रसहृदयतंत्र - अध्याय ४

प्रसिद्ध रसायनशास्त्री श्री गोविन्द भगवतपाद जो शंकराचार्य के गुरु थे, द्वारा रचित ‘रसहृदयतन्त्र' ग्रंथ काफी लोकप्रिय है।


कृष्णो रक्तः पीतो योऽभ्रः स्यात्स्थूलतारकारहितः ।
वज्री स पीतकर्मणि पातितसत्त्वो घनो योज्यः ॥१॥
निश्चन्द्रिकं हि गगनं वासितमपि वासनाभिरिह शतधा ।
तदपि न चरति रसेन्द्रः सत्त्वं कथमत्र यत्नतः प्रभवेत् ॥२॥
मुक्त्वैकमभ्रसत्त्वं नान्यः पक्षापकर्तनसमर्थः ।
तेन निरुद्धप्रसरो नियम्यते बध्यते च सुखं ॥३॥
(पक्षच्छेद) पक्षच्छेदमकृत्वा रसबन्धं कर्तुं ईहते यस्तु ।
बीजैरेव हि स जडो वाञ्छत्यजितेन्द्रियो मोक्षं ॥४॥
नाधः पतति न चोर्ध्वं तिष्ठति यन्त्रे भवेदनुद्गारी ।
अभ्रकजीर्णः सूतः पक्षच्छिन्नः स विज्ञेयः ॥५॥
(अभ्रः:) श्वेतादिचतुर्वर्णाः कथितास्ते स्थूलतारकारहिताः ।
वज्री सत्वं मुञ्चत्यपरे ध्माताश्च काचतां यान्ति ॥६॥
सितरक्तासितपीता ये केचिदुदाहृता घना लोके ।
अल्पबला निःसत्त्वा वज्री श्रेष्ठस्तु सर्वेषां ॥७॥
सूतेऽपि रसायनिनां योज्यं परिकीर्तितं परं सत्वं ।
त्रिविधं गगनमभक्ष्यं काचं किट्टं च पत्त्ररजः ॥८॥
(अभ्रः: सत्त्व) मुञ्चति सत्वं ध्मातस्तृणसारविकारकैर्घनः स्विन्नः ।
परिहृत्य काचकिट्टं ग्राह्यं सारं प्रयत्नेन ॥९॥
(अभ्रः: सत्त्वः: पातन) स्वेद्य बद्ध्वा पिण्डं माहिषदधिदुग्धमूत्रशकृदाज्यैः ।
अथ पंचगव्ययुक्तः सत्वं पातयति लोहनिभं ॥१०॥
(सत्त्वः: ) सूर्यातपपीतरसाः स्वल्पं मुञ्चन्ति धातवः सत्वं ।
स्वस्थानस्थाः सन्तो मुञ्चन्ति त एव भूयिष्ठं ॥११॥
बहुगम्भीरं ध्मातो वर्षति मेघः सुवर्णधाराभिः ।
देवमुखतुल्यममलं पतितं सत्वं तथा विन्द्यात् ॥१२॥
(अभ्रः: सत्त्वः: मुख) यदि लोहनिभं पतितं जातं गगनस्य तद्रसश्चरति ।
मिलति च सर्वद्वन्द्वे ह्यौषधिभिश्चरति विनापि मुखैः ॥१३॥
(अभ्रः: सत्त्वः: मुख) माक्षिकसहितं गगनं ध्मातं सत्वं मुखप्रदं भवति ।
तदनु च नागैर्वङ्गैः सहितं च मुखप्रदं सत्वं ॥१४॥
(अभ्रः: सत्त्वः: गर्भद्रुति, रञ्जन अन्द्बन्धन) माक्षिकसत्वे योगाद्घनसत्वं चरति सूतको निखिलं ।
नियतं गर्भद्रावी स रज्यते बध्यते चैवं ॥१५॥
(अभ्रः: सत्त्वः: ) सत्वं घनस्य कान्तं तालकयुक्तं सुरुन्धितं ध्मातं ।
वारैस्त्रिभिरिह सत्वं भवति रसेन्द्रबन्धकारि परं ॥१६॥
(अभ्रः: सत्त्वः: गर्भद्रुति) लोहं चाभ्रकसत्वं तालकसमभागसारितं चरति ।
अभिषवयोगाच्चाङ्गुलिमृदितं गर्भे च तद्द्रवति ॥१७॥
(अभ्रः: सत्त्वः: चारण) वंगमथो घनसत्वं तालकषड्भागसारितं चरति ।
अभिषवयोगाच्चरति व्रजति रसो नात्र सन्देहः ॥१८॥
(अभ्रः: सत्त्वः:चारण) बहलं सुवर्णवर्णं निचुलपुटैः पतति पञ्चभिः सत्वं ।
वटकीकृतमृतगगनं निरञ्जनं किट्टरहितं च ॥१९॥
तच्चूर्णीकृत्य ततः क्षाराम्लैर्भावितं घनं बहुशः ।
सृष्टित्रयनीरकणातुम्बुरुरसमर्दितं चरति ॥२०॥
(शुल्वाभ्रः: ) घनसत्वशुल्बमाक्षिकसमभागनियोजितं तथा मिलितं ।
तच्छुल्बाभ्रं कथितं चरति रसो जीर्यति क्षिप्रं ॥२१॥
इति ताप्यशुल्बसहितं घनसत्वं लोहखल्वके मृदितं ।
चरति रसेन्द्रः काञ्जिकवेतसजम्बीरबीजपूराम्लैः ॥२२॥
(भस्मन् रञ्जन) इति तीक्ष्णशुल्बनागं माक्षिकयुक्तं च तत्कृतं खोटं ।
तद्भस्म च पुटविधिना निर्व्यूढं सत्वरञ्जकं भवति ॥२३॥
चार्यं यत्नेन रसे घनसत्वं तद्विधं घनं तस्य ।
संयोज्य सर्वबीजं निर्वाह्य द्वन्द्वसंकरतः ॥२४॥
अभ्रकचारणमादौ गर्भद्रुतिचारणं च हेम्नोऽन्ते ।
यो जानाति न वादी वृथैव सोऽर्थक्षयं कुरुते ॥२५॥
(अभ्रः: सत्त्वः: ग्रासः:) गगनग्रासरहस्यं वक्ष्याम्येकं घनार्कसंयोगात् ।
केवलमभ्रकसत्वं ग्रसते यत्नान्न सर्वाङ्गं ॥२६॥


References : N/A
Last Updated : June 24, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP