रसेन्द्रचिन्तामणि - अध्यायः ५
रसेन्द्रचिन्तामणि चौदाव्या शतकांतील गद्यपद्य मिश्रित ग्रंथ आहे.
(गन्धकः शोधन)
आदौ गन्धकटङ्कादि क्षालयेज्जम्भकरिणा ।
दृढसंलग्नधूल्यादि मलं तेन विशीर्यते ॥१॥
गन्धः सक्षीरभाण्डस्थो वस्त्रे कूर्मपुटाच्छुचिः ।
अथवा काञ्जिके तद्वत्सघृते शुद्धिमाप्नुयात् ॥२॥
गन्धकमत्र नवनीताख्यमुपादेयम् ॥३॥
लौहपात्रे विनिक्षिप्य घृतं अग्नौ प्रतापयेत् ।
तप्ते घृते तत्समानं क्षिपेद्गन्धकजं रजः ॥४॥
विद्रुतं गन्धकं ज्ञात्वा दुग्धमध्ये विनिक्षिपेत् ।
एवं गन्धकशुद्धिः स्यात्सर्वकार्येषु योजयेत् ॥५॥
गन्धकस्य च पादांशं दत्त्वा च टङ्कणं पुनः ।
मर्दयेन्मातुलुङ्गाम्लै रुवुतैलेन भावयेत् ।
चूर्णं पाषाणगं कृत्वा शनैर्गन्धं खरातपे ॥६॥
विचूर्ण्य गन्धकं क्षीरे घनीभावावधिं पचेत् ।
ततः सूर्यावर्त्तरसं पुनर्दत्त्वा पचेच्छनैः ॥७॥
पश्चाच्च पातयेत्प्राज्ञो जले त्रैफलसम्भवे ।
जहाति गन्धको गन्धं निजं नास्तीह संशयः ॥८॥
देवदाल्यम्लपर्णी वा नागरं वाथ दाडिमम् ।
मातुलुङ्गं यथालाभं द्रवमेकस्य वा हरेत् ॥९॥
गन्धकस्य तु पादांशं टङ्कणं द्रवसंयुतम् ।
अनयोर्गन्धकं भाव्यं त्रिभिर्वारैस्ततः पुनः ॥१०॥
धूस्तूरस्तुलसीकृष्णा लशुनं देवदालिका ।
शिग्रुमूलं काकमाची कर्पूरः शङ्खिनीद्वयी ॥११॥
कृष्णागुरुश्च कस्तूरी वन्ध्याकर्कोटकीद्वयी ।
मातुलुङ्गरसैः पिष्ट्वा क्षिपेदेरण्डतैलके ॥१२॥
अनेन लौहपात्रस्थं भावयेत्पूर्वगन्धकम् ।
त्रिवारं क्षौद्रतुल्यं तु जायते गन्धकवर्जितम् ॥१३॥
(गन्धतैल)
अर्कक्षीरैः स्नुहीक्षीरैर्वस्त्रं लेप्यं तु सप्तधा ।
गन्धकं नवनीतेन पिष्ट्वा वस्त्रं विलेपयेत् ॥१४॥
तद्वर्तिर्ज्वलिता दण्डे धृता धार्या त्वधोमुखी ।
तैलं पतत्यधोभाण्डे ग्राह्यं योगेषु योजयेत् ॥१५॥
(गन्धतैल)
आवर्त्यमाने पयसि दध्याद्गन्धकजं रजः ।
तज्जातदधिजं सर्पिर्गन्धतैलं नियच्छति ॥१६॥
(गन्धतैलःः मेदिच्. प्रोपेर्तिएस्)
गन्धतैलं गलत्कुष्ठं हन्ति लेपाच्च भक्षणात् ।
अनेन पिण्डिका कार्या रसेन्द्रस्योक्तकर्मसु ॥१७॥
शुद्धसूतपलैकं तु कर्षैकं गन्धकस्य च ।
स्विन्नखल्वे विनिक्षिप्य देवदालीरसप्लुतम् ।
मर्दयेच्च कराङ्गुल्या गन्धबन्धः प्रजायते ॥१८॥
भागा द्वादश सूतस्य द्वौ भागौ गन्धकस्य च ।
मर्दयेद्घृतयोगेन जायते गन्धपिष्टिका ॥१९॥
अष्टौ भागा रसेन्द्रस्य भाग एकस्तु गान्धिकः ।
विषतैलादिना मर्द्यो गन्धबन्धः प्रजायते ॥२०॥
दशनिष्कं शुद्धसूतं निष्कैकं शुद्धगन्धकम् ।
स्तोकं स्तोकं क्षिपेत्खल्वे मर्दयेच्च शनैः शनैः ।
कुट्टनाज्जायते पिष्टिः सेयं गन्धकपिष्टिका ॥२१॥
फलं चास्य गन्धकजारणनागमारणादि ॥२२॥
शुद्धगन्धो हरेद्रोगान्कुष्ठमृत्युज्वरादिकान् ।
अग्निकारी महानुष्णो वीर्यवृद्धिं करोति च ॥२३॥
N/A
References : N/A
Last Updated : June 24, 2015
TOP