प्रथमप्रपाठकः - तृतीया दशतिः

यज्ञ, अनुष्ठान आणि हवन संबंधीचे मन्त्र सामवेदात सांगितले आहेत. सर्व वेदांमध्ये हा सर्वात छोटा वेद आहे.


अग्निं वो वृधन्तमध्वराणां पुरूतमं ।
अच्छा नप्त्रे सहस्वते ॥२१॥
अग्निस्तिग्मेन शोचिषा यंसद्विश्वं न्या३त्रिणं ।
अग्निर्नो वंसते रयिं ॥२२॥
अग्ने मृड महां अस्यय आ देवयुं जनं ।
इयेथ बर्हिरासदं ॥२३॥
अग्ने रक्षा णो अंहसः प्रति स्म देव रीषतः ।
तपिष्ठैरजरो दह ॥२४॥
अग्ने युङ्क्ष्वा हि ये तवाश्वासो देव साधवः ।
अरं वहन्त्याशवः ॥२५॥
नि त्वा नक्ष्य विश्पते द्युमन्तं धीमहे वयं ।
सुवीरमग्न आहुत ॥२६॥
अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयं ।
अपां रेतांसि जिन्वति ॥२७॥
इममू षु त्वमस्माकं सनिं गायत्रं नव्यांसं ।
अग्ने देवेषु प्र वोचः ॥२८॥
तं त्वा गोपवनो गिरा जनिष्ठदग्ने अङ्गरः ।
स पावक श्रुधी हवं ॥२९॥
परि वाजपतिः कविरग्निर्हव्यान्यक्रमीत् ।
दधद्रत्नानि दाशुषे ॥३०॥
उदु त्यं जातवेदसं देवं वहन्ति केतवः ।
दृशे विश्वाय सूर्यं ॥३१॥
कविमग्निमुप स्तुहि सत्यधर्माणमध्वरे ।
देवममीवचातनं ॥३२॥
शं नो देवीरभिष्टये शं नो भवन्तु पीतये ।
शं योरभि स्रवन्तु नः ॥३३॥
कस्य नूनं परीणसि धियो जिन्वसि सत्पते ।
जोषाता यस्य ते गिरः ॥३४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP