संस्कृत सूची|संस्कृत साहित्य|कथा-संग्रहः|वेतालपञ्चविंशति| कथा ८ वेतालपञ्चविंशति सूत्र कथा १ कथा २ कथा ३ कथा ४ कथा ५ कथा ६ कथा ७ कथा ८ कथा ९ कथा १० कथा ११ कथा १२ कथा १३ कथा १४ कथा १५ कथा १६ कथा १७ कथा १८ कथा १९ कथा २० कथा २१ कथा २२ कथा २३ कथा २४ कथा २५ वेतालपञ्चविंशति - कथा ८ बेताल पचीसी पच्चीस कथाओं से युक्त एक ग्रन्थ है । इसके रचयिता बेतालभट्ट बताये जाते हैं जो न्याय के लिये प्रसिद्ध राजा विक्रम के नौ रत्नों में से एक थे । ये कथायें राजा विक्रम की न्याय-शक्ति का बोध कराती हैं । Tags : storyvetal panchavishiकथाबेताल पच्चीसीवेताळ पंचविशीसंस्कृत कथा ८ Translation - भाषांतर गत्वा ताम् शिंशपाम् भूयः वेतालम् प्राप्य भूमिपः ।तम् त्रिविक्रमसेनः अत्र स्कन्धे कृत्वा उच्चचाल सः ॥१॥प्रयान्तम् सः पुनः तम् च वेतालः स्कन्धतः अब्रवीत् ।श्रमविस्मृतये राजन् मत्तः प्रश्नम् इमम् शृणु ॥२॥अङ्गदेशे अग्रहारः अस्ति महान् वृक्षघटाभिधः ।विष्णुस्वामी इति तत्र आसीत् द्विजः यज्वा महाधनः ॥३॥तस्य च स्वानुरूपायाम् पत्न्याम् जाताः क्रमात् त्रयः ।बभूवुः तरुणाः पुत्राः दिव्यवैदग्ध्यशालिनः ॥४॥ते पित्रा प्रेषिताः तेन कूर्महेतोः कदाचन ।प्रारब्धयज्ञेन ययुः ते त्रयः भ्रातरः अम्बुधिम् ॥५॥प्राप्य कूर्मम् ततः ज्यायान् कनिष्ठौ तौ अभाषत ।गृह्णातु युवयोः एकः कूर्मम् क्रतुकृते पितुः ॥६॥अहम् एतम् न शक्नोमि ग्रहीतुम् विस्रपिच्छलम् ।इति उक्तवन्तम् तम् ज्येष्ठम् कनिष्ठौ तौ अवोचताम् ॥७॥तव अत्र विचिकित्सा चेत् न आवयोः अपि सा कथम् ।तत् श्रुत्वा सः अब्रवीत् ज्येष्ठः गृह्णीतम् गच्छतम् युवाम् ॥८॥पितुः यज्ञक्रियालोपः भवेत् युष्मत्कृतः अन्यथा ।ततः नरकपातः स्यात् युवयोः तस्य च ध्रुवम् ॥९॥इति उक्तौ अनुजौ तेन तौ विहस्य तम् ऊचतुः ।धर्मम् वेत्सि आवयोः एव समानम् अपि न आत्मनः ॥१०॥ततः ज्येष्ठः अब्रवीत् किम् मे जानीथः न एव चङ्गताम् ।अहम् भोजनचङ्गः अस्मि न अर्हः स्प्रष्टुम् जुगुप्सितम् ॥११॥एतत् तस्य वचः श्रुत्वा भ्रातरम् मध्यमः अब्रवीत् ।अहम् तर्हि अधिकः चङ्गः नारीचङ्गः विचक्षणः ॥१२॥मध्यमेन एवम् उक्ते तु ज्यायान् पुनः उवाच सः ।कूर्मम् गृह्णातु तर्हि एषः कनीयान् आवयोः इति ॥१३॥ततः सः भ्रुकुटिम् कृत्वा कनीयान् अपि उवाच तौ ।हे मूर्खौ तूलिकाचङ्गः चङ्गः अहम् हि विशेषतः ॥१४॥एवम् ते कलह- आसक्ताः त्रयः अपि भ्रातरः मिथः ।निर्णयाय अभिमान एकग्रस्ताः कूर्मम् विहाय तम् ॥१५॥राज्ञः प्रसेनजित्नाम्नः तत्प्रदेशभुवः अन्तिकम् ।नगरम् सहसा जग्मुः विटङ्कपुरनामकम् ॥१६॥तत्र प्रतीहारमुखेन आवेद्य अन्तः प्रविश्य च ।नृपम् विज्ञापयामासुः स्ववृत्तान्तम् तथा एव ते ॥१७॥तिष्ठत इह एव यावत् वः परीक्षिष्ये क्रमात् अहम् ।इति उक्तः तेन राज्ञा च तस्थुः तत्र तथा इति ते ॥१८॥स्व- आहारकाले च आनाय्य तेभ्यः सः अग्र- आसनम् नृपः ।राजार्हम् दापयामास षड्रसम् स्वादुभोजनम् ॥१९॥भुञ्जानेषु च सर्वेषु तदा एकः बुभुजे न सः ।विप्रः भोजनचङ्गः अत्र जुगुप्साकूणित- आननः ॥२०॥कथम् न भोजनम् भुङ्क्ते ब्रह्मन् स्वादु सुगन्धि अपि ।इति रज्ञा स्वयम् पृष्टः शनैः विप्रः जगाद सः ॥२१॥शवधूमदुःआमोदः शालिभक्ते अत्र विद्यते ।तेन न अहम् इदम् भोक्तुम् उत्सहे स्वादु अपि प्रभो ॥२२॥इति उक्ते तेन सर्वे अपि तत्र आघ्राय नृप- आज्ञया ।ऊचुः कलमशालि- अन्नम् अदोषम् तत् सुगन्धि च ॥२३॥सः तु भोजनचङ्गः तत् न आश्नात् पिहितनासिकः ।ततः सः राजा संचिन्त्य यावत् अन्विष्यति क्रमात् ॥२४॥तावत् नियोगिजनतः तत् अन्नम् बुबुधे तथा ।ग्रामश्मशाननिकटक्षेत्रसंभवशालिजम् ॥२५॥ततः अतिविस्मितः तुष्टः सः राजा तम् अभाषत ।सत्यम् भोजनचङ्गः त्वम् तदन्यद्भुज्यताम् इति ॥२६॥कृत- आहारः च सः नृपः विप्रान् वासगृहेषु तान् ।विसृज्य- आनाययामास स्वम् एकाम् गणिका- उत्तमाम् ॥२७॥ताम् च तस्मै द्वितीयस्मै प्राहिणोत् कृतमण्डनाम् ।विप्राय नारिचङ्गाय सायम् सर्वाङ्गसुन्दरीम् ॥२८॥सा च वासगृहम् तस्य राजभृत्यान्विता ययौ ।राकानिशा इव पुर्णैन्दुमुखी कम्दर्पदीपिनी ॥२९॥प्रविष्टायाम् च तस्याम् सः प्रभाभासितवेश्मनि ।उत्पन्नमूर्च्छः संरुद्धनासा- अग्रः वामपाणिना ॥३०॥नारीचङ्गः अब्रवीत् राजभृत्यान् निष्कास्यताम् इति ।न चेत् मृतः अहम् निर्याति गन्धः अस्याः छागलः यतः ॥३१॥इति उक्ताः तेन निन्युः ते विग्नाम् ताम् राजपूरुषाः ।राज्ञः अन्तिकम् वारवधूम् वृत्तान्तम् जगदुः च तम् ॥३२॥राजा अपि आनाय्य तत्कालम् नारीचङ्गम् उवाच तम् ।या इयम् श्रीखण्डकर्पूरकालागुरुमदौत्तमैः ॥३३॥कृतप्रसाधना दिक्षु प्रसरत्चारुसौरभा ।तस्याः वारविलासिन्या गन्धः स्यात् छागलः कुतः ॥३४॥इति उक्तः अपि सः राज्ञा तत् नारीचङ्गः तदा न यत् ।प्रतिपेदे तदा राजा विचारपतितः अभवत् ॥३५॥पृच्छन् च युक्त्या बुबुधे ताम् अजक्षीरवर्धिताम् ।तत्मुखात् एव बालत्वे मातृधात्रीवियोगतः ॥३६॥ततः अतिविस्मितः तस्य नारीचङ्गस्य चङ्गताम् ।प्रशंसन् नृपतिः तस्मै तृतीयाय द्विजन्मने ॥३७॥तत्रसात् तूलिकाचङ्गाय आशु शय्याम् अदापयत् ।पर्यङ्कौपरि विन्यस्तसप्तसंख्याकतूलिकाम् ॥३८॥तस्याम् च तूलिकाचङ्गः महा- अर्हे वासवेस्मनि ।सुष्वाप धौतसुश्लक्ष्णपटप्रच्छदवाससि ॥३९॥यामार्धे एव च गते सः रात्रौ शयनात् ततः ।उत्तस्थौ पाणि- अवष्टब्धपार्श्वः क्रन्दन् व्यथा- अर्दितः ॥४०॥ददृशे तस्य पार्श्वे च तत्र त्यैः राजपूरुषैः ।गाढलग्नस्य बालस्य मुद्रा इव कुटिलारुणा ॥४१॥गत्वा च तैः तदा आख्यातम् राज्ञे राजा अपि उवाच तान् ।तूलिकानाम् तले किम्चित् मा स्यात् तत् वीक्ष्यताम् इति ॥४२॥गत्वा ईख़्षन्ते च ते यावत् एकएकम् तूलिकातलम् ।तावत् सर्वतलाद् आपुर्वालम् पर्यङ्कपृष्टतः ॥४३॥नीत्वा च अदर्शयन् राज्ञे सः अपि आनीतस्य वीक्ष्य तत् ।तत्रूपम् तूलिकाचङ्गस्य अङ्गम् राजा विसिस्मिये ॥४४॥सप्तभ्यः तूलिकाभ्यः अस्य वालः लग्नः तनौ खतम् ।इति चित्रीयमाणः ताम् राजा रात्रिम् निनाय सः ॥४५॥प्रातः च अद्भुतवैदग्ध्यसौकुमार्याः अमी इति ।तेभ्यः त्रिभ्यः अपि चङ्गेभ्यः हेमलक्षत्रयम् ददौ ॥४६॥ततः ते सुखिताः तत्र तस्थुः विस्मृतकच्छपाः ।पितुः विघ्नितयज्ञार्थफलौपार्जितपातकाः ॥४७॥इति आख्याय कथा- अद्भुतम् अंसनिषण्णः पुनः सः वेतालः ।पप्रच्छ तम् त्रिविक्रमसेनम् पृथ्वीपतिम् प्रश्नम् ॥४८॥राजन् विचिन्त्य शापम् पूर्व उक्तम् ब्रूहि मे त्वम् एतेषाम् ।भोजननारीशय्याचङ्गानाम् कः अधिकः चङ्गः ॥४९॥तत् श्रुत्वा एव सः धीमान् वेतालम् प्रत्युवाच तम् नृपतिः ।अहम् एषाम् निःकैतवम् अधिकम् जानामि तूलिकाचङ्गम् ॥५०॥यस्य अङ्गे प्रत्यक्षम् वालप्रतिबिम्बम् उद्गतम् दृष्टम् ।इतराभ्याम् हि भवेत् तत् पूर्वम् जातु अन्यतः अवगतम् ॥५१॥इति तस्य उक्तवतः अंसात् वेतालः भूपतेः ययौ प्राग्वत् ।सः अपि तथा एव च राजा तम् अन्वय आसीत् अनिर्विण्णः ॥५२॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP