साहित्य दर्पण - दशमः परिच्छेदः

साहित्य दर्पण संस्कृत भाषा में साहित्य-विषयक महान ग्रन्थ है। इसके रचयिता विश्वनाथ हैं। साहित्य दर्पण के रचयिता का समय 14वीं शताब्दी ठहराया जाता है।


अथावसरप्राप्तानलङ्कारानाह--
शब्दार्थयोरस्थिरा यो ध्रर्माः शोभातिशायिनः ।
रसादीनुपकुर्वन्तो ऽलङ्कारास्ते ऽङ्गदादिवत् ॥१॥

यथा अङ्गदादयः शरीरशोभातिशायिनः शरीरिणमुपकुर्वन्ति, तथानुप्रासोपमादयः शब्दार्थशोभातिशायिनो रसादेरुपकारकाः ।
अलङ्कारा अस्थिरा इति नैषां गुणवदावश्यरकी स्थितिः ।
शब्दार्थयोः प्रथमं शब्दस्य बुद्धिविषयत्वाच्छब्दालङ्कारेषु वक्तव्येषु शब्दार्थालङ्कास्यापि पुनरुक्तवदाभासस्य चिरन्तनैः शब्दालङ्कारमध्ये लक्षितत्वात्प्रथमं तमेवाह--
आपाततो यदर्थस्य पौनरुक्त्येन भासनम् ।
पुनरुक्तवदाभासः स भिन्नाकारशब्दगः ॥२॥

उदाहरणम्-- भुजङ्गकुण्डली व्यक्तशशिशुभ्रांशुशीतगुः ।
जगन्त्यपि सदापायादव्याच्चेतोहरः शिवः ॥

अत्र भुजङ्गकुण्डल्यादिशब्दानामापातमात्रेण सर्पाद्यर्थतया पौनरुक्त्यप्रतिभासनम् ।
पर्यवसाने तु भुजङ्गरूपं कुण्डलं विद्यते यस्येत्याद्यन्यार्थत्वम् ।
"पायादव्यात्" इत्यत्र क्रियागतो ऽयमलङ्गारः, "पायात्" इत्यास्य "अपायात्" इत्यत्र पर्यवसानात् ।
"भुजङ्गकुण्डली" इति शब्दयोः प्रथमस्यैव परिवृत्तिसहत्वम् ।
"हरः शिवः" इति द्वितीयस्यैव ।
"शशिसुभ्रांशु" इति द्वयोरपि ।
"भाति सदानत्यागः" इति न द्वयोरपि ।
इति शब्दपरिवृत्तिसहत्वासत्वाभ्यामस्योभयालङ्कारत्वम् ।

अनुप्रासः शब्दसाम्यं वैषम्ये ऽपि स्वरस्य यत् ।

स्वरमात्रसादृश्यं तु वैचित्र्याभावान्न गणितम् ।
रसाद्यनुगतत्वेन प्रकर्षेण न्यासो ऽनुप्रासः ।

छेको व्यञ्जनसङ्घस्य सकृत्साम्यमनेकधा ॥३॥

छेकश्छेकानुप्रासः ।
अनेकधेति स्वरूपतः क्रमतश्च ।
रसः सर इत्यादे क्रमभेदेन सादृश्यं नास्यालङ्कारस्य विषयः ।
उदाहरणं मम तातपादानाम्-- "आदाय बकुलगन्धानन्धीकुर्वन् पदे पदे भ्रमरान् ।
अयमेति मन्दमन्दं कावेरीवारिपावनः पवनः" ॥

अत्र गन्धनन्धीतिसंयुक्तयोः, कावेरीवारीत्यसंयुक्तयोः, पावनः पवन इति व्यञ्जनानां बहूनां सकृदावृत्तिः ।
छेको विदग्धस्तत्प्रयोज्यत्वादेष छेकानुप्रासः ।

अनेकस्यैकधा साम्यमसकृद्वाष्यनेकधा ।
एकस्य सकृदष्येण वृत्त्यनुप्रास उच्यते ॥४॥

एकधा स्वरूपत एव, न तु क्रमतो ऽपि ।
अनेकधा स्वरूपतः क्रमतश्च ।
सकृदपीत्यपि शब्दादसकृदपि ।
उदाहरणम्-- "उन्मीलन्मधुगन्धलुब्धमधुपव्याधूतचूताङ्कुर- क्रीडत्कोकिलकाकलीकलकलैरुद्रीर्णकर्णज्वराः ।
नीयन्ते पथिकैः कथं कथमपि ध्यानावधानक्षण- प्राप्तप्राणसमासमागमरसोल्लासैरमी वासराः" ॥

अत्र "रसोल्लासैरमी" इति रसयोरेकधैव साम्यम्, न तु तेनैव क्रमेणापि ।
द्वितीये पादे, कलयोरसकृत्तेनैव क्रमेण च ।
प्रथमे एकस्य मकारस्य सकृत्, धकारस्य चासकृत् ।
रसविषयव्यापारवती वर्णरचनावृत्तिः, तदनुगतत्वेन प्रकर्षेण न्यसनाद्वृत्त्यनुप्रासः ।

उच्चार्यत्वाद्यदेकत्र स्थाने तालुरदादिके ।
सादृश्यं व्यञ्जनस्यैव श्रुत्यनुप्रास उच्यते ॥५॥

उदाहरणम्-- "दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः ।
विरूपाक्षस्य जयिनीस्ताः स्तुमो वामलोचनाः" ॥

अत्र "जीवयन्ति" इति, "याः" इति, "जयिनीः" इत ।
अत्र जकारयकारयोरेकत्र स्थाने तालावुच्चार्यत्वात्सादृश्यम् ।
एवं दन्त्यकण्ठ्यानामप्युदाहार्यम् ।
एष च सहृदयानामतीव श्रुतिसुखावहत्वाच्छ्रत्यनुप्रासः ।

व्यञ्जनं चेद्यथावस्थं सहाद्येन स्वरेण तु ।
आवर्त्यते ऽन्त्ययोज्यत्वादन्त्यानुप्रास एव तत् ॥६॥

यथावस्थमिति यथासम्भवमनुस्वारविसर्गस्वरयुक्ताक्षरविशिष्टम् ।
एष च प्रायेण पादस्य पदस्य चान्ते प्रयोज्यः ।
पदान्तगो यथा मम-- केशः काशस्तवकविकासः कायः प्रकटितकरभविलासः ।
चक्षुर्दग्धवराटककल्पं त्यजति न चेतः काममनल्पम् ॥

"मन्दं हसन्तः पलकं वहन्तः" इत्यादि ।

शब्दार्थयोः पौनरुक्त्यं भेदे तात्पर्यमात्रतः ।
लाटानुप्रस इत्युक्तो--
उदाहरणम्--- स्मेरराजीवनयने नयने किं निमीलिते ।
पश्य निजिंतकन्दर्पं कन्दर्पवशगं प्रियम् ॥

अत्र विभक्त्यर्थस्य पौनरुक्त्ये ऽपि मुख्यतरस्य प्रातिपदिकांशद्योत्यधर्मिरूपस्य भिन्नार्थत्वाल्लाटानुप्रासत्वमेव ।
"नयने तस्यैव नयने च" ।
अत्र द्वितीयनयनशब्दो भग्यत्त्वादिगुणविशिष्टत्वरूपतात्पर्यमात्रेण भिन्नार्थः ।
यथा वा--- "यस्य न सविधे दयिता दवदहनस्तुहिनदीधितिस्तस्य ।
यस्य च सविधे दयिता दवदहनस्तुहिनदीधितिस्तस्य" ॥

अत्रानेकपदानां पौनरुक्त्यम् ।
एष च प्रायेण लाटजनप्रियत्वाल्लाटानुप्रासः ।

--ऽनुप्रासः पञ्चधा ततः ॥७॥

स्पष्टम् ।

सत्यर्थे पृथागर्थायाः स्वरव्यञ्जनसंहतेः ।
क्रमेण तेनैवावृत्तिर्यमकं विनिगद्यते ॥८॥

अत्र द्वयोरपि पदयोः क्वचित्सार्थकत्वं, क्वचिन्निरर्थकत्वम् ।
क्वचिदेकस्य सार्थकत्वमपरस्य निरर्थकत्वम् ।
अत उक्तम्--"सत्यर्थे" इति ।
"तेनैव क्रमेण" इति दमो मोद इत्यादेर्विविक्तविषयत्वं सूचितम् ।
एतच्च पादपादर्ध्दश्लोकावृत्तित्वेन पादाद्यावृत्तेश्चानेकविधतया प्रभूततमभेदम् ।
दिङ्मात्रमुदाह्रियते-- "नवपलाश-पऌआशवनं पुरः स्फुटपराग-परागत-पङ्कजम् ।
मृदुल-तान्त-लतान्तमलोकयत् स सुरभि सुरिभिं सुमनोभरैः" ॥

अत्र पदावृत्तिः ।
"पलाशपलाश" इति "सुरभिं सुरभिं" इत्यत्र च द्वयोः सार्थकत्वम् ।
"लतान्तलतान्त" इत्यत्र प्रथमस्य निरर्थकत्वम् ।
"परागपराग" इत्यत्र द्वितीयस्य ।
एवमन्यत्राप्युदाहार्यम् ।
"यमकादौ भवेदैक्यं डलोर्बवोर्लरोस्तथा" ।
इत्युक्तनयात् "भुजलतां जडतामबलाजनः" इत्यत्र नं यमकत्वहानिः ।

अन्यस्यान्यार्थकं वाक्यमन्यथा योजयेद्यदि ।
अन्यः श्लेषेण काक्वा वा सा वक्रोक्तिस्ततो द्विधा ॥९॥

द्विधेति श्लेषवक्रोक्तिः काकुवक्रोक्तिश्च ।
क्रमेणोदाहरणम्-- "के यूयं स्थल एव सम्प्रति वयं प्रश्नो विशेषाश्रयः किं ब्रूते विहगः स वा फणिपतिर्यत्रास्ति सुप्तो हरिः ।
वामा यूयमहो विडम्बरसिकः कदृक् स्मरो वर्तते येनास्मासु विवेकशून्यमनसः पुंस्वेव योषिद्रभ्रमः" ॥

अत्र विशेषपदस्य "विः पक्षी" "शेषो नागः" इत्यर्थद्वययोग्यत्वात् सभङ्गश्लेषः ।
अन्यत्र त्वभङ्गः ।
"काले कोकिलवाचाले सहकारमनोहरे ।
कृतागसः परित्यागात्तस्याश्चेतो न दूयते" ॥

अत्र कयाचित्सख्या निषेधार्थे नियुक्तो नञ् अन्यथा काक्वा दूयत एवेति विध्यर्थे घटितः ।

शब्दैरेकविधैरेव भाषासु विविधास्वपि ।
वाक्यं यत्र भवेत्सो ऽयं भाषासम इतीष्यते ॥१०॥

यथा मम-- "मञ्जुलमणिमञ्जीरे कलगम्भीरे विहारसरसीतीरे ।
विरसासि केलिकीरे किमीलि ! धीरे च गन्धसारसमीरे !" ॥

एष श्लोकः संस्कृत-प्राकृत-शौरसेनी-प्राच्यावन्तीनागरापभ्रंशेष्वेकविध एव ।
"सरसं कैणं कव्वम्" ।
इत्यादौ तु "सरसम्" इत्यत्र संस्कृतप्राकृतयोः साम्ये ऽपि वाक्यगतत्वाभावे वैचित्र्याभावान्नायमलङ्कारः ।

श्लिष्टैः पदैरनैकार्थाभिधाने श्लेष इष्यते ।
वर्णप्रत्ययलिङ्गानां प्रकृत्योः पदयोरपि ॥११॥

श्लेषाद्विभक्तिवचनभाषाणामष्टधा च सः ।
क्रमेणोदाहरणम्-- "प्रतिकूलतामुपगते हि विधौ विफलत्वमेति बहुसाधनता ।
अवलम्बनाय दिनभर्त्तुरभून्न पतिष्यतः करसहस्त्रमपि" ॥

अत्र "विधौ" इति विधुविधिशब्दयोरुकारेकारयोरौकाररूपत्वाच्छ्लेषः ।
"किरणा हरिणाङ्कस्य दक्षिणश्च समीरणः ।
कान्तोत्सङ्गजुषां नूनं सर्व एव सुधाकिरः" ॥

अत्र "सुधाकिरः" इति क्विप्-क-प्रत्ययोः ।
किं चात्र बहुवचनैकवचनयोरैकरूप्याद्वचनश्लेषो ऽपि ।
"विकसन्नेत्रनीलाब्जे तथा तन्व्याः स्तनद्वयी ।
तव दत्तां सदामोदं लसत्तरलहारिणी" ॥

अत्र नपुंसकस्त्रीलिङ्गयोः श्लेषो वचनश्लेषो ऽपि ।
"अयं सर्वाणि शास्त्राणि हृदि ज्ञेषु च वक्ष्यति ।
सामर्थ्यकृदमित्राणां मित्राणां च नृपात्मजः" ॥

अत्र "वक्ष्यति" इति वहि-वच्योः, "सामर्थ्यकृत्" इति कृन्तति-करोत्योः प्रकृत्योः ।
"पृथुकार्तस्वरपात्रम्-" इत्यादि ।
अत्र पदभङ्गे विभक्तिसमासयोरपि वैलक्षण्यात्पदश्लेषः, न तु प्रकृतिश्लेषः ।
एवञ्च-- "नीतानामाकुलीभावं लुब्धैर्भूरिशिलीमुखैः ।
सदृशे वनवृद्धानां कमलानां तदीक्षणे" ॥

अत्र लुब्धशिलीमुखादिशब्दानां श्लिष्टत्वे ऽपि विभक्तेकभेदात्प्रकृतिश्लेषः, अन्यथा सर्वत्र पदश्लेषप्रसङ्गः ।
"सर्वस्वं हर सर्वस्य त्वं भवच्छेदतत्परः ।
नयोपकारसांमुख्यमायासि तनुवर्तनम्" ॥

अत्र "हर" इति पक्षे शिवसम्बोधनमिति सुप् ।
पक्षे हृधातोस्तिङिति विभक्तेः ।
एवं "भव" इत्यादौ ।
अस्य च भेदस्य प्रत्ययश्लेषेणापि गतार्थत्वे प्रत्ययान्तरासाध्यसुबन्ततिङन्तगतत्वेन विच्छित्तिविशेषाश्रयणात्पृथगुक्तिः ।
"महदे सुरसन्धं मे तमव समासङ्गमागमाहरणे ।
हर बहुसरणं तं चित्तमाहेमवसर उमे सहसा" ॥

अत्र संस्कृतमहाराष्ट्रयोः ।
संस्कृतपैशाच्योर्यथा-- (ख)"कमनेकतमादानं सुरतनरजतुच्छलं तदासीनम् ।
अप्पतिमानं खमते सो ऽगनिकानं नरं जेतुम्" ॥

कामे कृतामोदानां सुवर्णरजतोच्छलद्दासीनाम् ।
अप्रतिमानं क्षमते स गणिकानां न रञ्जयितुम् ॥

इति पैशाचीच्छाया ।
संस्कृतशूरसेन्योर्यथा-- (ग)"तोदीसदिगगणमदो ऽकलहं स सदा बलं विदन्तरिदम् ।
आरदमेहावसरं सासदमारं गदा भारम्" ॥

ततो दृश्यते गगनमदः कलहंसशतावलम्बितान्तरितम् ।
आरतमेद्यावसरं शाश्वतमारं गतासारम्" ॥

इति शूरसेनीच्छाया ।
संस्कृतापभ्रंशयोर्यथा-- (घ)"धीरागच्छदुमे हृतमुदुद्धर वारिसदः सु ।

अभ्रमदप्प्रसराहरणुरविकिरणातेजः सु ॥

पुनस्त्रिधा सभङ्गो ऽथाभङ्गस्तदुभयात्मकः ॥१२॥

एतद्भेदत्रयं चोक्तभेदाष्टके यथासम्भवं ज्ञेयम् ।
यथा वा-- "येन ध्वस्तमनोभवेन बलिजित्कायः पुरास्त्रीकृतो यश्चोद्वृत्तभुजङ्गहारवलयो गङ्गां च यो ऽधारयत् ।
यस्याहुः शशिमच्छिरोहर इति स्तुत्यं च नामामरा ।
पायात्स स्वयमन्धकक्षयकरस्त्वां सर्वदोमाधवः" ॥

अत्र "येन-" इत्यादौ सभ्ङ्गश्लेषः ।
"अन्धक-" इत्यादावभङ्गः ।
अनयोश्चैकत्र सम्भवात्सभङ्गाभङ्गात्मको ग्रन्थगौरवभयात्पृथङ्नोदाहृतः ।
इह केचिदाहुः--"सभङ्गश्लेष एव शब्दश्लेषविषयः ।
यत्रोदात्तादिस्वरभेदाद्भिन्नप्रयत्नोच्चार्यत्वेन भिन्नयोः शब्दयोर्जतुकाष्ठन्यायेन श्लेषः ।
अभङ्गस्त्वर्थश्लेष एव ।
यत्र स्वराभेदादभिन्नप्रयत्नोच्चार्यतया शब्दाभेदादर्थयोरेकवृन्तगतफलद्वयन्यायेन श्लेषः ।
यो हि यदाश्रितः स तदलङ्कार एव ।
अलङ्कार्यालङ्कारणभावस्य लोकवदाश्रयाश्रयिभावेनोपपत्तिः" इति ।
तदन्ये न क्षमन्ते ।
तथाहि--अत्र ध्वनिगुणीभूतव्यङ्ग्यदोषगुणालङ्काराणां शब्दार्थगतत्वेन व्यवस्थितेरन्वयव्यतिरेकानुविधायित्वेन नियम् इति ।
न च "अन्धकक्षय" इत्यादौ शब्दाभेदः, "अर्थभेदेन शब्दभेदः" इति दर्शनात् ।
किं चात्र शब्दस्यैव मुख्यतया वैचित्र्यबोधोपायत्वेन कविप्रतिभयोट्टङ्कनाच्छब्दालङ्कारत्वमेव ।
विसदृशशब्दद्वयस्य बन्धे चेवंविधस्य वैचित्र्याभावाद् वैचित्र्यस्यैव चालङ्कारत्वात् ।
अर्थमुखप्रेक्षितया चार्थालङ्कारत्वे ऽनुप्रासादीनामपि रसादिपरत्वेनार्थमुखप्रेक्षितयार्थालङ्कारत्वप्रसङ्गः ।
शब्दस्याभिन्नप्रयत्नोच्चार्यत्वेनार्थालङ्कारत्वे "प्रतिकूलतामुपगते हि विधौ" इत्यादौ शब्दभेदे ऽप्यर्थालङ्कारत्वं तथापि प्रसज्यत इत्युभयत्रापि शब्दालङ्कारत्वमेव ।
यत्र तु शब्दपरिवर्त्तने ऽपि न श्लेषत्वखण्डना, तत्र-- "स्तोकेनोन्नतिमायाति स्तोकेनायात्यधोगतिम् ।
अहो सुसदृशी वृत्तिस्तुलाकोटेः खलस्य च" ॥

इत्यादावर्थश्लेषः ।
अस्य चालङ्कारान्तरविविक्तविषयताया असम्भवाद्विद्यमानेष्वलङ्कारान्तरेष्वपवादत्वेन तद्वाधकतया तत्प्रतिभोत्पत्तिहेतुत्वमिति केचित् ।
इत्थमत्र विचार्यते--समासोक्त्यप्रस्तुतप्रशांसादौ द्वितीयार्थस्यानभिधेयतया नास्य गन्धो ऽपि ।
"विद्वन्मानसहंस--" इत्यादौ श्लेषगर्भे रूपके ऽपि मानसशब्दस्य चित्तसरोरूपोभयार्थत्वे ऽपि रूपकेण श्लेषो बाध्यते ।
सरोरूपस्यैवार्थस्य विश्रान्तिधामतया प्राधान्यात्, श्लेषे ह्यर्थद्वयस्यापि समकक्षत्वम् ।
"सन्निहितबालान्धकारा भास्वन्मूर्तिश्च" इत्यादौ विरोधाभासे ऽपि विरुद्धार्थस्य प्रतिभातमात्रस्य प्ररोहाभावान्न श्लेषः ।
एवं पुनरुक्तवदाभासे ऽपि ।
तेन "येन ध्वस्त-" इत्यादौ प्राकरणिकयोः, "नीतानाम्-" इत्यादावप्रकारणिकयोरेकधर्माभिसंबन्धात्तुल्ययोगितायाम्, "स्वेच्छोपजातविषयो ऽपि न याति वक्तुं देहीति मार्गणशतैश्च ददाति दुः खम् ।
मोहात्समुत्क्षिपति जीवनमप्यकाण्डे कष्टं प्रसूनविशिखः प्रभुरल्पबुद्धिः" ॥

इत्यादौ च प्राकरणिकाप्राकरणिकयोरेकधर्माभिसम्बन्धाद् दीपके ।
"सकलकलं पुरमेतज्जातं संप्रति सुधांशुबिम्बमिव" ।
इत्यादौ चोपमायां विद्यमानायामपि श्लेषस्यैतद्विषयपरिहारेणासंभवाद् एषां च शलेषविषयपरिहारेणापि स्थितेरेतद्विषये श्लेषस्य प्राधान्येन चमत्कारित्वप्रतीतेश्च श्लेषेणैव व्यपदेशो भवितुं युक्तः, अन्यथा तद्व्यापदेशस्य सर्वथा भावप्रसङ्गाच्चेति ।
अत्रोच्यते--न तावत्परमार्थतः श्लेषस्यालङ्कारान्तराविविक्तविषयता "येनध्वस्त-" इत्यादिना विविक्तविषयत्वात् ।
न चात्र तुल्ययोगिता, तस्याश्च द्वयोरप्यर्थयोर्वाच्यत्वनियमाभावात् ।
अत्र च माधवोमाधवयोरेकस्य वाच्यत्वनियमे परस्य व्यङ्ग्यत्वं स्यात् ।
किञ्च--तुल्ययोगितायामप्येकस्यैव धर्मस्यानेकधर्मिसंबन्धितया प्रतीतिः ।
इह त्वनेकेषां धर्मिणां पृथक्पृथग्धर्मसंबन्धतया ।
"सकलकलम्--" इत्यादौ च नोपमाप्रतिभोत्पत्तिहेतुः श्लेषः ।
पूर्णोपमाया निर्विषयत्वापत्तेः "कमलमिव मुखं मनोज्ञमेतत्" इत्याद्यस्ति पूर्णोपमाया विषय इति चेत् ? न, यदि "सकल-" इत्यादौ शब्दश्लेषतया नोपमा तत्किमपराद्धं "मनोज्ञम्" इत्यादावर्थश्लेषेण ।
"स्फुटमर्थालङ्कारावेतावुपमासमुच्चयौ, किन्तु ।
आश्रित्य शब्दमात्रं सामान्यमिहापि संभवतः" ॥

इति रुद्रटोक्तदिशा गुणक्रियासाम्यवच्छब्दसाम्यस्याप्युपमाप्रयोजकत्वात् ।
ननु गुणक्रियासाम्यस्यैवोपमाप्रयोजकता युक्ता, तत्र साधर्म्यस्य वास्तवत्वात् ।
शब्दसाम्यस्य तु न तथा, तत्र साधर्म्यस्यावास्तवत्वात् ।
ततश्च पूर्णोपमाया अन्यथानुपपत्त्या गुणक्रियासाम्यस्यैवार्थश्लेषविषयतयाः परित्यागे पूर्णोपमाविषयता युक्ता, न तु "सकल-" इत्यादौ शब्दसाम्यस्यैवेति चेत् ? न-"साधर्म्यमुपमा" इत्येवाविशिष्टस्योपमालक्षणस्य शब्दसाम्याद्व्यावृत्तेरभावात् ।
यदि च शब्दसाम्ये साधर्म्यमवास्तवत्वान्नोपमाप्रयोजकम्, तदा कथं "विद्वन्मानस--" इत्यादावाधारभूते चित्तादौ सरोवराद्यारोपो राजादेहसाद्याहोपप्रयोजकः ।
किञ्च-यदि वास्तवसाम्य एवोपमाङ्गीकार्या, तदा कथं त्वयापि "सकलकलम्-" इत्यादौ बाध्यभूतोपमाङ्गीक्रियते ? किञ्च अत्र श्लेषस्यैव साम्यनिर्वाहकता, न तु साम्यस्य श्लेषनिर्वाहकता, श्लेषबन्धतः प्रथमं साम्यस्यासंभवात्, इत्युपमाया एवाङ्गित्वेन व्यपदेशो ज्यायान् "प्रधानेन हि ब्यपदेशा भवन्ति" इति न्यायात् ।
ननु शब्दालङ्कारविषये ऽङ्गाङ्गिभावसङ्करो नाङ्गीक्रियते तत्कथमत्र श्लेषोपमयोरङ्गाङ्गभावः सङ्कर इति चेत् ? न, अर्थानुसंधानविरहिण्यनुप्रासादावेव तथानङ्गीकारात् ।
एवं दीपकादावपि ज्ञेयम् ।
"सत्पक्षा मधुरगिरः प्रसाधिताशा मदोद्धतारम्भाः ।
निपतन्ति धार्तराष्ट्राः कालवशान्मेदिनीपृष्ठे" ॥

अत्र शरद्वर्णनया प्रकरणेन धार्तराष्ट्रादिशब्दानां हंसाद्यर्थाभिधाने नियमनाद्दुर्योधनादिरूपोर्ऽथः शब्दशक्तिमूलो वस्तुध्वनिः ।
इह च प्रकृतप्रबन्धाभिधेयस्य द्वितीयार्थस्य सूच्यतयैव विवक्षितत्वादुपमानोपमेयभावो न विवक्षित इति नोपमाध्वनिर्न वा श्लेष इति सर्वमवदातम् ।
पद्माद्याकारहेतुत्वे वर्णानां चित्रमुच्यते ।
आदिशब्दात्खङ्ग-मुरज-चक्र-गोमूत्रिकादयः ।
अस्य च तथाविधिलिपिसन्निवेशविशेषवशेन चमत्कारविधायिनामपि वर्णानां तथाविधश्रोत्राकाशसमवायवि शेषवशेन चमत्कारविधायिभिर्वर्णेरभेदेनोपचाराच्छब्दालङ्कारत्वम् ।
तत्र पद्मबन्धो यथा मम-- "मारमा सुषमा चारु-रुचा मारवधूत्तमा ।
मात्तधूर्ततमावासा सा वामा मे ऽस्तु मा रमा" ॥

एषो ऽष्टदलपद्मबन्धो दिग्दलेषु निर्गमप्रवेशाभ्यां श्लिष्टवर्णः, किन्तु विदिग्दलेष्वन्यथा, कर्णिकाक्षरं तु श्लिष्टमेव ।
एवं खड्गबन्धादिकमप्यूह्यम् ।

काव्यान्तर्गडुभूततया तु नेह प्रपञ्च्यते ।
रसस्य परिपन्थित्वान्नालङ्कारः प्रहेलिका ॥१३॥

उक्तिवैचित्र्यमात्रं सा च्युतदत्ताक्षरादिका ।

च्यताक्षरा दत्ताक्षरा च्युतदत्ताक्षरा च ।
उदाहरणम्-- "कूजन्ति कोकिलाः साले यौवने फुल्लमम्बुजम् ।
किं करोतु कुरङ्गक्षी वदनेन निपीडिता" ॥

अत्र "रसाले" इति वक्तव्ये "साले" इति "र" च्युतः ।
"वने" इत्यत्र "यौवने" इति "यौ" दत्तः ।
"वदनेन" इत्यत्र "मदनेन" इति "म" च्युतः "व" दत्तः ।
आदिशब्दात्क्रियाकारकगुप्त्यादयः ।
तत्र क्रियागुप्तिर्यथा-- "पाण्डवानां सभामध्ये दुर्योधन उपागतः ।
तस्मै गां च सुवर्णं च सर्वाण्याभरणानि च" ॥

अत्र "दुर्योधनः" इत्यत्र "अदुर्यो ऽधनः" इति ।
"अदुः" इति क्रियागुप्तिः ।
एवमन्यत्रापि ।
अथावसरप्राप्तेष्वर्थालङ्कारेषु सादृश्यमूलेषु लक्षितव्येषु तेषामप्युपजीव्यत्वेन प्राधान्यात् प्रथममुपमामाह--
साम्यं वाच्यमवैधर्म्यं वाक्यैक्य उपमा द्वयोः ॥१४॥

रुपकादिषु साम्यस्य व्यङ्ग्यत्वम्, व्यतिरेके च वैधर्म्यस्याप्युक्तिः, उपमेयोपमायां वाक्यद्वयम्, अनन्वये त्वेकस्यैव साम्योक्तिरित्यस्या भेदः ।

सा पूर्णा यदि सामान्यधर्म औपम्यवाचि च ।
उपमेयं चोपमानं भवेद्वाच्यम्--
सा उपमा ।
साधारणधर्मो द्वयोः सादृश्यहेतू गुणक्रिये मनोज्ञत्वादि ।
औपम्यवाचकमिवादि ।
उपमेयं मुखादि ।
उपमानं चन्द्रादि ।

इयं पुनः ॥१५॥

श्रौती यथेववाशब्दा इवार्थो वा वतिर्यदि ।
आर्थो तुल्यसमानाद्यास्तुल्यार्थो तत्र वा वतिः ॥१६॥

यथेववादयः शब्दा उपमानानन्तरप्रयुक्ततुल्यादिपदसाधारणा अपि श्रुतिमात्रेणोपमानोपमेयगतसादृश्यलक्षणसम्बन्धं बोधयन्तीति तत्सद्भावे श्रौत्युपमा ।
एवं "तत्र तस्येव" इत्यनेनेवार्थो विहितस्य वतेरुपादाने ।
तुल्यादयस्तु-"कमलेन तुल्यं मुखम्" इत्यादावुपमेय एव ।
"कमलं मुखस्य तुल्यम्" इत्यादावुपमान एव ।
"कमलं मुखं च तुल्यम्" इत्यादावभयत्रापि विश्राम्यन्तीत्यर्थानुसन्धानादेव साम्यं प्रतिपादयन्तीति तत्सद्भावे आर्थो ।
एवं "तेन तुल्यम्--"इत्यादिना तुल्यार्थे विहितस्य वतेरुपादाने
द्वे तद्धिते समासे ऽथ वाक्ये--
द्वेश्रौती आर्थो च ।
उदाहरणम्-- "सौरभम्भोरुहवन्मुखस्य कुम्भाविव स्तनौ पीनौ ।
हृदयं मदयति वदनं तव शरदिन्दुर्यथा बाले !" ॥

अत्र क्रमेण त्रिविधा श्रौती ।
"मधुरः सुधावदधरः पल्लवतुल्यो ऽतिलेपवः पाणिः ।
चकितमृगलोचनाभ्यां सदृशी चपले च लोचने तस्याः" ॥

अत्र क्रमेण त्रिविधा आर्थो ।

---पूर्णा षदेव तत् ।

स्पष्टम् ।

लुप्ता सामान्यधर्मादेरेकस्य यदि वा द्वयोः ॥१७॥

त्रयाणां वानुपादाने श्रौत्यार्थो सापि पूर्ववत् ।

सा लुप्ता ।
तद्भेदमाह--
पूर्णावद्धर्मलोपे सा विना श्रौतीं तु तद्धिते ॥१८॥

सा लुप्तोपमा धर्मस्य साधारणगुणक्रियारूपस्य लोपे पूर्णावदिति पूर्वोक्तरीत्या षट्प्रकारा, किं त्वत्र तद्धिते श्रौत्या असम्भवात्पञ्चप्रकारा ।
उदाहरणम्-- "मुखमिन्दुर्यथा पाणिः पल्लवेन समः प्रिये ! ।
वाचः सुधा इवोष्ठस्ते बिम्बतुल्यो मनो ऽश्मवत्" ॥

आधरकर्मविहिते द्विविधे च क्यचि क्यङि ।
कर्मकर्त्रोर्णमुलि च स्यादेवं पञ्चधा पुनः ॥१९॥

"धर्मलोपे लुप्ता" इत्यनुषज्यते ।
क्यच् क्यङ्-णमुलः कलापमते इन्-आयि णमः ।
क्रमेणोदाहरणम्-- अन्तः पुरीयसि रणेषु, सुतीयसि त्वं पौरं जनं तव सदा रमणीयते श्रीः ।
दृष्टः प्रियाभिरमृतद्युतिदर्शमिन्द्र- सञ्चारमत्र भुवि सञ्चरसि क्षितीश !" ॥

अत्र "अन्तः पुरीयसि" इत्यत्र सुखविहारास्पदत्वस्य, "सुतीयसि" इत्यत्र स्नेहनिर्भरत्वस्य च साधारणधर्मस्य लोपः ।
एवमन्यत्र ।
इह च यथादिलुल्यादिविरहाच्छ्रौत्यादिविशेषचिन्ता नास्ति ।
इदं च केचिदौपम्यप्रतिपादकस्येवादेर्लोप उदाहरन्ति, तदयुक्तम्--क्यङादेरपि तदर्थविहितत्वेनौपम्यप्रतिपादकत्वात् ।
ननु क्यङादिषु सम्यगौपम्यप्रतीतिर्नास्ति प्रत्ययत्वेनास्वतन्त्रत्वाद् इवादिप्रयोगाभावाच्चेति न वाच्यम्, कल्पबादावपि तथाप्रसङ्गात् ।
न च कल्पबादीनामिवादितुल्यतयौपम्यस्य वाचकत्वम्, क्यङादीनां तु द्योतकत्वम्॑ इवादीनामपि वाचकत्वे निश्चयाभावात् ।
वाचकत्वे वा "समुदितं पदं वाचकम्" "प्रकृतिप्रत्ययौ स्वस्वार्थबोधकौ" इति च मतद्वये ऽपि वत्यादिक्यङाद्योः साम्यमेवेति ।
यच्च केचिदाहुः--"वत्यादय इवाद्यर्थे ऽनुशिष्यन्ते, क्यङादयस्त्वाचाराद्यर्थे" इति, तदपि न ॑ न खलु क्यङादय आचारमात्रार्थाः अपि तु सादृश्याचारार्था इति ।
तदेवं धर्मलोपे दशप्रकारा लुप्ता ।

उपमानानुपादाने द्विधा वाक्यसमासयोः ।

उदाहरणम्-- "तस्या मुखेन सदृशं रम्यं नास्ते न वा नयनतुल्यम् ।
अत्र मुखनयनप्रतिनिधिवस्त्वन्तरयोर्गम्यमानत्वादुपमानलोपः ।
अत्रैव च "मुखेन सदृशम्" इत्यत्र "मुखं यथेदं" नयनतुल्यम्" इत्यत्र "दृगीव" इति पाठे श्रौत्यपि संभवतीति ।
अनयोर्भेदयोः प्रत्येकं श्रौत्यार्थोत्वभेदेन चतुविधत्वसंभवे ऽपि प्राचीनानां रीत्या द्विप्रकारत्वमेवोक्तम् ।

औपम्यवाचिनो लोपे समासे क्विपि च द्विधा ॥२०॥

क्रमेणोदाहरणम्-- "वदनं मृगशावाक्ष्याः सुधाकरमनोहरम्" ।
"गर्दभति श्रुतिपरुषं व्यक्तं निनदन् महात्मनां पुरतः" ।
अत्र "गर्दभति" इत्यत्रौपम्यवाचिनः क्विपो लोपः ।
न चेहोपयमेयस्यापि लोपः, "निनदन्" इत्यनेनैव निर्देशात् ।

द्विधा समासे वाक्ये च लोपे धर्मोपमानयोः ।

"तस्या मुखेन" इत्यादौ "रम्यम्" इति स्थाने "लोके" इति पाठे ऽनयोरुदाहरणम् ।

क्विप्समासगता द्वेधा धर्मेवादिविलोपने ॥२१॥

उदाहरणम्-- "विधवति मुखाब्जमस्याः" अत्र "विधवति" इति मनोहरत्व-क्विप्प्रत्यययोर्लोपः ।
"मुखाब्जम्" इति च समासगा ।
केचित्त्वत्रायिप्रात्ययलोपमाहुः ।

उपमेयस्य लोपे तु स्यादेका प्रत्यये क्यचि ।

यथा--"अरातिविक्रमालोकविकस्वरविलोचनः ।
कृपाणोदग्रदोर्दण्डः स सहस्त्रार्युधीयति" ॥

अत्र "सहस्त्रायुधमिवात्मानमाचरति" इति वाक्ये उपमेयस्यात्मनो लोपः ।
न चेहौपम्यवाचकलोपः, उक्तादेव न्यायात् ।
अत्र केचिदाहुः--"सहस्त्रायुधेन सह वर्तत इति ससहस्त्रायुवः स इवाचरतीति वाक्यात्ससहस्त्रायुधीयतीति पदसिद्धौ विशेष्यस्य शब्दानुपात्तत्वादिहोपमेयलोपः" इति, तन्न विचारसहम् ॑ कर्तरि क्यचो ऽनुशासनविरुद्धत्वात् ।

धर्मोपमेयलोपे ऽन्या--
यथा--"यशसि प्रसरति भवतः क्षीरोदीयन्ति सागराः सर्वे" ।
अत्र क्षीरोदमिवात्मानमाचरन्तीत्युपमेय आत्मा साधारणधर्म शुक्लता च लुप्तौ ।

--त्रिलोपे च समासगा ॥२२॥

यथा-- राजते मृगलोचना ।
अत्र मृगस्य लोचने इव चञ्चले लोचने यस्या इति समासे उपमाप्रतिपादकसाधारणधर्मोपमानानां लोपः ।

तेनोपमाया भेदाः स्युः सप्तविंशतिसंख्यकाः ।

पूर्णाषड्विधा, लुप्ता चैकविशतिविधेत मिलित्वा सप्तविंशतिप्रकारोपमा ।
एषु चोपमाभेदेषु मध्ये ऽलुप्तसाधारणधर्मेषु भेदेषु विशेषः प्रतिपाद्यते--
एकरूपः क्वचित्क्वापि भिन्नः साधारणो गुणः ॥२३॥

भिन्ने बिम्बानुबिम्बत्वं शब्दमात्रेण वा भिदा ।

तत्र एकरूपे यथा उदाहृतम्-"मधुरः सुधावदधरः--" इत्यादि ।
विम्वप्रतिविम्बत्वे यथा-- "भल्लापवजितैस्तेषां शिरोभिः श्मश्रुलैर्महीम् ।
तस्तार सरघाव्याप्तैः स क्षौद्रपटलैरिव" ॥

अत्र "श्मश्रुलैः" इत्यस्य "सरघाव्याप्तैः" इति दृष्टान्तवत्प्रतिबिम्बनम् ।
शब्दमात्रेण भिन्नत्वे यथा-- "स्मेरं विधाय नयनं विकसितमिव नीलमुत्पलं मयि सा ।
कथयामास कृशाङ्गी मनोगतं निखिलमाकूतम्" ॥

अत्रैके एव स्मेरत्वविकसितत्वे प्रतिवस्तूपमावच्छब्देन निर्दिष्टे ।

एकदेशविवर्तिन्युपमा वाच्यत्वगम्यते ॥२४॥

भवेतां यत्र साम्यस्य--
यथा--"नैत्रैरिवोत्पलैः मद्मैर्मुखैरिव सरः श्रियः ।
पदे पदे विभान्ति स्म चक्रवाकैः स्तनैरिव" ॥

अत्रोत्पलादीनां नेत्रादीनां सादृश्यं वाच्यं सरः श्रीणां चाङ्गनासाम्यं गम्यम् ।

--कथिता रसनोपमा ।
यथोर्ध्वमुपमेयस्य यदि स्यादुपमानता ॥२५॥

यथा-- "चन्द्रायते शुक्लरुचापि हंसो हंसायते चारुगतेन कान्ता ।
कान्तायते स्पर्शसुखेन वारि वारीयते स्वच्छतया विहायः" ॥

मालोपमा यदेकस्योपमानं बहु दृश्यते ।

यथा--"वारिजेनेव सरसी शशिनेव निशीथिनी ।
यौवनेनेव वनिता नयेन श्रीर्मनोहरा" ॥

क्वचिदुपमानोपमेययोरपि प्रकृतत्वं यथा-- "हसश्चन्द्र इवाभाति जलं व्योमतलं यथा ।
विमलाः कुमुदानीव तारकाः शरदागमे" ॥

"अस्य राज्ञो गृहे भान्ति भूपानां ता विभूतयः ।
पुरन्दरस्य भवने कल्पवृक्षभवा इव" ॥

अत्रोपमेयभूतविभूतिभैः "कल्पवृक्षभवा इव " इत्युपमानभूता विभूतय आक्षिप्यन्त इत्याक्षेपोपमा ।
अत्रैव "गृहे" इत्यस्य "भवने" इत्यनेन प्रतिनिर्देशात्प्रतिनिर्देस्योपमा इत्यादयश्च न लक्षिताः, एवंविधवैचित्र्यस्य सहस्त्रधा दर्शनात् ।

उपमानोपमेयत्वमेकस्यैव त्वनन्वयः ॥२६॥

अर्थादेकवाक्ये ।
यथा-- "राजीवमिव राजीवं जलं जलमिवाजनि ।
चन्द्रश्चन्द्र इवातन्द्रः शरत्समुदयोद्यमे" ॥

अत्र राजीवादीनामनन्यसदृशत्वप्रतिपादनार्थमुपमानोपमेयभावो वैवक्षिकः ।
"राजीवमिव पाथोजम्" इति चास्य लाटानुप्रासाद्विविक्तो विषयः ।
किन्त्वत्रोचितत्वादेकशब्दप्रयोग एव श्रेयान् ।
तदुक्तम्-- "अनन्वये च शब्दैक्यमौचित्यादानुषङ्गिकम् ।
अस्मिंस्तु लाटानुप्रसे साक्षादेव प्रयोजकम्" ॥

इति ।

पर्यायेण द्वयोरेतदुपमेयोपमा मता ।

एतदुपमानोपमेयत्वम् ।
अर्थाद्वाक्यद्वये ।
यथा--"कमलेव मतिर्मतिरिव कमला, तनुरिव विभा विभेव तनुः ।
धरणीव धृतिर्धृतिरिव धरणी, सततं विभाति बत यस्य" ॥

अत्रास्य राज्ञः श्रीबुद्ध्यादिसदृशं नान्यदस्तीत्यभिप्रायः ।

सदृशानुभवाद्वस्तुस्मृतिः स्मरणमुच्यते ॥२७॥

यथा--"अरविन्दमिदं वीक्ष्य खेलत्खञ्जनमञ्जुलम् ।
स्मरामि वदनं तस्याश्चारु चञ्चललोचनम्" ॥

"मयि सकपटम्--"इत्यादौ च स्मृतेः सादृश्यानुभवं विनोत्थापितत्वान्नायमलङ्कारः ।
राघवानन्दमहापात्रास्तु-वैसादृश्यात्स्मृतिमपि स्मरणालङ्कारमिच्छन्ति ।
तत्रोदाहरणं तेषामेव यथा-- "शिरीषमृद्वी गिरिषु प्रपेदे यदा यदा दुः खशतानि सीता ।
तदा तदास्याः सदनेषु सौख्यलक्षाणि दध्यौ गलदस्त्रु रामः" ॥

रूपकं रुपितारोपाद्वि (पो वि ) षये निरपह्नवे ।

"रूपितऽ- इति परिणामाद्व्यवच्छेदः ।
एतच्च तत्प्रस्तावे विवेचयिष्यामः ।
"निरपह्नवे" इत्यपह्नुतिव्यवच्छेदार्थम् ।

तत्परम्परितं साङ्गं निरङ्गमिति च त्रिधा ॥२८॥

तद्रूपकम् ।
तत्र--
यत्र कस्यचिदारोपः परारोपणकारणम् ।
तत्परम्परितं श्लिष्टाश्लिष्टशब्दनिबन्धनम् ॥२९॥

प्रत्येकं केवलं मालारूपं चेति चतुर्विधम् ।

तत्र श्लिष्टशब्दनिबन्धनं केवलपरम्परितं यथा-- "आहवे जगदुद्दण्ड ! राजमण्डलाराहवे ।
श्रीनृसिंहमहीपाल ! स्वस्त्यस्तु तव बाहवे" ॥

अत्र राजमण्डलं नृपसमूह एव चन्द्रबिम्बमित्यारोपो राजबाहौ हाहुत्वारोपे निमित्तम् ।
मालारूपं यथा-- "पद्मोदयदिनाधीशः सदागतिसमीरणः ।
भूभृदावलिदम्भोलिरेक एव भवान् भुवि" ॥

अत्र पद्माया उदय एव पद्मानामुदयः,सतामागतिरेव सदागमनम्, भूभृतो राजान एव पर्वता इत्याद्यारोपो राज्ञः सूर्यत्वाद्यारोपनिमित्तम् ।
अश्लिष्टशब्दनिबन्धनं केवलं यथा-- "पान्तु वो जलदश्यामाः शार्ङ्गज्याघातकर्कशाः ।
त्रैलोक्यमण्डपस्तम्भाश्चत्वारो हरिबाहवः" ॥

अत्र त्रैलोक्यस्य मण्डपत्वारोपो हरिबाहूनां स्तम्भत्वारोपे निमित्तम् ।
मालारूपं यथा-- "मनोजराजस्य सितातपत्रं श्रीखण्डचित्रं हरिदङ्गनायाः ।
विराजते व्योमसरः सरोजं कर्पूरपूरप्रभमिन्दुबिम्बम्" ॥

अत्र मनोजादे राजत्वाद्यारोपश्चन्द्रबिम्बस्य सितातपत्रत्वाद्यारोपे निमित्तम् ।
"तत्र च राजभुजादीनां राहुत्वाद्यारोपो राजमण्डलादीनां चन्द्रमण्डलत्वाद्यारोपे निमित्तम्" इति केचित् ।

अङ्गिनो यदि साङ्गस्य रूपणं साङ्गमेव तत् ॥३०॥

समस्तवस्तुविषयमेकदेशविवर्ति च ।

तत्र--
आरोप्याणामशेषाणां शाब्दत्वे प्रथमं मतम् ॥३१॥

प्रथमं समस्तवस्तुविषयम् ।
यथा-- "रावणावग्रहक्लान्तमिति वागमृतेन सः ।
अभिवृष्य मरुत्सस्यं कृष्णमेधस्तिरोदधे" ॥

अत्र कृष्णस्य मेघत्वारोपे वागादीनाममृतत्वादिकमारोपितम् ।

यत्र कस्यचिदार्थत्वमेकदेशविवर्ति तत् ।

कस्यचिदारोप्यमाणस्य ।
यथा-- "लावण्यमधुभैः पूर्णमास्यमस्या विकस्वरम् ।
लोकलोचनरोलम्बकदम्बैः कैर्न पीयते ?" ॥

अत्र लावण्यादौ मधुत्वाद्यारोपः शाब्दः, मुखस्य पद्मत्वारोप आर्थः ।
न चेयमेकदेशविवर्तिन्युपमा विकस्वरत्वधर्मस्यारोप्यमाणे पद्मे मुख्यतया वर्तमानात् मुखे वोपचरितत्वात् ।

निरङ्गं केवलस्यैव रूपणं तदपि द्विधा ॥३२॥

मालाकेवलरूपत्वात्--
तत्र मालारूपं निरङ्गं यथा-- "निर्माणकौशलं धातुश्चन्द्रिका लोकचक्षुषाम् ।
क्रीडागृहमनङ्गस्य सेयमिन्दीवरेक्षणा" ॥

केवलं यथा-- "दासे कृतागसि भवत्युचितः प्रभूणां पादप्रहार इति सुन्दरि ! नात्र दूये ।
उद्यत्कठोरपुलकाङ्कुरकण्टकाग्रै- र्यद्भिद्यते मृदु पदं ननु सा व्यथा मे" ॥

--तेनाष्टौ रूपके भिदाः ।

"चिरन्तनैरुक्ता" इति शेषः ।
क्वचित्परम्परितमप्येकदेशविवर्ति यथा-- "खङ्गः क्ष्मासौविदल्लः समिति विजयते मालवाखण्डलस्य" ॥

अत्रार्थः क्ष्मायां महिषीत्वारोपः खड्गे सौविदल्लत्वारोपे निमित्तम् ।
अस्य भेदस्य पूर्ववन्मालारोपत्वे ऽप्युदाहरणं मृग्यम् ।

दृश्यन्ते क्वचिदारोप्याः श्लिष्टाः साङ्गे ऽपि रूपके ॥३३॥

तत्रैकदेशविवर्ति श्लिष्टं यथा मम-- "करमुदयमहीधरस्तनाग्रे गलिततमः पटलांशुके निवेश्य ।
विकसितकुमुदेक्षणं विचुम्बत्ययममरेशदिशो मुखं सुधांशुः" ॥

समस्तवस्तुविषयं यथा--अत्रैव "विचुम्बति-" इत्यादौ "चुचुम्बे हरिदबलामुखमिन्दुनायकेन" इति पाठे ।
न चात्र श्लिष्टपरम्परितम् ? अत्र हि "भूबृदावलिदम्भोलिः--" इत्यादौ राजादौ पर्वतत्वाद्यारोप विना वर्णनीयस्य राजादेर्दम्भोलितादिरूपणं सर्वथैव सादृश्याभावादसङ्गतम् ।
तर्हि कथं "पद्मोदयदिनाधीशः-" इत्यादौ परम्परितम्, राजादेः सूर्यादिना सादृश्यस्य तेजस्वितादिहेतुकस्य संभवादिति न वाच्यम् ।
तथा हि--राजादेस्तेजस्तितादिहेतुकं सुव्यक्तं सादृश्यम्, न तु प्रकृते विवक्षितम्, पद्मोदयादेरेव द्वयोः साधारणधर्मतया विवक्षितत्वात् ।
इह तु महीधरादेः स्तनादिना सादृश्यं पीनोतुङ्गत्वादिना सुव्यक्तमेवेति न श्लिष्टपरम्परितम् ।
क्वचित्समासाभावे ऽपि रूपकं दृश्यते-- "मुखं तव कुरङ्गाक्षि ! सरोजमिति नान्यथा" ।
क्वचिद्वैयधिकरण्ये ऽपि यथा-- "विदधे मधुपश्रेणीमिह भ्रूलतया विधिः" ।
क्वचिद्वैधर्म्ये ऽपि यथा-- "सौजन्यम्बुमरुस्थली सुचरितालेख्यद्युभित्तिर्गुण- ज्योत्स्नाकृष्णचतुर्दशी सरलतायोगश्वपुच्छच्छटा ।
यैरेषापि दुराशया कलियुगे राजावली सेविता तेषां शूलिनि भक्तिमात्रसुलभे सेवा कियत्कौशलम्" ॥

इदं मम ।
अत्र च केषाञ्चिद्रूपकाणां शब्दश्लेषमूलत्वे ऽपि रूपकविशेषत्वादर्थालङ्कारमव्ये गणनम् ।
एवं वक्ष्यमाणालङ्कारेषु बोध्यम् ।

अधिकारूढवैशिष्ट्यं रूपकं यत्तदेव तत् ।

तदेवाधिकारूढवैशिष्ट्यसंज्ञकम् ।
यथा मम-- "इदं वक्त्रं साक्षाद्विरहितकलङ्कः शशधरः सुधाधाराधारश्चिरपरिणतं बिम्बमधरः ।
इमे नेत्रे रात्रिन्दिवमधिकशोभे कुवलये तनुर्लावण्यानां जलधिरवगाहे सुखतरः" ॥

अत्र कलङ्कराहित्यादिनाधिकं वैशिष्ट्यम् ।

विषयात्मतयारोप्ये प्रकृतार्थोपयोगिनि ॥३४॥

परिणामो भवेत्तुल्यातुल्याधिकरणो द्विधा ।

आरोप्यमाणस्यारोपविषयात्मतया परिणमनात्परिणामः ।
यथा-- "स्मितेनोपायनं दूरादागतस्य कृतं मम ।
स्तनोपपीडमाश्लेषः कृ (त) तो द्यूते पणस्तया" ॥

अन्यत्रोपायनपणो वसनाभरणादिभावेनोपयुज्येते ।
अत्र तु नायकसंभावनद्यूतयोः स्मिताश्लेषरूपतया ।
प्रथमार्द्धेवैयधिकरण्येन प्रयोगः, द्वितीये सामानाधिकरण्येन ।
रूपके "मुखचन्द्रं पश्यामि" इत्यादावारोप्यमाणचन्द्रादेरुपरञ्जकतामात्रम्, न तु प्रकृते दर्शनादावुपयोगः ।
इह तूपायनोदेर्विषयेण तादात्म्यं प्रकृते च नायकसंभावनादावुपयोगः ।
अत एव रूपके आरोप्यस्यावच्छेदकत्वमात्रेणान्वयः, अत्र तु तादात्म्येन ।
"दासे कृतागसि-" इत्यादौ रूपकमेव, न तु परिणामः ।
आरोप्यमाणकण्टकस्य पादभेदनकार्यस्याप्रतुतत्वात् ।
न खलु तत्कस्यचिदपि प्रस्तुतकार्यस्य घटनार्थमनुसन्धीयते ।
अयमपि रूपकवदधिकारूढवैशिष्ट्यो दृश्यते ।
यथा-- "वनेचराणां वनितासखानां दरीगृहोत्सङ्गनिषक्तभासः ।
भवन्ति यत्रौषधयो रजन्यामतैलपूराः सुरतप्रदीपाः" ॥

अत्र प्रदीपानामौषध्यात्मतया प्रकृते सुरतोपयोगिन्यन्धकारनाशे उपयोगो ऽतलपूरत्वेनाधिकारूढवैशिष्ट्यम् ।

संदेहः प्रकृते ऽन्यस्य संशयः प्रतिभोत्थितः ॥३५॥

शुद्धो निश्चयगर्भो ऽसौ निश्चयान्त इति त्रिधा ।

यत्र संशय एव पर्यवसानं स शुद्धः ।
यथा-- "किं तारुण्यतरोरियं रसभहोद्भिन्ना नवा वल्लरी वेलाप्रोच्छलितस्य किं लहरिका लावण्यवारांनिधेः ।
उद्राढोत्कलिकावतां स्वसमयोपन्यासविश्रम्भिणः किं साक्षादुपदेशयष्टिरथवा देवस्य शृङ्गारिणः" ॥

यत्रादावन्ते च संशय एव मध्ये निश्चयः स निश्चयमध्यः ।
यथा-- "अयं मार्तण्डः किं स खलु तुरगैः सप्तभिरितः कृशानुः किं सर्वाः प्रसरति दिशो नैष नियतम् ।
कृतान्तः किं साक्षान्महिषवहनो ऽसाविति पुनः समालोक्याजौ त्वां विदधति विकल्पान् प्रतिभटाः" ॥

अत्र मध्ये मार्तण्डाद्यभावनिश्चयः, राजनिश्चये द्वितीयसंशयोत्थानासंभवात् यत्रादौ संशयो ऽन्ते च निश्चयः स निश्चयान्तः ।
यथा-- किं तावत्सरसि सरोजमेतदारादाहोस्विन्मुखमवभासते तरुण्याः ।
संशय्य क्षणमिति निश्चिकाय कश्चिद्विब्बोकैर्वकसवासिनां परोक्षैः" ॥

अप्रतिभोत्थापिते तु "स्थाणुर्वा पुरुषो वा" इत्यादिसंशये नायमलङ्कारः ।
"मध्यं तव सरोजाक्षि ! पयोधरभरादितम् ।
अस्ति नास्तीति संदेहः कस्य चित्ते न भासते" ॥

अत्रातिशयोक्तिरेव, उपमेये उपमानसंशयस्यैवैतदलङ्कारविषयत्वात् ।

साम्यादतस्मिंस्तद्बुद्धिर्भ्रान्तिमान् प्रतिभोत्थितः ॥३६॥

यथा--"मुग्धा दुग्धधिया गवां विदधते कुम्भानघो वल्लवाः कर्णे कैरवशङ्कया कुवलयं कुर्वन्ति कान्ता अपि ।
कर्कन्धूफसमुच्चिनोति शबरी मुक्ताफलाशङ्कया सान्द्रा चन्द्रमसो न कस्य कुरुते चित्तभ्रमं चन्द्रिका" ॥

अस्वरसोत्थापिता भ्रान्तिर्नायमलङ्कारः ।
यथा--"शुक्तिकायां रजतम्" इति ।
न चासादृश्यमूला ।
यथा-- "संगमविरहविकल्पे वरमिह न संगमस्तस्याः ।
सङ्गे सैव तथैका त्रिभुवनमपि तन्मयं विरहे" ॥

क्वचिद्भेदाद्ग्रहीतॄणां विषयाणां तथा क्वचित् ।
एकस्यानेकधोल्लेखो यः स उल्लेख उच्यते ॥३७॥

क्रमेणोदाहरणम्-- "प्रिय इति गोपवधूभिः शिशुरिति वृद्धैरधीश इति देवैः ।
नारायण इति भक्तैर्ब्रह्मेत्यग्राहि योगिभिर्देवः" ॥

अत्रैकस्यापि भगवतस्तत्तद्गुणयोगादनेकधोल्लेखे गोपवधूप्रभृतीनां रुच्यादयो यथायोगं प्रयोजकाः ।
यदाहुः-- "यथारुचि यथार्थित्वं यथाव्युत्पत्ति भिद्यते ।
आभासो ऽप्यर्थ एकस्मिन्ननुसन्धानसाधितः" ॥

अत्र भगवतः प्रियत्वादीनां वास्तवत्वाद् ग्रहीतृभेदाच्च न मालारूपकम्, न च भ्रान्तिमान् ।
न चायमभेदे भेद इत्येवंरूपातिशयोक्तिः ।
तथाहि--"अन्यदेवाङ्गलावण्यम्-" इत्यादौ लावण्यादेर्विषयस्य पृथक्त्वेनाध्यवसानम् ।
न चेह भगवति गोपवधूप्रभृतिभिः प्रियत्वाद्यध्यवसीयते प्रियत्वादेर्भगवति तत्काले तात्त्विकत्वात् ।
केचिदाहुः--"अयमलङ्कारो नियमेनालङ्कारान्तरविच्छित्तिमूलः ।
उक्तोदाहरणे च शिशुत्वादीनां नियमनाभिप्रायात्प्रियत्वादीनां भिन्नत्वाध्यवसाय इत्यतिशयोक्तिरस्ति, तत्सद्भावे ऽपि ग्रहीतृभेदेन नानात्वप्रतीतिरूपोविच्छित्ति विशेष उल्लेखाख्यभिन्नालङ्कारप्रयोजकः ।
श्रीकण्ठजनपदवर्णने--"वज्रपञ्जरमिति शरणागतैः, अम्बरविवरमिति वातिकैः" इत्यादिश्चातिशयोक्तेर्विविक्तो विषयः ।
इह च रूपकालङ्कारयोगः" ।
वस्तुतस्तु--"अम्बरविवरम्-" इत्यादौ भ्रान्तिमन्तमेवेच्छन्ति न रूपकम्, भेदप्रतीतिपुरः सरस्यैवारोपस्य गौणीमूलरूपकादिप्रयोजकत्वात् ।
यदाहुः शरीरकमीमांसाभाष्यव्याख्याने श्रीवाचस्पतिमिश्राः-"अपि च परशब्दः परत्र लक्ष्यमाणगुणयोगेन वर्तते इति यत्र प्रयोक्तृप्रतिपत्रोः संप्रतिपत्तिः स गौणः, स च भेदप्रत्ययपुरः सरः" इति ।
इह तु वातिकानां श्रीकण्ठजनपदवर्णने भ्रान्तिकृत एवाम्बरविवराद्यारोप इति ।
अत्रैव च "चपोवनमिति मुनिभिः कामायतनमिति वेश्याभिः" इत्यादौ परिणामालङ्कारयोगः ।
"गाम्भीर्येण समुद्रो ऽसि सौरवेणासि पर्वतः" ।
इत्यादौ चानेकधोल्लेखे गाम्भीर्यादिविषयभेदः प्रयोजकः ।
अत्र च रूपकयोगः ।
"गुरुर्वचसि, पृथुरुरसि, अर्जुनो यशसि-" इत्यादिषु चास्य रूपकाद्विविक्तो विषय इति ।
अत्र हि श्लेषमूलातिशयोक्तियोगः ।

प्रकृतं प्रतिषिध्यान्यस्थापनं स्यादपह्नुतिः ।

इयं द्विधा ।
क्वचिदपह्नपूर्वक आरोपः, क्वचिदारोपपूर्वको ऽपह्नव इति ।
क्रमेणोदाहरणम्-- "नदं नभोमण्डलमम्बुराशिर्नैताश्च तारा नवफेनभङ्गाः ।
नायं शशी कुण्डलितः फणीन्द्रो नासौ कलङ्कः शयितो मुरारिः" ॥

"एतद्विभाति चरमाचलचूडचुम्बि हिण्डीर-पिण्ड-रुचि-शीतमरीचिबिम्बम् ।
उज्ज्वालितस्य रजनीं मदनानलस्य धूमं दधत्प्रकटलाञ्छनकैतवेन" ॥

इदं पद्यं मम ।
एवम्--"विराजति व्योमवपुः पयोधिस्तारामयास्तत्र च फेनभङ्गाः" इत्याद्याकारेण च प्रकृतनिषेधो बोध्यः ।

गोपनीयं कलप्यर्थं द्योतयित्वा कथञ्चन ॥३८॥

यदि श्लेषेणान्यथा वान्यथयेत्साप्यह्नुतिः ।

श्लेषेण यथा-- "काले वारिधराणामपतितया नैव शक्यते स्थातुम् ।
उत्कण्ठितासि तरले ! नहि नहि सखि ! पिच्छिलः पन्थाः" ॥

अत्र "अपतितया" इत्यत्र पतिं विनेत्युक्त्वा पश्चात्पतनाभावेन इत्यन्यथा कृतम् ।
अश्लेषेण यथा-- "इह पुरो ऽनिलकम्पितविग्रहा मिलति का न वनस्पतिना लता ।
स्मरसि किं सखि ! कान्तरतोत्सवं नहि घनागमरीतिरुदाहृता" ॥

वक्रोक्तौ परोक्तेरन्यथाकारः, इह तु स्वौक्तेरेवेति भेदः ।
गोपनकृता गोपनीयस्यापि प्रथममभिहितत्वाच्च व्याजोक्तेः ।

अन्यन्निषिध्य प्रकृतस्थापनं निश्चायः पुनः ॥३९॥

निश्चयाख्यो ऽयमलङ्कारः ।
अन्यदित्यारोप्यमाणम् ।
यथा मम--"वदनमिदं न सरोजं नयने नेन्दीवरे एते ।
इव सविधे मुग्धदृशो भ्रमर ! मुदा किं परिभ्रमसि" ॥

यथा वा-- "हृदि विसलताहारो नायं भुजङ्गमनायकः कुवलयदलश्रेणी कण्ठे न सा गरलद्युतिः ।
मलयजरजो नेदं भस्म प्रियारहिते मयि प्रहर न हरभ्रान्त्यानङ्ग ! क्रुधा किमु धावसि" ॥

न ह्ययं निश्चयान्तः संदेहः, तत्र संशयनिश्चययोरेकाश्रयत्वेनावस्थानात् ।
अत्र तु भ्रमरादेः संशयो नायकादेर्निश्चयः ।
किञ्च न भ्रमरादेरपि संशयः एककोट्यधिके ज्ञाने, तथा समीपागमनासंभावत् ।
तर्हि भ्रान्तिमानस्तु, अस्तु नाम भ्रमारादेर् भ्रान्तिः ।
न चेह तस्याश्चमत्कारविधायित्वम्, अपि तु तथाविधनायकाद्युक्तेरेवेति सहृदयसंवेद्यम् ।
किञ्चाविवक्षिते ऽपिं भ्रमरादेः पतनादौ भ्रान्तौ वा नायिकाचाट्वादिरूपेणैव संभवति तथाविधोक्तिः ।
न च रूपकध्वनिरयम्, मुखस्य कमलत्वेनानिर्धारणात् ।
न चापह्नुतिः, प्रस्तुतस्यानिषेधादितिपृथगेवायमलङ्कारश्चिरन्तनोक्तालङ्कारेभ्यः ।
शुक्तिकायां रजतधिया पतति पुरुषे शुक्तिकेयं न रजतमिति कस्याचिदुक्तिर्नायमलङ्कारो वैचित्र्याभावात् ।

भवेत्संभावनोत्प्रेक्षा प्रकृतस्य परात्मना ।
वाच्या प्रतीयमाना सा प्रथमं द्विविधा मता ॥४०॥

वाच्येवादिप्रयोगे स्यादप्रयोगे परा पुनः ।
जातिगुणः क्रिया द्रव्यं यदुत्प्रेक्ष्यं द्वयोरपि ॥४१॥

तदष्टधापि प्रत्येकं भावाभावाभिमानतः ।
गुणक्रियास्वरूपत्वान्निमित्तस्य पुनश्च ताः ॥४२॥

द्वात्रिंशद्विधतां यान्ति--
तत्र वाच्योत्प्रेक्षायामुदाहरणं दिङ्मात्रं यथा-- "ऊरुः कुरङ्गकदृशश्चञ्चलचेलाञ्चलो भाति ।
सपताकः कनकमयो विजयस्तम्भः स्मरस्येव" ॥

अत्र विजयस्तम्भस्य बहुवाचकत्वाज्जात्युप्रेक्षा ।
"ज्ञाने मौनं क्षमा शक्तौ त्यागे श्लाघाविपर्ययः ।
गुणा गुणानुबन्धित्वात्तस्य सप्रसवा इव" ॥

अत्र सप्रसवत्वं गुणः ।
"गङ्गाम्भसि सुरत्राण ! तव निः शाननिस्वनः ।
स्नातीवारिधूवर्गगर्भपातनपातकी" ॥

अत्र स्नातीति क्रिया ।
"मुखमेणीदृशो भाति पूर्णचन्द्र इवापरः" ।
अत्र चन्द्र इत्येकव्यक्तिवाचकत्वाद्द्रव्यशब्दः ।
एते भावाभिमाने ।
अभावाभिमाने यथा-- "कपोलफलकावस्याः कष्टं भूत्वा तथाविधौ ।
उपश्यन्ताविवान्योन्यमीदृक्षां क्षामतां गतौ" ॥

अत्रापश्यन्ताविति क्रियाया अभावः ।
एवमन्यत् ।
निमित्तस्य गुणक्रियारूपत्वे यथा--"गङ्गम्भसि" इत्यादौ स्नातीवेत्युत्प्रेक्षानिमित्तं पातकित्वं गुणः ।
"अपश्यन्तौ-" इत्यादौ क्षामतागमनरूपं निमित्तं क्रिया ।
एवमन्यत् ।
प्रतीयमानोत्प्रेक्षा यथा-- "तन्वङ्ग्याः स्तनयुग्मेन मुखं न प्रकटीकृतम् ।
हाराय गुणिने स्थानं न दत्तमिति लज्जया" ॥

अत्र लज्जयेवेति इवाद्यभावात्प्रतीयमानोत्प्रेक्षा ।
एवमन्यत् ।
ननु ध्वनिनिरूपणप्रस्तावे ऽलङ्काराणां सर्वेषामपि व्यङ्ग्यात्वं भवतीत्युक्तम् ।
सम्प्रति पुनविशिष्य कथमुत्प्रेक्षायाः प्रतीयमानत्वम् ? उच्यतेव्यङ्ग्योत्प्रेक्षायाम्--"महिलासहस्स-" इत्यादावुत्प्रेक्षणं विनापि वाक्यविश्रान्तिः ।
इह तु स्तनयोर्लज्जाया असम्भवाल्लज्जयेवेत्युत्प्रेक्षयैवेति व्यङ्ग्यप्रतीयमानोत्प्रेक्षयोर्भेदः ।
अत्र वाच्योत्प्रेक्षायाः षोडशसु भेदेषु मध्ये विशेषमाह--
--तत्र वाच्याभिदाः पुनः ।
विना द्रव्यं त्रिधा सर्वाः स्वरूपफलहेतुगाः ॥४३॥

यत्रोक्तेषु वाच्यप्रतीयमानोत्प्रेक्षयोर्भेदेषु मध्ये ये वाच्योत्प्रेक्षायाः षोडश भेदास्तेषु च जात्यादीनां त्रयाणां ये द्वादश भेदास्तेषां प्रत्येकं स्वरूपफलहेतुगतत्वेन द्वादशभेदतया षट्त्रिंशद्भेदाः ।
द्रव्यस्य स्वरूपोत्प्रेक्षणमेव सम्भवतीति चत्वार इति मिलित्वा चत्वालिंशद्भेदाः ।
अत्र स्वरूपोत्प्रेक्षा यथा पूर्वोदाहरणेषु "स्मारस्य विजयस्तम्भः" इति ।
"सप्रसवा इव" इत्यादयो जातिगुणस्वरूपगाः ।
फलोत्प्रेक्षा यथा-- "रावणस्यापि रामास्तो भित्त्वा हृदयमाशुगः ।
विवेश भुवमाख्यातुमुरगेभ्य इव प्रियम्" ॥

अत्राख्यातुमिति भूप्रवेशस्य फलं क्रियारूपमुत्प्रेक्षितम् ।
हेतूत्प्रेक्षा यथा-- "सैषा स्थली यत्र विचिन्वता त्वां भ्रष्टं मया नूपुरमेकमुर्व्याम् ।
अदृश्यत त्वच्चरणारविन्दविश्लेषदुः खादिव बद्धमौनम्" ॥

अत्र दुः खरूपो गुणो हेतुत्वेनोत्प्रेक्षितः ।
एवमन्यत् ।

उक्त्यनुक्तयोर्निमित्तस्य द्विधा तत्र स्वरूपगाः ।

तेषु चत्वारिंशत्संख्याकेषु भेदेषु मध्ये ये स्वरूपगायाः षोडश भेदास्ते उत्प्रेक्षानिमित्तस्योपादानानुपादानाभ्यां द्वात्रिंशद्भेदा इति मिलित्वा षट्पञ्चाशद्भेदा वाच्योत्प्रेक्षायाः ।
तत्र निमित्तस्योपादानं यथा पूर्वोदाहृते "स्नातीव" इत्युत्प्रेक्षायं निमित्तं पातकित्वमुपात्तम् ।
अनुपादाने यथा--"चन्द्र इवापरः" इत्यत्र तथाविधसौन्दर्याद्यतिशयो नोपात्तः ।
हेतुफलयोस्तु नियमेन निमित्तस्योपादानमेव, तथाहि--"विश्लेषदुः खादिव" इत्यत्र यन्निमित्तं बद्धमौनत्वम् "आख्यातुमिव" इत्यत्र च भूप्रवेशस्तयोरनुपादाने ऽसङ्गतमेव वाक्यं स्यात् ।
प्रतीयमानायाः षोडशसु भेदेषु विशेषमाह--
प्रतीयमानाभेदाश्च प्रत्येकं फलहेतुगाः ॥४४॥

यथैदाहृते "नन्वङ्ग्याः स्तनयुग्मेन" इत्यत्र लज्जयेवेति हेतुरुत्प्रेक्षितः ।
अस्यामपि निमित्तस्यानुपादानं न सम्भवति ।
इवाद्यनुपादाने निमित्तस्य चाकीर्तने उत्प्रेक्षणस्य प्रमातुर्निश्चेतुमशक्यत्वात् ।
स्वरूपोत्प्रेक्षाप्यत्र न भवति, धर्मान्तरतादात्मयनिबन्धनायामस्यामिवाद्यप्रयोगे विशेषणयोगे सत्यतिशयोक्तेरभ्युपगमात् ।
यथा--"अयं राजापरः पाकशासनः" इति ।
(विशेषणाभावे च रूपकस्य, यथा--"राजा पाकशासनः" इति ।
) तदेवं द्वात्रिंशत्प्रकारा प्रतीयमानोत्प्रेक्षा ।

उक्त्यनुक्त्योः प्रस्तुतस्य प्रत्येकं ता अपि द्विधा ।

ता उत्प्रेक्षाः ।
उक्तौ यथा--"उरुः कुरङ्गकदृशः-" इति ।
अनुक्तौ यथा मम प्रभावत्याम--"प्रद्युम्नः--इव हि सम्प्रति दिगन्तरमाच्छादयता तिमिरपटलेन-- घटितमिवाञ्जनपुञ्जैः पूरितमिव मृगमदक्षोदैः ।
ततमिव तमालतरूभिर्वृतमिव नीलांशुकैर्भुवनम्" ॥

अत्राञ्जनेन घटितत्वादेरुत्प्रेक्षणीयस्य विषयव्याप्तत्वं नोपात्तम् ।
यथा वा-- "लिम्पतीव तमो ऽङ्गानि वर्षतीवाञ्जनं नभः" ।
अत्र तमसो लेपनस्य व्यापनरूपो विषयो नोपात्तः ।
अञ्जनवर्षणस्य तमः सम्पातः ।
अनयोरुत्प्रेक्षानिमित्तं च तमसो ऽतिबहुलत्वं धारारूपेणाधः संयोगश्च यथासंख्यम् ।
केचित्तु--"अलपनकर्तृभऊतमपि तमो लेपनकर्तृत्वेनोत्प्रेक्षितं व्यापनं च निमित्तम्, एवं नभो ऽपि वर्षणाक्रियाकर्तृत्वेन" इत्याहुः ।

अलङ्कारान्तरोत्था सा वैचित्र्यमधिकं भजेत् ॥४५॥

तत्र सापह्नवोत्प्रेक्षा यथा मम-- "अश्रुच्छलेन सुदृशो हुतपावकधूमकलुषाक्ष्याः ।
अप्राप्य मानमङ्गे विगलति लावण्यवारिपूर इव" ॥

श्लेषहेतुगा यथा-- "मुक्तोत्करः सङ्कटशुक्तिमध्यद्विनिर्गतः सारसलोचनायाः ।
जानीमहे ऽस्याः कमनीयकम्बुग्रीवाधिवासाद्गुणवत्त्वमाप" ॥

अत्र गुणवत्त्वे श्लेषः कम्बुग्रीवाधिवासादिवेति हेतूत्प्रेक्षाया हेतुः ।
अत्र "जानीमहे" इत्युत्प्रेक्षावाचकम् ।
एवम्-- मन्ये शङ्के ध्रुवं प्रायो नूनमित्येवमादयः ।
क्वचिदुपमोपक्रमोत्प्रेक्षा यथा-- "पारेजलं नीरनिधेरपस्यन् मुरारिरानीलपलाशराशीः ।
वनावलीरुत्कलिकासहस्त्रप्रतिक्षणोत्कूलितशैवलाभाः" ॥

इत्यत्राभाशब्दस्योपमावाचकत्वादुपक्रमे उपमा ।
पर्यवसाने तु जलधितीरे शैवालस्थितेः सम्भावनानुपपत्तौ सम्भावनोत्थापनमित्युत्प्रेक्षा ।
एवं विरहवर्णने--"केयूरायितमङ्गदैः--" इत्यत्र "विकासिनीलोत्पलतिस्म कर्णे मृगायताक्ष्याः कुटिलः कटाक्षः" इत्यादौ च ज्ञेयम् ।
भ्रान्तिमदलङ्कारे "मुग्घा दुग्धधिया--" इत्यादौ भ्रान्तानां बल्लवादीनां विषयस्य चन्द्रिकादेर्ज्ञानमेव नास्ति, तदुपनिबन्धनस्य कविनैव कृतत्वात् ।
इह तु संभावनाकर्तुविषयस्यापि ज्ञानमिति द्वयोर्भेदः ।
संदेहे तु समकक्षतया कोटिद्वयस्य प्रतीतिः, इह तूत्कटा संभाव्यभूतैककोटिः ।
अतिशयोक्तौ विषयिणः प्रतीतस्य पर्ववासने ऽसत्यता प्रतीयते, इह तु प्रतीतिकाल एवेति भेदः ।
"रञ्जिता नु विविधास्तरुशला नामितं नु गगनं स्थगितं नु ।
पूरिता नु विषमेषु धरित्री संहृता नु ककुभस्तिमिरेण" ॥

इत्यत्र यत्तर्वादौ तिमिराक्रान्तता रञ्जनादिरूपेण संदिह्यत इति संदेहालङ्कार इति केचिदाहुः, तन्न-एकविषये समानबलतयानेककोटिस्फुरणस्यैव संदेहत्वात् ।
इह तु तर्वादिव्याप्तेः प्रतिसंबन्धिभेदो व्यापनादेर्निगरणेन रञ्जनादेः स्फुरणं च ।
अन्ये तु--"अनेकत्वनिर्धारणरूपविच्छित्त्याश्रयत्वेनैककोट्यधिके ऽपि भिन्नो ऽयं संदेहप्रकारः" इति वदन्ति स्म॑ तदप्ययुक्तम्--निगीर्णस्वरूपस्यान्यतादात्म्यप्रतीतिहि संभावना, तस्याश्चात्र स्फुटतया सद्भावात् नुशब्देन चेवशब्दवत्तस्याद्योतनादुत्प्रेक्षैवेयं भवितुं युक्ता, अलमदृष्टसंदहप्रकारकल्पनया ।
"यदेतच्चन्द्रान्तर्जलदलवलीलां वितनुते तदाचष्टे लोकः शशक इति नो मां प्रति तथा ।
अहं त्विन्दुं मन्ये त्वदरिविरहाक्रान्ततरुणी- कटाक्षोल्कापातव्रणकिणकलङ्काङ्किततनुम्" ॥

इत्यत्र "भन्ये" शब्दप्रयोगे ऽप्युक्तरूपायाः सम्भावनाया अप्रतीतेवितर्कमात्रं नासावपह्नवोत्प्रेक्षा ।

सिद्धत्वे ऽध्यवसायस्यातिशयोक्तिर्निगद्यते ।

विषयनिगरणेनाभेदप्रतिपत्तिर्विषयिणो ऽध्यवसायः ।
अस्य चोत्प्रेक्षायां विषयिणो ऽनिश्चितत्वेन निर्देशात्साध्यत्वम्, इह तु निश्चितत्वेनैव प्रतीतिरिति सिद्धत्वम् ।
विषयनिगरणं चोत्प्रेक्षायां विषयस्याधः करणमात्रेण, इहापि मुखं द्वितीयश्चन्द्र इत्यादौ ।
यदाहुः-- "विषयस्यानुपादाने ऽप्युपादाने ऽपि सूरयः ।
अधः करणमात्रेण निगीर्णत्वं प्रचक्षते" ॥

इति ।

भेदे ऽप्यभेदः सम्बन्धे ऽसम्बन्धस्तद्विपर्ययौ ॥४६॥

पौर्वापर्यात्ययः कार्यहेत्वोः सा पञ्चधा ततः ।

तद्विपर्ययौ अभेदे भेदः, असम्बन्धे सम्बन्धः ।
सा अतिशयोक्तिः ।
अत्र भेदे ऽभेदो यथा मम-- "कथमुपरि कलापिनः कलापो विलसति तस्य तले ऽष्टमीन्दुखण्डम् ।
कुवलययुगलं ततो विलोलं तिलकुसुमं तदधः प्रवालमस्मात्" ॥

अत्र कान्ताकेशपाशादेर्मयूरकलापादिभिरभेदेनाध्यवसायः ।
यथा वा--"विश्लेषदुः खादिव बद्धमौनम्" ।
अत्र चेतनगतमौनित्वमन्यत्, अचेतनगतं चान्यदिति द्वयोर्भेदे ऽप्यभेदः ।
एवम्-- "सहाधरदलेनास्य यौवने रागभाक्प्रियः" ।
अत्राधरस्य रागो लौहित्यम्, प्रियस्य रागः प्रेम, द्वयोरभेदः ।
अभेदे भेदो यथा-- "अन्यदेवाङ्गलावण्यमन्याः सौरभसम्पदः ।
तस्याः पद्मपलाशाक्ष्याः सरसत्वमलौकिकम्" ॥

सम्बन्धे ऽसम्बन्धो यथा-- "अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः शृङ्गारैकरसः स्वय नु मदनो मासो नु पुष्पाकरः ।
वेदाभ्यासजडः कथं नु विषयव्यावृत्तकौतूहलो निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः" ॥

अत्र पुराणप्रजापतिनिर्माणसम्बन्धे ऽप्यसम्बन्धः ।
असम्बन्धे सम्बन्धो यथा-- "यदि स्यान्मण्डले सक्तमिन्दोरिन्दीवरद्वयम् ।
तदोपमीयते तस्या वदनं चारुलोचनम्" ॥

अत्र यद्यर्थबलादाहृतेन सम्बन्धेन सम्भावनया सम्बन्धः ।
कार्यकारणयोः पौर्वापर्यविपर्ययश्च द्विधा भवति ।
कारणात्प्रथमं कार्यस्य भावे द्वयोः समकालत्वेच ।
क्रमेण यथा-- "प्रागेव हरिणाक्षीणां चित्तमुत्कलिकाकुलम् ।
पश्चादुद्भिन्नबकुलरसालमुकुलश्रियः" ॥

"सममेव समाक्रान्तं द्वयं द्विरदगामिना ।
तेन सिंहासनं पित्र्यं मण्डलं च कहीक्षिताम्" ॥

इह केचिदाहुः--केशपाशादिगतो लौकिको ऽतिशयो ऽलौकिकत्वेनाध्यवसीयते ।
केशपाशादीनां कलापादिभिरध्यवसाये "अन्यदेवाङ्गलावण्यम्" इत्यादिप्रकारेष्वव्याप्तिर्लक्षणस्य" इति ।
तन्न,--तत्रापि ह्यन्यदङ्गलावण्यमन्यत्वेनाध्यवसीयते ।
तथाहि "अन्यदेव" इति स्थाने "अन्यदिव" इति पाठे ऽध्यवसायस्यासाध्यत्वमेवेत्युत्प्रेक्षाङ्गीक्रियते ।
"प्रगेव हरिणाक्षीणाम्--" इत्यत्र बकुलादीश्रीणां प्रथमभावितापि पश्चाद्भावित्वेनाध्यवसिता, अत एवात्रापीवशब्दयोगे उत्प्रेक्षा एवमन्यत्र ।

पदार्थानां प्रस्तुतानामन्येषां वा यदा भवेत् ॥४७॥

एकधर्माभिसम्बन्धः स्यात्तदा तुल्ययोगिता ।

अन्येषामप्रस्तुतानाम् ।
धर्मो गुणक्रियारूपः ।
उदाहरणम्-- "अनुलेपनानि कुसुमान्यबलाः कृतमन्यवः पतिषु दीपदशाः ।
समयेन तेन सुचिरं शयित- प्रतिबोधितस्मरमबोधिषत" ॥

अत्र सन्ध्यावर्णनस्य प्रस्तुतत्वात्प्रस्तुतानामनुलेपनादीनामेकबोधनक्रियाभिसम्बन्धः ।
"तदङ्गमार्दवं द्रष्टुः कस्य चित्ते न भासते ।
मालतीशशभृल्लेखाकदलीनां कठोरता" ॥

इत्यत्र मालत्यादीनामप्रस्तुतानां कठोरतारूपैकगुणसम्बन्धः ।
एवम्-- "दानं वित्तादृतं वाचः कीर्त्तिधर्मौ तथायुषः ।
परोपकारणं कायादसारात्सारमाहरेत्" ॥

अत्र दानादीनां कर्मभूतानां सारतारूपैकगुणसम्बन्ध एकाहरणक्रियासम्बन्धः ।

अप्रस्तुतप्रस्तुतयोर्देपकं तु निगद्यते ॥४८॥

अथ कारकमेकं स्यादनेकासु क्रियासु चेत् ।

क्रमेणोदाहरणम्-- "बलावलेपादधुनापि पूर्ववत् प्रबाध्यते तेन जगज्जिगीषुणा ।
सतीव योषित्प्रकृतिः सुनिश्चला पुमांसमभ्येति भवान्तरेष्वपि" ॥

अत्र प्रस्तुतायाः सुनिश्चलायाः प्रकृतेरप्रस्तुतायाश्च योषित एकानुगमनक्रियासम्बन्धः ।
"दूरं समागतवति त्वयि जीवनाथे भिन्ना मनोभवशरेण तपस्विनी सा ।
उत्तिष्ठति स्वपिति वासगृह त्वदीय- मायाति याति हसति श्वसिति क्षणेन" ॥

इदं मम ।
अत्रैकस्या नायिकाया उत्थानाद्यनेकक्रियासम्बन्धः ।
अत्र च गुणक्रिययोरादिमध्यावसानसद्भावेन त्रैविध्यं न लक्षितम्, तथाविधवैचित्र्यस्य सर्वत्रापि सहस्त्रधासम्भवात् ।

प्रतिवस्तूपमा सा स्याद्वाक्ययोर्गम्यसाम्ययोः ॥४९॥

एको ऽपि धर्मः सामान्यो यत्र निर्दिश्यते पृथक् ।

यथा-- "धन्यासि वैदभि ! गुणैरुदारैर्यया समाकृष्यत नैषधो ऽपि ।
इतः स्तुतिः का खलु चन्द्रिकाया यदब्धिमप्युत्तरलीकरोति" ॥

अत्र समाकर्षणमुत्तरलीकरणं च क्रियैकैव पौनरुक्त्यनिरासाय भिन्नवाचकतया निदिष्ट ।
इयञ्च मालयापि दृश्यते यथा-- "विमल एव रविर्विशदः शशी प्रकृतिशोभन एव हि दर्ण्णः ।
शिवगिरिः शिवहाससहोदरः सहजसुन्दर एव हि सज्जनः" ॥

अत्र विमलविशदादिरर्थत एव ।
वैधर्म्येण यथा-- "चकोर्य एव चतुराश्चन्द्रिकापानकर्मणि ।
विनावन्तीर्न निपुणाः सुदृशो रतनर्मणि" ॥

दृष्टन्तस्तु सधर्मस्य वस्तुनः प्रतिबिम्बनम् ॥५०॥

सधर्मस्येति प्रतिवस्तूपमाव्यवच्छेदः ! अयमपि साधर्म्यवैधर्म्याभ्यां द्विधा ।
क्रमेणोदाहरणम्-- "अविदितगुणापि सत्कविभणितिः कर्णेषु वमति मधुधाराम् ।
अनधिगतपरिमलापि हि हरति दृशं मालतीमाला" ॥

"त्वयि दृष्टे कुरङ्गाक्ष्याः स्त्रंसते मदनव्यथा ।
दृष्टानुदयभाजीन्दौ ग्लानिः कुमुदसंहतेः" ॥

"वसन्तलेखैकनिबद्धभावं परासु कान्तासु मनः कुतो नः ।
प्रफुल्लमल्लीमधुलम्पटः किं मधुव्रतः काङ्क्षति वल्लिमन्याम्" ॥

इदं पद्यं मम ।
अत्र "मनः कुतो नः" इत्यस्य "काङ्क्षति वल्लिमन्याम्" इत्यस्य चैकरूपतयैव वर्यवसानात्प्रतिवस्तूपमैव ।
इह तु कर्णे मधुधारावमनस्य नेत्रहरणस्य च साम्यमेव, न त्वैकरूप्यम् ।
अत्र समर्थ्यसमर्थकवाक्ययोः सामान्यविशेषभावोर्ऽथन्तरन्यासः, प्रतिवस्तूपमादृष्टान्तयोस्तु न तथेति भेदः ।

सम्भवन् वस्तुसम्बन्धो ऽसम्भवन् वापि कुत्रचित् ।
यत्र बिम्बानुबिम्बत्वं बोधयेत्सा निदर्शना ॥५१॥

तत्र सम्भवद्वस्तुसम्बन्धनिदर्शना यथा-- "को ऽत्र भूमिवलये जनान् मुधा तापयन् सुचिरमेति सम्पदम् ।
वेदयन्निति दिनेन भानुमानाससाद चरमाचलं ततः" ॥

अत्र रवेरीदृशार्थवेदनक्रियायां वक्तृत्वेनान्वयः सम्भवत्येव ।
ईदृशार्थज्ञापनसमर्थचरमाचलप्राप्तिरूपधर्मवत्वात् ।
स च रवेरस्ताचलगमनस्य परितापिनां विपत्प्राप्तेश्च बिम्बप्रतिबिम्बभावं बोधयति ।
असम्भवद्वस्तुनिदर्शना त्वेकवाक्यानेकवाक्यगतत्वेन द्विविधा ।
तत्रैकवाक्यगा यथा-- "कलयति कुवलयमालाललितं कुटिलः कटाक्षविक्षेपः ।
अधरः किसलयलीलामाननमस्याः कलानिधेविलासम्" ॥

अत्रान्यस्य धर्मं कथमन्यो वहत्विति कटाक्षविक्षेपादीनां कुवलयमालादिगतललितादीनां कलनमसम्भवात्तल्ललितादिसदृशं ललितादिकमवगमयत्कटाक्षविक्षेपादेः कुवलयमालादेश्च बिम्बप्रतिबिम्बभावं बोधयति ।
यथा वा-- "प्रयाणे तव राजेन्द्र ! मुक्ता वैरिमृगीदृशाम् ।
राजहंसगतिः पद्भ्यामाननेन शशिद्युतिः" ॥

अत्र पादाभ्यामसम्बद्धराजहंसगतेस्त्थागो ऽनुपपन्न इति तयोस्तत्सम्बन्धः कल्प्यते, स चासम्भवन् राजहंसगतिमिव गतिं बोधयति ।
अनेकवाक्यगा यथा-- "इदं किलाव्याजमनोहरं वपुस्तपः क्लपं साधयितुं य इच्छति ।
ध्रुवं स नीलोत्पलपत्रधारया शमीलतां छेत्तुमृषिर्व्यवस्यति" ॥

अत्र चच्छब्दनिर्दिष्टवाक्यार्थयोरभेदेनान्वयो ऽनुपपद्यमानस्तादृशवपुषस्तपः क्लमत्वसाधनेच्छा नीलोत्पलपत्नधारया शमीलताछेदनेच्छेवेति बिम्बप्रतिबिम्बभावे पर्यवस्यति ।
यथा-- "जन्मेदं वन्ध्यतां नीतं भवभोगोपलिप्सया ।
काचमूल्येन विक्रीतो हन्त ! चिन्तामणिर्मया" ॥

अत्र भवभोगलोभेन जन्मनो व्यर्थतानयनं काचमूल्येन चिन्तामणिविक्रय इवेति पर्यवसानम् ।
एवम्-- "क्व सूर्यप्रभवो वंशः क्व चाल्पविषया मतिः ।
तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम्" ॥

अत्र मन्मत्या सूर्यवंशवर्णनमुडुपेन सागरतरणमिवेति पर्यवसानम् ।
इयं च क्वचिदुपमेयवृत्तस्योपमाने ऽसम्भवे ऽपि भवति ।
यथा-- "यो ऽनुभूतः कुरङ्गाक्ष्यास्तस्या मधुरिमाधरे ।
समास्वादि स मृद्वीकारसे रसविशारदैः" ॥

अत्र प्रकृतस्याधरस्य मधुरिमधर्मस्य द्राक्षारसे ऽसम्भवात्पूर्ववत्साम्ये पर्यवसानम् ।
मालारूपापि यथा मम-- "क्षिपसि शुकं वृषदंशकवदने मृगमर्पयसि मृगादनरदने ।
वितरसि तुरगं महिषविषाणे निदधच्चेतो भोगविताने" ॥

इह विम्बप्रतिबम्बताक्षेपं विना वाक्यार्थापर्यवसानम् ।
दृष्टान्ते तु पर्यवसितेन वाक्यार्थेन सामर्थ्याद्विम्बप्रतिविम्बताप्रत्यायनम् ।
नापीयमर्थापत्तिः, तत्र "हारो ऽयं हरिणाक्षीणाम्--" इत्यादौ सादृश्यपर्यवसानाभावात् ।

आदिक्यमुपमेयस्योपमानान्न्यूनताथवा ।
व्यतिरेकः--
स च--
--एक उक्ते ऽनुक्ते हेतौ पुनस्त्रिधा ॥५२॥


चतुर्विधो ऽपि साम्यस्य बोधनाच्छब्दतोर्ऽथतः ।
आक्षेपाच्च द्वादशधा श्लेषे ऽपीति त्रिरष्टधा ॥५३॥


प्रत्येकं स्यान्मिलित्वाष्टचत्वारिंशद्विधः पुनः ।

उपमेयस्योपमानादाधिक्ये हेतुरुपमेयगतमुत्कर्षकारणमुपमानगतं निकर्षकारणं च ।
तयोर्द्वयोरप्युक्तावेकः, प्रत्येकं समुदायेन वानुक्तौ त्रिविध इति चतुविधे ऽप्यस्मिन्नुपमानोपमेयत्वस्य निवेदनं शब्देन अर्थेन आक्षेपेण चेति द्वादशप्रकारो ऽपि श्लेषे, "अपि" शब्दादश्लेषेऽपीति चतुर्विंशतिप्रकारः ।
उपमानान्न्यूनतायामप्यनयैव भङ्ग्या चतुर्विंशतिप्रकारतेति मिलित्वा अष्टचत्वारिंशत्प्रकारो व्यतिरेकः ।
उदाहरणम्-- "अकलङ्कं मुखं तस्या न कलङ्की विधुर्यथा" ।
अत्रोपमेयगतमकलङ्कत्वमुपमानगतं च कलङ्कित्वं हेतुद्वयमप्युक्तम्, यथाशब्दप्रतिपादनाच्च शाब्दमौपम्यम् ।
अत्रैव "न कलङ्किविधूपमम्" इति पाठे आर्थम् ।
"जयतीन्दुं कलङ्किनम्" इति पाठे त्विववत्तुल्यादिपदविरहादाक्षिप्तम् ।
अत्रैवाकलङ्कपदत्यागे उपमेयतोत्कर्षकारणानुक्तिः ।
कलङ्किपदत्यागे चोपमानगतनिकर्षकारणानुक्तिः ।
द्वयोरनुक्तौ द्वयोरनुक्तिः ।
श्लेषे यथा-- "अतिगाढगुणायाश्च नाब्जवद्भङ्गुरा गुणाः" ।
अत्रेवार्थे वतिरिति शाब्दमौपम्यम् ।
उत्कर्षनिकर्षकारणयोर्द्वयोरप्युक्तिः ।
गुणशब्दः श्लिष्टः ।
अन्ये भेदाः पूर्ववदूह्याः ।
एतानि चोपमेयस्योपमानादाधिक्य उदारणानि ।
न्यूनत्वे दिङ्मात्रं यथा-- "क्षीणः क्षीणो ऽपि शशी भूयो भूयो ऽभिवर्धते सत्यम् ।
विरम प्रसीद सुन्दरि ! यौवनमनिवर्ति यातं तु" ॥

अत्रोपमेयभूतयोवनास्थैर्यस्याधिक्यम् ।
तेनात्र "उपमानादुपमेयस्याधिक्ये विपर्यये वा व्यतिरेकः" इति केषांचिल्लक्षणे "विपर्यये वेतिपदमनर्थकम्" इति यत्केचिदाहुः ।
तन्न विचारसहम् ।
तथाहि-अत्राधिकन्यूनत्वे सत्त्वासत्त्वे एव विवक्षिते ।
अत्र च चन्द्रापेक्षया यौवनस्यासत्त्वं स्फुटमेव ।
अस्तु वात्रोदाहरणे यथाकथंचिद्रतिः ।
"हनूमदाद्यैर्यशसा मया पुनद्विषां हसैर्दूतपथः सितीकृतः" ।
इत्यादिषु का गतिरिति सुष्ठूक्तं "न्यूनताथवा" इति ।

सहार्थस्य बलादेकं यत्र स्याद्वाचकं द्वयोः ॥५४॥

सा सहोक्तिर्मूलभूतातिशयोक्तिर्यदा भवेत् ।

अतिशयोक्तिरप्यत्राभेदाध्यवसायमूला कार्यकारणपौर्वापर्यविपर्ययरूपा च ।
अभेदाध्यवसायमूलापि श्लेषभित्तिकान्यथा च ।
क्रमेणोदाहरम्-- "सहाधरदलेनास्या यौवने रागभाक्प्रियः" ।
अत्र रागपदे श्लेषः ।
"सह कुमुदकदम्बैः कालमुल्लासयन्तः सह घनतिमिरौघैर्धैर्यमुत्सारयन्तः ।
सह सरसिजषण्डैः स्वान्तमामीलयन्तः प्रतिदिशममृतांशोरंशवः सञ्चरन्ति" ॥

इदं मम ।
अत्रोल्लासादीनां संबन्धिभेदादेव भेदः, न तु श्लिष्टतया ।
"सममेव नराधिपेन सा गुरुसंमोहविलुप्तचेतना ।
अगमत् सह तैलबिन्दुना ननु दीपार्चिरिव क्षितेस्तलम्" ॥

इयं च मालयापि संभवति ।
यथोदाहृते "सह कुमुदकदम्बैः--" इत्यादौ ।
"लक्ष्मणेन समं रामः काननं गहनं ययौ" ।
इत्यादौ चातिशयोक्तिमूलाभावान्नायमलङ्कारः ।

विनोक्तिर्यद्विनान्येन नासाध्वन्यदसाधु वा ॥५५॥

नासाधु अशोभनं न भवति ।
एवं च यद्यपि शोभनत्व एव पर्यवसानं तथाप्यशोभनत्वाभावमुखेन शोभनवचनस्यायमभिप्रायो यत्कस्यचिद्वर्णनीयस्याशोभनत्वं तत्परसन्निधेरेव दोषः ।
तस्या पुनः स्वभावतः शोभनत्वमेवेति ।
यथा--"विना जलदकालेन चन्द्रो निस्तन्द्रतां गतः ।
विना ग्रीष्मोष्मणा मञ्जुर्वनराजिरजायत" ॥

"असाध्वशोभनं यथा-- "अनुयान्त्या जनातीतं कान्तं साधु त्वया कृतम् ।
का दिनश्रीर्विनार्केण का निशा शशिना विना" ॥

"निरर्थकं जन्म गतं नलिन्या यया न दृष्टं तुहिनांशुबिम्बम् ।
उत्पत्तिरिन्दोरपि निष्फलैव दृष्टा विनिद्रा नलिनी न येन" ॥

अत्र परस्पराविनोक्तिभङ्ग्या चकत्कारातिशयः ।
विनाशब्दप्रयोगाभावे ऽपि विनार्थविवक्षायं विनोक्तिरेवेयम् ।
एवं सहोक्तिरपि सहशब्दप्रयोगाभावे ऽपि सहार्थविवक्षायां भवतीति बोध्यम् ।

समासोक्तिः समैर्यत्र कार्यलिङ्गविशेषणैः ।
व्यवहारसमारोपः प्रस्तुते ऽन्यस्य वस्तुनः ॥५६॥

अत्र समेन कार्येण प्रस्तुते ऽप्रस्तुतव्यवहारसमारोपः ।
यथा-- "व्याधूय यद्वसनमम्बुजलोचनाया वक्षोजयोः कनककुम्भविलासभाजोः ।
आलिङ्गसि प्रसभमङ्गमशेषमस्या धन्यस्त्वमेव मलयाचलगन्धवाह !" ॥

अत्र गन्धवाहे हठकामुकव्यवहारसमारोपः ।
लिङ्गसाम्येन यथा-- "असमाप्तजिगीषस्य स्त्रीचिन्ता का मनस्विनः ।
अनाक्रम्य जगत्कृत्स्नं नो सन्ध्यां भजते रविः" ॥

अत्र पुंस्त्रीलिङ्गमात्रेण रविसन्ध्ययोर्नायकनायिकाव्यवहारः ।
विशेषणसाम्यं तु श्लिष्टतया, साधारण्येन, औपम्यगर्भत्वेन च त्रिधा ।
श्लिष्टतया यथा मम-- "विकसितमुखीं रागासङ्गाद्रलत्तिमिरावृतिं दिनकरकरस्पृष्टामैन्द्रीं निरीक्ष्य दिशं पुरः ।
जरठलवलीपाण्डुच्छायो भृशं कलुषान्तरः श्रयति हरितं हन्त ! प्राचेतसीं तुहिनद्युतिः" ॥

अत्र मुखरागादिशब्दानां श्लिष्टता ।
अत्रैव हि "तिमिरावृतिम्" इत्यत्र "तिमिराशुकम्" इति पाठे एतदेशस्य रूपणे ऽपि समासोक्तिरेव, न त्वेकदेशविवर्ति रूपकम्, तत्र हि तिमिरांशुकयो रूप्यरूपकभावो द्वयोरावरकत्वेन स्फुटसादृश्यतया परसाचिव्यमनपेक्ष्यापि स्वमात्रविश्रान्त इति न समासोक्तिबुद्धिं व्याहन्तुमीशः ।
यत्र तु रूप्यरूपकयोः सादृश्यमस्फुटं तत्रैकदेशान्तररूपणं विना तदसङ्गतं स्यादित्यशाब्दमप्येकदेशान्तररूपणमार्थमपेक्षत एवेति तत्रैकदेशविवर्तिरूपकमेव ।
यथा-- "जस्स रणन्तेउरए करे कुणन्तस्स मण्डलग्गलअं ।
रगसंमुही वि सहसा परम्मुही होइ रिउसेणा" ॥

अत्र रणान्तः पुरयोः सादृश्यमस्फुटमेव ।
क्वचिच्च यत्र स्फुटसादृश्यानामपि बहूनां रूपणं शाब्दमेकदेशस्य चार्थं तत्रैकदेशविवर्ति रूपकमेव ।
रूपकप्रतीतेर् व्यापितया समासोक्तिप्रतीतितिरोधायकत्वात् ।
नन्वस्ति रणान्तः पुरयोरपि सुखसंचारतया स्फुटं सादृश्यमिति चेत्? सत्यमुक्तम् ॑ अस्त्येव किंतु वाक्यार्थपर्यालोचनसापेक्षम्, न खलु निरपेक्षम्, मुखचन्द्रादेर्मनोहरत्वादिवद्रणान्तः- पुरयोः स्वतः सुखसञ्चारत्वाभावात् ।
साधरण्येन यथा-- "निसर्गसौरभोद्भ्रान्तभृङ्गसंगीतशालिनी ।
उदिते वासराधीशे स्मेराजनि सरोजिनी" ॥

अत्र निसर्गेत्यादिविशेषणसाम्यात्सरोजिन्यां नायिकाव्यवहारप्रतीतौ स्त्रीमात्रगामिनः स्मेरत्वधर्मस्य समारोपः कारणम् ।
तेन विना विशेषणसाम्यमात्रेण नायिकाव्यवहारप्रतीतेरसम्भवात् ।
औपम्यगर्भत्वं पुनस्त्रिधा सम्भवति, उपमारूपसङ्करगर्भत्वात् ।
तत्रोपमागर्भत्वे यथा-- "अदन्तप्रभापुष्पचिता पाणिपल्लवशोभिनी ।
केशपाशालिवृन्देन सुवेषा हरिणेक्षणा" ॥

अत्र सुवेषत्ववशात्प्रथमं दन्तप्रभाः पुष्पाणीवेत्युपमागर्भत्वेन समासः ।
अनन्तरं च दन्तप्रभासदृशैः पुष्पैश्चितेत्यादिसमासान्तराश्रयेण समानविशेषणमहात्म्याद्धरिणेक्षणायां लताव्यवहारप्रतीतिः ।
रूपकगर्भत्वे यथा--"लावण्यमधुभिः पूर्णम्-" इत्यादि ।
सङ्करगर्भत्वे यथा-"दन्तप्रभापुष्प-" इत्यादि ।
"सुवेषा" इत्यत्र "परीता" इति पाठे ह्युपमारूपकसाधकाभावात्सङ्करसमाश्रयणम् ।
समासान्तरं पूर्ववत् ।
समासान्तरमहिम्ना लताप्रतीतिः ।
एषु च यषां मते उपमासङ्करयोरेकदेशविवर्तिता नास्ति तन्मते आद्यतृतीययोः समासोक्तिः ।
द्वितीयस्तु प्रकार एकदेशविर्विंतरूपकविषय एव ।
पर्यालोचने त्वाद्ये प्रकारे एवदेशविवर्तिन्युपमैवाङ्गीकर्तुमुचिता ।
अन्यथा-- "ऐन्द्रं धनुः पाण्डुपयोधरेण शरद्दधानार्द्रनखक्षताभम् ।
प्रमोदयन्ती सकलङ्कमिन्दुं तापं रवेरभ्यधिकं चकार" ॥

इत्यत्र कथं शरदि नायिकाव्यवहारप्रतीतिः, नायिकापयोधरेणार्द्रनखक्षताभशक्रचापधारणासम्भवात् ।
ननु "आर्द्रनखक्षताभम्" इत्यत्र स्थितमप्युपमानत्वं वस्तुपर्यालोचनया ऐन्द्रे धनुषि सञ्चारणीयम् ।
यथा--"दध्ना जुहोति" इत्यादौ हवनस्यान्यथासिद्धेर्दध्नि सञ्चार्यते विधिः ।
एवञ्चेन्द्रचापाभमार्द्रनखक्षतं दधानेति प्रतीतिर्भविष्यतीति चेत् ? न, एवंविधनिर्वाहे कष्टसृष्टिकल्पनादेकदेशविवर्त्युपमाङ्गीकारस्यैव ज्यायस्त्वात् ।
अस्तु वात्र यथाकथञ्चित्समासोक्तिः ।
"नेत्रैरिवोत्पलैः पद्मैः-" इत्यादौ चान्यगत्यसम्भवात् ।
किं चोपमायां व्यवहारप्रतीतेरभावात्कथं तदुपजीविकायाः समासोक्तेः प्रवेशः ।
यदाहुः-- "व्यवहारो ऽथवा तत्त्वमौपम्ये यत्प्रतीयते ।
तन्नौपम्यं समासोक्तिरेकदेशोपमा स्फुटा" ॥

एवञ्चोपमारूपकयोरेकदेशविवर्तिताङ्गीकारे तन्मूलसङ्करे ऽपि समासोक्तेरप्रवेशो न्यायसिद्ध एव, तेनौपम्यगर्भविशेषणोत्थापितत्वं नास्या विषय इति विशेषणसाम्ये श्लिष्टवेशेषणोत्थापिता साधारणविशेषणोत्थापिता चेति द्विधा ।
कार्यलिङ्गयोस्तुल्यत्वे च द्विविधेति चतुः प्रकारा समासोक्तिः ।
सर्वत्रैवात्र व्यवहारसमारोपः कारणम् ।
स च क्वचिल्लौकिके वस्तुनि लौकिकवस्तुव्यवहारसमारोपः, शास्त्रीये वस्तुनि शास्त्रीयवस्तुव्यवहारसमारोपः, लौकिके वा शास्त्रीयवस्तुव्यवहारसमारोपः, शास्त्रीये वा लौकिकवस्तुव्यवहारसमारोप इति चतुर्धा ।
तत्र लौकिकवस्त्वपि रसादिभेदादनेकविधम् ।
शास्त्रीयमपि तर्कायुर्वेदज्योतिः शास्त्रप्रसिद्धतयोति बहुप्रकारा समासोक्तिः ।
दिङ्मात्रं यथा--"व्याधूय यद्वसनम्-" इत्यादौ लौकिके वस्तुनि लौकिकस्य हठकामुकव्यवहारादेः समारोपः ।
"यैरेकरूपमखिलास्वपि वृत्तिषु त्वां पश्यद्भिरव्ययमसंख्यतया प्रवृत्तम् ।
लोपः कृतः किल परत्वजुषो विभक्ते-- स्तैर्लक्षणं तव कृतं ध्रुवमेव मन्ये" ॥

अत्रागमशास्त्रप्रसिद्धे वस्तुनि व्याकरणप्रसिद्धवस्तुव्यवहारसमारोपः ।
एवमन्यत्र ।
रूपके ऽप्रकृतमात्मस्वरूपसन्निवेशेन प्रकृतस्य रूपमवच्छादयति ।
इह तु स्वावस्थासमारोपेणावच्छादितस्वरूपमेव तं पूर्वावस्थातो विशेषयति ।
अत एवात्र व्यवहारसमारोपो न तु स्वरूपसमारोप इत्याहुः ।
उपमाध्वनौ श्लेषे च विशेष्यस्यापि साम्यम्, इह तु विशेषणमात्रस्य ।
अप्रस्तुतप्रशंसायां प्रस्तुतस्य गम्यत्वम्, इह त्वप्रस्तुतस्येति भेदः ।

उक्तैर्विशेषणैः साभिप्रायैः परिकरो मतः ।

यथा-- "अङ्गराज ! सेनापते ! द्रोणोपहासिन् ! कर्ण !, रक्षैनं भीमाद्दुः शानम् !"
शब्दैः स्वभावादेकार्थैः श्लेषो ऽनेकार्थवाचनम् ॥५७॥

"स्वभावादेकार्थैः" इति शब्दश्लेषाद् व्यवच्छेदः ।
"वाचनम्" इति च ध्वनेः ।
उदाहरणम्-- "प्रवर्तयन् क्रियाः साध्वीर्मालिन्यं हरिता हरन् ।
महसा भूयसा दीप्तो विराजति विभाकरः" ॥

अत्र प्रकरणादिनियमाभावाद् द्वावपि राजसूर्यौ वाच्यौ ।

क्वचिद्विशेषः सामान्यात्सामान्यं वा विशेषतः ।
कार्यान्निमित्तं कार्यं च हेतोरथ समात्समम् ॥५८॥

अप्रस्तुतात्प्रस्तुतं चेद्गम्यते पञ्चधा ततः ।
अप्रस्तुतप्रशंसा स्याद्--
क्रमेणोदाहरणम्--- "पादाहतं यदुत्थाय मूर्धानमधिरोहति ।
स्वस्थादेवापमाने ऽपि देहिनस्तद्वरं रजः" ॥

अत्रास्मदपेक्षया रजो ऽपि वरमिति विशेषे प्रस्तुते सामान्यमभिहितम् ।
"स्त्रगियं यदि जीवितापहा हृदये किं निहिता न हन्ति माम् ।
विषमप्यमृतं क्वचिद्भवेदमृतं वा विषमीश्वरेच्छया" ॥

अत्रेश्वरेच्छया क्वचिदहितकारिणो ऽपि हितकारित्वं हितकारिणो ऽप्यहितकारित्वमिति सामान्ये प्रस्तुते विशेषो ऽभिहितः ।
एवञ्चात्राप्रस्तुतप्रशंसामूलोर्ऽथान्तरन्यासः ।
दृष्टान्ते प्रख्यातमेव वस्तु प्रतिबिम्बत्वेनोपादीयते, इह तु विषामृतयोरमृतविषीभावस्याप्रसिद्धेर्न तस्य सद्भावः ।
"इन्दुर्लिप्त इवाञ्जनेन जडिता दृष्टिर्मृगीणामिव, प्रम्लानारुणिमेव विद्रुमदलं श्यामेव हेमप्रभा ।
कार्कश्यं कलया च कोकिलवधूकण्ठेष्विव प्रस्तुतं सीतायाः पुरतश्च हन्त ! शिखिनां बर्हाः सहर्हा इव" ॥

अत्र सम्भाव्यमानेभ्य इन्द्रादिगताञ्जनलिप्तत्वादिभ्यः कार्येभ्यो वदनादिगतसौन्दर्यविशेषरूपं प्रस्तुतं कारणं प्रतीयते ।
गच्छामीति यथोक्तया मृगदृशा निः श्वासमुद्रेकिणं त्यक्त्वा तिर्यगवेक्ष्य बाष्पकलुषेनैकेन मां चक्षुषा ।
अद्य प्रेम मदर्पितं प्रियसखीवृन्दे त्वया बध्यता- मित्थं स्नेहविवर्धितो मृगशिशुः सोत्प्रासमाभाषितः" ॥

अत्र कस्यचिदगमनरूपे कार्ये कारणमभिहितम् ।
तुल्ये प्रस्तुते तुल्याभिधाने च द्विधा श्लेषमूला सादृश्यमात्रमूला च ।
श्लेषमूलापि समासोक्तिवद्विशेषणमात्रस्य श्लेषे श्लेषवद्विशेष्यस्यापि श्लेषे भवतीति द्विधा ।
क्रमेण यथा-- "सहकारः सदामोदो वसन्तश्रीसमन्वितः ।
समुज्ज्वलरुचिः श्रीमान् प्रभूतोत्कलिकाकुलः" ॥

अत्र विशेषणमात्रश्लेषवशादप्रस्तुतात्सहकारात्कस्यचित्प्रस्तुतस्य नायकस्य प्रतीतिः ।
"पुंस्त्वादपि प्रविचलेद्यदि यद्यधो ऽपि यायाद्यदि प्रणयने न महानपि स्यात् अभ्युद्धरेत्तदपि विश्वमितीदृशीयं केनापि दिक्प्रकटिता पुरुषोत्तमेन" ॥

अत्र पुरुषोत्तमपदेन विशेष्येणापि श्लिष्टेन प्रचुरप्रसिद्ध्या प्रथमं विष्णुरेव बोध्यते ।
तेन वर्णनीयः कश्चित्पुरुषः प्रतीयते ।
सादृश्यमात्रमूला यथा-- "एकः कपोतपोतः शतशः श्येनाः क्षुधाभिधावन्ति ।
अम्बरमावृतिशून्यं हरहर शरणं विधेः करुणा" ॥

अत्र कपोतादप्रतुस्तात्कश्चित्प्रस्तुतः प्रतीयते ।
इयं च क्वचिद्वैधर्म्येणापि भवति ।
"धन्याः खलु वने वाताः कह्लारस्पर्शशीतलाः ।
राममिन्दीवरश्यामं ये स्पृशन्त्यनिवारिताः" ॥

अत्र वाता धन्या अहमधन्य इति वैधर्म्येण प्रस्तुतः प्रतीयते ।
वाच्यस्य सम्भवासम्भवोभयरूपतया त्रिप्रकारेयम् ।
तत्र सम्भवे उक्तोदाहरणान्येव ।
असम्भवे यथा-- "कोकिलो ऽहं भवान् काकः समानः कालिमावयोः ।
अन्तरं कथयिष्यन्ति काकलीकोविदाः पुनः" ॥

अत्र काककोकिलयोर्वाकोवाक्यं प्रस्तुतस्याध्यारोपणं विनासम्भवि ।
उभयरूपत्वे यथा-- "अन्तश्छिद्राणि भूयांसि कण्टका बहवो बहिः ।
कथं कमलनालस्य मा भूवन् भङ्गुरा गुणाः" ॥

अत्र प्रस्तुतस्य कस्यचिदध्यारोपणं विना कमलनालान्तश्छिद्राणां गुणभङ्गुरीकरणे हेतुत्वमसम्भवि ।
अन्येषां तु सम्भवीत्युभयरूपत्वम् ।
अस्याश्च समासोक्तिवद् व्यवहारसमारोपप्राणत्वाच्छब्दशक्तिमूलाद्वस्तुध्वनेर्भेदः ।
उपमाध्वनावप्रस्तुतस्य व्यङ्ग्यत्वम् ।
एवं समासोक्तावपि ।
श्लेषे तु द्वयोरपि वाच्यत्वम् ।

उक्ता व्याजस्तुतिः पुनः ॥५९॥


निन्दास्तुतिभ्यां वाच्याभ्यां गम्यत्वे स्तुतिनिन्दयोः ।

निन्दया स्तुतेर्गम्यत्वे व्याजेन स्तुतिरिति व्युत्पत्त्या व्याजस्तुतिः ।
स्तुत्या निन्दाया गम्यत्वे व्याजरूपा स्तुतिः ।
क्रमेण यथा-- "स्तनयुगमुक्ताभरणाः कण्टककलिताङ्गयष्टयो देव ! ।
त्वयि कुपिते ऽपि प्रागिव विश्वस्ता द्विट्स्त्रियो जाताः" ॥

इदं मम ॥

"व्याजस्तुतिस्तव पयोद ! मयोदितेयं यज्जीवनाय जगतस्तव जीवनानि ।
स्तोत्रं तु ते महदिदं घन ! धर्मराज- साहय्यमर्जयसि यत्पथिकान्निहत्य" ॥

पर्यायोक्तं यदा भङ्ग्या गम्यमेवाभिधीयते ॥६०॥

उदाहरणम्-- "स्पृष्टास्ता नन्दने शच्याः केशसम्भोगलालिताः ।
सावज्ञं पारिजातस्य मञ्जर्यो यस्य सैनिकैः" ॥

अत्र हयग्रीवेण स्वर्गो विजित इति प्रस्तुतमेव गम्यं कारणं वैचित्र्यविशेषप्रतिपत्तये सैन्यस्य पारिजातमञ्जरीसावज्ञस्पर्शनरूपकार्यद्वारेणाभिहितम् ।
न चेदं कार्यात्कारणप्रतीतिरूपाप्रस्तुतप्रशंसा, तत्र कार्यस्याप्रस्तुतत्वात् ॑ इह तु वर्णनीयस्य प्रभावातिशयबोधकत्वेन कार्यमिति कारणवत्प्रस्तुतम् ।
एवञ्-- "अनेन पर्यासयताश्रुबिन्दून् मुक्ताफलस्थूलतमान् स्तनेषु ।
प्रत्यापताः शत्रुविलासिनीनामाक्षेपसूत्रेण विनैव हाराः" ॥

अत्र वर्णनीयस्य राज्ञो गम्यभूतशत्रुमारणरूपकारणवत्कार्यभूतं तथाविधशत्रुस्त्रीक्रन्दनजलमपि प्रभावातिशयबोधकत्वेन वर्णनार्हमिति पर्यायोक्तमेव ।
"राजन् राजसुता न पाठयति मां देव्यो ऽपि तूष्णीं स्थिताः कुब्जे भोजय मां कुमारसचिवैर्नाद्यापि किं भुज्यते ।
इत्थं राजशुकस्तवारिभवने मुक्तो ऽध्वगैः पञ्जरा- च्चित्रस्थानवलोक्य शून्यवलभावेकैकमाभाषते" ॥

अत्र प्रस्थानेद्यतं भवन्तं श्रुत्वा सहसैवारयः पलायिता इति कारणं प्रस्तुतम् ।
"कार्यमपि वर्णनार्हत्वेन प्रस्तुतम्" इति केचित् ।
अन्ये तु--"राजशुकवृत्तान्तेन को ऽपि प्रस्तुतप्रभावो बोध्यत इत्यप्रस्तुतप्रशंसैव" इत्याहः,
सामान्यं वा विशेषण विशेषस्तेन वा यदि ।
कार्यं च कारणेनेदं कार्येण च समर्थ्यते ॥६१॥

साधर्म्येणेतरेणार्थान्तरन्यासो ऽष्टधा ततः ।

क्रमेणोदाहरणम्-- "बृहत्सहायः कार्यान्तं क्षोदीयानपि गच्छति ।
सम्भूयाम्भोधिमभ्येति महानद्या नगापगा" ॥

अत्र द्वितीयार्धगतेन विशेषरूपेणार्थेन प्रथमार्धगतः सामान्योर्ऽथः सोपपत्तिकः क्रियते ।
"यावदर्थपदां वाचमेवमादाय माधवः ।
विरराम महीयांसः प्रकृत्या मितभाषिणः" ॥

"पृथ्वि ! स्थिरा भव भुजङ्गम् ! धारयैनां त्वं कूर्मराज ! तदिदं द्वितयं दधीथाः ।
दिक्कुञ्जराः ! कुरुत तत्नितये दिधीर्षां आर्यः करोति हरकार्मुकमाततज्यम्" ॥

अत्र कारणभूतं हरकार्मुकाततज्यीकरणं पृथिवीस्थैर्यादेः कार्यस्य समर्थकम् ।
"सहसा विदधीत न क्रियाम्" इत्यादौ सम्पद्वरणं कार्यं सहसा विधानाभावस्य विमृश्यकारित्वरूपस्य कारणस्य समर्थकम् ।
एतानि साधर्म्य उदाहरणानि ।
वैधर्म्ये यथा-- "इत्थमाराध्यमानो ऽपि क्लिश्नाति भुवनत्रयम् ।
शाम्येत्प्रत्यपकारेण नोपकारेण दुर्जनः" ॥

अत्र सामान्यं विशेषस्य समर्थकम् ।
"सहसा विदधीत-" इत्यत्र सहसा विधानाभावस्यापत्प्रदत्वं विरुद्धं कार्यं समर्थकम् ।
एवमन्यत् ।

हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गं निगद्यते ॥६२॥

तत्र वाक्यार्थता यथा-- "यत्त्वन्नेत्रसमानकान्ति सलिले मग्नं तदिन्दीवरं मेघैरन्तरितः प्रिये ! तव मुखच्छायानुकारी शशी ।
ये ऽपि त्वद्रमनानुकारिगतयस्ते राजहंसा गता- स्त्वत्सादृश्यविनोदमात्रमपि मे दैवेन न क्षम्यते" ॥

अत्र चतुर्थपादे पादत्रयवाक्यानि हेतवः ।
पदार्थता यथा मम-- "त्वद्वजिराजिनिर्धूतधूलीपटलपङ्किलाम् ।
न धत्ते शिरसा गङ्गां भूरिभारभिया हरः" ॥

अत्र द्वितीयार्धे प्रथमार्धमेकपदं हेतुः ।
अनेकपदं यथा मम-- "पश्यन्त्यसंख्यपथगां त्वद्दानजलवाहिनीम् ।
देव ! त्रिपथगात्मानं गोपयत्युग्रमूर्धनि" ॥

इह केचिद् वाक्यार्थगतेन काव्यलिङ्गेनैव गतार्थतया कार्यकारणभावेर्ऽथान्तरन्यासं नाद्रियन्ते ।
तदयुक्तम्, तथा ह्यत्र हेतुस्त्रिधा भवति--ज्ञापको निष्पादकः समर्थकश्चेति ।
तत्र ज्ञापको ऽनुमानस्य विषयः, निष्पादकः काव्यलिङ्गस्य, समर्थकोर्ऽथान्तरन्यासस्य, इति पृथगेव कार्यकारणभावेर्ऽथान्तरन्यासः काव्यलिङ्गीत् ।
तथाहि--"यत्त्वन्नेत्र-" इत्यादौ चतुर्थपादवाक्यम्, अन्यथा साकाङ्क्षतयासमञ्जसमेव स्यात् इति पादत्रयगतवाक्यं निष्पादकत्वेनापेक्षते ।
"सहसा विदधीत-" इत्यादौ तु-- "परापकारनिरतैदुर्जनैः सह सङ्गतिः ।
वदामि भवतस्तत्त्वं न विधेया कदाचन" ॥

इत्यादिवदुपदेशमात्रेणापि निराकाङ्क्षतया स्वतो ऽपि गतार्थं सहसा विधानाभावं सम्पद्वरणं सोपपत्तिकमेव करोतीति पृथगेव कार्यकारणभावेर्ऽथान्तरन्यासः काव्यलिङ्गात् ।
"न धत्ते शिरसा गङ्गां भूरिभारभिया हरः ।
त्वद्वाजिराजिनिर्धूतधूलिभिः पङ्किला हि सा" ॥

इत्यत्र हिशब्दोपादानेन पङ्किलत्वादितिवद्धेतुत्वस्य स्फुटतया नायमलङ्कारः, वैचित्र्यस्यैवालङ्कारत्वात् ।

अनुमानं तु विच्छित्त्या ज्ञानं साध्यस्य साधनात् ।

यथा-- "जानीमहे ऽस्या हृदि सारसाक्ष्या विराजते ऽन्तः प्रियवक्त्रचन्द्रः ।
तत्कान्तिजालैः प्रसृतैस्तदङ्गेष्वापाण्डुता कुड्मलताक्षिपद्मे" ॥

अत्र रूपकवशाद्विच्छित्तिः ।
यथा वा-- "यत्र पतत्यबलानां दृष्टिर्निशिताः पतन्ति तत्र शराः ।
तच्चापरोपितशरो धावत्यासां पुरः स्मरो मन्ये" ॥

अत्र कविप्रौढोक्तिवशाद्विच्छित्तिः ।
उत्प्रेक्षायामनश्चिततया प्रतीतिः, इह तु निश्चिततयेत्युभयोर्भेदः ।

अभेदेनाभिधा हेतुर्हेतोर्हेतुमता सह ॥६३॥

यथा मम--"तारुण्यस्य विलासः--" इत्यत्र वशीकरणहेतुर्नायिकावशीकरणत्वेनोक्ता, विलासहासयोस्त्वध्यवसायमूलो ऽयमङ्कारः ।

अनुकूलं प्रातिकूल्यमनुकूलानुबन्धि चेत् ।

यथा--"कुपितासि यदा तन्वि ! निधाय करजक्षतम् ।
बधान भुजपाशाभ्यां कण्ठमस्य दृढं तदा" ॥

अस्य च विच्छित्तिविशेषस्य सर्वालङ्कारविलक्षणत्वेन स्फुरणात्पृथगलङ्कारत्वमेव न्याय्यम् ।

वस्तुनो वक्तुमिष्टस्य विशेषप्रतिपत्तये ॥६४॥

निषेधाभास आक्षेपो वक्ष्यमाणोक्तगो द्विधा ।

तत्र वक्ष्यमाणविषये क्वचित्सर्वस्यापि सामान्यतः सूचितस्य निषेधः क्वचिदंशोक्तावंशान्तरे निषध इति द्वौ भेदौ ।
उक्तविषये च क्वचिद्वस्तुस्वरूपस्य निषेधः, क्वचिद्वस्तुकथनस्येति द्वौ, इत्याक्षेपस्य चत्वारो भेदाः ।
क्रमेण यथा-- "स्मरशरशतविधुराया भणामि संख्याः कृते किमपि ।
क्षणमिह विश्रम्य सखे ! निर्दयहृदयस्य किं वदाम्यथवा" ॥

अत्र सख्या विरहस्य सामान्यतः सूचितस्य वक्ष्यमाणविषये निषेधः ।
"तव विरहे हरिणाक्षी निरीक्ष्य नवमालिकां दलिताम् ।
हन्त ! नितान्तमिदानीम् आः किं हतजल्पितैरथवा" ॥

अत्र मरिष्यतीत्यंशो नोक्तः ।
"बालअ ! णाहं दूती तुअ पिओसि त्ति ण मह वावारो ।
सा मरै तुज्भ्क्त अअसो एत्नं धम्मक्खरं भणिमो" ॥

अत्र दूतीत्वस्य वस्तुनो निषेधः ।
"विरहे तव तन्वङ्गी कथं क्षपयतु क्षपाम् ।
दारुणव्यवसायस्य पुरस्ते भणितेन किम् ?" ॥

अत्र कथनस्योक्तस्यैव निषेधः ।
प्रथमोदाहरणे संख्या अवश्यम्भाविमरणमिति विशेषः प्रतीयते ।
द्वितीये ऽशक्यवक्तव्यत्वादि, तृतीये दूतीत्वे यथार्थवादित्वम्, चतुर्थे दुः खस्यातिशयः ।
न चायं विहितनिषेधः, अत्र निषेधस्याभासत्वात् ।

अनिष्टस्य तथार्थस्य विध्याभासः परो मतः ॥६५॥

तथेति पूर्ववद्विशेषप्रतिपत्तये ।
यथा-- "गच्छ गच्छसि चेत् कान्त ! पन्थानः सन्तु ते शिवाः ।
ममापि. जन्म तत्रैव भूयाद्यत्र गतो भवान्" ॥

अत्रानिष्टत्वाद्रमनस्य विधिः प्रस्खलद्रूपो निषेधे पर्यवस्यति ।
विशेषश्च गमनस्यात्यन्तपरिहार्यत्वरूपः प्रतीयते ।

विभावना विना हेतुं कार्योत्पत्तिर्यदुच्यते ।
उक्तानुक्तनिमित्तत्वाद्द्विधा सा परिकीर्तिता ॥६६॥

विना कारणमुपनिबध्यमानो ऽपि कार्योदयः किञ्चिदन्यत्कारणमपेक्ष्यैव भवितुं युक्तः ।
तच्च कारणान्तरं क्वचिदुक्तं क्वचिदनुक्तमिति द्विधा ।
यथा-- "अनायासकृशं मध्यमशङ्कतरले दृशौ ।
अभूषणमनोहारि वपुर्वयसि सुभ्रुवः" ॥

अत्र वयोरूपनिमित्तमुक्तम् ।
अत्रैव "वपुर्भाति मृगीदृशः" इति पाठे ऽनुक्तम्
सति हेतौ फलाभावो विशेषोक्तिस्तथा द्विधा ।

तथेत्युक्तानुक्तनिमित्तत्वात् ।
तत्रोक्तनिमित्ता यथा-- "धनिनो ऽपि निरुन्मादा युवानो ऽपि न चञ्चलाः ।
प्रभवो ऽप्यप्रमत्तास्ते महामहिमशालिनः" ॥

अत्र महामहिमशालित्वं निमित्तमुक्तम् ।
अत्रैव चतुर्थपादे "कियन्तः सन्ति भूतले" इति पाठे त्वनुक्तम् ।
अचिन्त्यनिमित्तत्वं चानुक्तनिमित्तस्यैव भेद इति पृथङ्नोक्तम् ।
यथा-- "स एकस्त्री४णि जयति जगन्ति कुसुमायुधः ।
हरतापि तनुं यस्य शम्भुना न हृतं बलम्" ॥

अत्र तनुहरणेनापि बलाहरणे निमित्तमचिन्त्यम् ।
इह च कार्याभावः कार्यविरुद्धसद्भावमुखेनापि निबद्ध्यते ।
विभावनायामपि कारणाभावः कारणविरुद्धसद्भावमुखेन ।
एवञ्च "यः कौमारहरः" इत्यादेरुकण्ठाकारणविरुद्धस्य निबन्धनाद्विभावना ।
"यः कौमार-" इत्यादेः कारणस्य च कार्यविरुद्धाया उत्कण्ठाया निबन्धनाद्विशेषोक्तिः, एवं चात्र विभावनाविशेषोक्त्योः सङ्करः ।
शुद्धोदाहरणं तु मृग्यम् ।

जातिश्चतुर्भिर्जात्याद्यैर्गुणो गुणादिभिस्त्रिभिः ॥६७॥


क्रिया क्रियाद्रव्याभ्यां यद्द्रव्यं द्रव्येण वा मिथः ।
विरुद्धमिव भासेत विरोधो ऽसौ दशाकृतिः ॥६८॥


क्रमेण यथा-- "तव विरहे मलयमरुद्दवानलः शशिरुचो ऽपि सोष्माणः ।
हृदयमलिरुतमपि भिन्ते नलिनीदलमपि निदाघरविरस्याः" ॥

"सन्ततमुसलासङ्गाद्वहुतरगृहकर्मघटनया नृपते ! ।
द्विजपत्नीनां कठिनाः सति भवति कराः सरोजसुकुमाराः" ॥

"अजस्य गृह्णतो जन्म निरीहस्य हतद्विषः ।
स्वपतो जागरूकस्य याथार्थ्यं वेद कस्तव" ॥

"वल्लभोत्सङ्गसङ्गेन विना हरिणचक्षुषः ।
राकाविभावरीजानिर्विषज्वालाकुलो ऽभवत्" ॥

नयनयुगासेचनकं मानसवृत्तयापि दुष्प्रापम् ।
रूपमिदं मदिराक्ष्या मदयति हृदयं दुनोति च मे ॥

"त्वद्वाजि" इत्यादि ।
"वल्लभोत्सङ्गऽ--इत्यादिश्लोके चतुर्थपादे "मध्यन्दिनदिनाधिपः" इति पाठे द्रव्ययोर्विरोधः ।
अत्र "तव विरह-" इत्यादौ पवनादीनां बहुव्यक्तिवाचकत्वाज्जातिशब्दानां दवानलोष्महृदयभेदनसूर्यैर्जातिगुणक्रियाद्रव्यरूपैरन्योन्यं विरोधो मुखत आभासते, विरहहेतुकत्वात्समाधानम् ।
"अजस्य-" इत्यादावजत्वादिगुणस्य जन्मप्रहणादिक्रियया विरोधः, भगवतः प्रभावस्यातिशायित्वात्तु समाधानम् ।
"त्वद्वाजि-" इत्यादौ "हरो ऽपि शिरसा गङ्गां न धत्ते" इति विरोधः, "त्वद्वाजि-" इत्यादिकविप्रौढोक्त्या तु समाधानम् ।
स्पष्टमन्यत् ।
विभावनायां कारणाभावेनोपनिबध्यमानत्वात्कार्यमेव बाध्यत्वेन प्रतीयते, विशोषोक्तौ च कार्याभावेन कारणमेव॑ इह त्वन्योन्यं द्वयोरपि बाध्यत्वमिति भेदः ।

कार्यकारणयोर्भिन्नदेशतायामसङ्गतिः ।

यथा-- "सा बाला वयमप्रगल्भमनसः सा स्त्री वयं कातरा सा पीनोन्नतिमत्पयोधरयुगं धत्ते सखेदा वयम् ।
साक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयं दोषैरन्यजनाश्रयैरपटवो जाताः स्म इत्यद्भुतम्" ॥

अस्याश्चापवादकत्वादेकदेशस्थयोर्विरोधे विरोधालङ्कारः ।

गुणौ क्रिये वा चेत्स्यातां विरुद्धे हेतुकार्ययोः ॥६९॥

यद्वरब्धस्य वैफल्यनर्थस्य च सम्भवः ।
विरूपयोः संघटना या च तद्विषमं मतम् ॥७०॥

क्रमेण यथा-- "सद्यः करस्पर्शमवाप्य चित्रं रणे रणे यस्य कृपाणलेखा ।
तमालनीला शरदिन्दुपाण्डु यशस्त्रिलोकाभारणं प्रसूते" ॥

अत्र कारणरूपासिलतायाः "कारणगुणा हि कार्यगुणमारभन्ते" इति स्थतेर्विरुद्धा शुक्लयशस उत्पत्तिः ।
"आनन्दममन्दमिमं कुवलयदललोचने ! ददासि त्वम् ।
विरहस्त्वयैव जनितस्तापयतितरां शरीरं मे" ॥

अत्रानन्दजनकस्त्रीरूपकारणात्तापजनकविरहोत्पत्तिः ।
"अयं रत्नाकरो ऽम्भोधिरित्यसेवि धनाशया ।
धनं दूरे ऽस्तु वदनमपूरि क्षारवारिभैः" ॥

अत्र केवलं काङ्क्षितधनलाभो नाभूत्, प्रत्यत क्षारवारिभिर्वदनपूरणम् ।
"क्व वनं तरुवल्कभूषणं नृपलक्ष्मीः क्व महेन्द्रवन्दिता ।
नियतं प्रतिकूलवतिनो बत धातुश्चरितं सुदुः सहम्" ॥

अत्र वनराज्यश्रियोर्विरूपयोः संघटना ।
इदं मम ।
यथा वा-- "विपुलेन सागरशयस्य कुक्षिणा भुवनानि यस्य पपिरे युगक्षये ।
मदविभ्रमासकलया पपे पुनः स पुरस्त्रियैकतमयैकया दृशा" ॥

समं स्यादानुरूप्येण श्लाघा योग्यस्य वस्तुनः ।

यथा-- शशिनमुपगतेयं कौमुदी मेघमुक्तं जलनिधिमनुरूपं जह्नुकन्यावतीर्णा ।
इति समगुणयोगप्रीतयस्तत्र पौराः श्रवणकटु नृपाणामेकवाक्यं विबव्रुः" ॥

विचित्रं तद्विरुद्धस्य कृतिरिष्टफलाय चेत् ॥७१॥

यथा-- "प्रणमत्युन्नतिहेतोर्जोवितहेतोर्विमुञ्चति प्राणान् ।
दुः खीयति सुखहेतोः को मूढः सेवकादन्यः" ॥

आश्रयाश्रयिणोरेकस्याधिक्ये ऽधिकमुच्यते ।

आश्रयाधिक्ये यथा-- "किमधिकमस्य ब्रूमो महिमानं वारिघेर्हरिर्यत्र ।
अज्ञात एव शेते कुक्षौ निक्षिप्य भुवनानि" ॥

आश्रिताधिक्ये यथा-- "युगान्तकालप्रतिसंहृतात्मनो जगन्ति यस्यां सविकासमासत ।
तनौ ममुस्तत्र न कैटभद्विषस्तपोधनाभ्यागमसम्भवा मुदः" ॥

अन्योन्यमुभयोरेकक्रियायाः कारणं मिथः ॥७२॥

"त्वया सा शोभते तन्वी तया त्वमपि शोभसे ।
रजन्या शोभते चन्द्रश्चन्द्रेणापि निशीथिनी" ॥

यदाधेयमनाधारमेकं चानेकगोचरम् ।
किञ्चित्प्रकुर्वतः कार्यमशक्यस्येतरस्य वा ॥७३॥

कार्यस्य करणं दैवाद्विशेषस्त्रिविधस्ततः ।

क्रमेण यथा-- "दिवमप्युपयातानामाकल्पमनल्पगुणगणा येषाम् ।
रमयन्ति जगन्ति गिरः कथमिव कवयो न ते वन्द्याः" ॥

"कानने सरिदुद्देशे गिरीणामपि कन्दरे ।
पश्यन्त्यन्तकसङ्काशं त्वामेकं रिपवः पुरः" ॥

"गृहिणी सचिवः सखी मिथः प्रियशिष्या ललिते कलाविधौ ।
करुणाविमुखेन मृत्युना हरता त्वां वद किं न मे हृतम्" ॥

व्याघातः स तु केनापि वस्तु येन यथाकृतम् ॥७४॥

तेनैव चेदुपायेन कुरुते ऽन्यस्तदन्यथा ।

यथा--"दृशा दग्धं मनसिजम्-" इत्यादि ।

सौकर्येण च कार्यस्य विरुद्धं क्रियते यदि ॥७५॥

व्याघात इत्येव ।
"इहैव त्वं तिष्ठ द्रुतमहमहोभिः कतिपयैः समागन्ता कान्ते ! मृदुरसि न चायाससहना ।
मृदुत्वं मे हेतुः सुभग ! भवता गन्तुमधिकं न मृद्वी सोढा यद्विरहकृतमायासमसमम्" ॥

अत्र नायकेन नायिकाया मृदुत्वं सहगमनाभावहेतुत्वेनोक्तम् ।
नायिकया च प्रत्युत सहगमने ततो ऽपि सौकर्येण हेतुतयोपन्यस्तम् ।

परं परं प्रति यदा पूर्वपूर्वस्य हेतुता ।
तदा कारणमाला स्यात्--
यथा-- "श्रुतं कृतधियां सङ्गाज्जायते विनयः श्रुतात् ।
लोकानुरागो विनयान्न किं लोकानुरागतः" ॥

--तन्मालादीपकं पुनः ॥७६॥

धर्मिणामेकधर्मेण सम्बन्धो यद्यथोत्तरम् ।

यथा-- "त्वयि सङ्गरसम्प्राप्ते धनुषासादिताः शराः ।
शरैररिशिरस्तेन भूस्तया त्वं त्वया यशः" ॥

अत्रासादनक्रिया धर्मः ।

पूर्वं पूर्वं प्रति विशेषणत्वेन परं परम् ॥७७॥

स्थाप्यते ऽपोह्यते वा चेत् स्यात्तदैकावली द्विधा ।

क्रमेणोदाहरणम्-- "सरो विकसिताम्भोजमम्भोजं भृङ्गसङ्गतम् ।
भृङ्गा यत्र ससङ्गीताः सङ्गीतं सस्मरोदयम्" ॥

"न तज्जलं यन्न सुचारुपङ्कजं न पङ्कजं तद्यदलीनषट्पदम् ॥

न षट्पदो ऽसौ न जुगुञ्ज यः कलं न गुञ्जितं तन्न जहार यन्मनः" ॥

कचिद्विशेष्यमपि यथोत्तरं विशेषणतया स्थापितमपोहितं च दृश्यते ।
यथा-- "वाप्यो भवन्ति विमलाः स्फुटन्ति कमलानि वापीषु ।
कमलेषु पतन्त्यलयः करोति सङ्गीतमलिषु पदम्" ॥

एवमपोहने ऽपि ।

उत्तरोत्तरमुत्कर्षो वस्तुनः सार उच्यते ॥७८॥

यथा--"राज्ये सारं वसुधा वसुधायामपि पुरं पुरे सौधम् ।
सौधे तल्पं तल्पे वराङ्गनानङ्गसर्वस्वम्" ॥

यथासंख्यमूद्देश उद्दिष्टानां क्रमेण यत् ।

यथा-- "उन्मीलन्ति नखैर्लुनीहि वहति क्षौमाञ्चलेनावृणु क्रीडाकाननमाविशन्ति वलयक्वाणैः समुत्नासय ।
इत्थं वञ्जुलदक्षिणानिलकुहूकण्ठेषु साङ्केतिक- व्याहाराः सुभग ! त्वदीयविरहे तस्याः सखीनां मिथः" ॥

क्वचिदेकमनेकस्मिन्ननेकं चैकगं क्रमात् ॥७९॥

भवति क्रियते वा चेत्तदा पर्याय इष्यते ।

क्रमेण यथा-- "स्थिताः क्षणं पक्ष्मसु ताडिताधराः पयोधरोत्सेधनिपातचूर्णिताः ।
वलीषु तस्याः स्खलिताः प्रपेदिरे क्रमेण नाभिं प्रथमोदबिन्धवः" ॥

"विचरन्ति विलासिन्यो यत्र श्रोणिभरालसाः ।
वृककाकशिवास्तत्र धावन्त्यरिपुरे तव" ॥

"विसृष्टरागादधारान्निवर्तितः स्तनाङ्गरागादरुणाच्च कन्दुकात् ।
कुशाङ्कुरादानपरिक्षताङ्गुलिः कृतो ऽक्षसूत्रप्रणयी तया करः" ॥

"ययोरारोपितस्तारो हारस्ते ऽरिवधूजनैः" ॥

निधीयन्ते तयोः स्थूलाः स्तनयोरश्रुविन्दवः" ॥

एषु च क्वचिदाधारः संहतरूपो ऽसंहतरूपश्च ।
क्वाचिदाधेयमपि ।
यथा-- "स्थिताः क्षणम्-" इत्यत्रोदबिन्दवः पक्ष्मादावसंहतरूप आधारे क्रमेणाभवन् ।
"विचरन्ति-" इत्यत्राधेयभूता वृकादयः संहतरूपारिपुरे क्रमेणाभवन् ।
एवमन्यत् ।
अत्र चैकस्यानेकत्र क्रमेणैव वृत्तेविशेषालङ्काराद् भेदः ।
विनिमयाभावात्परिवृत्तेः ।

परिवृत्तिविंनिमयः समन्यूनाधिकैर्भवेत् ॥८०॥

क्रमेणोदाहरणम्-- "दत्त्वा कटाक्षमेणाक्षी जग्रह हृदयं मम ।
मया तु हृदयं दत्त्वा गृहीतो मदनज्वरः" ॥

अत्र प्रथमेर्ऽधे समेन, द्वितीयेर्ऽधे न्यूनेन ।
"तस्य च प्रवयसो जटायुषः स्वर्गिणः किमिव शोच्यते ऽधुना ।
येन जर्जरकलेवरव्ययात्क्रीतमिन्दुकिरणोज्ज्वलं यशः" ॥

अत्रादिक्येन ।

प्रश्नादप्रश्नतो वापि कथिताद्वस्तुनो भवेत् ।
तादृगन्यव्यपोहश्चेच्छाब्द आर्थो ऽथवा तदा ॥८१॥

परिसंख्या--
क्रमेणोदाहरणम्-- "किं भूषणं सुदृढमत्र यशो न रत्नं किं कार्यमार्यचरितं सुकृतं न दोषः ।
किं चक्षुरप्रतिहतं धिषणा न नेत्रं जानाति कस्त्वदपरः सदसद्विवेकम्" ॥

अत्र व्यवच्छेद्यं रत्नादि शाब्दम् ।
"किमाराध्यं सदा पुण्यं कश्च सेव्यः सदागमः ।
को ध्येयो भगवान् विष्णुः किं काम्यं परमं पदम्" ॥

अत्र व्यवच्छेद्यं पापाद्यार्थम् ।
अनयोः प्रश्नपूर्वकत्वम् ।
अप्रश्नपूर्वकत्वे यथा-- "भक्तिर्भवे न विभवे व्यसनं शास्त्रे न युवतिकामास्त्रे ।
चिन्ता यशसि न वपुषि प्रायः परिदृश्यते महताम्" ॥

"बलमार्तभयोपशान्तये विदुषां संमतये बहु श्रुतम् ।
वसु तस्य न केवलं विभोर्गुणवत्तापि परप्रयोजनम्" ॥

श्लेषमूलत्वे चास्य वैचित्र्यविशेषो यथा-- "यस्मिंश्च राजनि "जितजगति पालयति महीं चित्रकर्मसु वर्णसङ्करश्चापेषु गुणच्छेदः-" इत्यादि ।

--उत्तरं प्रश्नस्योत्तरादुन्नयो यदि ।
यच्चासकृदसंभाव्यं सत्यपि प्रश्न उत्तरम् ॥८२॥

यथा मम-- "वीभितुं न क्षमा श्वश्रूः स्वामी दूरतरं गतः ।
अहमेकाकिनी बाला तवेह वसतिः कुतः" ॥

अनेन पथिकस्य वसतियाचनं प्रतीयते ।
"का विसमा देव्यगई किं लद्धव्वं जणो गुणग्गाही ।
कि सोक्खं सुकलत्तं किं दुग्गोज्भ्क्तं खलो लोओ" ॥

अत्रान्यव्यपोहे तात्पर्याभावात्परिसंख्यातो भेदः ।
न चेदमनुमानम्, साध्यसाधनयोर्द्वयोनिर्देश एव तस्याङ्गीकारात् ।
न च काव्यलिङ्गम्, उत्तरस्य प्रश्नं प्रत्यजनकत्वात् ।

दण्डापूपिकयान्यार्थागमोर्ऽथापत्तिरष्यते ।

"मूषिकेण दण्डो भक्षित" इत्यनेन तत्सहचरितमपूपभक्षणमर्थादायातं भवतीति नियतसमानन्यायादर्थान्तरमापततीत्येष न्यायो दण्डापूपिका ।
अत्र च क्वचित्प्राकरणिकादर्थादप्राकरणिकस्यार्थस्यापतनं क्वचिदप्राकरणिकार्थत्प्राकरणिकार्थस्येति द्वौ भेदौ ।
क्रमेणोदाहरणम्-- "हारो ऽयं हरिणाक्षीणां लुठति स्तनमण्डले ।
मुक्तानामप्यवस्थेयं के वयं स्मरकिङ्कराः" ॥

"विललाप स बाष्पगद्रदं सहजामप्यपहाय धीरताम् ।
अतितप्तमयो ऽपि मार्दवं भजते कैव कथा शरीरिणाम्" ॥

अत्र च समानन्यायस्य श्लेषमूलत्वे वैचित्र्यविशेषो यथोदाहृते-"हारो ऽयम्-" इत्यादौ न चेदमनुमानम्, समानन्यायस्य सम्बन्धरूपत्वाभावात् ।

विकल्पस्तुल्यबलयोर्विरोधश्चातुरीयु(य) तः ॥८३॥

यथा--"नमयन्तु शिरांसि धनूंषि वा कर्णपूरीक्रियन्तामाज्ञा मौर्व्यो वा" ।
अत्र शिरसां धनुषां च नमनयोः सन्धिविग्रहोपलक्षणत्वात् सन्धिविग्रहयोश्चैकदा कर्तुमशक्यत्वाद्विरोधः, स चैकपक्षाश्रयणपर्यवसानः ।
तुल्यबलत्वं चात्र धनुः शिरोनमनयोर्दूयोरपि स्पर्धया सम्भाव्यमानत्वात् ।
चातुर्यं चात्रौपम्यगर्भत्वेन ।
एवं "कर्णपूरीक्रियन्ताम्" इत्यत्रापि एवं-- "युष्माकं कुरुतां भवातिशमनं नेत्रे तनुर्वा हरेः" ।
अत्र श्लेषावष्टम्भेन चारुत्वम् ।
"दीयतामजितं वित्तं देवाय ब्राह्मणाय वा" ।
इत्यत्र चातुर्याभावान्नायमलङ्कारः ।

समुच्चयो ऽयमेकस्मिन् सति कार्यस्य साधके ।
खलेकपोतिकान्यायात्तत्करः स्यात्परो ऽपि चेत् ॥८४॥

गुणौ क्रिये वा युगपत्स्यातां यद्वा गुणक्रिये ।

यथा मम-- "हंहो धीरसमिर ! हन्त जननं ते चन्दनक्ष्माभृतो दाक्षिण्यं जगदुत्तरं परिचयो गोदावरीवारिभिः ।
प्रत्यङ्गं दहसीति मे त्वमपि चेदुद्दामदावाग्निव- न्मत्तोयं मलिनात्मको वनचरः किं वक्ष्यते कोकिलः" ॥

अत्र दाहे एकस्मिंश्चन्दनक्ष्माभृज्जन्मरूपे कारणे सत्यपि दाक्षिण्यादीनां हेत्वन्तराणामुपादानम् ।
अत्र सर्वेषामपि हेतूनां शोभनत्वात्सद्योगः ।
अत्रैव चतुर्थपादे मत्तादीनामशोभनानां योगादसद्योगः ।
सदसद्योगो यथा-- "शशी दिवसधूसरो गलितयौवना कामिनी सरो विगतवारिजं मुखमनक्षरं स्वाकृतेः ।
प्रभूर्धनपरायणः सततदुर्गतः सज्जनो नृपाङ्गनगतः खलो मनसि सप्त शल्यानि मे" ॥

इह केचिदाहुः--"शशिप्रभृतीनां शोभनत्वं खलस्याशोभनत्वं चेति सदसद्योगः" इति अन्ये तु--"शशिप्रभृतीनां स्वतः शोभनत्वं धूसरत्वादीनां त्वशोभनत्वमिति सदसद्योगः" ।
अत्र हि शशिप्रभृतिषु धूसरत्वादेरत्यन्तचितत्वमिति विच्छित्तिविशेषस्यैव चमत्कारविधायित्वम् ।
"मनसि सप्तशल्यानि मे" इति सप्तानामपि शल्यत्वेनोपसंहारश्च ।
"नृपाङ्गनगतः खल" इति तु क्रमभेदाद्दुष्टत्वमावहति सर्वत्र विशेष्यस्यैव शोभनत्वेन प्रक्रमादिति ।
इह च खलेकपोतवत्सर्वेषां कारणानां साहित्येनावतारः ।
समाध्यलङ्कारे त्वेककार्यं प्रति साधके समग्रे ऽप्यन्यस्य काकतालीयन्यायेनापतनमिति भेदः ।
"अरुणे च तरुणि नयने तव मलिनं च प्रियस्य मुखम् ।
मुखमानतं च सखि ते ज्वलितश्चास्यान्तरे स्मरज्वलनः" ॥

अत्राद्येर्ऽथे गुणयोर्यौगपद्यम्, द्वितीये क्रिययोः ।
उभयोर्यौगपद्ये यथा-- "कलुषं च तवाहितेष्वकस्मात्सितपङ्केरुहसोदरश्रि चश्रुः ।
पतितं च महीपतीन्द्र ! तेषां वपुषि प्रस्फुटमापदां कटाक्षैः" ॥

"धुनोति चासिं तनुते च कीर्तिम्" ।
इत्यादावेकाधिकरणे ऽप्येष दृश्यते ।
न चात्र दीपकम्, एते हि गुणक्रियायौगपद्ये समुच्चयप्रकारा नियमेन कार्यकारणकालनियमविपर्ययरूपातिशयोक्तिमूलाः, दीपकस्य चातिशयोक्तिमूलत्वाभावः ।

समाधिः सुकरे कार्ये दैवाद्वस्त्वन्तरागमात् ॥८५॥

यथा--"मानमस्या निराकर्तुं पादयोर्मे पतिष्यतः ।
उपकाराय दिष्ट्येदमुदीर्णं घनगर्जितम्" ॥


प्रत्यनीकमशक्तेन प्रतीकारे रिपोर्यदि ।
तदीयस्य तिरस्कारस्तस्यैवोत्कर्षसाधकः ॥८६॥


तस्यैवेति रिपोरेव ।
यथा मम-- "मध्येन तनुमध्या मे मध्यं जितवतीत्ययम् ।
इभकुम्भौ भिनत्त्यस्याः कुचकुम्भनिभो हरिः" ॥

प्रसिद्धस्योपमानस्योपमेयत्वप्रकल्पनम् ।
निष्फलत्वाभिधानं वा प्रतीपमिति कथ्यते ॥८७॥

क्रमेण यथा-- "यत्त्वन्नेत्रसमानकान्तिसलिले मग्नं तदिन्दीवरम्" ।
इत्यादि ।
"तद्वक्त्रं यदि मुद्रिता शशिकथा हा हेम सा चेद्द्युतिः॑ तच्चक्षुर्यदि हारितं कुवलयैस्तच्चेत्स्मितं का सुधा ? ।
धिक्कन्दर्पधनुर्भ्रुवौ यदि च ते किं वा बहु ब्रूमहे यत्सत्यं पुनरुक्तवस्तुविमुखः सर्गक्रमो वेधसः" ॥

अत्र वक्त्रादिभिरेव चन्द्रादीनां शोभातिवहनात्तेषां निष्फलत्वम् ।

उक्त्वा चात्यन्तमुत्कर्षमत्युत्कृष्टस्य वस्तुनः ।
कल्पिते ऽप्युपमानत्वे प्रतीपं केचिदूचिरे ॥८८॥

यथा-- "अहमेव गुरुः सुदारुणानामिति हालाहल ! तात ! मा स्म दृप्यः ।
ननु सन्ति भवादृशानि भुवने ऽस्मिन् वचनानि दुर्जनानाम्" ॥

अत्र प्रथमपादेनोत्कर्षातिशय उक्तः ।
तदनुक्तौ तु नायमलङ्कारः ।
यथा-- "ब्रह्मेव ब्राह्मणो वदति" इत्यादि ।

मीलितं वस्तुनो गुप्तिः केनचित्तुल्यलक्ष्मणा ।

अत्र समानलक्षणं वस्तु क्वचिदागन्तुकम् ।
क्रमेण यथा-- "लक्ष्मीवक्षोजकस्तूरीलक्ष्म वक्षः स्थले हरेः ।
ग्रस्तं नालक्षि भारत्या भासा नीलोत्पलाभया" ॥

अत्र भगवतः श्यामा कान्तिः सहजा ।
"सदैव शोणोपलकुण्डलस्य यस्यां मयूखैररुणीकृतानि ।
कोपोपरक्तान्यपि कामिनीनां मुखानि शङ्कां विदधुर्न यूनाम्" ॥

अत्र माणिक्यकुण्डलस्यारुणिमा मेखे आगन्तुकः ।

सामान्यं प्रकृतस्यान्यतादात्म्यं सदृशैर्गुणैः ॥८९॥

यथा--"मल्लिकाचितधम्मिल्लाश्चारुचन्दनचचिताः ।
अविभाव्याः सुखं यान्ति चन्द्रिकास्वभिसारिकाः" ॥

मीलिते उत्कृष्टगुणेन निकृश्टगुणस्य तिरोधानम्, इह तूभयोस्तुल्यगुणतया भेदाग्रहः ।

तद्गुणः स्वगुणत्यगादत्युत्कृष्टगुणग्रहः ।

यथा--"जगाद वदनच्छद्मपद्मपर्यन्तपातिनः ।
नयन् मधुलिहः श्वैत्यमुदग्रदशनांशुभिः" ॥

मीलिते प्रकृतस्य वस्तुनो वस्त्वन्तरेणाच्छादनम्, इह तु वस्त्वन्तरगुणेनाक्रान्तता प्रतीयत इति भेदः ।

तद्रूपाननुहारस्तु हेतौ सत्यष्यतद्गुणः ॥९०॥


यथा--"हन्त ! सान्द्रेण रागेण भृते ऽपि हृदये मम ।
गुणगौर ! निषण्णो ऽपि कथं नाम न रज्यसि" ॥

यथा वा-- "गाङ्गमम्बु सितमम्बु यामुनं कज्जलाभमुभयत्र मज्जतः ।
राजहंस ! तव सैव शुभ्रता चीयते न च न चापचीयते" ॥

पूर्वत्रातिरक्तहृदयसंपर्कात् प्राप्तवदपि गुणगौरशब्दवाच्यस्य नायकस्य रक्तत्वं न निष्पिन्नम्, उत्तरत्राप्रस्तुतप्रशंसायां विद्यमानायामपि गङ्गायमुनापेक्षया प्रकृतस्य हंसस्य गङ्गायमुनयोः संपर्के ऽपि न तद्रूपता ।
अत्र च गुणाग्रहणरूपविच्छित्तिविशेषाश्रयाद्विशेषोक्तेर्भेदः, वर्णान्तरोत्पत्त्यभावाच्च विषमात् ।

संलक्षितस्तु सूक्ष्मोर्ऽथ आकारेणेङ्गितेन वा ।
कयापि सूच्यते भह्ग्या यत्र सूक्ष्मं तदुच्यते ॥९१॥


सूक्ष्मः स्थूलमतिभिरसंलक्ष्यः ।
अत्राकारेण यथा-- "वक्त्रस्यन्दिस्वेदबिन्दुप्रबन्धैर्दृष्ट्वा भिन्नं कुङ्कुमं कापि कण्ठे ।
पुंस्त्वं तन्व्या व्यञ्जन्ती वयस्या स्मित्वा पाणौ खड्गलेखां लिलेख" ॥

अत्र कयाचित्कुङ्कुमभेदेन संलक्षितं कस्याश्चित्पुरुषायितं पाणौ पुरुषचिह्नखड्गलेखालिखनेन सूचितम् ।
इङ्गितेन यथा-- सङ्केतकालमनसं विटं ज्ञात्वा विदग्धया ।
हसन्नेत्रापिताकूतं लीलापद्मं निमीलितम् ॥

अत्र विटस्य भ्रूविक्षेपादिना लक्षितः सङ्केतकालाभिप्रायो रजनीकालभाविना पद्मनिमीलनेन प्रकाशितः ।

व्याजोक्तिर्गोपनं व्याजादुद्भिन्नस्यापि वस्तुनः ।

यथा-- "शैलेन्द्रप्रतिपाद्यमानगिरिजाहस्तोपगूढोल्लस- द्रोमाञ्चादिविसंष्ठुलाखिलविधिव्यासङ्गभङ्गाकुलः ।
आः शैत्यं तुहिनाचलस्य करयोरित्यूचिवान् सस्मितं शैलान्तः पुरमातृमण्डलगणैर्दृष्टो ऽवताद्वः शिवः" ॥

नेयं प्रथमापह्नतिः, आपह्नवकारिणो विषयस्यानभिधानात् ।
द्वितीयापह्नुतेर्भेदश्च तत्प्रस्तावे दशितः ।

स्वभावोक्तिर्दुरूहार्थस्वक्रियारूपवर्णनम् ॥९२॥

दुरूहयोः कविमात्रवेद्ययोः अर्थस्य डिम्भादेः स्वयोस्तदेकाश्रययोश्चेष्टास्वरूपयोः ।
यथा मम-- "लाङ्गूलेनाभिहत्य क्षितितलमसकृद्दारयन्नग्रपद्भ्या- मात्मन्येवावलीय द्रुतमथ गगनं प्रोत्पतन् विक्रमेण ।
स्फूर्जद्धुङ्कारधोषः प्रतिदिशमखिलान् द्रावयन्नेष जन्तून कोपाविष्टः प्रविष्टः प्रतिवनमरुणोच्छूनचक्षूस्तरक्षुः" ॥


अद्भुतस्य पदार्थस्य भूतस्याथ भविष्यतः ।
यत्प्रत्यक्षायमाणत्वं तद्भाविकमुदाहृतम् ॥९३॥

यथा-- "मुनिर्जयति योगीन्द्रो महात्मा कुम्भसम्भवः ।
येनैकचुलुके दृष्टौ दिव्यौ तौ मत्स्यकच्छपौ" ॥

यथा वा-- "आसीदञ्जनमत्रेति पश्यामि तव लोचने ।
भाविभूषणसम्भारां साक्षात्कुर्वे तवाकृतिम्" ॥

न चायं प्रसादाख्यो गुणः, भूतभाविनोः प्रत्यक्षायमाणत्वे तस्याहेतुत्वात् ।
न चाद्भुतो रसः, विस्मयं प्रत्यस्य हेतुत्वात् ।
न चातिशयोक्तिरलङ्कारः, अध्यवसायाभावात् ।
न च भ्रान्तिमान्, भूतभाविनोर्भूतभावितयैव प्रकाशनात् ।
न च स्वभावोक्तिः, तस्य लौकिकवस्तुगतसूक्ष्मधर्मस्वभावस्यैव यथावद्वर्णनं स्वरूपम्॑ अस्य तु वस्तुनः प्रत्यक्षायमाणस्वरूपो विच्छित्तिविशेषो ऽस्तीति ।
यदि पुनर्वस्तुनः क्वचित्स्वभावोक्तावप्यस्या विच्छित्तेः सम्भवस्तदोभयोः सङ्करः ।
"अनातपत्त्रो ऽप्ययमत्र लक्ष्यते सितातपत्त्रैरिव सर्वतो वतः ।
अचामरो ऽप्येष सदैव वीज्यते विलासबालव्यजनेन को ऽप्ययम्" ॥

अत्र प्रत्यक्षायमाणस्यैव वर्णनान्नायमलङ्कारः, वर्णनावशेन प्रत्यक्षायमाणत्वस्यैव स्वरूपत्वात् ।
यत्पुनरप्रत्यक्षायमाणस्यापि वर्णने प्रत्यक्षायमाणत्वं तत्रायमलङ्कारो भवितुं युक्तः, यथोदाहृते "आसीदञ्जनम्ऽ--इत्यादौ ।

लोकातिशयसंपत्तिवर्णनोदात्तमुच्यते ।
यद्वापि प्रस्तुतस्याङ्गं महतां चरितं भवेत् ॥९४॥

क्रमेणोदाहरणम्-- "अधः कृताम्भोधरमण्डलानां यस्यां शशाङ्कोपलकुट्टीमानाम् ।
ज्योत्स्नानिपातात्क्षरक्षतां पयोभिः केलीवनं वृद्धिमुरीकरोति" ॥

"नाभिप्रभिन्नाम्बुरुहासनेन संस्तूयमानः प्रथमेन धात्रा ।
अमुं युगान्तोचितयोगनिद्रः संहृत्य लोकान् पुरुषो ऽधिशते" ॥

रसभावौ तदाभासौ भावस्य प्रशमस्तथा ।
गुणीभूतत्वमायान्ति यदालङ्कृतयस्तदा ॥९५॥

रसवत्प्रेय ऊर्जस्वि समाहितमिति क्रमात् ।

तदाभासौ रसाभासो भावाभासश्च ।
तत्र रसयोगाद्रसवदलङ्कारो यथा-- "अयं स रसनोत्कर्षो-" इत्यादि ।
अत्र शृङ्गारः करुणस्याङ्गम् ।
एवमन्यत्रापि ।
प्रकृष्टप्रियत्वात्प्रेयः ।
यथा मम-- "आमीलितालसविवतिततारकाक्षीं मत्कण्ठबन्धनदरश्लथबाहुवल्लीम् ।
प्रस्वेदवारिकणिकाचितघण्डबिम्बां संस्मृत्य तामनिशमेति न शान्तिमन्तः" ॥

अत्र संभोगशृङ्गारः स्मरणाख्यभावस्याङ्गम् ।
स च विप्रलम्भस्य ।
ऊर्जो बलम्, अनौचित्यप्रवृत्तौ तदत्रास्तीत्यूर्जस्वि ।
यथा-- "वने ऽखिलकलासक्ताः परिहृत्य निजस्त्रियः ।
त्वद्वैरिवनितावृन्दे पुलिन्दाः कुर्वते रतिम्" ॥

अत्र शृङ्गाराभासो राजविषयकरतिभावस्याङ्गम् ।
एवं भावाभासो ऽपि ।
समाहितं परिहारः ।
यथा--"अविरलकरवालकम्पनैर्भ्रुकुटीतर्जनगर्जनैर्मुहुः ।
ददृशे तव वैरिणां मदः स गतः क्वापि तवेक्षणे क्षणात्" ॥

अत्र मदाख्यभावस्य प्रशमो राजविषयरतिभावस्याङ्गम् ।

भावस्य चोदये संधौ मिश्रत्वे त तदाख्यकाः ॥९६॥

तदाख्यका भावोदयभावसंधिभावशबलनामानो ऽलङ्काराः ।
क्रमेणोदाहरणम्- "मधुपानप्रवृत्तास्ते सुहृद्भिः सह वैरिणः ।
श्रुत्वा कुतो ऽपि त्वन्नम लेभिरे विषमां दशाम्" ॥

अत्र त्रासोदयो राजविषयरतिभावस्याङ्गम् ।
"जन्मान्तरीणरमणस्याङ्गसङ्गसमुत्सुका ।
सलज्जा चान्तिके सख्याः पातु नः पार्वती सदा" ॥

अत्रौत्सुक्यलज्जयोश्च संधिर्देवताविषयरतिभावस्याङ्गम् ।
"पश्येत्कश्चिच्चल चपल ! रे ! का त्वारहं कुमारी हस्तालम्बं वितर हहहा व्युत्क्रमः क्वासि यासि ।
इत्थं पृथ्वीपरिवृढ ! भवद्विद्विषो ऽरण्यवृत्तेः कन्या कञ्चित्फलकिसलयान्याददानाभिधत्ते" ॥

अत्र शङ्कासूयाधृतिस्मृतिश्रमदैन्यविबोधौत्सुक्यानां शबलता राजविषयरतिभावस्याङ्गम् ।
इह केचिदाहुः--"वाच्यवाचकरूपालङ्करणमुखेन रसाद्युपकारका एवालङ्काराः, रसादयस्तु वाच्यवाचकाभ्यामुपकार्या एवेति न तेषामङ्कारता भवितुं युक्ता" इति ।
अन्ये तु --"रसाद्युपकारमात्रेणेहालङ्कृतिव्युपदेशो भाक्तश्चिरन्तनप्रसिद्ध्याङ्गीकार्य एव" इति ।
अपरे च--"रसाद्युपकारमात्रेणालङ्कारत्वं मुख्यतो रूपकादौ तु वाच्याद्युपधानम्, अजगलस्तनन्यानेन" इति ।
अभियुक्तास्तु--"स्वव्यञ्जकवाच्यवाचकाद्युपकृतैरङ्गभूतैः रसादिभिरङ्गिनो रसादेर्वाच्यवाचकोपस्कारद्वारेणोपकुर्वद्भिरलङ्कृतिव्यपदेशो लभ्यते ।
समासोक्तौ तु नायिकादिव्यवहारमात्रस्यैवालङ्कृतिता, न त्वास्वादस्य, तस्योक्तरीतिविरहात्" इति मन्यन्ते ।
अत एव ध्वनिकारेणोक्तम्-- "प्रधाने ऽन्यत्र वाक्यार्थे यत्राङ्गं तु रसादयः ।
काव्ये तस्मिन्नलङ्कारो रसादिरिति मे मतिः" ॥

यदि च रसाद्युपकारमात्रेणालङ्कृतित्वं तदा वाचकदिष्वपि तथा प्रसज्येत ।
एवं च यच्च कैश्चिदुक्तम्--"रसादीनामङ्गित्वे रसवदाद्यलङ्कारः, अङ्गत्वे तु द्वितीयोदात्तालङ्कारः" इति तदपि परास्तम् ।

यद्येत एवालङ्काराः परस्परविमिश्रिताः ।
तदा पृथगलङ्कारौ संसृष्टिः सङ्करस्तथा ॥९७॥

यथा लौकिकालङ्काराणामपि परस्परमिश्रणे पृथक्चारुत्वेन पृथगलङ्कारत्वं तथोक्तरूपाणां काव्यालङ्काराणामपि परस्परमिश्रत्वे संसृष्टिसङ्काराख्यौ पृथगलङ्कारौ ।
तत्र-- "मिथो ऽनपेक्षमेतेषां स्थितिः संसृष्टिरुच्यते ।
एतेषां शब्दार्थालङ्काराणाम् ।
यथा-- "देवः पायादपायान्नः स्मेरेन्दीवरलोचनः ।
संसारध्वान्तविध्वंसहंसः कंसनिसूदनः" ॥

अत्र पायादपायादिति यमकम्, संसारेत्यादौ चानुप्रास इति शब्दालङ्कारयोः संसृष्टिः ।
द्वितीये पादे उपमा, द्वितीयार्धे च रूपकमित्यर्थालङ्कारयोः संसृष्टिः ।
एवमुभयोः स्थितत्वाच्छब्दार्थालङ्कारसंसृष्टिः ।

अङ्गाङ्गित्वे ऽलङ्कृतीनां तद्वदेकाश्रयस्थितौ ।
संदिग्धत्वे च भवति सङ्करस्त्रिविधः पुनः ॥९८॥

अङ्गाङ्गिभावो यथा-- "आकृष्टिवेगविगलद्भुजगेन्द्रभोग- निर्मोकपट्टपरिवेष्टनायाम्बुराशेः ।
मन्थव्यथाव्युपशमार्थमिवाशु यस्य मन्दाकिनी चिरमवेष्टत पादमूले" ॥

अत्र निर्मोकपट्टापह्नवेन मन्दाकिन्या आरोप इत्यपह्नुतिः ।
सा च मन्दा किन्या वस्तुवृत्तेन यत्पादमूलवेष्टनं तच्चरणमूलवेष्टनमिति श्लेषमुत्थापयतीति तस्याङ्गम् ।
श्लेषञ्च पादमूलवेष्टनमेव चरणमूलवेष्टदमित्यतिशयोक्तरेङ्गम्, अतिशयोक्तिश्च "मन्थव्यथाव्युपशमार्थमिव" इत्युत्प्रेक्षाया अङ्गम् ।
उत्प्रेक्षा चाम्बुराशिमन्दाकिन्योर्नायकनायिकाव्यवहारं गमयतीति समासोक्तेरङ्गम् ।
यथा वा-- "अनुरागवती संध्यां दिवसस्तत्पुरः सरः ।
अहो ! दैवगतिश्चित्रा तथापि न समागमः" ॥

अत्र समासोक्तिविशेषोक्तेरङ्गम् ।
संदेहसङ्करो यथा-- "इदमाभाति गगने भिन्दानं सन्ततं तमः ।
अमन्दनयनान्दकरं मण्डलमैन्दवम्" ॥

अत्र किं मुखस्य चन्द्रतयाध्वसानादतिशयोक्तिः, उत इदमिति मुखं निर्दिश्य चन्द्रत्वारोपाद्रूपकम्, अथवा इदमिति मुखस्य चन्द्रमण्डलस्य च द्वयोरपि प्रकृतयोरेकधर्माभिसंबन्धात्तुल्ययोगिता, आहोस्विच्चन्द्रस्याप्रकृतत्वाद्दीपकम्, किं वा विशेषणसाम्यादप्रस्तुतस्य मुखस्य गम्यत्वात्समासोक्तिः, यद्वाप्रस्तुतचन्द्रवर्णनया प्रस्तुतस्य मुखस्यावगतिरित्यप्रस्तुतप्रशंसा, यद्वा मन्मथोद्दीपनः कालः स्वकार्यभूतचन्द्रवर्णनामुखेन वणित इति पर्यायोक्तिरिति बहूनामलङ्कराणां संदेहात्संदेहसङ्करः ।
यथा वा--"मुखचन्द्रं पश्यामि" इत्यत्र किं मुखं चन्द्र इव इत्युपमा ? उत चन्द्र एवेति रूपकमिति संदेहः ।
साधकबाधकयोर्द्वयोरेकतरस्य सद्भावे न पुनः संदेहः ।
यथा-- "मुखचन्द्रं चुम्बति" इत्यत्र चुम्बनं मुखस्यानुकूलमित्युपमायाः साधकम् ।
चन्द्रस्य तु प्रतिकूलमिति रूपकस्य बाधकम् ।
"मुखचन्द्रः प्रकाशते" इत्यत्र प्रकाशाख्यो धर्मो रूपकस्य साधको मुखे उपचरितत्वेन संभवतीति नोपमाबाधकः ।
"राजनारायणं लक्ष्मीस्त्वामालिङ्गति निर्भरम्" ।
अत्र योषित आलिङ्गनं नायकस्य सादृश्ये नोचितमिति लक्ष्म्यालिङ्गनस्य राजन्यासंभवादुपमाबाधकम्, नारायणे संभवाद्रूपकम् ।
एवम्-- "वदनाम्बुजमेणाक्ष्या भाति चञ्चललोचनम्" ।
अत्र वदने लोचनस्य सम्भवादुपमायाः साधकता, अम्बुजे चासंभवाद्रूपकस्य बाधकता ।
एवं--"सुन्दरं वदनाम्बुजम्" इत्यादौ साधारणधर्मप्रयोगे "उपमितं व्याघ्रादिभिः सामान्याप्रयोगे" इति वचनादुपमासमासो न संभवतीत्युपमाया बाधकः ।
एवं चात्र मयूरव्यंसकादित्वाद्रूपकसमास एव ।
एकाश्रयानुप्रवेशो यथा मम-- "कटाक्षेणापीषत्क्षणमपि निरीक्षेत यदि सा तदानन्दः सान्द्रः स्फुरति पिहिताशेषविषयः ।
सरोमाञ्चोदञ्चत्कुचकलशनिभिन्नवसयः परीरम्भारम्भः क इव भविताम्भोरुहदृशः" ॥

अत्र कटाक्षेणापीषत्क्षणमपीत्यत्रच्छेकानुप्रासस्य निरीक्षेतेत्यत्र क्षकारमादाय वृत्त्यनुप्रासस्यचैकाश्रये ऽनुप्रवेशः ।
एवं चात्रैवानुप्रसार्थापत्त्यलङ्कारयोः ।
यथा वा-- "संसारध्वान्तविध्वंस--" इत्यत्र रूपकानुप्रासयोः ।
यथा वा--"कुरबकारवकारणतां ययुः" इत्यत्र रबका रवका इत्येकं बकारवकार इत्येकमिति यमकयोः ।
यथा वा-- "अहिणअपओअरसिएसु पहिअसामाहएसु दिअहेसु ।
रहसपसारिअगीआणं णच्चिजं मोरविन्दाणम्" ॥

अत्र "पहिअसामाइएसु" इत्येकाश्रये पथिकशयामायितेत्युपमा, पथिकसामाजिकेष्वितिरूपकं प्रविष्टमिति ।

श्रीचन्द्रशेखरमहाकविचन्द्रसूनु- श्रीविश्वनाथकविराजकृतं प्रबन्धम् ।
साहित्यदर्पणममुं सुधियो विलोक्य साहित्यतत्त्वमखिलं सुखमेव वित्त ॥९९॥


यावत्प्रसन्नेन्दुनिभानना श्रीर्नारायणस्याङ्गमलङ्करोति ।
तावन्मनः संमदयन् कवीनामेष प्रबन्धः प्रथितो ऽस्तु लोके ॥१००॥ 

इत्यालङ्कारिकचक्रवर्तिसान्धिविग्रहिकमहापात्रश्रीविश्वनाथकविराजकृते साहित्यदर्पणे दशमः परिच्छेदः ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP