अथ केयमभिनवा व्यञ्जना नाम वृत्तिरित्युच्यते---
वृत्तीनां विश्रान्तेरभिधातत्पर्यलक्षणाख्यानाम् ।
अङ्गीकार्या तुर्या वृत्तिर्बोधे रसादीनाम् ॥१॥
अभिधायाः संकेतितार्थमात्रबोधनविरताया न वस्त्वलङ्काररसादिव्यङ्ग्यबोधने क्षमत्वम् ।
न च संकेतितो रसादिः ।
नहि विभावाद्यभिधानमेव तदभिधानम्, तस्य तदेकरूप्यानङ्गीकारात् ।
यत्र च स्वशब्देनाभिधानं तत्र प्रत्युत दोष एवेति वक्ष्यामः ।
क्वचिच्च "शृङ्गाररसो ऽयम्" इत्यादौ स्वशब्देनाभिधाने ऽपि न तत्प्रतीतिः, तस्य स्वप्रकाशानन्दरूपत्वात् ।
अभिहितान्वयवादिभिरङ्गीकृता तात्पर्याख्या वृत्तिरपि संसर्गमात्रे परिक्षीणा न व्यङ्भर्बोधनी ।
यच्च केचिदाहुः---"सो ऽयमिषोरिव दीर्घदीर्घतरो ऽभिधाव्यापरः" इति ।
यच्चधनिकेनोक्तम्--- "तात्पर्याव्यतिरेकाच्च व्यञ्जकत्वस्य न ध्वनिः ।
यावत्कार्यप्रसारित्वात्तात्पर्यं न तुलाधृतम्" ॥
इति ।
तयोरुपरि "शब्दबुद्धिकर्मणां विरम्य व्यापाराभावः" इति वादिभिरेव पातनीयो दण्डः ।
एवं च किमिति लक्षणापुयपास्या ? दीर्घदीर्घतराभिधाव्यापारेणापि तदर्थबोधसिद्धेः ।
किमिति च "ब्राह्मण ! पुत्रस्ते जातः, कन्या ते गर्भिणी" इत्यादावपि हर्षशोकादीनामपि न वाच्यत्वम् ।
यत्पुनरूक्तं "पौरुषेयमपौरुषेयं च वाक्यं सर्वमेव कार्यपरम्, अतत्परत्वे ऽनुपादेयत्वादुन्मत्तवाक्यवत् ।
ततश्च काव्यशब्दानां निरतिशयसुखास्वादव्यतिरेकेण प्रतिपाद्यप्रतिपादकयोः प्रवृत्त्यौपयिकप्रयोजनानुपलब्धेर्निरतिशयमुखास्वाद एव कार्यत्वेनावधार्यते ।
"यत्परः शब्दः स शब्दार्थः" इति न्यायात्" इति ।
तत्र प्रष्टव्यम्-किमिदं तत्परत्वं नाम, तदर्थत्वं वा, तात्पर्यवृत्त्या तद्वोधकत्वं वा ? आद्ये न विवादः, व्यङ्ग्यत्वे ऽपि तदर्थतानपायात् ।
द्वितीये तु--केयं तात्पर्याख्या वृत्तिः, अभिहितान्वयवादिभिरङ्गीकृता, तदन्या वा ? आद्ये दत्तमेवोत्तरम् ।
द्वितीये तु---नाममात्रे विवादः, तन्मते ऽपि तुरीयवृत्तिसिद्धेः ।
नन्वस्तु युगपदेव तात्पर्यशक्त्या विभावादिसंसर्गस्य रसादेश्च प्रकाशनम्-इति चेत् ? न, तयोर्हेतुफलभावाङ्गीकारात् ।
यदाह मुनिः--"विभावानुभावव्यभिचारिसंयोगद्रसनिष्पत्तिः" इति ।
सहभावे च कुतः सव्येतरविषाणयोरवि कार्यकारणभावः ? पौर्वापर्यविपर्ययात् ।
"गङ्गायां घोषः" इत्यादौ तटाद्यर्थमात्रबोधविरताया लक्षणायाश्च कुतः शीतत्वपावनत्वादिव्यङ्ग्यबोधकता ।
तेन तुरीया वृत्तिरुपास्यैवेति निर्विवादमेतत् ।
किंच---
बोद्धृस्वरूपसंख्यानिमित्तकार्यप्रतीतिकालानाम् ।
आश्रयविषयादीनां भेदाद्भिन्नो ऽभिधेयतो व्यङ्ग्यः ॥२॥
वाच्यार्थव्यङ्ग्यार्थयोर्हि पदतदर्थमात्रज्ञाननिपुणैर्वैयाकरणैरपि सहृदयैरेव च संवेद्यतया बोद्धृभेदः ।
"भम धम्मिअ--" (२४२ पृ.) इत्यादौ क्वचिद्वाच्ये विधिरूपे निषधरूपतया, क्वचित् "निः शेषच्युतचन्दनम्-" (६२ पृ.) इत्यादौ निषेधरूपे विधिरूपतया च स्वरूपभेदः ।
"गतो ऽस्तकर्कः" इत्यादौ च वाच्योर्ऽथ एक एव प्रतीयते ।
व्यङ्ग्यस्तु तद्वोद्ध्रादिभेतात् क्वचित् "कान्तमभिसर" इति, "गावो निरुध्यन्ताम्" इति, "नायकस्यायमागमनावसरः" इति, "संतापो ऽधुना नास्ति" इत्यादिरूपेणानेक इति संख्याभेदः ।
वाच्यार्थः शब्दोच्चारणमात्रेण वेद्यः, एष तु तथाविधप्रतिभानैर्मल्यादिनेति निमित्तभेदः ।
प्रतीतिमात्रकरणाच्चमत्कारकरणाच्च कार्यभेदः ।
केवलरूपतया चमत्कारितया च प्रतीतिभेदः ।
पूर्वपश्चाद्भावेन च कालभेदः ।
शब्दाश्रयत्वेन शब्दतदेकदेशतदर्थवर्णसंघटनाश्रयत्वेन चाश्रयभेदः ।
"कस्स व ण होइ रोसो दट्ठूणपिआएं सव्वणं अहरं ।
सब्भमरपडमग्घाइणि वारिअवामे सहसु एङ्णिं" ॥
इति सखीतत्कान्तविषयत्वेन विषयभेदः ।
तस्मान्नाभिधेय एव व्यङ्ग्यः ।
तथा---
प्रागसत्वाद्रसादेर्नो बोधिके लक्षणाभिधे ।
किञ्चि मुख्यार्थबाधस्य विरहादपि लक्षणा ॥३॥
"न बोधिका" इति शेषः ।
नहि को ऽपि रसनात्मकव्यापारद्भिन्नो रसादिपदप्रतिपाद्यः प्रमाणसिद्धो ऽस्ति, यमिमे लक्षणाभिधे बोधयेताम् ।
किंञ्च, यत्र"गङ्गायां घोषः" इत्यादावुपात्तशब्दार्थानां बुभूषन्नेवान्वयो ऽनुपपत्त्या बाध्यते तत्रैव हि लक्षणायाः प्रवेशः ।
यदुक्तं न्यायकुसुमाञ्जलावुदयनाचार्यैः--- "श्रुतान्वयादनाकाङ्क्षं न वाक्यं ह्यन्यदिच्छति ।
पदार्थान्वयवैधुर्यात्तदाक्षिप्तेन सङ्गतिः" ॥
न पुनः "शून्यं वासगृहम्--" इत्यादौ (२२ पृ.) मुखायाथबाधः ।
यदि च "गङ्गायां घोषः" इत्यादौ प्रयोजनं लक्ष्यं स्यात्, तीरस्य मुख्यार्थत्वं बाधितत्वं च स्यात् ।
तस्यापि च लक्ष्यतया प्रयोजनान्तरं तस्यापि प्रयोजनान्तरमित्यनवस्थापातः ।
न चापि प्रयोजनविशिष्ट एव तीरे लक्षणा ।
विषयप्रयोजनयोर्युगपत्प्रतीत्यनभ्युपगमात् ।
नीलादिसंवेदनानन्तरमेव हि ज्ञातताया अनुव्यवसायस्य वा संभवः ।
नानुमानं रसादीनां व्यङ्ग्यानां बोधनक्षमम् ।
आभासत्वेन हेतूनां स्मृतिर्न च रसादिधीः ॥४॥
व्यक्तिविवेककारेण हि--"यापि विभावादिभ्यो रसादीनां प्रतीतिः सानुमान एवान्तर्भवितुमर्हति ।
विभावानुभावव्यभिचारिप्रतीतिर्हि रसादिप्रतीतेः साधनमिष्यते" ।
ते हि रत्यादीनां भावानां कारणकार्यसहकारिभूतास्ताननुमापयन्त एव रसादीन्निष्पादयन्ति ।
त एव प्रतीयमाना आस्वादपदवी गताः सन्तो लसा उच्यन्ते, इत्यवश्यंभावी तत्प्रतीतिक्रमः केवलमाशुभावितयासौ न लक्ष्यते, यतो ऽयमद्याप्यभिव्यक्तिक्रमः" इति यदुक्तम् ।
तत्र प्रष्टव्यम्--किं शब्दाभिनयसमर्पितविभावादिप्रत्ययानुमितरामादिगतरागादिज्ञानमेव रसत्वेनाभिमतं भवतः, तद्भावनयाभावकैर्भाव्यमानः स्वप्रकाशानन्दो वा ।
आद्ये न विवादः, किन्तु "रामादिगतरगादिज्ञानं रससंज्ञया नोच्यते ऽस्माभिः" इत्येव विशेषः ।
द्वितीयस्तु व्याप्तिग्रहणाभावाद्धेतोराभासतयासिद्ध एव ।
यच्चोक्तं तेनैव--- "यत्र यत्रैवंविधानां विभावानुभावसात्त्विकसञ्चारिणामभिधानमभिनयो वा तत्र तत्र शृङ्गारादिरसाविर्भावः" इति सुग्रहैव व्याप्तिः पक्षधर्मता च ।
तया-- "यार्ऽथान्तराभिव्यक्तौ वः सामग्रीष्टा निबन्धनम् ।
सैवानुमितिपक्षे नो गमकत्वेन संमता" ॥
इति ।
इदमपि नो न विरुद्धम् ।
न ह्येवंविधा प्रतीतिरास्वाद्यत्वेनास्माकमभिमता किन्तु--स्वप्रकाशमात्रविश्रान्तः सान्द्रानन्दनिर्भरः ।
तेनात्र सिषाधयिषितादर्थादर्थान्तरस्य साधनाद्धेतोराभासता ।
यच्च "मम धम्मिअ--" इत्यादौ (२४२ पृ.) प्रतीयमानं वस्तु ।
"जलकेलितरलकरतलमुक्तपुनः पिहितराधिकावदनः ।
जगदवतु कोकयूनोर्विघटनसंघटनकौतुकी कृष्णः" ॥
इत्यादौ च रूपकालङ्कारादयो ऽनुमेया एव ।
तथाहि---"अनुमानं नाम पक्षसत्त्वसपक्षसत्त्वविक्षव्यावृत्तत्वविशिष्टाल्लिङ्गल्लिङ्गिनो ज्ञानम् ।
ततश्च वाच्यादसंबद्धोर्ऽथंस्तावन्न प्रतीयते ।
अन्यथातिप्रसङ्गः स्यात्, इति बोध्यबोधकयोरर्थयोः कश्चित्संबन्धो ऽस्त्येव ।
ततश्च बोधकोर्ऽथो लिङ्गम्, बोध्यश्च लिङ्गी, बोधकस्य चार्थस्य पक्षसत्त्वं निबद्धमेव ।
सपक्षसत्त्वविपक्षव्यावृत्तत्वे अनिबद्धे अपि सामर्थ्योदवसेये ।
तस्मादत्र यद्वाच्यार्थाल्लिङ्गरूपाल्लिङ्गिनो व्यङ्ग्यार्थस्यावगमस्तदनुमान एव पर्यवस्यति" इति ।
तन्न, तथा ह्यत्र "भम अम्मिअ-" इत्यादौ (२४२ पृदृ) गृहे श्वनिवृत्त्या विहितं भ्रमणं गोदावरीतीरे सिंहोपलब्धेरभ्रमणमनुमापयति" इति यद्वक्तव्यं तत्रानैकान्तिको हेतुः ।
भीरोरपि गुरोः प्रभोर्वा निदेशेन प्रियानुरागेण वा गमनस्य संभवात्, पुश्चल्या वचनं प्रामाणिकं न वेति संदिग्धासिद्धश्च ।
"जलकेलि-" इत्यत्र "य आत्मदर्शनादर्शनाभ्यां चक्रवाकविघटसंघटनकारी स चन्द्र एव" इत्यनुमितिरेवेयमिति न वाच्यम्, उत्त्रासकादावनैकान्तिकत्वात् ।
"एवंविधोर्ऽथ एवंविधार्थबोधक एवंविधार्थत्वात्, यन्नैवं तन्नैवम्" इत्यनुमाने ऽप्याभाससमानयोगक्षेमो हेतुः ।
"एवंविधार्थत्वात्" इति हेतुना एवंविधानिष्टसाधनस्याप्युपपत्तेः ।
तथा "दृष्टि हे प्रतिवेशिनि ! क्षणमिहाप्यस्मद्गृहे-" इत्यादौ (२५० पृदृ) नलग्रन्थीनां तनूल्लिखनम्, एकाकितया च स्त्रोतोगमनम्, तस्याः परकामुकोपभोगस्य लिङ्गिनो लिङ्गमित्युच्यते॑ तच्चात्रैवाभिहितेन स्वकान्तस्नेहेनापि संभवतीत्यनैकान्तिको हेतुः ।
यच्च "निःशेषच्युतचन्दनम्--" इत्यादौ ( ६२ पृ.) दूत्यास्तत्कामुकोपभोगो ऽनुमीयते तत्किं प्रतिपाद्यतया दूत्या, तत्कालसंनिहितैर्वान्यैः, तत्काव्यार्थभावनया वा सहृदयैः ।
आद्ययोर्न विवादः ।
तृतीये तु तथाविधाभिप्रायविरहस्थले व्यभिचारः ।
ननु वक्त्राद्यवस्थासहकृतत्वेन विशेष्यो हेतुरिति न वाच्यम् ।
एवंविधव्याप्त्यनुसंधानस्याभावात् ।
किञ्चैवंविधानां काव्यानां कविप्रतिभामात्रजन्मनां प्रामाण्यानावश्यकत्वेन संदिग्धासिद्धत्वं हेतोः ।
व्यक्तिवादिना चाधमपदसहायानामेवैषां पदार्थानां व्यञ्जकत्वमुक्तम्, तेन च तत्कान्तस्याधमत्वं प्रामाणिकं न वेति कथमनुमानम् ।
एतेनार्थापत्तिवेद्यत्वमपि व्यङ्ग्यानामपास्तम् ।
अर्थापत्तेरपि पूर्वसिद्धव्याप्तीच्छामुपजीव्यैव प्रवृत्तेः ।
यथा"यो जीवति स कुत्राप्यवतिष्ठते, जीवति चात्र गोष्ठ्यामविद्यमानश्चैत्रः" इत्यादि ।
किञ्चि---वस्त्रविक्रयादौ तर्जनीतोलनेन दशसंख्यादिवत्सूचनबुद्धिवेद्यो ऽप्ययं न भवति, सूचनबुद्धेरपि सङ्केतादिलौकिकप्रमाणसापेक्षत्वेनानुमानप्रकारताङ्गीकारात् ।
यच्च "संस्कारजन्यत्वाद्रसादिबुद्धिः स्मृतिः" इते केचित् ।
तत्रापि प्रत्यभिज्ञायामनैकान्तिकतया हेतोराभासता ।
"दुर्गालङ्घित-" इत्यादौ (५९ पृ.) च द्वितायार्थो नास्त्येव---इति यदुक्तं महिमभटटेन तदनुभवसिद्धिमपलपतो गजनिमीलिकैव ।
तदेवमनुभवसिद्धस्य तत्तद्रसादिलक्षणार्थस्याशक्यापलापतया तत्तच्छब्दाद्यन्वयव्यतिरेकानुविधायितया चानुमानादिप्रमाणावेद्यतया चाभिधादिवृत्तित्रयाबोध्यतया च तुरीया वृत्तिरुपास्यैवेति सिद्धम् ।
इयं च व्याप्त्याद्यनुसन्धानं विनापि भवतीत्यखिलं निर्मलम् ।
तत्किंनामिकेयं वृत्तिरित्युच्यते---
सा चेयं व्यञ्जनानाम वृत्तिरित्युच्यते बुधैः ।
रसव्यक्तौ पुनर्वृत्तिं रसनाख्यां परे विदुः ॥५॥
एतच्च विविच्योक्तं रसनिरूपणप्रस्ताव इति सर्वमवदातम् ।
इति सहित्यर्पणो व्यञ्जनाव्यापारनिरूपणो नाम पञ्चमः परिच्छेदः ।