संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसहृदयतंत्र| अध्याय १९ रसहृदयतंत्र अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ रसहृदयतंत्र - अध्याय १९ प्रसिद्ध रसायनशास्त्री श्री गोविन्द भगवतपाद जो शंकराचार्य के गुरु थे, द्वारा रचित ‘रसहृदयतन्त्र' ग्रंथ काफी लोकप्रिय है। Tags : chemistrygovind bhagvadpadrasahridaytantraVedआयुर्वेदगोविन्द भगवतपादमुग्धावबोधिनीरसहृदयतन्त्र अध्याय १९ Translation - भाषांतर इति रसराजस्य विधौ वेधविधानं प्रसंगतः प्रोक्तं ।अधुना प्रोक्तानपि वक्ष्यामि रसायने योगान् ॥१॥(क्षेत्रीकरण (शरीरशोधन)) आदौ प्रातः प्रातः सैन्धवयुक्तं घृतं पिबेत्त्रिदिनं ।तदनु क्वाथं त्रिदिनं युञ्जीयात्केतकीतनुजं ॥२॥विधिना स्वेद्यो देहः कर्तव्यो वार्तिकेन्द्रेण ।क्वथितं कटुरोहिण्याः संशोधनं अनुप्रयुञ्जीत ॥३॥तदनु च शुद्धादूर्ध्वं श्लेष्मान्ते रेचिते सकलं ।यावकपथ्यं त्रिदिनं घृतसहितं तत्प्रयुञ्जीत ॥४॥पुनरपि च पानयोगं वक्ष्यामि च सकलभुवनहितकृतये ।पीत्वा प्रथमे यामे चोष्णोदकसममिदं चूर्णं ॥५॥पथ्यासैन्धवधात्रीमरिचवचागुडविडङ्गरजनीनां ।शुण्ठीपिप्पल्योरपि चूर्णं त्रिदिनं प्रयुञ्जीत ॥६॥अमुना शुद्धशरीरः परिहतसंसर्गदोषबली ।पीत्वा पयसा सहितं यावकममुना भवेच्छुद्धः ॥७॥अकृतक्षेत्रीकरणे रसायनं यो नरः प्रयुञ्जीत ।तस्य क्रामति न रसः स रसः सर्वाङ्गदोषकृद्भवति ॥८॥इति शुद्धो जातबलः शाल्योदनयावकाख्यमुद्गरसः ।क्षेत्रीकृतनिजदेहः कुर्वीत रसायनं विधिवत् ॥९॥सुरतरुतैलघृतमधुधात्रीरसपयांसि निर्मथ्य ।पीत्वा विशुद्धकोष्ठो भवति पुमानन्तरितशुद्धः ॥१०॥मासेन कान्तिमेधे द्वाभ्यां प्रशमयति दोषनिकरं च ।मासत्रितयेन पुनः स्वादमरवपुर्महातेजाः ॥११॥सुरदारुतैलमाज्यं त्रिफलारससंयुतं च समभागं ।पीतं तत्सप्ताहान्नयनविकारं शमं नयति ॥१२॥सुरतरुतैलं सघृतं पीत्वा शाल्योदनं च सक्षीरं ।जीर्णाहारे भुक्त्वा हरति हि सकुष्ठान्पीनसादींश्च ॥१३॥घृतसहितः पित्तकृतान्तैलयुक्तो वातसंभवान्रोगान् ।गुडसहितो मधुना वा कफजान्हन्त्यमरदारुरसः ॥१४॥वर्जितकांजिकशाकं पयसा शाल्योदनं च युञ्जीत ।द्विचतुःषट्पलमानं मात्राधममध्यमज्येष्ठाः ॥१५॥तदनु पातनशुद्धं सूतकं आरोटं अश्नीयात् ।स्वेदनमूर्च्छोत्थापनपातनरोधाश्च नियमश्च ॥१६॥अभ्रकसहितः पात्यो विधिना यावत्स्थिरो भवति ।अथवा माक्षिकसहितः पात्यः सूतो विधानेन ॥१७॥इत्यारोटः सूतः क्षेत्रीकरणे नियुज्यते प्रथमं ।अथवा भस्म च कृत्वा बद्धो वा कल्कयोगेन ॥१८॥माक्षिकशिलाजतुलोहचूर्णपथ्याक्षविडङ्गघृतमधुभिः ।संयुक्तं रसमादौ क्षेत्रीकरणाय युञ्जीत ॥१९॥इति कल्कीकृतसूतं घनकान्तमधुघृतादिसंयुक्तं ।भुक्त्वामरतां गच्छेत्क्षेत्रीकरणं प्रधानमिदं ॥२०॥अथ कृष्णं वा पीतं वा संयोज्यं घनं शिखिप्रभं बहुशः ।सुरभीक्षीरनिषिक्तं गतगिरिदोषं रसायने योज्यं ॥२१॥निश्चन्द्रिकमपि शुद्धं विडंगत्रिफलाज्यमधुसमायुक्तं ।प्रतिदिवसं पलमेकं भुक्त्वा क्षीराशनो विधिना ॥२२॥त्रिकटुकविडङ्गत्रिफलामाक्षिकशिलाजतुयुतं व्योम ।क्षीरौदनं अश्नीयाज्जीवति जन्तुः शतं वर्षं ॥२३॥इत्येवमादयोऽन्ये काञ्जिकयुक्ताश्च कीर्तिता बहुशः ।पत्राभ्रकप्रयोगा वर्ज्या निर्युक्तिकास्ते हि ॥२४॥ये पत्राभ्रकयोगा रसायनार्थं कीर्तिता विधिना ।अज्ञातद्रव्यगुणैस्तैरुपदिष्टो जरामृत्युः ॥२५॥अप्राप्तलोकभावं घनोऽस्य जठराग्निमुपशमं नयति ।अग्निं विनापि नश्यति परिभूतो विविधरोगगणैः ॥२६॥अभ्रस्य रसायनिनां भक्ष्यमिह कीर्तितं परं सत्वं ।त्रिविधं गगनमभक्ष्यं काचः किट्टं च पत्त्ररजः ॥२७॥आदौ घनलोहरजस्त्रिफलारसभावनैश्च निर्घृष्टं ।कुर्वीताञ्जनसदृशं स्थगितवस्त्रेण सूर्यकरैः ॥२८॥इत्थं श्लक्ष्णं कृत्वा विविधकान्तलोहचूर्णसमं ।लोहघनं च तदेवं भृङ्गेण च साधयेद्बहुशः ॥२९॥त्रिफलाघृतमधुमिश्रितं अमृतं इदं मासस्थितं धान्ये ।शस्त्रकटोरिकसम्पुटमध्यगतं पूजितं मन्त्रैः ॥३०॥मासेन तु तदुद्धृत्य ज्ञात्वा बलं तत्प्रयुञ्जीत ।कान्तं विनाथ गगनं गगनं विना तथा च कान्तं ॥३१॥स्थौल्यं पटलं काचं तिमिरार्बुदकर्णनादशूलानि ।हन्त्यर्शांसि भगन्दरमेहप्लीहादि पालित्यं ॥३२॥एतत्कुर्वन्मतिमान्गोरसमस्तुप्रधानं अश्नीयात् ।जाङ्गलमुद्गाज्यपयः शाल्योदनं ब्रह्मचर्येण ॥३३॥घनसत्वपादजीर्णः कान्तजीर्णो यत्तीक्ष्णसमजीर्णः ।क्षेत्रीकरणः परमः प्रयुज्यतेऽपि पुनरारोटः ॥३४॥घनसत्वकान्तसूतं मृतहेम शतावरीरसोपेतं ।घृतमधुलीढं वर्षान्निहन्ति मृत्युं जरां चैव ॥३५॥एषामेकं योगं क्षेत्रीकरणार्थमादितः कृत्वा ।संवत्सरमयनं वा निःश्रेयससिद्धये योज्यं ॥३६॥अभ्रकसस्यकमाक्षिकरसकदरदविमलवज्रगिरिजतुभिः ।वैक्रान्तकान्ततीक्ष्णैर्हाटकतारारताम्रैश्च ॥३७॥संयुक्तैर्व्यस्तैर्वा द्वित्रिचतुर्भिर्यथालाभं ।जीर्णहतो रसेन्द्रो रसायने शस्यते सद्भिः ॥३८॥विषनागवङ्गबद्धो भुक्तो हि रसः करोति कुष्ठादीन् ।उपरसबद्धे तु रसे स्फुटन्ति भुक्ते तथाङ्गानि ॥३९॥घनसत्त्वकान्तकाञ्चीभास्करतीक्ष्णैश्च चीर्णजीर्णस्य ।सूतस्य गुञ्जामात्रा माषकमेकं परा मात्रा ॥४०॥शतवेधिनो द्विगुञ्जा तथा सहस्रैकवेधिनो गुञ्जा ।अर्धा च लक्षवेधिनः सिद्धार्थः कोटिवेधिनः सूतात् ॥४१॥हेमनियोजितसूतं कान्तमणिं विविधगुटिकाश्च ।जपहोमदेवतार्चननिरतः पुमानिति धारयेत् ॥४२॥शालेस्तु पिष्टकोद्भवभोजनं आज्यं च मुद्गमांसरसैः ।यवगोधूमान्नानि च गोक्षीरं मस्तु च विशेषात् ॥४३॥पाने जलमक्षारं मधुराणि यानि कानि शस्तानि ।पेयं चातुर्जातकर्पूरामोदमुदितमुखं ॥४४॥मद्यारनालपानं तैलं दधि वा रसे नेष्टं ।कटुतैलेनाभ्यङ्गं वपुषि न कुर्याद्रसायने मतिमान् ॥४५॥दग्धं अपक्वं अमधुरं उष्णं क्षीरं न नष्टमांसं तु ।पर्युषितं फलमूलं भक्ष्यं नैवात्र निर्दिष्टं ॥४६॥अथ लङ्घनं न कार्यं यामाधो भोजनं नैव ।इत्यपनीय निषिद्धं रसराजे धीमता कार्यं ॥४७॥वर्जितचिन्ताकोपः कुर्याच्च सुखाम्बुना स्नानं ।नोच्चाटयेद्ग्रहज्वरराक्षसभूतानि मातृदेवींश्च ॥४८॥परमे ब्रह्मणि लीनः प्रशान्तचित्तः समत्वमापन्नः ।आश्वासयन्त्रिवर्गं विजित्य रसानन्दपरितृप्तः ॥४९॥यस्त्यक्त्वा शास्त्रविधिं प्रवर्तते स्वेच्छया रसे मूढः ।तस्य विरुद्धाचारादजीर्णमुत्पद्यते नितरां ॥५०॥सम्भवतीहाजीर्णे निद्रालस्यं ज्वरस्तमो दाहः ।नाभितलशूलमल्पं जडतारुचिरङ्गभङ्गश्च ॥५१॥ज्ञात्वेत्येवं अजीर्णं अस्य प्रच्छादनाय योगोऽयं ।कार्यो दिवसत्रितयं संत्यज्य रसायनं सुधिया ॥५२॥कर्कोटीमूलरसं कषायं अथ सिन्धुना पिबेत्त्रिदिनं ।सौवर्चलसहितं वा गोजलसहितं रसाजीर्णे ॥५३॥पिष्ट्वाथ मातुलुङ्गीं पिबति रसं शुण्ठिसैन्धवं प्रातः ।क्वथितं गोसलिलेन तु रक्षति सम्यक्रसाजीर्णं ॥५४॥कथमपि यच्चाज्ञानात्नागादिकलङ्कितो रसो भुक्तः ।तन्नोदनाय च पिबेत्गोजलकटुकारवल्लिशिफाः ॥५५॥शरपुंखासुरदालीपटोलबिम्बीश्च काकमाची च ।एकतमा चेदुदिता शृतामजीर्णे हि सेवेत ॥५६॥अत्यम्ललवणकटुकै रससंस्रावो जरो भवति ।अतिमधुरैश्च विनश्यति जठरवह्निः सततभुक्तैश्च ॥५७॥यः पुनरेवं सततं करोति मूढः समाहारं ।तस्य विनश्यत्यग्निर्न खलु क्रामति रसो भवेद्व्याधिः ॥५८॥यस्तु महाग्निसहत्वाद्रसाच्छतसहस्रलक्षवेधीशः ।अनया क्रियया सिध्यति स यत्नाद्रसक्रियायोगात् ॥५९॥शतसहस्रलक्षवेधी कोटिरथार्बुदनिर्बुदं वापि ।पिष्टं भुञ्जीत रसं बलिसहितं सिद्धिदो भवति ॥६०॥क्रामति ततो हि सूतो जनयति पुत्रांश्च देवगर्भाभान् ।स्त्रीषु च निश्चलकामो भवति वलीपलितनिर्मुक्तः ॥६१॥बुद्धिर्बलं प्रभावः सह चायुषा वर्धते रसायनिनः ।प्राप्तस्य दिव्यबुद्धिं दिव्याश्च गुणाः प्रवर्धन्ते ॥६२॥एवं रससंसिद्धो दुःखजरामरणवर्जितो गुणवान् ।खेगमनेन च नित्यं संचरते सकलभुवनेषु ॥६३॥दाता भुवनत्रितये स्रष्टा सोऽपीह पद्मयोनिरिव ।भर्ता विष्णुरिव स्यात्संहर्ता रुद्रवद्भवति ॥६४॥(अमरसुन्दरीगुटिका) कान्ताभ्रसत्त्वहेमतारं चार्कः समांशतः संख्या ।बद्धं सूतसमांशं ध्मातं गोलं कृतं खोटं ॥६५॥बाह्ये रसेन लिप्तं वदनगतं शस्त्रवारकं रोगान् ।हन्ति हि शरीरसंस्थान्नाम्नामरसुन्दरी गुटिका ॥६६॥(मृतसंजीवनीगुटिका) यः पूर्वोक्तः सूतो लक्षादूर्ध्वं च वेधते लोहान् ।बद्धे सारणयोगैर्मुखास्थे च जारयेद्रत्नं ॥६७॥युक्तः समांशनागैः सुरलोहायस्कान्तताप्यसत्त्वैश्च ।अभ्रकसत्त्वसमेता गुटिका मृतसंजीवनी नाम ॥६८॥हेमयुता गुलुच्छके मुकुटे वा कण्ठसूत्रकर्णे वा ।मृत्युभयशोकरोगविषशस्त्रजरासततदुःखसङ्घातं ॥६९॥यस्याङ्गे निहितेयं गुटिका मृतसंजीवनी नाम ।सोऽसुरयक्षकिन्नरपूज्यतमः सिद्धयोगीन्द्रैः ॥७०॥प्रक्षाल्य तोयमध्ये गुटिका घटिकाद्वयं ततः क्षिप्त्वा ।तच्चेयं वदनगता मृतकस्योत्थापनं कुरुते ॥७१॥तोयं तदेव पिबति स्वस्थं पथ्यान्वितस्ततः पुरुषः ।लभते दिव्यं स वपुर्मृत्युजरावर्जितः सुदृढं ॥७२॥(वज्रिणीगुटिका) कान्तघनसत्त्वकमलं हेम च तारं यथा कृतद्वन्द्वं ।समजीर्णं बीजवरं वज्रयुतं वज्रिणी गुटिका ॥७३॥एषा मुखकुहरगता कुरुते नवनागतुल्यबलं ।तद्वपुरपि दुर्भेद्यं मृत्युजरारोगनिर्मुक्तं ॥७४॥(खेचरीगुटिका) धूमावलोकितरसे पञ्चमहारत्नजारिते सारिते ।बीजेन गगनसत्त्वे माक्षिककान्तप्रयुक्तेन ॥७५॥खेचरसंज्ञा गुटिका पतति मुखे क्षिप्तमात्रेण ।देवासुरसिद्धगणैः पूज्यतमो भवति चेन्द्राद्यैः ॥७६॥रसवादोऽनन्तगुणो द्रवगोलककल्कभेदेन ।कलितः प्रधानसिद्धैर्यैर्दृष्टस्ते जयन्ति नराः ॥७७॥शीतांशुवंशसम्भवहैहयकुलजन्मजनितगुणमहिमा ।स जयति श्रीमदनश्च किरातनाथो रसाचार्यः ॥७८॥यस्य स्वयमवतीर्णा रसविद्या सकलमङ्गलाधारा ।परमश्रेयसहेतुः श्रेयः परमेष्ठिनः पूर्वं ॥७९॥तस्मात्किरातनृपतेर्बहुमानं अवाप्य रसकर्मनिरतः ।रसहृदयाख्यं तन्त्रं विरचितवान्भिक्षुगोविन्दः ॥८०॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP