संस्कृत सूची|संस्कृत साहित्य|वेदः|ऋग्वेदः|मण्डल ६| सूक्तं ६० मण्डल ६ सूक्तं १ सूक्तं २ सूक्तं ३ सूक्तं ४ सूक्तं ५ सूक्तं ६ सूक्तं ७ सूक्तं ८ सूक्तं ९ सूक्तं १० सूक्तं ११ सूक्तं १२ सूक्तं १३ सूक्तं १४ सूक्तं १५ सूक्तं १६ सूक्तं १७ सूक्तं १८ सूक्तं १९ सूक्तं २० सूक्तं २१ सूक्तं २२ सूक्तं २३ सूक्तं २४ सूक्तं २५ सूक्तं २६ सूक्तं २७ सूक्तं २८ सूक्तं २९ सूक्तं ३० सूक्तं ३१ सूक्तं ३२ सूक्तं ३३ सूक्तं ३४ सूक्तं ३५ सूक्तं ३६ सूक्तं ३७ सूक्तं ३८ सूक्तं ३९ सूक्तं ४० सूक्तं ४१ सूक्तं ४२ सूक्तं ४३ सूक्तं ४४ सूक्तं ४५ सूक्तं ४६ सूक्तं ४७ सूक्तं ४८ सूक्तं ४९ सूक्तं ५० सूक्तं ५१ सूक्तं ५२ सूक्तं ५३ सूक्तं ५४ सूक्तं ५५ सूक्तं ५६ सूक्तं ५७ सूक्तं ५८ सूक्तं ५९ सूक्तं ६० सूक्तं ६१ सूक्तं ६२ सूक्तं ६३ सूक्तं ६४ सूक्तं ६५ सूक्तं ६६ सूक्तं ६७ सूक्तं ६८ सूक्तं ६९ सूक्तं ७० सूक्तं ७१ सूक्तं ७२ सूक्तं ७३ सूक्तं ७४ सूक्तं ७५ मण्डल ६ - सूक्तं ६० ऋग्वेद फार प्राचीन वेद आहे. यात १० मंडल आणि १०५५२ मंत्र आहेत. ऋग्वेद म्हणजे ऋषींनी देवतांची केलेली प्रार्थना आणि स्तुति. Tags : rigvedavedऋग्वेदवेदसंस्कृत सूक्तं ६० Translation - भाषांतर श्नथद्वृत्रमुत सनोति वाजमिन्द्रा यो अग्नी सहुरी सपर्यात् ।इरज्यन्ता वसव्यस्य भूरेः सहस्तमा सहसा वाजयन्ता ॥१॥ता योधिष्टमभि गा इन्द्र नूनमपः स्वरुषसो अग्न ऊळ्हाः ।दिशः स्वरुषस इन्द्र चित्रा अपो गा अग्ने युवसे नियुत्वान् ॥२॥आ वृत्रहणा वृत्रहभिः शुष्मैरिन्द्र यातं नमोभिरग्ने अर्वाक् ।युवं राधोभिरकवेभिरिन्द्राग्ने अस्मे भवतमुत्तमेभिः ॥३॥ता हुवे ययोरिदं पप्ने विश्वं पुरा कृतम् ।इन्द्राग्नी न मर्धतः ॥४॥उग्रा विघनिना मृध इन्द्राग्नी हवामहे ।ता नो मृळात ईदृशे ॥५॥हतो वृत्राण्यार्या हतो दासानि सत्पती ।हतो विश्वा अप द्विषः ॥६॥इन्द्राग्नी युवामिमेऽभि स्तोमा अनूषत ।पिबतं शम्भुवा सुतम् ॥७॥या वां सन्ति पुरुस्पृहो नियुतो दाशुषे नरा ।इन्द्राग्नी ताभिरा गतम् ॥८॥ताभिरा गच्छतं नरोपेदं सवनं सुतम् ।इन्द्राग्नी सोमपीतये ॥९॥तमीळिष्व यो अर्चिषा वना विश्वा परिष्वजत् ।कृष्णा कृणोति जिह्वया ॥१०॥य इद्ध आविवासति सुम्नमिन्द्रस्य मर्त्यः ।द्युम्नाय सुतरा अपः ॥११॥ता नो वाजवतीरिष आशून्पिपृतमर्वतः ।इन्द्रमग्निं च वोळ्हवे ॥१२॥उभा वामिन्द्राग्नी आहुवध्या उभा राधसः सह मादयध्यै ।उभा दाताराविषां रयीणामुभा वाजस्य सातये हुवे वाम् ॥१३॥आ नो गव्येभिरश्व्यैर्वसव्यैरुप गच्छतम् ।सखायौ देवौ सख्याय शम्भुवेन्द्राग्नी ता हवामहे ॥१४॥इन्द्राग्नी शृणुतं हवं यजमानस्य सुन्वतः ।वीतं हव्यान्या गतं पिबतं सोम्यं मधु ॥१५॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP