रसहृदयतंत्र - अध्याय ११

प्रसिद्ध रसायनशास्त्री श्री गोविन्द भगवतपाद जो शंकराचार्य के गुरु थे, द्वारा रचित ‘रसहृदयतन्त्र' ग्रंथ काफी लोकप्रिय है।


अथ बीजनिर्वाहणं आरभ्यते ।
स्वीकृत्य सर्वसरितो गङ्गा जलधौ यथा तथा हैमं ।
प्रविशति रसे गृहीत्वा संमिलिति सर्वलोहगुणान् ॥१॥
जीर्यति मिलति च शुल्बे तत्सत्वं किट्टतां याति ।
सुवृत्तः सद्रृतारम्भः सुज्ञः संज्ञानदर्शकः ।
(तारक्रिया) हेमक्रियासु करिणा त्रपुणा तारक्रियासु निर्व्यूढं ॥२॥
घनसत्वं खलु रविणा रसायने द्वंद्वकं योज्यं ।
रक्तगणपातभावितगिरिजतुमाक्षिकगैरिकदरदैः ॥३॥
मृदुलताम्रकान्तघनसत्वं मृतनागतीक्ष्णकनकं च ।
कुर्वीत बीजशेषं दरदशिलातालमाक्षिकैर्वापात् ॥४॥
मृतनागं वङ्गं वा शुल्वं घनसत्वतारकनकं वा ।
ध्मातं तदेव सर्वं गिरिणाधिकशोधनैर्वापात् ॥५॥
रक्तगणं पीतं वा माक्षिकराजावर्तं अथो विमलं ।
एकतमं वा गैरिककुनटीक्षितिगन्धकखगैर्वा ॥६॥
निर्व्यूढैरेव रसो रागादि गृह्णाति बन्धमुपयाति ।
मृतलोहोपरसाद्यैर्निर्व्यूढं भवति शृङ्खलाबीजं ॥७॥
(आयसशलाकिकाभ्यां अद्वन्द्वाख्यैश्च सङ्कराख्यैश्च ।
निर्व्यूढं रसलोहैर्जारणकर्मोचितं भवति ॥८॥
बीजमिदं रक्तगणे निषेचितं तेन कृतवापं ।
चारितजारितमात्रं सूतं रञ्जयति बध्नाति ॥९॥
रक्तस्नेहविशोधितमृतलोहरसादिभिस्तु सर्वेषां ।
बीजानां कुरु वापं रक्तस्नेहे निषेकं च ॥१०॥
वङ्गाभ्रं अभ्रतारं सितशैलमलाहतौ च सितवङ्गौ ।
रक्तं सितताप्यहतं रमति निर्व्यूढवङ्गाभ्रं ॥११॥
निर्वाहणविधिरेषः प्रकाशितोऽशेषदोषशमनाय ।
बीजानामप्येवं घनसत्वं युज्यते प्रथमं ॥१२॥
छागास्थिभस्मनिर्मितमूषां कृत्वैव मल्लकाकारां ।
दलयोगे घनरन्ध्रां टङ्कणविषगुञ्जाकृतलेपां ॥१३॥

N/A

References : N/A
Last Updated : June 24, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP