्धठाग्नौ ।सत्त्वं पतत्यतिरसायनजारणार्थं योग्यं भवेत्सकललौहगुणाधिकं च ॥७॥(अभ्रः सत्त्वः एकीकरण)कणशो यद्भवेत्सत्त्वं मूषायां प्रणिधाय तत् ।मित्रपञ्चकयुग्ध्मातमेकीभवति घोषवत् ॥८॥(पञ्चमित्र)घृतमधुगुग्गुलुगुञ्जाटङ्कणमिति पञ्चमित्रसंज्ञं च ।मेलयति सर्वधातूनङ्गाराग्नौ तु धमनेन ॥९॥समगन्धमभ्रसत्त्वं सटङ्कणं शूकमूषया ध्मातम् ।सार्धं तत्सत्त्वरजः सपारदं सकलकार्यकरम् ॥१०॥(अभ्रः सत्त्वः शोधन, मारण)अयोधातुवच्छोधनमारणमेतस्य ॥११॥(अभ्रः सत्त्वः सेवन)चूर्णं अभ्रकसत्त्वस्य कान्तलोहस्य वा ततः ।तीक्ष्णस्य महादेवि त्रिफलाक्वाथभावितम् ॥१२॥यावदञ्जनसंकाशं वस्त्रच्छन्नं विशोष्य च ।भृङ्गामलकसारेण हरिद्राया रसेन च ॥१३॥मिश्रितं क्रौञ्चजघृतमधुसंमिश्रितं ततः ।लोहसम्पुटमध्यस्थं मासं धान्ये प्रतिष्ठितम् ॥१४॥घृतेन मधुना लिह्यात्क्षेत्रीकरणमुत्तमम् ।एवं वर्षप्रयोगेन सहस्रायुर्भवेन्नरः ॥१५॥(अभ्रः वज्रः शोधन)वज्राभ्रं च धमेद्वह्नौ ततः क्षीरे विनिक्षिपेत् ।भिन्नपत्रं तु तत्कृत्वा तण्डुलीयाम्लयोर्द्रवैः ।भावयेदष्टयामं तदेवं शुध्यति चाभ्रकम् ॥१६॥धान्याभ्रभस्मप्रयोगस्यारुणकृष्णभेदेन प्रकारद्वयं विलिख्यते ॥१७॥(अभ्रः मारण)कृत्वा धान्याभ्रकं तत्तु शोषयित्वा तु मर्दयेत् ।अर्कक्षीरौदनं मर्द्यमर्कमूलद्रवेण वा ॥१८॥वेष्टयेदर्कपत्रैस्तु सम्यग्गजपुटे पचेत् ।पुनर्मर्द्यं पुनः पाच्यं सप्तवारं प्रयत्नतः ॥१९॥ततो वटजटाक्वाथैस्तद्वद्देयं पुटत्रयम् ।म्रियते नात्र सन्देहः सर्वरोगेषु योजयेत् ॥२०॥(अभ्रः मारण)अभ्रं टङ्कणसम्पिष्टं स्थाल्यां मृदयसोः पचेत् ।म्रियते नात्र सन्देहो गुणाधिक्याय वौषधैः ॥२१॥तण्डुलीयकबृहतीनागवल्लीतगरपुनर्नवाहिलमोचिकामण्डूकपर्णीतिक्तिकाखुपर्णिकामदनार्कार्द्रकपलाशसूतमातृकादिभिर्मर्दनपुटनैरपि मारणीयम् ॥२२॥(अभ्रः मारण )धान्याभ्रकस्य भागैकं द्वौ भागौ टङ्कणस्य च ।पिष्ट्वा तदन्धमूषायां रुद्ध्वा तीव्राग्निना पचेत् ।स्वभावशीतलं चूर्णं सर्वयोगेषु योजयेत् ॥२३॥(अभ्रः मारण)धान्याभ्रकं समादाय मुस्ताक्वाथैः पुटत्रयम् ।तद्वत्पुनर्नवानीरैः कासमर्दरसैस्तथा ॥२४॥नागवल्लीरसैः सूर्यक्षीरैर्देयं पृथक्पृथक् ।दिनं दिनं मर्दयित्वा क्वाथैर्वटजटोद्भवैः ॥२५॥दत्त्वा पुटत्रयं पश्चात्त्रिः पुटेन्मुसलीरसैः ।त्रिर्गोक्षुरकषायेण त्रिःपुटेद्वानरीरसैः ॥२६॥मोचकन्दरसैः पाच्यं त्रिरात्रं कोकिलाक्षकैः ।रसैः पुटेच्च लोध्रस्य क्षीरादेकपुटं ततः ॥२७॥दध्ना घृतेन मधुना स्वच्छया सितया तथा ।एकमेकं पुटं दद्यादभ्रस्यैवं मृतिर्भवेत् ॥२८॥सर्वरोगहरं व्योम जायते योगवाहकम् ।कामिनीमददर्पघ्नं शस्तं पुंस्त्वोपघातिनाम् ॥२९॥वृष्यमायुष्करं शुक्रवृद्धिसन्तानकारकम् ।(अभ्रः मारण (?))रम्भाद्भिरभ्रं लवणेन पिष्ट्वा चक्रीकृतं टङ्कणमध्यवर्ति ।दग्धेन्धनेषु व्यजनानिलेन स्नुह्यर्कमूलाम्बुपुटं च सिद्ध्यै ॥३०॥(अभ्रः भस्मनः)तुल्यं घृतं मृताभ्रेण लोहपात्रे विपाचयेत् ।घृते जीर्णे तदभ्रं तु सर्वकार्येषु योजयेत् ॥३१॥(अभ्रः भस्मनः)त्रिफलोत्थकषायस्य पलान्यादाय षोडश ।गोघृतस्य पलान्यष्टौ मृताभ्रस्य पलान्दश ॥३२॥एकीकृत्य लोहपात्रे पाचयेन्मृदुनाग्निना ।द्रवे जीर्णे समादाय सर्वरोगेषु योजयेत् ॥३३॥अरुणस्य पुनरमृतीकरणेन गुणवृद्धिवर्णहानस्तः ॥३४॥अथ प्रसङ्गाद्द्रुतयो लिख्यन्ते ॥३५॥(अभ्रः द्रुति)अगस्तिपुष्पनिर्यासैर्मर्दितः सूरणोदरे ।गोष्ठभूस्थो घनो मासं जायते जलसंनिभः ॥३६॥(अभ्रः द्रुति)स्वरसेन वज्रवल्ल्याः पिष्टं सौवर्चलान्वितं गगनम् ।पक्वं च शरावपुटे बहुवारं भवति रसरूपम् ॥३७॥(अभ्रः द्रुति)निजरसबहुपरिभावितसुरदालीचूर्णवापेन ।द्रवति पुनः संस्थानं भजते गगनं न कालेऽपि ॥३८॥(अभ्रः सत्त्वः द्रुति)निजरसशतपरिभावितकञ्चुकिकन्दोत्थपरिवापात् ।द्रुतमास्तेऽभ्रकसत्त्वं तथैव सर्वाणि लोहानि ॥३९॥(द्रुतिः मेलापन)कृष्णागुरुणा मिलितै रसोनसितरामठैरिमा द्रुतयः ।सोष्णे मिलन्ति मर्द्याः स्त्रीकुसुमपलाशबीजरसैः ॥४०॥मुक्ताफलानि सप्ताहं वेतसाम्लेन भावयेत् ।जम्बीरोदरमध्ये तु धान्यराशौ निधापयेत् ॥४१॥पुटपाकेन तच्चूर्णं द्रवते सलिलं यथा ।कुरुते योगराजोऽयं रत्नानां द्रावणं प्रिये ॥४२॥(अभ्र सत्त्वः पातन)गुडः पुरस्तथा लाक्षा पिण्याकं टङ्कणं तथा ।ऊर्णा सर्जरसश्चैव क्षुद्रमीनसमन्वितम् ॥४३॥एतत्सर्वं तु संचूर्ण्य छागदुग्धेन पिण्डिकाः ।कृता ध्माताः खराङ्गारैः सत्त्वं मुञ्चन्ति नान्यथा ॥४४॥पाषाणमृत्तिकादीनि सर्वलोहानि वा पृथक् ।अन्यानि यान्यसाध्यानि व्योमसत्त्वस्य का कथा ॥४५॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP