साहित्य दर्पण - चतुर्थः परिच्छेदः

साहित्य दर्पण संस्कृत भाषा में साहित्य-विषयक महान ग्रन्थ है। इसके रचयिता विश्वनाथ हैं। साहित्य दर्पण के रचयिता का समय 14वीं शताब्दी ठहराया जाता है।


अथ काव्यभेदमाह--
काव्यं ध्वनिर्गुणीभूतव्यङ्ग्यं चेति द्विधा मतम् ।

तत्र---
वाच्यातिशयिनि व्यङ्ग्ये ध्वनिस्तत्काव्यमुत्तमम् ॥१॥

वाच्यादधिकचमत्कारिणि व्यङ्ग्यार्थे ध्वन्यते ऽस्मिन्निति व्युत्पत्त्या ध्वनिर्नामोत्तमं काव्यम् ।

भेदौ ध्वनेरपि द्वावुदीरितौ लक्षणाभिधामूलौ ।
अविवक्षितवाच्यो ऽन्यो विवक्षितान्यपरवाच्यश्च ॥२॥

तत्राविवक्षितवाच्यो नाम लक्षणामूलो ध्वनिः ।
लक्षणामूलत्वादेवात्र वाच्यमविवक्षितं बाधितस्वरूपम् ।
विवक्षितान्यपरवाच्यस्त्वभिधामूलः, अत एवात्र वाच्यं विवक्षितम् ।
अन्यपरं व्यङ्ग्यनिष्ठम् ।
अत्र हि वाच्योर्ऽथः स्वरूपं प्रकाशयन्नेव व्यङ्ग्यार्थस्य प्रकाशकः ।
यथा---प्रदीपो घटस्य ।
अभिधामूलस्य बहुविषयतया पश्चान्निर्देशः ।
अविवक्षितवाच्यस्य भेदावाह--
अर्थन्तरं संक्रमिते वाच्ये ऽत्यन्तं तिरस्कृते ।
अविवक्षितवाच्यो ऽपि ध्वनिर्द्वैविध्यमृच्छति ॥३॥

अविवक्षितवाच्यो नाम ध्वनिरर्थान्तरसङ्क्रमितवाच्यो ऽत्यन्ततिरस्कृतवाच्यश्चेति द्विविधः ।
यत्र स्वयमनुपयुज्यमानो मुख्योर्ऽथः स्वविशेषरूपेर्ऽथान्तरे परिणमति, तत्र मुख्यार्थस्य स्वविशेषरूपार्थान्तरसंक्रमितत्वादर्थान्तरसङ्क्रमितवाच्यत्वम् ।
यथा---"कदली कदली, करभः करभः, करिराजकरः करिराजकरः ।
भुवत्रितये ऽपि बिभर्ति तुलामिदमूरुयुगं न चमूरुदृशः" ॥

अत्र द्वितीयकदल्यादिशब्दाः पौनरुक्त्यभिया सामान्यकदल्यादिरूपे मुख्यार्थे बाधिता जाड्यादिगुणविशिष्टकदल्यादिरूपमर्थं बोधयन्ति ।
जाड्याद्यतिशयश्च व्यङ्ग्यः ।
यत्र पुनः स्वार्थं सर्वथा परित्यजन्नर्थान्तरे परिणमति, तत्र मुख्यार्थस्यात्यन्ततिरस्कृतत्वादत्यन्ततिरस्कृतवाच्यत्वम् ।
यथा--- निऋश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते ।
अत्रान्धशब्दो मुख्यार्थे बाधिते ऽप्रकाशरूपमर्थं बोधयति, अप्रकाशातिशयश्च व्यङ्ग्यः ।
अन्धत्वाप्रकाशत्वयोः सामान्यविशेषभावाभावान्नार्थान्तरसंक्रमितवाच्यत्वम् ।
यथा--- भण धम्मिअ वीसत्थो, सो सुणओ अज्ज मारिओ देण ।
गोलाणैकच्छकुडङ्गवासिणा दरिअसीहेण ॥

अत्र "भ्रम धार्मिक--" इत्यतो भ्रमणस्य विधिः प्रकृते ऽनुपयुज्यमानतया भ्रमणनिषेधे पर्यवस्यतीति विपरीतलक्षणाशङ्कान कार्या ।
यत्र खलु विधिनिषैधावुत्पत्स्यमानावेव निषधविध्योः पर्यवस्यतस्तत्रैव तदवसरः ।
यत्र पुनः प्रकरणादिपर्यालोचनेन विधिनिषधयोर्निषेधविधी अवगम्येते तत्र ध्वनित्वमेव ।
तदुक्तम् --- "क्वचिद्वाध्यतया ख्यातिः क्वचित् ख्यातस्य बाधनम् ।
पूर्वत्र लक्षणैव स्यादुत्तरत्राभिधैव तु" ॥

अत्राद्ये मुखायार्थस्यार्थान्तरे संक्रमणं प्रवेशः, न तु तिरोभावः ।
अत एवात्राजहत्स्वार्था लक्षणा ।
द्वितीये तु स्वार्थस्यात्यन्तं तिरस्कृतत्वाज्जहत्स्वार्था ।

विवक्षिताभिधेयो ऽपि द्विभेदः प्रथमं मतः ।
असंलक्ष्यक्रमो यत्र व्यङ्ग्यो लक्ष्यक्रमस्तथा ॥४॥

विवक्षितान्यपरवाच्यो ऽपि ध्वनिरसंलक्ष्यक्रमव्यङ्ग्यः संलक्ष्यक्रमव्यङ्ग्यश्चेति द्विविधः ।

तत्राद्यो रसभावादिरेक एवात्र गण्यते ।
एको ऽपि भेदो ऽनन्तत्वात् संख्येयस्तस्य नैव यत् ॥५॥

उक्तस्वरूपो भावादिरसंलक्ष्यक्रमव्यङ्ग्यः ।
अत्र व्यङ्ग्यप्रतीतेर्विभावादिप्रतितिकारणत्वात् क्रमो ऽवश्यमस्ति किन्तूत्पलपत्र्रशतव्यतिभेदवल्लाघवान्न संलक्ष्यते ।
एषु रसादिषु च एकस्यापि भेस्यानन्तत्वात्संख्यातुमशक्यत्वादसंलक्ष्यक्रमव्यङ्ग्यध्वनिर्नाम काव्यमेकभेदमेवोक्तम् ।
तथाहि---एकस्यैव "शृङ्गारस्यैको ऽपि संभोगरूपो भेदः परस्परालिङ्गनाधरपानचुम्बनादिभेदात् प्रत्येकं च निभावादिवैचित्र्यात्संखायतुमश्क्यः, का गणना सर्वेषाम् ।

शब्दार्थोभयशक्त्युत्थे व्यङ्क्ये ऽनुस्वानसन्निभे ।
ध्वनिर्लक्ष्यक्रमव्यङ्ग्यस्त्रिविधः कथितो बुधैः ॥६॥

क्रमलक्ष्यत्वादेवानुरणनरूपो यो व्यङ्ग्यस्तस्य शब्दशक्त्युद्भवत्वेन, अर्थशक्त्युद्भवत्वेन शब्दार्थशक्त्युद्भवत्वेन च त्रैविध्यात्संलक्ष्यक्रमव्यङ्ग्यनाम्नोध्वनेः काव्यस्यापि त्रैविध्यम् ।
तत्र---
वस्त्वलङ्काररूपत्वाच्छब्दशक्त्युद्भवोद्विधा ।

अलङ्कारशब्दस्य पृथगुपादानादनलङ्कारं वस्तुमात्रं गृह्यते ।
तत्र वस्तुरूपः शब्दशक्त्युद्भवो व्यङ्ग्यो यथा--- पन्थि अ ! ण एत्थ सत्थरमत्थि मणं पत्थरत्थले गामे ।
उण्णअ पओहरं पेक्खिअ ऊण जै वसति ता वससु ॥

अत्र सत्थरादिशब्दशक्त्या यद्युपभोगक्षमो ऽसि तदास्स्वेति वस्तु व्यज्यते ।
अलङ्काररूपो यथा--"दुर्गालङ्घितविग्रहः" इत्यादौ (५९ पृदृ) अत्र प्राकरणिकस्य उमानाममहादेवी-वल्लभ-भानुदेवनाम-नृपतेर्वर्णने द्वितीयार्थसूचितमप्रारणिकस्य पार्वतीवल्लभस्य वर्णनमसम्बनद्धं मा प्रसङ्क्षीदिति ईश्वरभानुदेवयोरुपमानोपमेयभावः कल्प्यते तदत्र उमावल्लभ उमावल्लभ इवेत्युपमालङ्कारो व्यङ्ग्यः ।
यथा वा--- "अमितः समितः प्राप्तैरुत्कर्षैर्हर्षद ! प्रभो ! ।
अहितः सहितः साधु यशोभिरसतामसि" ॥

अत्रामित इत्यादावपिशब्दाभावाद्विरोधाभासो व्यङ्ग्यः ।
व्यङ्ग्यस्यालङ्कार्यत्वे ऽपि ब्राह्मणश्रमणन्यायादलङ्कारत्वमुपचर्यते ।

वस्तु वालङ्कृतिर्वापि द्विधार्थः सम्भवी स्वतः ॥७

कवेः प्रौठोक्तिसिद्धो वा तन्निबद्धस्य वेति षट् ।
षड्भिस्तैर्व्यज्यमानस्तु वस्त्वलङ्काररूपकः ॥८॥

अर्थशतयुद्भवो व्यङ्ग्यो याति द्वादशभेदताम् ।

स्वतः सम्भवी औचित्याद् बहिरपि सम्भाव्यमानः ।
प्रौढोक्त्या सिद्धः, न त्वौचित्येन ।
तत्र क्रमेण यथा-- दृष्टिं हे प्रतिवेशिनि ! क्षणमिहाप्यस्मद्गृहे दास्यसि प्रायेणास्य शिशोः पिता न विरसाः कौपीरपः पास्यति ।
एकाकिन्यपि यामि सत्वरमितः स्त्रोतस्तमालाकुलं नीरन्ध्राः तनुमालिखन्तु जरठच्छेदानलग्रन्थयः ॥

अत्र स्वतः सम्भविना वस्तुना तत् प्रतिपादिकाया भावपरपुषोपयोगजनखक्षतादिगोपनरूपं वस्तुमात्रं व्यज्यते ।
दिशि मन्दायते तेजो दक्षिणस्यां रवेरपि ।
तस्यामेव रघोः पाण्ड्याः प्रतापं न विषेहिरे ॥

अत्र स्वतः सम्भविना वस्तुना रवितेजसो रघुप्रतापो ऽधिक इति व्यतिरेकालङ्कारो व्यज्यते ।
आपतन्तममुं दूरादूरीकृतपराक्रमः ।
बलो ऽवलोकयामास मातङ्गमिव केसरी ॥

अत्रोपमालङ्कारेण स्वतः सम्भविना व्यञ्जकार्थेन बलदेवः क्षणेनैव वेणुदारिणः क्षयं करिष्यतीति वस्तु व्यज्यते ।
गाढकान्तदशनक्षतव्यथा सङ्कटादरिबधूजनस्य यः ।
ओष्ठविद्रुमदलान्यमोचयन्निदर्शन् युधि रुषा निजाधरम् ॥

अत्र स्वतः सम्भविना विरोधालङ्कारेणाधरो निर्दष्टः शत्रवो व्यापादिताश्चेति समुच्चयालङ्कारो व्यङ्ग्यः ।
"सजेहि सुरहिमासो ण दाव अप्पेइ जुऐजणलक्खमुहे ।
अहिणवसहआरमुहे णवपत्तले अणङ्गस्स सरे" ॥

अत्र वसन्तः शरकारः, कामो धन्वी, युबतयो लक्ष्यम्, पुष्पाणि शरा इति कविप्रौढोक्तिसिद्धं वस्तु प्रकाशीभवन् मदनविजृम्भणरूपं वस्तु व्यनक्ति ।
"इजनीषु विमलभानोः करजालेन प्रकाशितं वीर ! धवलयति भुवनमण्डलमखिलं तव कीतिसंततिः सतम्" ॥

अत्र कविप्रौढोक्तिसिद्धेन वस्तुना कीतिसन्ततेश्चन्द्रकरजालादधिककालप्रकाशकत्वेन व्यतिरेकालङ्कारो व्यङ्क्यः ।
"दशाननकिरीटेभ्यस्तत्क्षणं राक्षसश्रियः ।
मणिव्याजेन पर्यस्ताः पृथिव्यामश्रुबिन्दवः" ॥

अत्र कविप्रौढोक्तिसिद्धेनापह्नुत्यलङ्कारेण भविष्यद्राक्षसश्रीविनाशरूपं वस्तु व्यज्यते ।
"धम्मिल्ले नवमल्लिकासमुदयो हस्ते सिताम्भोरुहं हारः कण्ठतटे पयोधरयुगे श्रीखण्डलेपो घनः ।
एको ऽपि त्रिकलिङ्गभूमितिलक ! त्वत्कीर्तिराशिर्ययौ ।
नानामण्डनतां पुरन्दपुरीवामभ्रुवां विग्रहे" ॥

अत्र कविप्रौढोक्तिसिद्धेन रूपकालङ्कारेण भूमिष्ठो ऽपि स्वर्गस्थानामुपकारं करोषीति विभावनालङ्कारो व्यज्यते ।
"शिखरिणि क्व नु नाम कियच्चिरं किमभिधानमसावकरोत्तपः ।
सुमुखै ! येन तवाधरपाटलं दशति बिम्बफलं शुकशावकः" ॥

अत्रानेन कविनिबद्धस्य कस्यचित्कामिनः प्रौढोक्तिसिद्धेन वस्तुना तवाधरः पुण्यातिशयलभ्य इति वस्तु प्रतीयते ।
"सुभगे ! कोटिसंख्यत्वमुपेत्य मदनाशुगैः ।
वसन्ते पञ्चता त्यक्ता पञ्चतासीद्वियोगिनाम्" ॥

अत्र कविनिबद्धवक्तृप्रौढोक्तिसिद्धेन कामशराणां कोटिसंख्यत्वप्राप्त्यो निखिलवियोगिमरणोन वस्तुना शराणां पञ्चता शरान् विमुच्य वियोगिनः श्रितेवे त्युत्प्रेक्षालङ्कारो व्यज्यते ।
"मल्लिकामुकुले चणिड ! भाति गुञ्जन् मधुव्रतः ।
प्रयाणो पञ्जबाणस्य शङ्वमापूरयन्निव" ॥

अत्र कविनिबद्धवक्तृप्रौढोक्तिसिद्धेनोत्प्रेक्षालङ्कारेण कामस्यायमुन्मादकः कालः प्राप्तस्तत्कथं मानिनि मानं न मुञ्चसीति वस्तु व्यज्यते ।
"महिलासहस्सभरिए तुह हिअए सुहअ सा अमाअन्ती ।
अणुदिणमणण्णकम्मा अङ्ग तणुत्त्रं पि तणुएइ" ॥

अत्रामाअन्तीति कविनिबद्धवक्तृप्रौढोक्तिसिद्धेन काव्यलिङ्गालङ्कारेण तनोस्तनूकरणो ऽपि तव हृदये न वर्तत इति विशेषोक्त्यलङ्कारो व्यज्यते ।
न खलु कवेः कविनिबद्धस्येव रागाद्याविष्टता अतः कविनिबद्धवक्तृप्रौढोक्तिः कविप्रौढोक्तेरधिकं सहृदयवमत्कारकारिणीति पृथक्प्रतिपादिता ।
एषु चालङ्कृतिव्यञ्जनस्थले रूपणोत्प्रेक्षणव्यतिरेचनादिमात्रस्य प्राधान्यं सहृदयसंवेद्यम्, न तु रूप्यादीनामित्यलङ्कृतेरेव मुख्यत्वम् ।

एकः शब्दार्थशक्त्युत्थे--
अभयशक्त्युद्भवे व्यङ्ग्ये एको ध्वनेर्भेदः ।
यथा--- "हिममुक्तचन्द्ररुचिरः सपद्मको मदयन् द्विजाञ्जनितमीनकेतनः ।
अभवत्प्रसादितसुरो महोत्सवः प्रमदाजनस्य स चिराय माधवः" ॥

अत्र माधवः कृष्णो माधवो वसन्त इवेत्युपमालङ्कारो व्यङ्ग्यः ।
एवं च व्यङ्ग्यभेदादेव व्यञ्जकानां काव्यानां भेदः ।

तदष्टादशधा ध्वनिः ॥९॥

अविवक्षितवाच्योर्ऽथान्तरसंक्रमितवाच्यो ऽत्यन्ततिरस्कृतवाच्यश्चेति द्विविधः ।
विवक्षितान्यपरवाच्यस्तु असंलक्ष्यक्रमव्यङ्ग्यत्वेनैकः ।
संलक्ष्यक्रमव्यङ्ग्यत्वेन च शब्दार्थोभयशक्तिमूलतया पञ्चदशेत्यष्टादशभेदो ध्वनिः ।
एषु च--
वाक्ये शब्दार्थशक्त्युत्थस्तदन्ये पदवाक्ययोः ।

तत्रार्थान्तरसंक्रमितवाच्यो ध्वनिः पदगतो यथा--- "धन्यः स एव तरुणो नयने तस्यैव नयने च ।
युवजनमोहनविद्य भवितेयं यस्य संमुखे सुमुखई" ॥

अत्र द्वितीयनयनशब्दो भग्यवत्तादिगुणविशिष्टनयनपरः ।
वाक्यगतो यथा--- "त्वामस्मि वच्मि विदुषां समवायो ऽत्र तिष्ठति ।
आत्मीयां मतिमास्थाय स्थितिमत्र विधेहि तत्" ॥

अत्र प्रतिपाद्यस्य संमुखीनत्वादेव लब्धे प्रतिपाद्यत्वे त्वामिति पुनर्वचनमन्यव्यावृत्तिविशिष्टं त्वदर्थं तक्षयति ।
एवं वच्मीत्यनेनैव कर्तरि लब्धे ऽस्मीति पुनर्वचनम् ।
तथा विदुषां समवाय इत्यनेनैव वक्तुः प्रतिपादने सिद्धे पुनर्वच्मीति वचनमुपदिशामीति वचनविशेषरूपमर्थं लक्षयति ।
एतानि च स्वातिशयं व्यञ्जयन्ति ।
एतेन मम वचनं तवात्यन्तं हितं तदवश्यमेव कर्तव्यमित्यभिप्रायः ।
तदेवमयं वाक्यगतो ऽपर्थान्तरसंक्रमितवाच्यो ध्वनिः ।
अत्यन्ततिरस्कृतवाच्यः पदगतो यथा---"निःश्वासान्ध-" इत्यादि ।
वाक्यवतो यथा-"उपकृतं बहु तत्र-" इत्यादि ।
अन्येषां वाक्यागतत्वे उदाहृतम् ।
पदगतत्वं यथा-- "लावण्यं तदसौ कान्तिस्तद्रूपं स वचः क्रमः ।
तदा सुधास्पदमभूदधुना तु ज्वरो महान्" ॥

अत्र लावण्यादीनां तादृगनुभवैकगौचरताव्यञ्जकानां तदादिशब्दानामेव प्राधान्यम्, अन्येषां तु तदुपकारित्वमेवेति तन्मूलक एव ध्वनिव्यपदेशः ।
तदुक्तं ध्वनिकृता--- "एकावयवसंस्थेन भूषणोनेव कामिनी ।
पदद्योत्येन सुकवेर्ध्वनिना भाति भारती" ॥

एवं भावादिष्वप्यूह्यम् ।
"भुक्तिमुक्तिकृदेकान्तसमादेशनतत्परः ।
कस्य नानन्दनिस्यन्दं विदधाति सदागमः" ॥

अत्र सदागमशब्दः सन्नहितमुपनायकं प्रति सच्छास्त्रार्थमभिधाय सतः पुरुषस्यागम इति वस्तु व्यनक्ति ।
ननु सदागमः सदागम इवेति न कथमुपमाध्वनिः ? सदागमशब्दयोरुपमानोपमेयभावाविवक्षणात् ।
रहस्यस्य सङ्गोपनार्थमेव हि द्व्यर्थपदप्रतिपादनम् ।
प्रकरणादिपर्यालोचनेन च सच्छास्त्राभिधानस्यासम्बन्धत्वात् ।
"अनन्यसाधारणधीर्धृताखिलवसुन्धरः ।
राजते को ऽपि जगति स राजा पुरुषोत्तमः" ॥

अत्र पुरुषोत्तमः पुरुषोत्तम इवेत्युपमाध्वनिः ।
अनयोः शब्दशक्तिमूलौ संलक्ष्यक्रमभेदौ ।
सायं स्नानमुपासितं मलयजेनाङ्ग समालेपितं यातो ऽस्ताचलमौलिमम्बरमणिविस्त्रब्धमत्रागतिः ।
आश्चर्यं तव सौकुमार्यमभितः क्लान्तासि येनाधुना नेत्रद्वन्द्वममीलनव्यतिकरं शक्नोति ते नासितुम्" ॥

अत्र स्वतः संभविना वस्तुना कृतपरपुरुषपरिचया क्लान्तासीति वस्तु व्यज्यते ।
तच्चाधुना क्लान्तासि, न तु पूर्वं कदाचिदपि तवैवंविधः क्लमो दृष्ट इति बोधयतो ऽधुना पदस्यैवेतरपदार्थोत्कर्षादस्यैव पदान्तरापेक्षया वैशिष्ट्यम् ।
तदप्राप्तिमहादुःखविलीनाशेषपातका ।
तच्चिन्ताविपुलाङ्लादक्षीणपुण्यचया तथा ॥

चिन्तयन्ती जगत्सूतिं परं ब्रह्मस्वरूपिणम् ।
निरुच्छ्वासतया मुक्तिं गतान्या गोपकन्यका" ॥

(युग्मकम्) अत्राशेषचयपदप्रभावादनेकजन्मसहस्त्रभोग्यदुष्कृतसुकृतफलराशितादात्म्याध्यवसितातया भगवद्विरहदुःखचिन्ताह्लादयोः प्रत्यायनमित्यतिशयोक्तिद्वयप्रतीतिरशेषचयपदद्वयद्योत्या ।
अत्र च व्यञ्जकस्य कविप्रौढोक्तिमन्तरेणापि संभवात्स्वतः संभविता ।
"पश्यन्त्यसंख्यपथगां त्वद्दानजलवाहिनीम् ।
देव ! त्रिपथगात्मानं गोपयत्युग्रमूर्धनि" ॥

इदं मम ।
अत्र पश्यन्तीति कविप्रौढोक्तिसिद्धेन काव्यलिङ्गालङ्कारेण न के ऽप्यन्ये दातारस्तव सदृशा इति व्यतिरेकालङ्कारो ऽसंख्यपदद्योत्यः ।
एवमन्येष्वप्यर्थशक्तिपूलसंलक्ष्यक्रमभेदेषूदाहार्यम् ।
तदेवं ध्वनेः पूर्वोक्तेष्वष्टादशसु भेदेषु मध्ये शब्दार्थशक्त्युत्थो व्यङ्ग्यो वाक्यमात्रे भवन्नेकः ।
अन्ये पुनः सप्तदश वाक्ये पदे चेति चतुस्त्रिंशदिति पञ्चत्रिंशद्भेदाः ।

प्रबन्धे ऽपि मतो धीरैरर्थशक्त्युद्भ्वो ध्वनिः ॥१०॥


प्रबन्धे महावाक्ये ।
अनन्तरोक्तद्वादशभेदोर्ऽथशक्त्युत्थः ।
यथा महाभारते गृध्रगोमायुसंवादे--- "अलं स्थित्वा श्मशाने ऽस्मिन् गृध्रगोमायुसंकुले ।
कङ्कालबहते घोरे सर्वप्राणिभयङ्करे ॥

न चेह जीवितःकश्चित्कालधर्ममुपागतः ।
प्रियो वा यदि वा द्वेष्यः प्राणिनां गतिरीदृशई" ॥

इति दिवा प्रभवतो गृध्रस्य श्मशाने मृतं बालमुपादाय तिष्ठतां तं परित्यज्य गमनमिष्टम् ।
"आदित्यो ऽयं स्थितो मूढाः ! स्नेहं कुरुत साम्प्रतम् ।
बहुविघ्नो मुहूर्तो ऽयं जीवेदपि कदाचन ॥

अमुं कनकवर्णाभं बालमप्राप्तयौवनम् ।
गृध्रवाक्यात्कथं मूढास्त्यजध्वमविशङ्किताः" ॥

इति निशि समर्थस्य गोमायोर्दिवसे परित्यागो ऽनभिलषित इति वाक्यसमहेन द्योत्यते ।
अत्र स्वतः संभवी व्यञ्जकः ।
एवमन्येष्वेकादशभेदेषूदाहार्यम् ।
एवं वाच्यार्थव्यञ्जकत्वे उदाहृतम् ।
लक्ष्यार्थस्य यथा---"निःशेषच्युतचन्दनम्--" इत्यादि (पृदृ ६२) ।
व्यङ्ग्यार्थस्ययथा--"उअ णिच्चल-" इत्यादि (पृदृ ६३) ।
अनयोः स्वतः संभविनोर्लक्ष्यव्यङ्ग्यार्थौ यञ्जकौ ।
एवमन्येष्वेकादशभेदेषूदाहार्यम् ।

पदांशवर्णरचनाप्रबन्धेष्वस्फुटक्रमः ।

असंलक्ष्यक्रमव्यङ्ग्यो ध्वनिस्तत्र पदांशप्रकृतिप्रत्ययोपसर्गनिपातादिभेदादनेकविधः ॥

यथा--- "चलापाङ्गां दृष्टिं स्पृशसि बहुशो वेपथुमतीं रहस्याख्यायीव स्वनसि मृदु कर्णान्तिकचरः ।
करं व्याधुन्वत्याः पिबसि रतिसर्वस्वमधरं वयं तत्त्वान्वेषान्मधुकर ! हतास्त्वं खलु कृती" ॥

अत्र "हताः" इति न पुनः "दुःखं प्राप्तवन्तः" इति हन्प्रकृतेः ।
"मुहुरङ्गुलिसंवृताधरोष्ठं प्रतिषेधाक्षरविक्लवाभिरामम् ।
मुखमंसविवर्ति पक्ष्मलाक्ष्याः कथमप्युन्नमितं न चुम्बितं तु" ॥

अत्र "तु" इति निपातस्यानुतापव्यञ्जकत्वम् ।
"न्यक्कारो ह्ययमेव मे यदरः--" इत्यादौ (८ पृ.) "अरयः" इति बहुवचनस्य, "तापसः" इत्येकवचनस्य, "अत्रैव" इति सर्वनाम्नः, "निहन्ति" इति "जीवति इति च तिङः, "अहो" इत्यव्ययस्य, "ग्रामटिका" इति करूपतद्धितस्य, "विलुण्ठन" इति व्युपसर्गस्य, "भुजैः" इति बहुवचनस्य व्यञ्जकत्वम् ।
"आहारे विरतिः, समस्तविषयग्रामे निवृत्तिः परा, नासाग्रे नयनं तदेतदपरं यच्चैकतानं मनः . मौनं चेदमिदं च शून्यमधुना यद्विश्वमाभाति ते, तद्ब्रूयाः सखि ! योगिनी किमसि, भोः !किं वा वियोगिन्यसि" ॥

अत्र तु "आहारे इति विषयसप्तम्याः, "समस्त" इति "परा" इति च विशेषणद्वयस्य, "मौनं चेदम्" इति प्रत्यक्षपरामर्शिनः सर्वनाम्नः, आभाति" इत्युपसर्गस्य "सखि" इति प्रणयस्मारणस्य "असि भोः" इति सोत्प्रासस्य "किं वा" इत्युत्तरक्षदार्ढ्यसूचकस्य वाशब्दस्य, "असि" इति वर्त्तमानोपदेशस्य च तत्तद्विषयव्यञ्जकत्वं सहृदयसवेद्यम् ।
वर्णरचनयोरुदाहरिष्यते ।
प्रबन्धे यथा--महाभारते शान्तः ।
रामायणो करुणः ।
मालतीमाधवरत्नावल्यादौ शृङ्गारः ।
एवमन्यत्र ।

तदेवमेकपञ्चाशद्भेदास्तस्य ध्वनेर्मताः ॥११॥

सङ्करेण त्रिरूपेण संसृष्ट्या चैकरूपया ।
वेदखाग्निशराः (५३०४) शुद्धैरिषुबाणाग्निसायकाः (५३५५) ॥१२॥

शुद्धैः शुद्धभेदैरेकपञ्चाशता योजनेनेत्यर्थः ।
दिङ्मात्रं दूदाह्रियते--- "अत्युन्नतस्तयुगा तरलायताक्षी द्वारि स्थिता तदुपयानमहोत्सवाय ।
सा पूर्णकुम्भनवनीरजतोरणस्त्रक्संभारमङ्गलमयत्नकृतं विधत्ते" ॥

अत्र स्तनावेव पूर्णकुम्भौ, दृष्टय एव नवनीरजस्त्रज इति रूपकध्वनिरसध्वन्योरेकाश्रयानुप्रवेशः सङ्करः ।
"धिन्वन्त्यमूनि मदमूर्च्छदलिध्वनीनि धूताध्वनीनहृदयानि मधोर्दिनानि ।
निस्तन्द्रचन्द्रवदनावदनारविन्दसौरभ्यसौहृदसगर्वसमीरणान् इ" ॥

अत्र निस्तन्द्रेत्यादिलक्षणामूलध्वनीनां संसृष्टिः ।
अथ गुणीभूतव्यङ्ग्यम्--- अपरं तु गुणीभूतव्यङ्ग्यं वाच्यादनुत्तमे व्यङ्ग्ये ।
अपरं काव्यम् ।

अनुत्तमत्वं न्यूनतया साम्येन च संभवति ।
तत्र स्यादितराङ्गकाक्वाक्षिप्तं च वाच्यसिद्ध्य्ङ्गम् ॥१३॥

संदिग्धप्राधान्यं तुल्यप्राधान्यमस्फुटमगूढम् ।
व्यङ्ग्यमसुन्दरमेवं भेदास्तस्योदिता अष्टौ ॥१४॥

इतरस्य रसादेरङ्गरसादिव्यङ्ग्यम् ।
यथा--"अयं सरसनोत्कर्षो पीनस्तनविमर्दनः ।
नाभ्यूजघनस्पर्शो नीवीविस्त्रंसनः करः" ॥

अत्र शृङ्गारः करुणस्याङ्गम् ।
"मानोन्नतां प्रणयिनीमनुनेतुकामस्त्वसैन्यसागररवोद्रतकर्णतापः ।
हा !हा! कथं नु भवतो रिपुराजधानीप्रासादसंततिषु तिष्ठति कामिलोकः ॥

अत्रौत्सुक्यत्राससन्धिसंस्कृतस्य करुणस्य राजविषयरतावङ्गभावः ।
"जनस्थाने भ्रान्तं कनकमृगतृष्णान्धितधिया वचो वैदेहीति प्रतिपदमुदश्रु प्रलपितम् ।
कृतालङ्काभर्तुर्वदनपरिपाटीषु घटना मायाप्तं रामत्वं कुशलवसुता न त्वधिगता" ॥

अत्र रामत्वं प्राप्तमित्यवचने ऽपि शब्दशक्तेरेव रामत्वमवगम्यते ।
वचनेन तु सादृश्यहेतुकतादात्म्यारोपणमाविष्कुर्वता तद्रोपनमपाकृतम् ।
तेन वाच्यं सादृश्यं वाक्यार्थान्वयोपपादकतयाङ्कतां नीतम् ।
काक्वाक्षिप्तं यथा--- "मथ्नामि कौरवशतं समरे न कोपाद्दुःशासनस्य रुधिरं न पिबाम्युतरस्तः ।
संचूर्णयामि गदया न सुयोधनोरूं सन्धि करोतु भवतां नृपतिः पणेन" ॥

अत्र मथ्नाम्येवेत्यादिव्यङ्ग्यं वाच्यस्य निषेधस्य सहभावेनैव स्थितम् ।
"दीपयन् रोदसीरन्ध्रमेष ज्वलति सर्वतः ।
प्रतापस्तव राजेन्द्र ! वैरिवंशदवानलः" ॥

अत्रान्वयस्य वेणुत्वारोपणरूपो व्यङ्ग्यः प्रतापस्य दावानलत्वारोपसिद्ध्यङ्गम् ।
"हरस्तु किंचित्परिवृत्तधैर्यः--" इत्यादौ ((२२.पृ दृ) विलोचनव्यपारलाषयोः प्राधान्ये संदेहः ।
ब्राह्मणातिक्रमत्यागो भवतामेव भूतये ।
जामदग्नयश्च वो मित्त्रमन्यथा दुर्मनायते" ॥

अत्र परशुरामो रक्षःकुलक्षयं करिष्यतीति व्यङ्ग्यस्य वाच्यस्य च समंप्राधान्यम् ।
"सन्धौ सर्वस्वहरणं विग्रहे प्राणनिग्रहः ।
अल्लावदीननृपतौ न सन्धिर्न च विग्रहः" ॥

अत्राल्लावदीनाख्ये नृपतौ दानसामादिमन्तरेण नान्यः प्रशमोपाय इति व्यङ्ग्यं व्युत्पन्नानामपि भ्क्तटित्यस्फुटम् ।
"अनेन लोकगुरुणा सतां धर्मोपदेशिना ।
अहं व्रतवती स्वैरमुक्तेन किमतः परम्" ॥

अत्र प्रतीयमानो ऽपि शाक्यमुनेस्तिर्यग्योषिति बालात्कारोपभोगः स्फुटतया वाच्यायमान इत्यगूढम् ।
"वाणीरकुडङ्गुड्डीणसौणिकोलाहणं सुणन्तीए ।
घरकम्मवावडाए बहुए सीअन्ति आङ्गाइं" ॥

अत्र दत्तसंकेतः जश्चिल्लतागृहं प्रविष्ट इति व्यङ्ग्यात् "सीदन्त्यङ्गनि" इति वाच्यस्य चमत्कारः सहृदयसंवेद्य इत्यसुन्दरम् ।
किञ्च यो दीपकतुल्ययोगितादिषूपमाद्यलङ्कारो व्यङ्ग्यः स गुणीभूतव्यङ्ग्य एव ।
काव्यस्य दीपकादिमुखेनैव चमत्कारविधायित्वात् ।
तदुक्तं ध्वनिकृता-- "अलङ्कारान्तरस्यापि प्रतीतौ यत्र भासते ।
तत्परत्वं न काव्यस्य नासौ मार्गो ध्वनेर्मतः" ॥

यत्र च शब्दान्तरादिना गोपनकृतचारुत्वस्य विपर्यासः ।
यथा--- "दृष्ट्या केशव ! गोपरागहृतया किंचिन्न दृष्टं मया तेनात्र स्खलितास्मि नाथ ! पतितां किं नाम नालम्बसे ।
एकस्त्वं विषमेषु खिन्नमनसां सर्वाबलानां गतिर्- गोप्येवं गदितः सलेशमवताद्रोष्ठे हरिर्वश्चिरम्" ॥

अत्र गोपरागादिशब्दानां गोपे राग इत्यादिव्यङ्ग्यार्थानां सलेशमिति पदेन स्फुटतयावभासः ।
सलेशमिति पदस्य परित्यागे ध्वनिरेव ।
किञ्च ।
यत्र वस्त्वलङ्कारसादिरूपव्यङ्ग्यानां रसाभ्यन्तरे गुणीभावस्तत्र प्रधानकृत एव काव्यव्यवहारः ।
तदुक्तं तेनैव--- "प्रकारो ऽयं गुणीभूतव्यह्ग्यो ऽपि ध्वनिरूपताम् ।
धत्ते रसादितात्पर्यपर्यालोचनया पुनः" ॥

इति ।
यत्र तु---"यत्रोन्मदानां प्रमदाजनानामभ्रंलिहः शोणमणीमयखः ।
संध्याभ्रमं प्राप्नुताकाण्डे ऽप्यनङ्गने पथ्यविधिं विधत्ते" ॥

इत्यादौ रसादीनां नगरीवृत्तान्तादिवस्तुमात्रेङ्गत्वम्, तत्र तेषामतात्पर्यविषयत्वे ऽपि तैरेव गुणीभूतैः काव्यव्यवहारः ।
तदुक्तमस्मद्गोत्रकविपणिडतमुख्यश्रीचण्डीदासपादैः-वाक्या (काव्यार्)थस्याखण्डबुद्धिवेद्यतया तन्मयीभावेनास्वाददशायं गुणप्रधानभावावभासस्तावन्नानुभूयते, कालान्तरे तु प्रकरणादिपर्यालोचनया भवन्नप्यसौ न काव्यव्यवदेशंव्याहन्तुमीशः, तस्यास्वादमात्रयत्तत्वात्" इति ।
केचिच्चित्राख्यं तृतीयं काव्यभेदमिच्छन्ति ।
तदाहुः--- "शब्दचित्रं वाच्यचित्रमव्यङ्ग्यं त्ववरं स्मृतम्" ।
इति ।
तन्न, यदि हि अव्यङ्ग्यत्वेन व्यङ्ग्याभावस्तदा तस्य काव्यत्वमपि नास्तीति प्रागेवाक्तम् ।
ईषद्व्यङ्ग्यत्वमिति चेत् , किं नामेषद्व्यङ्ग्यत्वम् ? आस्वाद्यव्यङ्ग्यत्वम्, अनास्वाद्यव्यङ्ग्यत्वं वा ? आद्ये प्राचीनभेदयोरेवान्तः पातः ।
द्वितीये त्वकाव्यत्वम् ।
यदि चास्वाद्यत्वं तदाक्षुद्रत्वमेव क्षुद्रतायामनास्वाद्यत्वात् ।
तदुक्तं ध्वनिकृता--- "प्रधानगुणभावाभ्यां व्यङ्ग्यस्यैवं व्यवस्थिते ।
उभे काव्ये ततो ऽन्यद्यत्तच्चित्रमभिधीयते" ॥

इति साहित्यदर्पणे ध्वनिगुणीभूतव्यङ्ग्याख्यकाव्यभेदनिरूपणो नाम चतुर्थः परिच्छेदः ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP