संस्कृत सूची|संस्कृत साहित्य|वेदः|ऋग्वेदः|मण्डल ६| सूक्तं ५१ मण्डल ६ सूक्तं १ सूक्तं २ सूक्तं ३ सूक्तं ४ सूक्तं ५ सूक्तं ६ सूक्तं ७ सूक्तं ८ सूक्तं ९ सूक्तं १० सूक्तं ११ सूक्तं १२ सूक्तं १३ सूक्तं १४ सूक्तं १५ सूक्तं १६ सूक्तं १७ सूक्तं १८ सूक्तं १९ सूक्तं २० सूक्तं २१ सूक्तं २२ सूक्तं २३ सूक्तं २४ सूक्तं २५ सूक्तं २६ सूक्तं २७ सूक्तं २८ सूक्तं २९ सूक्तं ३० सूक्तं ३१ सूक्तं ३२ सूक्तं ३३ सूक्तं ३४ सूक्तं ३५ सूक्तं ३६ सूक्तं ३७ सूक्तं ३८ सूक्तं ३९ सूक्तं ४० सूक्तं ४१ सूक्तं ४२ सूक्तं ४३ सूक्तं ४४ सूक्तं ४५ सूक्तं ४६ सूक्तं ४७ सूक्तं ४८ सूक्तं ४९ सूक्तं ५० सूक्तं ५१ सूक्तं ५२ सूक्तं ५३ सूक्तं ५४ सूक्तं ५५ सूक्तं ५६ सूक्तं ५७ सूक्तं ५८ सूक्तं ५९ सूक्तं ६० सूक्तं ६१ सूक्तं ६२ सूक्तं ६३ सूक्तं ६४ सूक्तं ६५ सूक्तं ६६ सूक्तं ६७ सूक्तं ६८ सूक्तं ६९ सूक्तं ७० सूक्तं ७१ सूक्तं ७२ सूक्तं ७३ सूक्तं ७४ सूक्तं ७५ मण्डल ६ - सूक्तं ५१ ऋग्वेद फार प्राचीन वेद आहे. यात १० मंडल आणि १०५५२ मंत्र आहेत. ऋग्वेद म्हणजे ऋषींनी देवतांची केलेली प्रार्थना आणि स्तुति. Tags : rigvedavedऋग्वेदवेदसंस्कृत सूक्तं ५१ Translation - भाषांतर उदु त्यच्चक्षुर्महि मित्रयोराँ एति प्रियं वरुणयोरदब्धम् ।ऋतस्य शुचि दर्शतमनीकं रुक्मो न दिव उदिता व्यद्यौत् ॥१॥वेद यस्त्रीणि विदथान्येषां देवानां जन्म सनुतरा च विप्रः ।ऋजु मर्तेषु वृजिना च पश्यन्नभि चष्टे सूरो अर्य एवान् ॥२॥स्तुष उ वो मह ऋतस्य गोपानदितिं मित्रं वरुणं सुजातान् ।अर्यमणं भगमदब्धधीतीनच्छा वोचे सधन्यः पावकान् ॥३॥रिशादसः सत्पतीँरदब्धान्महो राज्ञः सुवसनस्य दातॄन् ।यूनः सुक्षत्रान्क्षयतो दिवो नॄनादित्यान्याम्यदितिं दुवोयु ॥४॥द्यौष्पितः पृथिवि मातरध्रुगग्ने भ्रातर्वसवो मृळता नः ।विश्व आदित्या अदिते सजोषा अस्मभ्यं शर्म बहुलं वि यन्त ॥५॥मा नो वृकाय वृक्ये समस्मा अघायते रीरधता यजत्राः ।यूयं हि ष्ठा रथ्यो नस्तनूनां यूयं दक्षस्य वचसो बभूव ॥६॥मा व एनो अन्यकृतं भुजेम मा तत्कर्म वसवो यच्चयध्वे ।विश्वस्य हि क्षयथ विश्वदेवाः स्वयं रिपुस्तन्वं रीरिषीष्ट ॥७॥नम इदुग्रं नम आ विवासे नमो दाधार पृथिवीमुत द्याम् ।नमो देवेभ्यो नम ईश एषां कृतं चिदेनो नमसा विवासे ॥८॥ऋतस्य वो रथ्यः पूतदक्षानृतस्य पस्त्यसदो अदब्धान् ।ताँ आ नमोभिरुरुचक्षसो नॄन्विश्वान्व आ नमे महो यजत्राः ॥९॥ते हि श्रेष्ठवर्चसस्त उ नस्तिरो विश्वानि दुरिता नयन्ति ।सुक्षत्रासो वरुणो मित्रो अग्निरृतधीतयो वक्मराजसत्याः ॥१०॥ते न इन्द्रः पृथिवी क्षाम वर्धन्पूषा भगो अदितिः पञ्च जनाः ।सुशर्माणः स्ववसः सुनीथा भवन्तु नः सुत्रात्रासः सुगोपाः ॥११॥नू सद्मानं दिव्यं नंशि देवा भारद्वाजः सुमतिं याति होता ।आसानेभिर्यजमानो मियेधैर्देवानां जन्म वसूयुर्ववन्द ॥१२॥अप त्यं वृजिनं रिपुं स्तेनमग्ने दुराध्यम् ।दविष्ठमस्य सत्पते कृधी सुगम् ॥१३॥ग्रावाणः सोम नो हि कं सखित्वनाय वावशुः ।जही न्यत्रिणं पणिं वृको हि षः ॥१४॥यूयं हि ष्ठा सुदानव इन्द्रज्येष्ठा अभिद्यवः ।कर्ता नो अध्वन्ना सुगं गोपा अमा ॥१५॥अपि पन्थामगन्महि स्वस्तिगामनेहसम् ।येन विश्वाः परि द्विषो वृणक्ति विन्दते वसु ॥१६॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP