संस्कृत सूची|संस्कृत साहित्य|वेदः|सामवेदः|पूर्वार्चिकः|छन्द आर्चिकः - प्रथमप्रपाठकः| द्वितीया दशतिः छन्द आर्चिकः - प्रथमप्रपाठकः प्रथमा दशतिः द्वितीया दशतिः तृतीया दशतिः चतुर्थी दशतिः पञ्चमी दशतिः षष्ठी दशतिः सप्तमी दशतिः अष्टमी दशतिः नवमी दशतिः दशमी दशतिः प्रथमप्रपाठकः - द्वितीया दशतिः यज्ञ, अनुष्ठान आणि हवन संबंधीचे मन्त्र सामवेदात सांगितले आहेत. सर्व वेदांमध्ये हा सर्वात छोटा वेद आहे. Tags : dharmasamavedvedधर्मवेदसंस्कृतसामवेद द्वितीया दशतिः Translation - भाषांतर नमस्ते अग्न ओजसे गृणन्ति देव कृष्टयः ।अमैरमित्रमर्दय ॥११॥दूतं वो विश्ववेदसं हव्यवाहममर्त्यं ।यजिष्ठमृञ्जसे गिरा ॥१२॥उप त्वा जामयो गिरो देदिशतीर्हविष्कृतः ।वायोरनीके अस्थिरन् ॥१३॥उप त्वाग्ने दिवेदिवे दोषावस्तर्धिया वयं ।नमो भरन्त एमसि ॥१४॥जराबोध तद्विविड्ढि विशेविशे यज्ञियाय ।स्तोमं रुद्राय दृशीकं ॥१५॥प्रति त्यं चारुमध्वरं गोपीथाय प्र हूयसे ।मरुद्भिरग्न आ गहि ॥१६॥अश्वं न त्वा वारवन्तं वन्दध्या अग्निं नमोभिः ।सम्राजन्तमध्वराणां ॥१७॥और्वभृगुवच्छुचिमप्नवानवदा हुवे ।अग्निं समुद्रवाससं ॥१८॥अग्निमिन्धानो मनसा धियं सचेत मर्त्यः ।अग्निमिन्धे विवस्वभिः ॥१९॥आदित्प्रत्नस्य रेतसो ज्योतिः पश्यन्ति वासरं ।परो यदिध्यते दिवि ॥२०॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP