संस्कृत सूची|संस्कृत साहित्य|कथा-संग्रहः|वेतालपञ्चविंशति| कथा १९ वेतालपञ्चविंशति सूत्र कथा १ कथा २ कथा ३ कथा ४ कथा ५ कथा ६ कथा ७ कथा ८ कथा ९ कथा १० कथा ११ कथा १२ कथा १३ कथा १४ कथा १५ कथा १६ कथा १७ कथा १८ कथा १९ कथा २० कथा २१ कथा २२ कथा २३ कथा २४ कथा २५ वेतालपञ्चविंशति - कथा १९ `बेताल पचीसी' पच्चीस कथाओं से युक्त एक ग्रन्थ है । इसके रचयिता बेतालभट्ट बताये जाते हैं जो न्याय के लिये प्रसिद्ध राजा विक्रम के नौ रत्नों में से एक थे । ये कथायें राजा विक्रम की न्याय-शक्ति का बोध कराती हैं । Tags : storyvetal panchavishiकथाबेताल पच्चीसीवेताळ पंचविशीसंस्कृत कथा १९ Translation - भाषांतर अथ गत्वा पुनः स्कन्धे वेतालम् शिंशपाद्रुमात् ।सः त्रिविक्रमसेनः तम् गृहीत्वा उदचलत् नृपः ॥१॥आगच्छन्तम् च तम् भूयः वेतालः सः अभ्यभाषत ।राजन् शृणु कथम् एकाम् हृद्याम् ते कथयामि अहम् ॥२॥अस्ति वक्रोलकम् नाम पुरम् सुरपुरौपमम् ।तस्मिन् सूर्यप्रभ- आख्यः अभूत् राजा जन्भारिसंनिभः ॥३॥सौकर्यौद्यतया मूर्त्या दत्त- आनन्दः वसुंधराम् ।इमाम् हरिः इव उद्धृत्य यः बभार चिरम् भुजे ॥४॥धूम- आसङ्गे अश्रुसंपातः शृङ्गारे मारसंकथाः ।द्वाःस्थेषु हेमदण्डाः च राष्ट्रे यस्य अभवन् प्रभोः ॥५॥सर्वसंपत्समृद्धस्य तस्य एका अभूत् अनिर्वृतिः ।न उदपद्यत यत् पुत्रः बहुषु अन्तःपुरेषु अपि ॥६॥एतस्मिन् च कथासंधौ ताम्रलिप्त्याम् महापुरि ।बभूव धनपाल- आख्यः धुर्यः धनवताम् वनिक् ॥७॥तस्य च अजायत एका एव नाम्ना धनवती सुता ।विद्याधरी च्युता शापात् सौन्दर्येण एव सूचिता ॥८॥तस्याम् च यौवनस्थायाम् सः वणिक् पञ्चताम् ययौ ।तत्धनम् राजसानाथ्य- आत् आक्रान्तम् अथ गोत्रजैः ॥९॥ततः हिरण्यवती- आख्या वणिजः तस्य गेहिनी ।आदाय रत्नभरणम् निजम् अप्रकटस्थितम् ॥१०॥धनवत्या तया साकम् स्वदुहित्रा निशामुखे ।पलाय्य दायादभयात् गृहात् गुप्तम् विनिर्ययौ ॥११॥ध्वान्तेन बहिः अन्तः च सा दुःखेन अन्धकारिता ।कृच्छ्रात् बहिःपुरम् प्रायात् सुताहस्तावलम्बिनी ॥१२॥तत्र संतमसे यान्ती विधियोगात् अलक्षितम् ।अंसेन अताडयत् चौरम् शूलाग्र- आरोपितस्थितम् ॥१३॥सः सजीवः ततंसाग्रघट्टनाधिकपीडितः ।आः क्षते क्षारम् एतत् मे क्षिप्तम् केन इति अभाषत ॥१४॥ततः तत्र एव सा कः असि इति अपृच्छत् तम् वणिक्वधूः ।प्रत्युवाच ततः चौरः चौरः अहम् इह सूचितः ॥१५॥शूले पापस्य च अद्य अपि न उत्क्रामन्ति मम असवः ।तत् आर्ये त्वम् मम ब्रूहि का असिक्व एवम् प्रयासि च ॥१६॥तत् श्रुत्वा तम् वणिक्भार्या यावत् स्वौदन्तम् आह सा ।तावत् तिलकितम् प्राच्याः मुखम् उद्भासितैन्दुना ॥१७॥ततः दिक्षु प्रकाशासु सः चौरः ताम् वणिक्सुताम् ।दृष्ट्वा धनवतीम् कन्याम् तत्मातरम् उवाच ताम् ॥१८॥शृणु मे प्रार्थनाम् एकाम् सहस्रम् काञ्चनस्य ते ।ददामि तत् इमाम् मह्यम् स्वसुताम् देहि कन्यकाम् ॥१९॥किम् एतया तव इति उक्तः हसन्त्या अथ तया अत्र सः ।पुनः चौरः अब्रवीत् न अस्ति पुत्रः मम् गत- आयुषः ॥२०॥न च अपुत्रः अश्नते लोकान् तत् एषा यम् मताज्ञया ।कुत्रचित् जनयेत् पुत्रम् क्षेत्रजः सः भवेत् मम ॥२१॥इति एताम् प्रार्थये त्वम् तु तत् विधत्स्व मम ईप्सितम् ।तत् श्रुत्वा सा वणिक्योषित् लोभात् तत् प्रत्यपद्यत ॥२२॥आनीय च कुतःअपि अम्बु पाणौ चौरस्य तस्य सा ।एषा सुता मया तुभ्यम् कन्या दत्ता इति अपातयत् ॥२३॥सः अपि तत्दुहितुः दत्तयथा- उक्त- आज्ञः जगाद ताम् ।गच्छ अमुष्य वटस्य अधः खात्वा स्वर्णम् गृहाण तत् ॥२४॥गत- आसोः दाहयित्वा मे देहम् युक्त्या विसृज्य च ।अस्थीनि तीर्थे ससुता गच्छेः वक्रोलकम् पुरम् ॥२५॥तत्र सूर्यप्रभे राज्ञि सौराज्यसुखिते जने ।निःउपद्रवनिःचिन्ता स्थास्यसि त्वम् यथा इच्छसि ॥२६॥इति उक्त्वा तृषितः पीत्वा तया एव उपहृतम् जलम् ।शूलव्यधव्यथा- उत्क्रान्तजीवः चौरः बभूव सः ॥२७॥ततः गत्वा वणिक्स्त्री सा स्वर्णम् वटतरोः तलात् ।गृहीत्वा ससुता गुप्तम् अगात् भर्तृसुहृत्गृहम् ॥२८॥तत्र स्थित्वा च युक्त्या तत् दाहयित्वा कलेवरम् ।चौरस्य तस्य तीर्थे अस्थिक्षेप- आदिकम् अकारयत् ॥२९॥अन्येद्युः च आत्तगुप्तार्था ततः निर्गत्य स- आत्मजा ।प्रयान्ती क्रमशः प्राप सा तत् वक्रोलकम् पुरम् ॥३०॥तत्र एकम् वसुदत्त- आख्यात् गृहम् क्रीत्वा वणिक्वरात् ।तस्मिन् उवास सुतया धनवत्या तया सह ॥३१॥तदा च तत्र उपाध्यायः विष्णुस्वामी इति अभूत् पुरे ।मनःस्वामी इति तस्य आसीत् शिष्यः विप्रः अतिरूपवान् ॥३२॥विध्या- अभिजनयुक्तः अपि सः यौवनवशीकृतः ।तत्र हंसावलीम् नाम वाञ्छति स्म विलासिनीम् ॥३३॥सा च सौवर्णदीरशतपञ्चकम् अग्रहीत् ।भाटिम् तस्य च तत् न अभूत् व्यषीदत् तेन सः अनुअहम् ॥३४॥एकदा च तम् अद्राक्षीत् तादृशम् सा वणिक्सुता ।क्षामाभिरामवपुषम् धनवती अत्र हर्म्यतः ॥३५॥तत्रूपहृतचित्त च भर्तुः चौरस्य तस्य सा ।स्मृत्वा अनुज्ञाम् समीपस्थाम् युक्त्या अवोचत् स्वमातरम् ॥३६॥अम्ब विप्रसुतस्य अस्य पश्य एते रूपयौवने ।कीदृशे बत विश्वस्य नयनामृतवर्षिणी ॥३७॥एतत् श्रुत्वा एव तस्मिन् ताम् बद्धभावाम् अवेत्य च ।तत् माता सा वणिक्भार्या मनसि एवम् अचिन्तयत् ॥३८॥मत्दुहित्रा अनया तावत् वरणीयः सुत- आप्तये ।कःचित् भर्तृ- आज्ञया तस्मात् एषः एव अर्थ्यते न किम् ॥३९॥इति आकलय्य व्यसृजत् तत् संदिश्य मनीषितम् ।रहस्यधारिणीम् चेटीम् तम् आनेतुम् सुताकृते ॥४०॥सा गत्वा विजने नीत्वा चेटी तस्मै शशंस तत् ।सः च श्रुत्वा द्विजयुवा व्यसनी ताम् अभाषत ॥४१॥यदि हंसावलीहेतोः दीनारशतपञ्चकम् ।सौवर्णम् दीयते तत् एकाम् एमि यामिनीम् ॥४२॥इति तेन उक्तया चेट्या तया गत्वा तथा एव सा ।उक्ता वणिक्स्त्री तस्मै तत् तथस्ते प्राहिणोत् धनम् ॥४३॥तत् गृहीत्वा मनःस्वामी तत्पुत्र्याः वासकम् ययौ ।तस्याः सः तत्निसृष्टायाः धनवत्यः सचेटिकः ॥४४॥तत्र ताम् विततौत्कण्ठाम् कान्ताम् भूषितभ्तलाम् ।सः चकोरः इव ज्योत्स्नाम् ददर्श च जहर्ष च ॥४५॥तया समम् च नीत्वा ताम् रात्रिम् संभोगलीलया ।निर्गत्य सः ततः गुप्तम् ययौ प्रातः यथा- आगतम् ॥४६॥सा अपि तस्मात् धनवती सगर्भाभूत् वणिक्सुता ।काले च सुषुवे पुत्रम् लक्षणानुमित- आयतिम् ॥४७॥परितुष्टाम् तदा ताम् च सुतौत्पत्त्या समातृकाम् ।आदिदेश हरः स्वप्ने दर्शितस्ववपुः निशि ॥४८॥युक्तम् हेमसहस्रेण नीत्वा बालम् उषसि अमुम् ।सूर्यप्रभनृपस्य इह मञ्चस्थम् द्वारि मुञ्चतम् ॥४९॥एवम् स्यात् क्षेमम् इति उक्ता शूलिना सा वणिक्सुता ।तत्माता च प्रबुध्य एतम् स्वप्नन् अन्यःअन्यम् ऊचतुः ॥५०॥नीत्वा च तम् तत्यजतुः भगवत्प्रत्ययात् शिशुम् ।राज्ञः सूर्यप्रभस्य अस्य सिंहद्वारे सहेमकम् ॥५१॥तावत् च तम् अपि स्वप्ने सुतचिन्ता- आतुरम् सदा ।तत्र सूर्यप्रभम् भूपम् आदिदेश वृषध्वजः ॥५२॥उत्तिष्ठ राजन् बालः ते सिंहद्वारे सकाञ्चनः ।केनापि स्थापितः भव्यः मञ्चकस्थम् गृहाण तम् ॥५३॥इति उक्तः शंभुना प्रातः प्रबुद्धः अपि तथा एव सः ।द्वाःस्थैः प्रविश्य विज्ञप्तः निर्ययौ नृपतिः स्वयम् ॥५४॥दृष्ट्वा च सिंहद्वारे तम् बालम् सकनकौत्करम् ।रेखाछत्त्रध्वज- आदि- अङ्कपाणिपादम् शुभ- आकृतिम् ॥५५॥दत्तः मम उचितः पुत्रः शंभुना अयम् इति ब्रुवन् ।स्वयम् गृहीत्वा बाहुभ्यां राजधानीम् विवेश सः ॥५६॥चकार च उत्सवम् तावत् असंख्यातम् ददत् वसु ।दरिद्रशब्दस्य एकस्य यावत् आसीत् निःअर्थता ॥५७॥नृत्तवाद्या- आदिभिः नीत्वा द्वादशाहम् ततः सः तम् ।पुत्रम् चन्द्रप्रभम् नाम्ना चक्रे सुर्यप्रभः नृपः ॥५८॥ववृधे राजपुत्रः अत्र सः अथ चन्द्रप्रभः क्रमात् ।वपुष इव गुणओघेन अपि आश्रित- आनन्ददायिना ॥५९॥शनैः युवा च संजञ्जे शौर्याउदार्यश्रुत- आदिभिः ।आवर्जितप्रकृतिकः क्ष्माभारौद्वहनक्षमः ॥६०॥तादृशम् च ततः दृष्ट्वा तम् सः सूर्यप्रभः पिता ।राजये अभिषिज्य एव कृती वृद्धः वाराणसीम् ययौ ॥६१॥पृथ्वीम् शासति तस्मिन् च तनये नयशालिन ।सः राजा तत्र तत्याज चरन् तीव्रतपः तनुम् ॥६२॥बुद्ध्वा पितृविपत्तिम् ताम् अनुशोच्य कृतक्रियः ।सः अथ चन्द्रप्रभः राजा सचिवान् धार्मिकः अब्रवीत् ॥६३॥तातस्य तावत् केन अहम् अनृणः भवितुम् क्षमः ।तथा अपि एकाम् स्वहस्तेन ददामि एतस्य निष्कृतिम् ॥६४॥नीत्वा क्षिपामि गङ्गायाम् अस्थीनि अस्य यथाविधि ।गत्वा सर्वपितृह्यः च गयाम् पिण्डम् ददामि अहम् ॥६५॥प्रसङ्गात् तीर्थयात्राम् च करोमि आपूर्वसागरम् ।इति उक्तवन्तम् राजानम् मन्त्रिणः तम् व्यजिज्ञपन् ॥६६॥न देव युज्यते कर्तुम् एतत् राज्ञः कथम्चन ।न हि राज्यम् बहुछिद्रम् क्षणम् तिष्ठति अरक्षितम् ॥६७॥तत् एषा परहस्तेन कार्या ते पितृउपक्रिया ।स्वधर्मपालनात् अन्या तीर्थयात्रा च का तव ॥६८॥बहुअपायम् क्व पान्थत्वाम् नित्यगुप्त- आः क्व पार्थिवाः ।इति मन्त्रिवचः श्रुत्वा राजा चन्द्रप्रभः अब्रवीत् ॥६९॥अलम् विकल्पैः पितृ- अर्थे गन्तव्यम् निश्चितम् मया ।द्रष्टव्यानि च तीर्थानि यावत् मे क्षमते वयः ॥७०॥पश्चा कः वेत्ति किम् भावि शरिरे क्षणनश्वरे ।राज्यम् च आगमनम् यावत् रक्ष्यम् युष्माभिः एव मे ॥७१॥श्रुत्वा एतम् निश्चयम् राज्ञः तूष्णीम् आसत मन्त्रिणः ।ततः प्रय्णसंभारम् सज्जीचक्रे सः भूपतिः ॥७२॥अथ अह्नि सः शुभे स्नातः हुताग्निः पूजितद्विजः ।सुयुक्तम् रथम् आस्थाय प्रयतः शान्तवेषभृत् ॥७३॥सामन्तान् रजपुत्रान् च पौरान् जनपदान् अपि ।निवर्त्य अनिच्छतः कृच्छ्रात् आसीमान्तानुयायिनः ॥७४॥ब्राह्मणैः वाहन- आरूढैः समम् सः सपुरोहितः ।प्रतस्थे सचिवन्यस्तराज्यः चन्द्रप्रभः नृपः ॥७५॥विचित्रवेषभाष- आदिविलोकनविनोदितः ।पश्यन् नानाविधान् देशान् क्रमात् प्राप च जाह्नवीम् ॥७६॥ददर्श ता च जन्तूनाम् जलकल्लोलपङ्क्तिभिः ।त्रिदिव- आरोहसोपानपद्धतिम् सृजतीम् इव ॥७७॥हिमवत्प्रभवाम् शंभोः कृतक्रीडाकचग्रहाम् ।बिभ्रतीम् च अम्बिकालीलाम् देवऋषिगणवन्दिताम् ॥७८॥रथावतीर्णः तस्याम् च कृतस्नानः यथाविधि ।चिक्षेपास्थीनि भूपस्य तस्य सूर्यप्रभस्य सः ॥७९॥दत्तदानः कृतश्राद्धः रथ- आरूढः ततः अपि च ।प्रस्थितः क्रमशः प्राप प्रयागम् ऋषिसंस्तुतम् ॥८०॥यत्र अर्चिःआद्यधूम- आदिम् आग्रौ इव समागतौ ।गङ्गा यमुनयोः वाहौ भातः सुगतये नृणाम् ॥८१॥तत्र उपोष्य कृतस्नानदानश्राद्ध- आदिसत्कृइयः ।वाराणसीम् जगाम अथ सः चन्द्रप्रभभूपतिः ॥८२॥एत मोक्षम् प्रयात इति वदन्ताम् इव दूरतः ।वात- आक्षिप्तसमुत्क्षिप्तैः सुरसद्मध्वजांशुकैः ॥८३॥तस्याम् दिनानि उपोष्य त्रीणि अभ्यर्च्य अथ वृषध्वजम् ।भोगैः निजौचितैः तैः तैः प्रययौ सः गयाम् प्रति ॥८४॥ततः फलओघनमितैः मञ्जुगुञ्जत्विहंगमैः ।पदे पदे सप्रणामम् स्तूयमानः इव अङ्घ्रिपैः ॥८५॥विक्षिप्तवन्यकुसुमैः अर्च्यमानः इव अनिलैः ।नाना- अरण्यानि अतिक्रम्य पुण्यम् प्राप गयाशिरः ॥८६॥विधाय तत्र च श्राद्धम् विधिवत् भूरिदक्षिणम् ।चन्द्रप्रभः सः राजा अत्र धर्मारण्यम् उपेयिवान् ॥८७॥गयाकूपे अस्य ददतः पितुः पिण्डम् ततन्तरात् ।समुत्तस्थुः तम् आदातुम् त्रयः मानुषपणयः ॥८८॥तत् दृष्ट्वा एव सः विभ्रान्तः किम् एतत् इति पार्थवः ।कस्मिन् हस्ते क्षिपे पिण्डम् इति अपृच्छत् निजान् द्विजान् ॥८९॥ते तम् ऊचुः अयम् तावत् एकः चौरस्य निश्चतम् ।हस्तः लोहमयः शङ्कुः यस्मिन् देव एषः दृश्यते ॥९०॥द्वितीयः ब्राह्मणस्य अयम् करः धृतपवित्रकः ।राज्ञः पाणिः तृतीयः अयम् साङ्गुलीयः सुलक्षणः ॥९१॥तत् न विद्मः क्व पिण्डः अयम् निक्षेप्यः किम् इदम् भवेत् ।इति उक्तः तैः द्विजैः सः अत्र राजा लेभे न निश्चयम् ॥९२॥इति आख्याय कथा- आश्चर्यम् वेतालः अंसस्थितः तदा ।सः त्र्विक्रमसेनम् तम् जगाद नृपतिम् पुनः ॥९३॥तत् कस्य हस्ते देयः स्यात् सः पिण्डः इति वक्तु मे ।भवान् तावत् सः एव अत्र प्राक्तनः समयः च ते ॥९४॥इति वेतालतः श्रुत्वा मुक्तमौनः सः भूपतिः ।तम् त्रिविक्रमसेनः अत्र धर्मज्ञः प्रत्यभाषत ॥९५॥चौरस्य हस्ते दातव्यः सः पिण्डः क्षेत्रजः यतः ।चन्द्रप्रबः सः नृपतिः पुत्रः तस्य एव न अन्ययोः ॥९६॥विप्रस्य जनकस्य अपि सः हि पुत्रः न बुध्यते ।विक्रीतः हि धनेन आत्मा ताम् एकाम् तेन यामिनीम् ॥९७॥राज्ञः सूरप्रबस्य अपि संस्कार- आदानवर्धनैः ।भवेत् सः पुत्रः न स्यात् चेत् स्वधनम् तस्य तत्कृते ॥९८॥शिशोः तस्य हि शीर्षान्ते मञ्चस्थस्य एव हेम यत् ।न्यस्तम् आसीत् तत् एव अस्य मूल्यम् संवर्धन- आदिके ॥९९॥तस्मात् धस्तौदकप्राप्ता तत्माता यस्य येन सा ।अज्ञा तत्जनने दत्ता यस्य तत् निखिलम् धनम् ॥१००॥तस्य सः क्षेत्रजः पुतः चौरस्य एव महीपतिः ।पिण्डः तस्य एव हस्ते च देयः तेन इति मे मतिः ॥१०१॥इति उक्त्वतः नृपतेः तस्य अंसात् स्वपदम् एव वेतालः ।प्रययौ सः च त्रिविक्रमसेनः राजा तम् अन्वयात् भूयः ॥१०२॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP