संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसेन्द्रचिन्तामणि| अध्यायः ७ रसेन्द्रचिन्तामणि अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ रसेन्द्रचिन्तामणि - अध्यायः ७ रसेन्द्रचिन्तामणि चौदाव्या शतकांतील गद्यपद्य मिश्रित ग्रंथ आहे. Tags : rasendrachintamaniVedआयुर्वेदरसेन्द्रचिन्तामणि अध्यायः ७ Translation - भाषांतर अथ विषोपरससाधनाध्यायं व्याचक्ष्महे ॥१॥विषं हि नाम निखिलरसायनानां ऊर्जस्वलं अखिलव्याधिविध्वंसविधायकतां आसादयति ॥२॥तत्खल्वष्टादशप्रकारं भवति ।यत्र सक्तुकमुस्तककौर्मदार्वीकसार्षपसैकतवत्सनाभश्वेतशृङ्गिभेदानि प्रयोगार्थं आहरणीयानि भवन्ति ॥३॥(सक्तुक)चित्रमुत्पलकन्दाभं सुपिष्टं सक्तुवद्भवेत् ।सक्तुकं तद्विजानीयाद्दीर्घवेगं महोल्बणम् ॥४॥(मुस्तक)ह्रस्ववेगं च रोगघ्नं मुस्तकं मुस्तकाकृति ।(कौर्म, दार्वीक)कूर्माकृति भवेत्कौर्मं दार्वीकोऽहिफणाकृति ॥५॥(सार्षप)ज्वरहृत्सार्षपं रोमसर्षपामकणाचितम् ।स्थूलसूक्ष्मैः कणैर्युक्तः श्वेतपीतैर्विरोमकः ॥६॥(सैकत)ज्वरादिसर्वरोगघ्नः कन्दः सैकतमुच्यते ॥७॥(वत्सनाभ)यः कन्दो गोस्तनाकारो न दीर्घः पञ्चमाङ्गुलात् ।न स्थूलो गोस्तनादूर्ध्वं द्विविधो वत्सनाभकः ॥८॥आशुकारी लघुस्त्यागी शुक्लकृष्णोऽन्यथा भवेत् ।प्रयोज्यो रोगहरणे जारणायां रसायने ॥९॥(श्वेतशृङ्गी)गोशृङ्गवद्द्विधा शृङ्गी श्वेतः स्याद्बहिरन्तरे ॥१०॥एतानि सक्तुकाद्यानि वातादौ रक्तमेलनेनोन्मादसन्निपातादौ च प्रयोज्यानि ॥११॥कालकूटमेषशृङ्गीदर्दुरहालाहलकर्कोटग्रन्थिहारिद्ररक्तशृङ्गीकेशरयमदंष्ट्राप्रभेदेन दशविषाणि परिवर्जनीयानि ॥१२॥(कालकूट)वृत्तकन्दो भवेत्कृष्णो जम्बीरफलवच्च यः ।तं कालकूटं जानीयात्घ्राणमात्रान्मृतिप्रदम् ॥१३॥(मेषशृङ्गी)मेषशृङ्गाकृतिः कन्दो मेषशृङ्गीति कीर्त्यते ।(दर्दुर)दर्दुराकृतिकः कन्दो दर्दुरः कथितस्तु सः ॥१४॥(हलाहल)अन्तर्नीलं बहिः श्वेतं विजानीयाद्धलाहलम् ।(कर्कोट)कर्कोटाभं तु कर्कोटं खरं बाह्येऽन्तरे मृदु ॥१५॥(हारिद्र)हरिद्राग्रन्थिवद्ग्रन्थिः कृष्णवर्णोऽतिभीषणः ।मूलाग्रयोः सुवृत्तः स्यादायतः पीतगर्भकः ।कञ्चुकाढ्यः स्निग्धपर्वा हारिद्रः स्याच्च कन्दकः ॥१६॥(रक्तशृङ्गी)गोशृङ्गाग्रेऽथ संक्षिप्ते नाशयासृक्प्रवर्तते ।कन्दो लघुर्गोस्तनवद्रक्तशृङ्गीति तद्विषम् ॥१७॥(केसर)शुक्लाभं यत्केशरं स्याद्गर्भे तत्केशरं विदुः ।(यमदंष्ट्रा)श्वदंष्ट्रारूपसंस्थाना यमदंष्ट्रेति सोच्यते ॥१८॥रसवादे धातुवादे विषवादे क्वचित्क्वचित् ।दशैतानि प्रयुज्यन्ते न भैषज्ये रसायने ॥१९॥उद्धरेत्फलपाके तु नवं स्निग्धं घनं गुरु ।अव्याहतं विषहरैर्वातादिभिरशोषितम् ॥२०॥(पोइसोनःः शोधन)विषभागान्चणकवत्स्थूलान्कृत्वा तु भाजने ।तत्र गोमूत्रकं क्षिप्त्वा प्रत्यहं नित्यनूतनम् ॥२१॥शोषयेत्त्रिदिनादूर्ध्वं धृत्वा तीव्रातपे ततः ।प्रयोगेषु प्रयुञ्जीत भागमानेन तद्विषम् ॥२२॥रक्तसर्षपतैलेन लिप्ते वाससि धारयेत् ।विषं शुद्धं प्रयत्नेन नान्यत्र गुणहानितः ॥२३॥समटङ्कणसम्पिष्टं तद्विषं मृतमुच्यते ।योजयेत्सर्वरोगेषु न विकारं करोति तत् ॥२४॥श्वेतो रक्तश्च पीतश्च कृष्णश्चेति चतुर्विधः ।ब्राह्मणः क्षत्रियो वैश्यः क्रमाज्ज्ञेयश्च शूद्रकः ॥२५॥सर्वरोगहरो विप्रः क्षत्रियो रसवादकृत् ।वैश्योऽपि रोगहर्ता स्याच्छूद्रः सर्वत्र निन्दितः ॥२६॥ब्राह्मणो दीयते रोगे क्षत्रियो विषभक्षणे ।वैश्यो व्याधिषु सर्वेषु सर्पदंष्ट्रे च शूद्रकः ॥२७॥शरद्ग्रीष्मवसन्तेषु वर्षासु न तु दापयेत् ।चतुर्मासे हरेद्रोगान्कुष्ठलूतादिकानपि ॥२८॥यवाष्टकं भवेद्यावदभ्यस्तं तिलमात्रया ।सर्वरोगोपशमनं दृष्टिपुष्टिकरं भवेत् ॥२९॥प्रथमे सार्षपी मात्रा द्वितीये सर्षपद्वयम् ।तृतीये च चतुर्थे च पञ्चमे दिवसे तथा ॥३०॥षष्ठे च सप्तमे चैव क्रमवृद्ध्या विवर्धयेत् ।सप्तसर्षपमात्रेण प्रथमं सप्तकं नयेत् ॥३१॥क्रमहान्या तथा देयं द्वितीये सप्तके विषम् ।यवमात्रं विषं देयं तृतीये सप्तके क्रमात् ॥३२॥वृद्धहान्या च दातव्यं चतुर्थे सप्तके तथा ।यवमात्रं ग्रसेत्स्वस्थो गुञ्जामात्रं तु कुष्ठवान् ॥३३॥अशीतिर्यस्य वर्षाणि वसुवर्षाणि यस्य वा ।विषं तस्मै न दातव्यं दत्तं वै दोषकारकम् ॥३४॥दातव्यं सर्वरोगेषु घृताशिनि हिताशिनि ।क्षीराशिनि प्रयोक्तव्यं रसायनरते नरे ॥३५॥ब्रह्मचर्यप्रधानं हि विषकल्पे समाचरेत् ।पथ्यैः सुस्थमना भूत्वा तदा सिद्धिर्न संशयः ॥३६॥मात्राधिकं यदा मर्त्यः प्रमादाद्भक्षयेद्विषम् ।अष्टौ वेगास्तदा चैव जायन्ते तस्य देहिनः ॥३७॥संतापः प्रथमे वेगे द्वितीये वेपथुर्भवेत् ।वेगे तृतीये दाहः स्याच्चतुर्थे पतनं भुवि ॥३८॥फेनं तु पञ्चमे वेगे षष्ठे विकलता भवेत् ।जडता सप्तमे वेगे मरणं चाष्टमे भवेत् ॥३९॥विषवेगानिति ज्ञात्वा मन्त्रतन्त्रैर्विनाशयेत् ॥४०॥अतिमात्रं यदा भुक्तं वमनं कारयेत्तदा ॥४१॥तावद्दद्यादजादुग्धं यावद्वान्तिर्न जायते ।अजादुग्धं यदा कोष्ठे स्थिरीभवति देहिनः ।विषवेगं तदोत्तीर्णं जानीयात्कुशलो भिषक् ॥४२॥विषं हन्याद्रसः पीतो रजनीमेघनादयोः ।सर्पाक्षी टङ्कणं वापि घृतेन विषहृत्परम् ॥४३॥पुत्रजीवकमज्जा वा पीतो निम्बुकवारिणा ।विषवेगं निहन्त्येव वृष्टिर्दावानलं यथा ॥४४॥न क्रोधिते न पित्तार्ते न क्लीबे राजयक्ष्मणि ।क्षुत्तृष्णाश्रमघर्माध्वसेविनि क्षयरोगिणि ।गर्भिणीबालवृद्धेषु न विषं राजमन्दिरे ॥४५॥न दातव्यं न भोक्तव्यं विषं वादे कदाचन ।आचार्येण तु भोक्तव्यं शिष्यप्रत्ययकारकम् ॥४६॥कालकूटो वत्सनाभः शृङ्गिकश्च प्रदीपनः ।हालाहलो ब्रह्मपुत्रो हारिद्रः सक्तुकस्तथा ।सौराष्ट्रिकः इति प्रोक्ता विषभेदा अमी नव ॥४७॥(उपविष)अर्कसेहुण्डधुस्तूरलाङ्गलीकरवीरकाः ।गुञ्जाहिफेनावित्येताः सप्तोपविषजातयः ॥४८॥एतैर्विमर्दितः सूतश्छिन्नपक्षः प्रजायते ।मुखं च जायते तस्य धातूंश्च ग्रसतेतराम् ॥४९॥श्वेतरक्तपीतकृष्णा द्विजाद्या वज्रजातयः ।स्त्रीपुंनपुंसकात्मानो लक्षणेन तु लक्षयेत् ॥५०॥(वज्रः पुंवज्र)वृत्ताः फलकसम्पूर्णास्तेजोवन्तो बृहत्तराः ।पुरुषास्ते समाख्याता रेखाबिन्दुविवर्जिताः ॥५१॥(वज्रःः स्त्रीवज्र)रेखाबिन्दुसमायुक्ताः षट्कोणास्ते स्त्रियो मताः ॥५२॥(वज्रः नपुंसक)त्रिकोणाः पत्तला दीर्घा विज्ञेयास्ते नपुंसकाः ॥५३॥(वज्रः)सर्वेषां पुरुषाः श्रेष्ठा वेधका रसबन्धकाः ।स्त्रीवज्रं देहसिद्ध्यर्थं क्रामणे स्यान्नपुंसकम् ॥५४॥विप्रो रसायने प्रोक्तः क्षत्रियो रोगनाशने ।वादे वैश्यं विजानीयाद्वयःस्तम्भे तुरीयकम् ॥५५॥स्त्री तु स्त्रीणां प्रदातव्या क्लीबे क्लीबं तथैव च ।सर्वेषां सर्वदा योज्याः पुरुषा बलवत्तराः ॥५६॥(वज्रः शोधन)व्याघ्रीकन्दोदरे क्षिप्त्वा सप्तधा पुटितः पविः ।हयमूत्रस्य निर्वापाच्छुद्धः प्रतिपुटं भवेत् ॥५७॥(वज्रः मारणम्)त्रिवर्षनागवल्ल्याश्च कार्पास्या वाथ मूलिकाम् ।पिष्ट्वा तन्मध्यगं वज्रं कृत्वा मूषां निरोधयेत् ।मुनिसंख्यैर्गजपुटैर्म्रियते ह्यविचारितम् ॥५८॥(वज्रः मारण)मण्डूकं कांस्यजे पात्रे निगृह्य स्थापयेत्सुधीः ।स भीतो मूत्रयेत्तत्र तन्मूत्रे वज्रमावपेत् ।तप्तं तप्तं च बहुधा वज्रस्यैवं मृतिर्भवेत् ॥५९॥(वज्रः मारण)हिङ्गुसैन्धवसंयुक्ते क्वाथे कौलत्थके क्षिपेत् ।तप्तं तप्तं पुनर्वज्रं भवेद्भस्म त्रिसप्तधा ॥६०॥(वज्रः भस्मनः)रसे यत्र भवेद्वज्रं रसः सोऽमृतमुच्यते ।भस्मीभावगतं युक्त्या वज्रवत्कुरुते तनुम् ॥६१॥(वैक्रान्तः शोधन)वैक्रान्तं वज्रवच्छोध्यं नीलं श्वेतं च लोहितम् ।(वैक्रान्तः)वज्रलक्षणसंयुक्तं दाहघातासहिष्णु तत् ॥६२॥(वैक्रान्तः मारण)हयमूत्रेण तत्सिञ्चेत्तप्तं तप्तं त्रिसप्तधा ।पञ्चाङ्गोत्तरवारुण्या लिप्तं मूषागतं पुटैः ॥६३॥कुञ्जराख्यैर्मृतिं याति वैक्रान्तं सप्तभिस्तथा ।(वैक्रान्तः)भस्मीभूतं तु वैक्रान्तं वज्रस्थाने नियोजयेत् ॥६४॥(नवरत्नानि)पुंवज्रं गरुडोद्गारं माणिक्यं वासवोपलम् ।वैदूर्यपुष्पे गोमेदं मौक्तिकं च प्रवालकम् ।एतानि नवरत्नानि सदृशानि सुधारसैः ॥६५॥स्वेदयेद्दोलिकायन्त्रे जयन्त्या स्वरसेन च ।मणिमुक्ताप्रवालानां यामैके शोधनं भवेत् ॥६६॥शुध्यत्यम्लेन माणिक्यं जयन्त्या मौक्तिकं तथा ।विद्रुमं क्षारवर्गेण तार्क्ष्यं गोदुग्धतस्तथा ॥६७॥पुष्यरागं च संधानैः कुलत्थक्वाथसंयुतैः ।तण्डुलीयजलैर्वज्रं नीलं नीलीरसेन च ॥६८॥रोचनाभिश्च गोमेदं वैदूर्यं त्रिफलाजलैः ।मुक्तादिष्वविशुद्धेषु न दोषः स्याच्च शास्त्रतः ।तथापि गुणवृद्धिः स्याच्छोधनेन विशेषतः ॥६९॥(धातु, उपरसः शोधन)अम्लक्षारविपाचितं तु सकलं लौहं विशुद्धं भवेन्माक्षीकोऽपि शिलापि तुत्थगगनं तालं च सम्यक्तथा ।मुक्ताविद्रुमशुक्तिकाथ चपलाः शङ्खा वराटाः शुभा जायन्तेऽमृतसन्निभाः पयसि च क्षिप्तः शुभः स्याद्बलिः ॥७०॥लकुचद्रावसम्पिष्टैः शिलागन्धकतालकैः ।वज्रं विनान्यरत्नानि म्रियन्तेऽष्टपुटैः खलु ॥७१॥कुमार्या तण्डुलीयेन स्तन्येन च निषेचयेत् ।प्रत्येकं सप्तवेलं च तप्ततप्तानि कृत्स्नशः ॥७२॥मौक्तिकानि प्रवालानि तथा रत्नान्यशेषतः ।क्षणाद्विविधवर्णानि म्रियन्ते नात्र संशयः ॥७३॥वज्रवत्सर्वरत्नानि शोधयेन्मारयेत्तथा ॥७४॥(हरितालः शोधन)तालकं पोट्टलीं बद्ध्वा सचूर्णे काञ्जिके क्षिपेत् ।दोलायन्त्रेण यामैकं ततः कूष्माण्डजे रसे ॥७५॥तिलतैले पचेद्यामं यामं तत्त्रैफले जले ।दोलायन्त्रे चतुर्यामं पक्वं शुध्यति तालकम् ॥७६॥(हरितालः शुद्धः)स शुद्धः कान्तिवीर्ये च कुरुते मृत्युनाशनः ॥७७॥(हरितालःः सत्त्वःः पातनम्)लाक्षाराजी तिलाः शिग्रुष्टङ्कणं लवणं गुडम् ।तालकार्धेन संमिश्र्य छिद्रमूष्यां निरोधयेत् ।पुटेत्पातालयन्त्रेण सत्त्वं पतति निश्चितम् ॥७८॥(हरिताल सत्त्वः पातन)जैपालसत्त्ववातारिबीजमिश्रं च तालकम् ।कूपीस्थं वालुकायन्त्रे सत्त्वं मुञ्चति यामतः ॥७९॥(इन्दुसुन्दरी)भृष्टटङ्कणतालस्य लौहपर्पटवेष्टिता ।गुटिका गुरुमार्गेण ध्माता स्यादिन्दुसुन्दरी ॥८०॥हिङ्गुलस्य च दारस्य तालकादेश्च बन्धने ।लौहपत्त्र्या बहिर्लेपो भक्ताङ्गाररसेन च ॥८१॥(मनःशिलाःः सत्त्वःः पातन)तालवच्च शिलासत्त्वं ग्राह्यं तैरेव भेषजैः ॥८२॥(तुत्थःः सत्त्वःः पातन)तुल्यं टङ्कणकं ग्राह्यं ध्माते सत्त्वं च तुत्थके ॥८३॥(माक्षिकः सत्त्वः पातन)ऊर्णा लाक्षा गुडश्चेति पुरटङ्कणकैः सह ।संमर्द्यं वटिकाः कार्याश्छागीदुग्धेन यत्नतः ।ध्मातास्ताप्यस्य तीव्राग्नौ सत्त्वं मुञ्चति लोहितम् ॥८४॥(महारसः सत्त्वः पातन)एवं तालशिलाधातुर्विमलाखर्परादयः ।मुञ्चन्ति निजसत्त्वानि धमनात्कोष्ठिकाग्निना ॥८५॥(कासीसः सत्त्वपातन (?), मृदूकरण (?))शिलया गन्धकेनापि भर्जितः क्षोदितः खगः ।मुद्रितस्ताम्रपात्रेण लिप्तः स्याद्ध्मापितो मृदुः ॥८६॥(माक्षिकः सत्त्वः पातन)समगन्धं चतुर्यामं पक्त्वा ताप्यं ततः पचेत् ।अर्धगन्धं यामयुग्मं भृष्टटङ्कार्धसंयुतम् ।अन्धमूषागतं ध्मातं सत्त्वं मुञ्चति शुल्ववत् ॥८७॥भ्रामयेद्भस्ममूषायां ताप्यं गन्धकटङ्कणम् ।गुटी भवति पीताभा वर्णोत्कर्षविधायिनी ॥८८॥(गुटीः)ताप्यस्य खण्डकान्सप्त दहेन्नागमृदन्तरे ।ध्मापिता टङ्कणेनैव गुटीभवति पूर्ववत् ॥८९॥(भूनागः सत्त्वः पातन)सद्यो भूनागमादाय चारयेच्छिखिनं बुधः ।अथवा कुक्कुटं वीरं कृत्वा मन्दिरमागतम् ॥९०॥मलं मूत्रं गृहीत्वास्य संत्यज्य प्रथमांशिकम् ।आलोड्य क्षारमध्वाज्यैर्धमेत्सत्त्वार्थं आदरात् ॥९१॥मुञ्चति ताम्रवत्सत्त्वं तन्मुद्राजलपानतः ।नश्यति जङ्गमविषं स्थावरं च न संशयः ॥९२॥(भूनागः सत्त्वः पातन)क्षीरेण पक्त्वा भूनागांस्तन्मृदा वाथ टङ्कणैः ।भृष्टैश्चक्रीं विधायाथ पात्यं सत्त्वं प्रयत्नतः ॥९३॥यत्रोपरसभागोऽस्ति रसे तत्सत्त्वयोजनम् ।कर्तव्यं तत्फलाधिक्यं रसज्ञत्वं अभीप्सता ॥९४॥(मनःशिलाः शोधनम्)जयन्तिकाद्रवे दोलायन्त्रे शुध्येन्मनःशिला ।दिनमेकमजामूत्रे भृङ्गराजरसेऽपि वा ॥९५॥(मनःशिलाः शुद्धः)शिला स्निग्धा कटुस्तिक्ता कफघ्नी लेखनी सरा ॥९६॥(मनःशिलाः)कूपिकादौ परीपाकात्स्वर्णस्य कालिमापहा ।(मनःशिलाः द्रावण)कटुतैले शिलाचम्पकदल्यन्तः सरत्यपि ॥९७॥(रसकः शोधनम्)नरमूत्रे च गोमूत्रे जलाम्ले वा ससैन्धवे ।सप्ताहं त्रिदिनं वापि पक्वः शुध्यति खर्परः ॥९८॥(तुत्थः शोधन)एकः सूतस्तथा पीतिश्चतुर्भेकास्त्रिदारकः ।बीजपिष्टः पिकज्वालैर्भेको बद्धोऽन्धवेश्मनि ॥९९॥विष्ठया मर्दयेत्तुत्थं समं ओतोर्दशांशता ।टङ्कणेन समं पिष्ट्वाथवा लघुपुटे पचेत् ।तुत्थं शुद्धं भवेत्क्षौद्रे पुटितं वा विशेषतः ॥१००॥(तुत्थः शुद्धः)वान्तिर्भ्रान्तिर्यदा न स्तस्तदा शुद्धिं विनिर्दिशेत् ॥१०१॥(तुत्थः शुद्धः)लेखनं भेदि च ज्ञेयं तुत्थं कण्डुक्रिमिप्रणुत् ॥१०२॥(माक्षिकःः शोधन)अगस्त्यपत्रनिर्यासैः शिग्रुमूलं सुपेषितम् ।तन्मध्ये पुटितं शुध्येत्ताप्यं त्वम्लेन पाचितम् ॥१०३॥(माक्षिकः शोधन)सिन्धूद्भवस्य भागैकं त्रिभागं माक्षिकस्य च ।मातुलुङ्गरसैर्वापि जम्बीरोत्थद्रवेण वा ॥१०४॥कृत्वा तदायसे पात्रे लौहदर्व्या च चालयेत् ।सिन्दूराभं भवेद्यावत्तावन्मृद्वग्निना पचेत् ।सुशुद्धं माक्षिकं विद्यात्सर्वरोगेषु योजयेत् ॥१०५॥(माक्षिकः मारण)माक्षिकस्य चतुर्थांशं गन्धं दत्त्वा विमर्दयेत् ।उरूवूकस्य तैलेन ततः कुर्यात्सुचक्रिकाम् ॥१०६॥शरावसंपुटे धृत्वा पुटेद्गजपुटेन च ।सिन्दूराभं भवेद्भस्म माक्षिकस्य न संशयः ॥१०७॥(माक्षिकः मृतः)माक्षिकं तिक्तमधुरं मोहार्शःक्रिमिकुष्ठनुत् ।कफपित्तहरं बल्यं योगवाहि रसायनम् ॥१०८॥(विमलः शोधन)जम्बीरस्य रसे स्वेदो मेषशृङ्गीरसेऽथवा ।रम्भातोयेन वा पाको घस्रं विमलशुद्धये ॥१०९॥(कासीसः शोधन)सकृद्भृङ्गाम्बुना स्विन्नं कासीसं निर्मलं भवेत् ॥११०॥(कासीसः शुद्धः)कासीसं शीतलं स्निग्धं श्वित्रनेत्ररुजापहम् ।पित्तापस्मारशमनं रसवद्गुणकारकम् ॥१११॥(कान्तः शोधनम्)लवणानि तथा क्षारौ शोभाञ्जनरसे क्षिपेत् ।अम्लवर्गयुतेनादौ दिने घर्मे विभावयेत् ॥११२॥तद्द्रवैर्दोलिकायन्त्रे दिवसं पाचयेत्सुधीः ।कान्तपाषाणशुद्धौ तु रसकर्म समाचरेत् ॥११३॥(मोनेय्चोwरिएःः फ्य्स्. प्रोपेर्तिएस्)पीताभा ग्रन्थिला पृष्ठे दीर्घवृत्ता वराटिका ।सार्धनिष्कभरा श्रेष्ठा निष्कभारा च मध्यमा ।पादोननिष्कभारा च कनिष्ठा परिकीर्तिता ॥११४॥वराटी काञ्जिके स्विन्ना यामाच्छुद्धिमवाप्नुयात् ॥११५॥परिणामादिशूलघ्नी ग्रहणीक्षयहारिणी ।कटूष्णा दीपनी वृष्या तिक्ता वातकफापहा ।रसेन्द्रजारणे प्रोक्ता विडद्रव्येषु शस्यते ॥११६॥(दरदः शोधनम्)मेषीक्षीरेण दरदमम्लवर्गेण भावितम् ।सप्तवारं प्रयत्नेन शुद्धिमायाति निश्चितम् ॥११७॥(दरदःः शुद्धःः मेदिच्. प्रोपेर्तिएस्)तिक्तोष्णं हिङ्गुलं दिव्यं रसगन्धसमुद्भवम् ।मेहकुष्ठहरं रुच्यं मेधाग्निवर्धनम् ॥११८॥)सौवीरं टङ्कणं शङ्खं कङ्कुष्ठं गैरिकं तथा ।एते वराटवच्छोध्या भवेयुर्दोषवर्जिताः ॥११९॥(कासीसः शोधन)जम्बीरपयसा शुध्येत्कासीसं टङ्कणाद्यपि ॥१२०॥स्रोतोञ्जनं तु गोमूत्रघृतक्षौद्रवसादिभिः ।विभावितं च शुद्धं स्याद्रसबन्धकरं परम् ॥१२१॥(नीलाञ्जनः शोधन)नीलाञ्जनं चूर्णयित्वा जम्बीरद्रवभावितम् ।दिनैकमातपे शुद्धं भवेत्कार्येषु योजयेत् ॥१२२॥सुपक्वभानुपत्राणां रसमादाय धारयेत् ।समस्तबीजचूर्णं यदुक्तानुक्तं पृथक्पृथक् ।आतपे मुञ्चते तैलं साध्यासाध्यं न संशयः ॥१२३॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP