संस्कृत सूची|संस्कृत स्तोत्र साहित्य|कथा-संग्रहः|वेतालपञ्चविंशति| कथा ५ वेतालपञ्चविंशति सूत्र कथा १ कथा २ कथा ३ कथा ४ कथा ५ कथा ६ कथा ७ कथा ८ कथा ९ कथा १० कथा ११ कथा १२ कथा १३ कथा १४ कथा १५ कथा १६ कथा १७ कथा १८ कथा १९ कथा २० कथा २१ कथा २२ कथा २३ कथा २४ कथा २५ वेतालपञ्चविंशति - कथा ५ बेताल पचीसी पच्चीस कथाओं से युक्त एक ग्रन्थ है । इसके रचयिता बेतालभट्ट बताये जाते हैं जो न्याय के लिये प्रसिद्ध राजा विक्रम के नौ रत्नों में से एक थे । ये कथायें राजा विक्रम की न्याय-शक्ति का बोध कराती हैं । Tags : storyvetal panchavishiकथाबेताल पच्चीसीवेताळ पंचविशीसंस्कृत कथा ५ Translation - भाषांतर ततः तस्य पुनः गत्वा शिंशपाशाखिनः अन्तिकम् ।तथा एव उल्लम्बमानम् तम् दृष्ट्वा नरशरीरगम् ॥१॥वेतालम् अवतार्य एव कृत्वा अस्मै बहु वैकृतम् ।सः त्रिविक्रमसेनः द्राक् गन्तुम् प्रववृते ततः ॥२॥आगच्छन्तम् च तम् तूष्णीम् वेतालः पूर्ववत्पथि ।रात्रौ महाश्मशाने अत्र स्कन्धस्थः व्याजहार सः ॥३॥राजन् अभिनिविष्टः असि कष्टे अत्यन्तप्रियः असि च ।तत् ते चेतोविनोदाय वर्णयामि कथाम् शृणु ॥४॥उज्जयिन्याम् अभूत् विप्रः पुण्यसेनस्य भूपतेः ।अनुजीवी प्रियः अमात्यः हरिस्वामी इति सत्गुणः ॥५॥तस्य आत्मनः अनुरूपायाम् भार्यायाम् गृहमेधिनः ।गुणवान् सदृशः पुत्रः देवस्वामी इति अजायत ॥६॥तद्वत् च अनन्य सामान्य रूपलावण्य विश्रुता ।कन्या सोमप्रभा नाम तस्य अन्वर्था- उदपद्यत ॥७॥सा प्रदेया सती कन्या रूपौत्कर्षाभिमानिनी ।मातुः मुखेन पितरम् भ्रातरम् च जगाद तम् ॥८॥शूरस्य ज्ञानिनः वा अहम् देया विज्ञानिनः अपि वा ।अन्यस्मै न अस्मि दातव्या कार्यम् मत्जीवितेन चेत् ॥९॥तत् श्रुत्वा तादृशम् तस्याः चिन्वन् एकतमम् वरम् ।तत्पिता सः हरिस्वामी यावत् चिन्ताम् वहति अलम् ॥१०॥तावत् व्यसर्जिः रज्ञा सः पुण्यसेनेन दूत्यया ।संधि- अर्थम् विग्रह- आयात दाक्षिणात्यनृपान्तिकम् ॥११॥कृतकार्यः च तत्र असौ एकेन अभ्येत्य ताम् सुताम् ।याचितः अभूत् द्विजाग्र्येण श्रुततत्रूपसंपदा ॥१२॥विज्ञानिनः ज्ञानिनः वा शूरात् वा न अपरम् पतिम् ।मत्पुत्री इच्छति तत् तेषाम् मध्यात् कथय कः भवान् ॥१३॥इति उक्तः तेन भार्या- अर्थः सः हरिस्वामिना द्विजः ।अहम् जानामि विज्ञानम् इति तम् प्रत्यभाषत ॥१४॥तर्हि तत् दर्शयस्व इति पुनः उक्तः च तेन सः ।विज्ञानी कल्पयामास स्वशक्त्या द्युचरम् रथम् ॥१५॥मायायन्त्ररथे तत्र तम् हरिस्वामिनम् क्षणात् ।आरोप्य नीत्वा स्वर्ग- आदीम् लोकान् तस्मै अदर्शयत् ॥१६॥आनिनाय च तुष्टम् तम् तत्र एव कटकम् पुनः ।दाक्षिणात्यस्य नृपतेः यत्र आयातः सः कार्यतः ॥१७॥ततः सः अस्मै हरिस्वामी प्रतिशुश्राव ताम् सुताम् ।विज्ञानिने विवाहम् च निश्चिकाय अह्नि सप्तमे ॥१८॥तत्कालम् उज्जयिन्याम् अपि अन्येन एत्य द्विजन्मना ।देवस्वामी सः तत्पुत्रः स्वसारम् ताम् अयाच्यत ॥१९॥ज्ञानिविज्ञ्नानिशूरेभ्यः न अन्यम् इच्छति सा पतिम् ।इति तेन अपि सः अपि उक्तः शूरम् आत्मानम् अभ्यधात् ॥२०॥ततः दर्शितशस्त्रास्त्रश्रिये तस्मै द्विजः अनुजाम् ।देवस्वामी सः शूराय दातुम् ताम् प्रत्यपद्यत ॥२१॥सप्तमे अह्नि च तत्र एव विवाहम् गणकौक्तितः ।तस्य अपि सः अभ्यधात् मातुः परोक्षम् कृतनिश्चयः ॥२२॥तत्माता अपि ःअरिस्वामिभार्या तत्कलम् एव सा ।केन अपि एत्य तृतीयेन सुताम् ताम् याचिता पृथक् ॥२३॥ज्ञानी शूरः अथ विज्ञनी भर्ता अस्मत् दुहितुः मतः ।इति उक्तः च तया मातः अहम् ज्ञनी इति सः अभ्यधात् ॥२४॥पृष्ट्वा भूतम् भविष्यत् च तस्मै ताम् ज्ञानिने सुताम् ।प्रतिजज्ञे प्रदातुम् सा अपि अह्नि तत्र एव सप्तमे ॥२५॥अन्येद्युः च आगतः सः अत्र हरिस्वामी यथा कृतम् ।पत्न्यैः पुत्राय च आचख्यौ तम् कन्यादाननिश्चयम् ॥२६॥तौ च तम् स्वकृतम् तस्मै भिन्नम् भिन्नम् एव उचताम् ।सः अपि तेन आकुलः जज्ञे वरत्रयनिमन्त्रणात् ॥२७॥अथ उद्वाहदिने तस्मिन् हरिस्वामिगृहे वराः ।आययुः ज्ञानिविज्ञानिशूराः तत्र त्रयः अपि ते ॥२८॥तत्कालम् च अत्र सा चित्रम् कन्या सोमप्रभा वधुः ।अशङ्कितम् गता क्व अपि न विचित्य अपि अलभ्यत ॥२९॥ततः अब्रवीत् हरिस्वामी ज्ञानिनम् तम् ससंभ्रमः ।ज्ञानिन् इदानीम् ब्रूहि आशु दुहिता मे क्व सा गता ॥३०॥तत् श्रुत्वा सः अवदत् ज्ञानी राक्षसेन अपहृत्य सा ।नीता विन्ध्याटवीम् धूमशिखेन वसतिम् निजाम् ॥३१॥इति उक्तः ज्ञानिना भीतः हरिस्वामी जगाद सः ।हा धिक् कथम् सा प्रप्येत विवाहः च अपि कथम् ॥३२॥श्रुत्वा एतत् प्राह विज्ञानी धीरः भव नयामि वः ।तत्र अधुना एव यत्र एषः ज्ञानी वदति ताम् स्थिताम् ॥३३॥इति उक्त्वा तत्क्षणम् कृत्वा रथम् सर्वास्त्रसंयुतम् ।तत्र आरोप्य हरिस्वामिज्ञानिशूरान् खगामिनि ॥३४॥तान् सः संप्रापयामास क्षणात् विन्ध्याटवीभुवि ।ज्ञानिना ताम् समाख्याताम् वसतिम् तत्र रक्षसः ॥३५॥तत्र तम् राक्षसम् क्रुद्धम् ज्ञातवृत्तान्तनिर्गतम् ।शूरः अथ योधयामास हरिस्वामिपुरस्कृतः ॥३६॥तदा आश्चर्यम् अभूत् युद्धम् तयोः मानुषरक्षसोः ।चित्रास्त्रयोधिनोः स्त्री- अर्थम् रामरावणयोः इव ॥३७॥क्षणेन च सः सङ्ग्रामदुःमदस्य अपि रक्षसः ।अर्धचन्द्रेण बाणेन शूरः तस्य अच्छिनत् शिरः ॥३८॥हते रक्षसि ताम् सोमप्रभाम् आप्ताम् ततास्पदात् ।आदाय विज्ञानिरथेन आजग्मुः ते ततः अखिलाः ॥३९॥हरिस्वामिगृहम् प्राप्य तेषाम् लग्ने अपि उपस्थिते ।ज्ञानिविज्ञ्नानिशूराणाम् विवादः उदभूत् महान् ॥४०॥ज्ञानी जगाद न अहम् चेत् जानीयाम् तत् इयम् कथम् ।प्राप्येत कन्या गूढस्था देया मह्यम् असौ इतः ॥४१॥विज्ञनी तु अवदत् न अहम् कुर्याम् चेत् व्योमगम् रथम् ।गम- आगमौ कथम् स्याताम् देवानाम् इव वः क्षणात् ॥४२॥कथम् स्यात् च अरथम् युद्धम् रथिना रक्षसा सह ।तस्मात् मह्यम् इयम् देया लग्नः हि एषः मया अजितः ॥४३॥शूरः अपि उवाच हन्याम् चेत् न अहम् तम् राक्षसम् रणे ।तत् युवाभ्याम् कृते यत्ने अपि एताम् कन्याम् कः आनयेत् ॥४४॥तत् मह्यम् एषा दातव्या इति एवम् तेषु विवादिषु ।हरिस्वामी क्षणम् तूष्णीम् आसीत् उद्भ्रान्तमानसः ॥४५॥तत् कस्मै सा अत्र देया इति राजन् वदतु मे भवान् ।न वदिष्यसि जानन् चेत् तत् ते मूर्धा स्फुटिष्यति ॥४६॥इति वेतालः तस्मात् श्रुत्वा मौनम् विहाय च ।सः त्रिविक्रमसेनः तम् उवाच एवम् महीपतिः ॥४७॥शूराय सा प्रदातव्या येन प्राणपणौद्यमात् ।अर्जिता बहुवीर्येण हत्वा तम् युधि राक्षसम् ॥४८॥ज्ञानिविज्ञानिनौ तु अस्य धात्रा कर्मकरौ कृतौ ।सदा गणकतक्षणौ परौपकरणे न किम् ॥४९॥इति उक्तम् मनुजपतेः निशम्य तस्य स्कन्धाग्रात् सपदि सः पूर्ववत् जगाम ।वेतालः निजपदम् एव सः अपि राजा अनुद्वेगः तम् प्रति प्रतस्थे ॥५०॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP