संस्कृत सूची|संस्कृत साहित्य|वेदः|ऋग्वेदः|मण्डल ६| सूक्तं ६१ मण्डल ६ सूक्तं १ सूक्तं २ सूक्तं ३ सूक्तं ४ सूक्तं ५ सूक्तं ६ सूक्तं ७ सूक्तं ८ सूक्तं ९ सूक्तं १० सूक्तं ११ सूक्तं १२ सूक्तं १३ सूक्तं १४ सूक्तं १५ सूक्तं १६ सूक्तं १७ सूक्तं १८ सूक्तं १९ सूक्तं २० सूक्तं २१ सूक्तं २२ सूक्तं २३ सूक्तं २४ सूक्तं २५ सूक्तं २६ सूक्तं २७ सूक्तं २८ सूक्तं २९ सूक्तं ३० सूक्तं ३१ सूक्तं ३२ सूक्तं ३३ सूक्तं ३४ सूक्तं ३५ सूक्तं ३६ सूक्तं ३७ सूक्तं ३८ सूक्तं ३९ सूक्तं ४० सूक्तं ४१ सूक्तं ४२ सूक्तं ४३ सूक्तं ४४ सूक्तं ४५ सूक्तं ४६ सूक्तं ४७ सूक्तं ४८ सूक्तं ४९ सूक्तं ५० सूक्तं ५१ सूक्तं ५२ सूक्तं ५३ सूक्तं ५४ सूक्तं ५५ सूक्तं ५६ सूक्तं ५७ सूक्तं ५८ सूक्तं ५९ सूक्तं ६० सूक्तं ६१ सूक्तं ६२ सूक्तं ६३ सूक्तं ६४ सूक्तं ६५ सूक्तं ६६ सूक्तं ६७ सूक्तं ६८ सूक्तं ६९ सूक्तं ७० सूक्तं ७१ सूक्तं ७२ सूक्तं ७३ सूक्तं ७४ सूक्तं ७५ मण्डल ६ - सूक्तं ६१ ऋग्वेद फार प्राचीन वेद आहे. यात १० मंडल आणि १०५५२ मंत्र आहेत. ऋग्वेद म्हणजे ऋषींनी देवतांची केलेली प्रार्थना आणि स्तुति. Tags : rigvedavedऋग्वेदवेदसंस्कृत सूक्तं ६१ Translation - भाषांतर इयमददाद्रभसमृणच्युतं दिवोदासं वध्र्यश्वाय दाशुषे ।या शश्वन्तमाचखादावसं पणिं ता ते दात्राणि तविषा सरस्वति ॥१॥इयं शुष्मेभिर्बिसखा इवारुजत्सानु गिरीणां तविषेभिरूर्मिभिः ।पारावतघ्नीमवसे सुवृक्तिभिः सरस्वतीमा विवासेम धीतिभिः ॥२॥सरस्वति देवनिदो नि बर्हय प्रजां विश्वस्य बृसयस्य मायिनः ।उत क्षितिभ्योऽवनीरविन्दो विषमेभ्यो अस्रवो वाजिनीवति ॥३॥प्र णो देवी सरस्वती वाजेभिर्वाजिनीवती ।धीनामवित्र्यवतु ॥४॥यस्त्वा देवि सरस्वत्युपब्रूते धने हिते ।इन्द्रं न वृत्रतूर्ये ॥५॥त्वं देवि सरस्वत्यवा वाजेषु वाजिनि ।रदा पूषेव नः सनिम् ॥६॥उत स्या नः सरस्वती घोरा हिरण्यवर्तनिः ।वृत्रघ्नी वष्टि सुष्टुतिम् ॥७॥यस्या अनन्तो अह्रुतस्त्वेषश्चरिष्णुरर्णवः ।अमश्चरति रोरुवत् ॥८॥सा नो विश्वा अति द्विषः स्वसॄरन्या ऋतावरी ।अतन्नहेव सूर्यः ॥९॥उत नः प्रिया प्रियासु सप्तस्वसा सुजुष्टा ।सरस्वती स्तोम्या भूत् ॥१०॥आपप्रुषी पार्थिवान्युरु रजो अन्तरिक्षम् ।सरस्वती निदस्पातु ॥११॥त्रिषधस्था सप्तधातुः पञ्च जाता वर्धयन्ती ।वाजेवाजे हव्या भूत् ॥१२॥प्र या महिम्ना महिनासु चेकिते द्युम्नेभिरन्या अपसामपस्तमा ।रथ इव बृहती विभ्वने कृतोपस्तुत्या चिकितुषा सरस्वती ॥१३॥सरस्वत्यभि नो नेषि वस्यो माप स्फरीः पयसा मा न आ धक् ।जुषस्व नः सख्या वेश्या च मा त्वत्क्षेत्राण्यरणानि गन्म ॥१४॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP