काव्यमीमांसा - अष्टादशो ऽध्यायः

संस्कृत कवि राजशेखरद्वारा द्वारा रचित काव्यमीमांसा अलंकार शास्त्र पर लिखा गया एक विशालकाय ग्रंथ था, जिसमें मूलत: 18 अधिकरण थे। राजशेखर महाराष्ट्र देशवासी थे और यायावर वंश में उत्पन्न हुए थे।


कालविभागः कालः काष्टादिभेदभिन्नः ।
काष्टा निमेषा दश पञ्च त्रिंशच्च काष्ठाः कथिताः कलेति ।
त्रिंशत्कलश्चैव भवेन्मुहूर्त्तस्त्रिंशता रात्र्यहनी समेते ॥

ते च चैत्रघाश्वयुजमासयोर्भवतः ।
चैत्रात्परं प्रतिमासं मौहूर्त्तिकी दिवसवृद्धिः निशाहानिश्च त्रिमास्याः, ततः परं मौहूर्त्तिकी निशावृद्धिः दिवसहानिश्च ।
आश्वयुजीत्परतः पुनरेतदेव विपरीतम् ।
राशैतो राश्यन्तरसङ्क्रमणमुष्णभासो मासः, वर्षादि दक्षिणायनं, शिशिराद्युत्तरायणं, द्वययनः संवत्सर इति सौरं मानम् ।
पञ्चदशाहोरात्रः पक्षः ।
वर्द्धमानसोमः शुक्लो, वर्ध्दमानकृष्णिमा कृष्णा इति पित्र्यं मासमानम् ।
अमुना च वेदोदितः कृत्स्नो ऽपि क्रियाकल्पः ।
पित्र्यमेव व्यत्ययितपक्षं चान्द्रमसम् ।
इदमार्यावर्त्तवासिनश्च कवयश्च मानमाश्रिताः ।
एवं च द्वौ पक्षौ मासः ।
द्वौ मासावृतुः ।
षण्णामृतूनां परवर्त्तः संवत्सरः ।
स च चैत्रादिरिति दैवज्ञाः, श्रावणादिरिति लोकयात्राविदः ।
तत्र नभा नभस्यश्च वर्षाः, ईष ऊर्जश्च शरत्, सहः सहस्यश्च हेमन्तः, तपस्तस्यश्च शिशिरः, मधुर्माधवश्च वसन्तः, शुक्रः शुचिश्च ग्रीष्मः ।
तत्र "वर्षासु पूर्वो वायुः" इति कवयः ।
"पाश्चात्यः, पौरस्त्यस्तु प्रतिहन्ता" इत्याचार्याः ।
तदाहुः- "पुरोवाता हता प्रावृट् पश्चाद्वाता हता शरत्" इति ।
तदाहुः- "प्रावृष्यभ्भोभृताभ्भोदभरनिर्भरनिर्भरमम्बरम् ।
कादम्बकुसुमामोदा वायवो वान्ति वारुणाः" ॥

"वस्तुवृत्तरतन्त्रं, कविसमयः प्रमाणम्" इति यायावरीयः ।
तदाहुः- "पौरस्त्यस्तोयदर्त्तोः पवन इव पतन्पावकस्येव धूमो विश्वस्येवादिसर्गः प्रणव इव परं पावनं वेदराशेः ।
सन्ध्यानृत्तोत्सवोच्छोरिव मदनरिपोनन्दिनान्दीनिनादः सोरस्याग्रे सुखं वो वितरतु विनतानन्दनः स्यन्दनस्य" ॥

शरद्यनियतदिक्को वायुर्यथा- "उषःसु ववुराकृष्णजहावश्यायशीकराः ।
शोफालीकलिकाकोशकषायमोदिनो ऽनिलाः" ॥

"हेमन्ते पाश्चात्यो वायुः", इति एके ।
"उदीच्य" इति अपरे ।
"उभयमपि"इति यायावरीयः ।
तयोः पाश्चात्य-- "भञ्जन्मूर्जद्रुमालीस्तुहिनगिरितटेषूद्गतास्त्वक्करालाः रंवाभ्भःस्थूलवीचीचयचकितलञ्चातकान् व्याधुनानः ।
पाश्वात्यो वाति वेगाद्द्रुततुहिनशिलाशीकरासारवर्षी मातङ्गक्षुण्णसान्द्रस्त्रुतसरलतरत्सारसारी समीरः" ॥

उदीच्यः- "लभ्पाकीनां किरन्तश्चिकुरविरचनां रल्लकांल्लासयन्तः चुम्बन्तश्वन्द्रभागासलिलमविकलं भूर्जकाण्डैकचण्डः ।
एते कस्तूरिकैणप्रणयसुरभयो वल्लभा बाह्लवीनां कौलूतीकेलिकाराः परिचयितहिमं वायवो वान्त्युदीच्याः" ॥

शिशिरे ऽपि हेमन्तवदुदीच्यः पाश्चात्यो वा ।
वसन्ते दक्षिणः ।
तदुक्तम् - "धुन्वलङ्कावनालीर्मुहुरलकलता लासयन्केरलीनाम् आन्ध्रीधंमिल्लबन्धान्सपदि शिथिलयन्वेल्लयन्नागवल्लीः ।
उद्दामं दाक्षिणात्यो मलितमलयजः सारिथिर्मीनकेतोः प्रात्पः सीमन्तिनीनां मधुसमयसुहृन्मानचौरः समीरः" ॥

"उभयतदिक्को वायुर्ग्रीष्मे" इत्येके ।
"नैऋर्तः " इत्यपरे ।
"उभयमपि" इति यायावरीयः ।
तत्र प्रथमः- "वात्याचक्रकचुम्बिताम्बरभुवः स्थूला रजोदण्डकाः संग्रथ्नन्ति भविष्यदभ्रपटलस्थूणावितर्कं नभः ।
किं चान्यन्मृगतृष्णिङ्काम्बुवसरैः पात्राणि वीतार्णसां सिन्धूनामिह सूत्रयन्ति दिवसेष्वागामिनीं सम्पदम्" ॥

द्वितीयः- "सो ऽयं करैस्तपति वह्णिमयैरिवार्कः साङ्गारविस्तरविस्तरभरेव धरा समग्रा ।
वायुः कुकूलमिव वर्षति नैऋर्तश्च कार्शानवैरिव शरैर्मदनश्च हन्ति" ॥

किञ्च - गर्भान्बलाकासु निवेशयन्तो वंशाङ्कुरान्स्वैर्निनदैः सृजन्तः ।
"रजो ऽम्बुदाः प्रावृषि मुद्रयन्तो यात्रोद्यमं भूमिभृतां हरन्ति" ॥

स सल्लकीसालशिलीन्ध्रयूथीप्रसूनदः पुष्पितलाङ्गलीकः ।
दग्धोर्वरासुन्दरगन्धबन्धुरर्घत्ययं वारिमुचामनेहा ॥

वनानि नीलीदलमेचकानि धाराम्बुधौता गिरयः स्फुरन्ति ।
पूराम्भसा भिन्नतटास्तटिन्यः सान्द्रेन्द्रगोपानि च शाद्वलानि ॥

चकोरहर्षी यतिचारचौरो वियोगिनीवीक्षितनाथवर्त्मा ।
गृहान्प्रति प्रस्थितपान्थसार्थः कालो ऽयमाध्मातनभाः पयोदैः ॥

या केलियात्रा करिकामिनीभिर् यातुङ्गहर्म्याग्रविलासशय्या ।
चतुःसमं (मो यो)यन्मृगनाभिगर्भर्ं(भः) सा वारिदर्त्तोः प्रथमातिथेयी ॥

चलञ्चटुलचातकः कृतकुरङ्गरागोदयः सदर्दुररवोद्यमो मदभरप्रगल्भोरगः ।
शिखण्डिकुलताण्डवामुदितमद्गुकङ्काह्वयो वियोगिषु घनागमः स्मरविषं विषं मुञ्चति ॥

दलत्कुटजकुड्मलः स्फुटितनीपपुष्पोत्करो धवप्रसवबान्धवः प्रचितमञ्जरीकार्जुनः ।
कदम्बकलुषाम्बरः कलितकेतकीकोरकश् चलन्निचुलसञ्चयो हरति हन्त धर्मात्ययः ॥

वर्षाः ॥

द्राग्गर्जयन्ती विमदान्मयूरान्प्रगल्भयन्ती कुररद्विरेफन् ।
शरत्समभ्येति विकास्य पद्मानुन्मीलयन्ती कुमुदोत्पलानि ॥

सा भाति पुष्पाणि निवेशयन्ती बन्धूकबाणासनकुङ्कुमेषु ।
शेफालिकासत्पपलाशकाशमण्डीरसौगन्धिकमालतीषु ॥

सखञ्जरीटा सपयः प्रसादा सा कस्य नो मानसमाच्छिनति ।
कादम्बकारण्डवचक्रवाकससारसक्रौञ्चकुलानुयाता ॥

उपानयन्ती कलहंसयूथमगस्त्यदृष्टया पुनती पयांसि ।
मुक्तासु शुभ्रं दधती च गर्भं शरद्वचित्रैश्चरितैश्चकास्ति ॥

क्षितिं खनन्तो वृषभाः खुराग्रै रोधो विषाणैर्द्विरदा रदन्तः ।
शृङ्गं त्यजन्तो रुरवश्च जीर्णं कुर्वन्ति लोकानवलोकनोत्कान् ॥

अत्रावदातद्युति चन्द्रिकाम्बुनीलावभासं च नभः समन्तात् ।
सुरेभवीथी दिविसावतारो जीर्णाभ्रखण्डानि च पाण्डुराणि ॥

महानवम्यां निखिलास्त्रपूजाः नीराजना वाजिभटद्विपानाम् ।
दीपालिकायां विविधा विलासा यात्रोन्मुखैरत्र नृपैर्विधेयाः ॥

व्योम्नि तारतरतारकोत्करः स्यन्दनप्रचरणक्षमा मही ।
भास्करः शरदि दीप्रदीधितिर्बुध्यते च सह माधवः सुरैः ॥

केदार एव कलमाः परिणामनभ्राः प्राचीनमामलकमर्धति पाकनीलम् ।
एर्वारुकं स्फुटननिर्गतगर्भगन्धम् अम्लीभवन्ति च जरत्त्रपुसीफलानि ॥

गेहाजिरेषु नवशालिकणावपात-गन्धानुभावसुभगेषु कृषीवलानाम् ।
आनन्दयन्ति मुसलोल्लसनावधूत-पाणिस्खलद्वलयद्धतयो वधूट्यः ॥

तीक्ष्णं रविस्तपति नीच इवाचिराढ्यः शृङ्गं रुरुस्त्यजति मित्रमिवाकृतज्ञः ।
तोयं प्रसीदति मुनेरिव धर्मचिन्ता कामी दरिद्र इव शोषमुपौति पङ्कम् ॥

नद्यो वहन्ति कुटिलक्रमयुक्तशुक्तिर् एखाङ्कवालपुलिनोदरसुत्पकूर्माः ।
अस्यां तरङ्गितनुतोयपलायमान-मीनानुसारिबकदत्तकरालफलाः ॥

अपङ्किलतटावटः शफरफाण्टफालोज्ज्वलः पतत्कुररकातरभ्रमददभ्रमीनार्भकः ।
लुठत्कमठसैकतश्चलबकोटवाचाटितः सरित्सलिलसंचयः शरदि मेदुरः सीदति" ॥

शरत् ॥

द्वित्रिमुचुकुन्दकलिकस्त्रिचतुरमुकुलः क्रमेण लवलीषु ।
पञ्चषफलिनीकुसुमो जयति हिमर्त्तुर्नवावतरः ॥

पुन्नागरोध्रप्रसवावतंसा वामभ्रुवः कञ्चुककुञ्चिताङ्ग्यः ।
वक्रोल्लसत्कुङ्कुमसिक्थकाङ्काः सुगन्धतैलाः कवरीर्वहन्ति ॥

यथा यथा पुष्पति शीतकालस्तुषारचूर्णोत्करकीर्णवातः ।
तथा तथा यौवनशालिनीनां कवोष्णतामत्र कुचा लभन्ते ॥

वराहवर्धाणि नवौदनानि दधीनि सन्नद्धशराणि चात्र ।
सुकोमलाः सर्षपकन्दलीश्च भुक्त्वा जनो निन्दति वैद्यविद्याम् ॥

अत्रोपचारः सलिलैः कवोष्णैर्यत्किञ्चिदत्र स्वदते ऽन्नपानम् ।
सुदुर्भगामत्र निपीड्य शेते स्वस्त्यस्तु नित्यं तुहिनर्त्तवे ऽस्मै ॥

विमुक्तबर्हा विमदा मयूराः प्ररुढगोधूमयवा च सीमा ।
व्याघ्रीप्रसूतिः सलिलं सबाष्पं हेमन्तलिङ्गानि जयन्त्यमूनि ॥

सशमीधान्यपाकानि क्षेत्राण्यत्र जयन्ति च ।
त्रिशङ्कुतिलका रात्र्यः पच्चन्ते लवणानि च ॥

उद्यानानां मूकपुंस्कोकिलत्वं भृङ्गस्त्रीणां मौनमुद्रा मुखेषु ।
मन्दोद्योगा पत्रिणां व्योमयात्रा हेमन्ते स्यात्सर्पदर्पक्षयश्च ॥

कर्कन्धूनां नागरङ्गीफलानां पाकोद्रेकः खाण्डवोप्याविरस्ति ।
कृष्णेक्षूणां पुण्ड्रकाणां च गर्भे माधुर्यश्रीर्जायते काप्यपूर्वा ॥

येषां मध्येमन्दिरं तल्पसम्पत् पार्श्वे दाराः स्फारतारुण्यताराः ।
लीलावह्निर्निह्नुतोद्दामधूमस्ते हेमन्तं ग्रीष्मशेषं विदन्ति" ॥

इति हेमन्तः ।
हेमन्तधर्मः शिशिरः, विशेषस्तु ।
"रात्रिर्विचिघत्रसुरतोचितयामदैर्ध्या चाण्डो मरुदूहति कुङ्कुमपङ्कसाघ्यः ।
तल्पस्थितिर्द्विगुणतूलपटा किमन्यद् अर्घन्ति चात्र विततागुरुधूपधूमाः ।
ब" आश्लेषिणा पृथुरतक्लमपीतशीतम् आयामिनीं घनमुदो रजनीं युवानः ।
ऊर्वोर्मुहुर्वलनबन्धनसंधिलोल-पादान्तसंवलिततूलपटाः स्वपन्ति ॥

पाने ऽम्भसोः सुरसनीरसयोर्न भाति स्पर्शक्रियासु तुहिनानलयोर्न चात्र ।
नो दुर्भगासुभगयोः परिरम्भणे च नो सेवने च शशिभास्करयोर्विशेषः ॥

पुष्पक्रिया मरुबके जलकेलिनिन्दा कुन्दान्यशेषकुसुमेषु धुरि स्थितानि ।
सौभाग्यमेणतिलकाद्भजते ऽर्कबिम्बं काले तुषारिणि दहन्ति च चन्दनानि ॥

सिद्धार्थयष्टिषु यथोत्तरहीयमानसन्तानभिन्नघनसूचिपरम्परासु ।
द्वित्रावशेषकुसुमासु जनिक्रमेण पाकक्रमः कपिशिमानमुपादधाति ॥

उदीच्यचण्डानिलाताडितासु सुलीनमीनासु जलस्य मूले ।
नालावशेषाब्जलतास्विदानीं विलासवापीषु न याति दृष्टिः ॥

माद्यन्मतङ्गः पृषतैकतोषी पुष्पद्वराहो धृतिमल्लुलायः ।
दरिद्रनिन्द्यः सधनैकवन्द्यः स एष कालः शिशिरः करालः ॥

अभानवबधूरोषस्वादुः करीषतनूनपा-दसरलजनाश्लेषक्रूरस्तुषारसमीरणः ।
गलितविभवस्यज्ञेवाद्य द्युतिर्मसृणा रवे र्विरहिवनितावक्त्रौपभ्यं बिभर्त्तिं निशाकरः ॥

स्त्रियः प्रकृतिपित्तलाः क्कथितकुङ्कुमालेपनैर् नितम्बफलकस्तनस्थलभुजोरुमूलपादिभिः ।
इहाभिनवयौवनाः सकलरात्रिसश्लेषितैर् हरन्ति शिशिरज्वरारतिमतीव पृथ्वीमपि" ॥

शिशिरः ॥

"चैत्रे मदर्ध्दिः शुकसारिकाणां हारीतदात्यूहमधुव्रतानाम् ।
पुंस्कोकिलानां सहकारबन्धुः मदस्य कालः पुररेषु एव ॥

मनो ऽधिकं चात्र विलासलास्ये प्रेङ्खासु दोलासु च सुन्दरीणां ।
गीते च गौरीचरितावतंसे पूजाप्रपञ्चे च मनोभवस्य ॥

पुंस्कोकिलः कूजति पञ्चमेन बलाद्विलासा युवतौ स्फुरन्ति ।
स्मरो वसन्ते ऽत्र नवैः प्रसूनैः स्वचापयष्टेर्घटनां करोति ॥

पिनद्धमाहारजनांशुकानां सीमन्तसिन्दूरजुषां वसन्ते ।
स्मरीकृते प्रेयसि भक्तिभाजां विशेषवेषः स्वदते वधूनाम् ॥

अयं प्रसूनोद्धुरकर्णिकारः पुष्पपञ्चार्चितकाञ्चनारः ।
विजृम्भणाकोविदकोविदारः कालो विकाशोद्यतसिन्दुवारः ॥

रोहितकाम्रातककिङ्किराता मधूकमोचाः सह माधवीभिः ।
जयन्ति शोभाञ्जनकश्च शाखी सकेसरः पुष्पभरैर्वसन्ते ॥

यो माधवीमुकुलदृष्टिषु वेणिबन्धो यः कोकिलकलरुतेः कथने च लाभः ।
पूजाविधिर्दमनकेन च यः स्मरस्य तस्मिन्मधुः स भगवान्गुरुरङ्गनानाम् ॥

नालिङ्गितः कुरबकस्तलको न दृष्टो ना ताडितश्च चरणैः सुदृशामशोकः ।
सिक्ता न वक्त्रमधुना बकुलश्च चैत्रे चित्रं तथापि भवति प्रसवावकीर्णाः ॥

चैत्रे चित्रौ रक्तनीलावशोकौ स्वर्णाशोकस्तत्तृतीयश्च पीतः ।
जैत्रं तन्त्रं तत्प्रसूनान्तरेभ्यश्चेतोयोनेः भूर्भुवः स्वस्त्रये ऽपि ॥

गूवाकानां नालिकेरद्रुमाणां हिन्तालानां पाटलसीकिंशिकानाम् ।
खर्जूराणां ताडताडीतरुणां पुष्पापीडन्यासहेतुर्वसन्तः ॥

विकासकारी नवमल्लिकानां दलच्छिरीषप्रसवाभिरामः ।
पुष्पप्रदः काञ्चनकेतकीनां ग्रीष्मो ऽयमुल्लासितधातकीकः ॥

खर्जूरजम्बूपनसाम्रमोचप्रियालपूगीफलनालिकेरैः ।
द्वन्द्वानि खेदालसतामुपस्य रतानुसन्धानमिहाद्रियन्ते ॥

स्रोतांस्यनभ्भांसि सकूपकानि प्रपाः कठोरे ऽहनि पान्थपूर्णाः ।
शुचौ समभ्यर्थितसक्तुपाने प्रगे च सायं च वहन्ति मार्गाः ॥

यत्कायमानेषु दिनार्दिनिद्रा यत्स्नानकेलिर्दिवसावसाने ।
यद्रात्रिशेषे सुरतावतारः स मुष्टियोगो घनघर्ममाथी ॥

या चन्द्रिका चन्दनपङ्कहृद्या या जालमार्गानिलवीचिमाला ।
या तालवृन्तैरुदबिन्दुवृष्टिर्-जलाञ्जलिं सा शुचये ददाति ॥

कर्पूरचूर्णं सहकारभङ्गस्ताम्बूलमार्द्रक्रमुकोपकॢत्पम् ।
हाराश्च तारास्तनुवस्त्रमेतन्महारहस्यं शिशिरक्रियायाः ॥

मुक्तालताश्चन्दनपङ्कदिग्धा मृणालहारानुसृता जलार्द्राः ।
स्त्रजश्च मौलौ स्मितचम्पकानां ग्रीष्मे ऽपि सो ऽयं शिशिरावतारः" ॥

अत्र हि- "पच्यन्त इव भूतानि ताप्यन्त इव पांसवः ।
क्कथ्यन्त इव तोयानि ध्मायन्त इव चाद्रयः ॥

एणाः स्थलीषु मृगतृष्णिकया ह्रियन्ते स्रोतस्तनुत्वजनिता जलवेणिबन्धाः ।
ताम्यत्तिमीनि च सरांसि जलस्य शेषाद् उच्चारघट्टिघटिकावलयाश्च कूपाः ॥

करभाः शरभाः सरासभा मदमायान्ति भजन्ति विक्रियाम् ।
करवीरकरीरपुष्पिणीः स्थलभूमीरधिरुह्य चासते ॥

सहकाररसार्चिता रसाला जलभक्तं फलपानकानि मन्थाः ।
मृगलावरसाः शृतं च दुग्ध स्मरसञ्जीवनमौषधं निदाधे ॥

जलचन्दनचारवस्तारुण्यः सजलार्द्राः सहतारहारमालाः ।
कदलीदलतल्पकल्पनस्थाः स्मरमाहूय निवेशयन्ति पार्श्वे ॥

ग्रीष्मे चीरीनादवन्तो वनान्ताः पङ्काभ्यक्ताः सौरिभाः सेभकोलाः ।
लोलज्जिह्वाः सर्पसारङ्गवर्गा मूलस्त्रस्तैः पत्रिणश्चांसदेशैः ॥

हर्म्यं रम्यं चन्द्रिकाधौतपृष्टं कान्तोच्छिष्टा वारुणी वारिमिश्रा ।
मालाः कण्ठे पाटला मल्लिकानां सद्यो ग्रीष्मं हन्त हेमन्तयन्ति ॥

ग्रीष्मः ॥

चतुरवस्थश्च ऋतुरुपनिबन्धनीयः ।
तद्यथा सन्धिः, शैशवं, प्रौढिः, अनवृत्तिश्च ।
ऋतुद्वयमध्यं सन्धिः ।
शिशिरवसन्तसन्धिर्यथा- "त्युतसुमनसः कुन्दाः पुष्पोद्गमेष्वलसा द्रुमा मनसि च गिरं गृह्णन्तीमे गिरन्ति न कोकिलाः ।
अथ च सवितुः शीतोल्लासं लुनन्ति मरीचयो न च जरठतामालम्बन्ते क्लमोदयदायिनीम्" ॥

वसन्तशैशवम् - "गर्भग्रन्थिषु वीरुधां सुमनसो मध्ये ऽङ्कुरं पल्लवा वाञ्छामात्रपरिग्रहः पिकवधूकण्ठोदरे पञ्चमः ।
किं च त्रीणि जगन्ति जिष्णु दिवसैर्द्विघत्रैर्मनोजन्मनो देवस्यापि चिरोज्भ्फितं यदि भवेदभ्यासवश्यं धनुः" ॥

वसन्तप्रौढिः- "साम्यं सम्प्रति सेवते विचकिलं षाण्मासिकैर्मौक्तिकैः कान्तिं कर्षति काञ्चनारकुसुमं माज्जिष्टधौतात्पटात् ।
हूणीनां कुरुते मधूकमुकुलं लावण्यलुण्टाकतां लाटीनाभिनिभं चकास्ति च पतद्वृन्ताग्रतः केसरम्" ॥

अतिक्रान्तर्तुलिङ्गं यत्कुसुमाद्यनुवत्तते ।
लिङ्गनुवृत्तिं तामाहुः सा ज्ञेया काव्यलोकतः ॥

वर्षासु ग्रीष्मलिङ्गाब्जविकासानुवृत्तिः ।
खं वस्ते कलविङ्ककण्ठमलिनं कादम्बिनीकम्बलं चर्चा पारयतीव दर्दुरकुलं कोलाहलैरुन्मदम् ।
गन्धं मुञ्चति सिक्तलाजसदृशं वर्षेण दग्धा स्थली दुर्लक्ष्यो ऽपि विभाव्यते कमलिनीहासेन भासां पतिः ॥

" एवमन्या अपि ।
किञ्च- ग्रैष्मिकसमयविकासी कथितो धूलीकदम्ब इति लोके ।
जलधरसमयप्रात्पौ स एव धाराकदम्बः स्यात् ॥

यथा- "धूलीकदम्बपरिधूसरदिङ्मुखस्य रक्तच्छटासुरशरासनमण्टनस्य ।
दीत्पायुधाशनिमुचो ननु नीलकण्ठ नोत्कण्ठसे समरवारिधरागमस्य" ॥

जलसमयजायमानां जातिं यां कर्द्दमीति निगदन्ति ।
सा शरदि महोत्सविनी गन्धान्वितषट्पदा भवति ॥

यथा- "स्थूलावश्यायबिन्दुद्युतिदलितबृहत्कोरकग्रन्थिभाजो जात्या जालं लतानां जरटपरिमलप्लावितानां जजृम्भे ।
नानाहंसोपधानं सपदि जलनिधेश्वोत्ससर्पापरस्य ज्योत्स्नाशुक्लोपधानं शयनमिव शशी नागभोगाङ्कमभ्भः" ॥

स्तोकानुवृत्तिं केतक्या अपि केचिदिच्छन्ति ।
यथा- "असूच्यतः शरत्कालः केतकीधूलिधूसरैः ।
पद्मताम्रैर्नवायातश्चरणैरिव वासरैः" ॥

शरद्भावानामनुवृत्तिरत्र बाणासनानां सकुरुण्टकानाम् ।
हेमन्तवक्त्रे यदि दृश्यते ऽपि न दृश्यते बन्धविधिः कवीनाम् ॥

हेमन्तशिशिरयोरैक्ये सर्वलिङ्गानुवृत्तिरेव ।
उक्तं च ।
"द्वादशमासः संवत्सरः, पञ्चर्तवो हेमन्तशिशिरयोः समासेन" ।
मरुबकदमनकपुन्नागपुष्पलिङ्गानुवृत्तिभिः सुरभिः ।
रचनीयश्चित्रश्रीः कश्चित्कुन्दानुवृत्त्या च ॥

"गृहे वाहीकयूनां वहति दमनको मञ्जरीकर्णपूरान् उन्मादः पामरीणां मरुति मरुबकामोदिनि व्यक्तिमेति ।
सद्यो भङ्गानुसारस्त्रुतसरभिशिराशीकरः साहकारः सर्परन्नम्भःशरावे रचयति च रसो रचकीचन्द्रकाणि ॥

कुन्दे मन्दस्तमाले मुकुलिनि विकलः कातरः किङ्किराते रक्ताशोके सशोकश्चिरमतिविकचे चम्पके कुञ्चिताक्षः ।
पान्थः खेदालसो ऽपि श्रवणकटुरटच्चक्रमभ्येति धुन्वन् सोत्कण्ठः षट्पदानां नवमधुपटलीलम्पटं कर्पटेन" ॥

यथा वा- "धुनानः कावेरीपरिसरभुवश्चन्दनतरुन् मरुन्मन्दः कुन्दप्रकारमकरन्दानवकिरन् ।
प्रियक्रीडाकर्षच्युतकुसुममामूलसरलं ललाटे लाटीलां लुठितमलकं ताण्डवयिति" ॥

एवमन्याप्यनुवृत्तिः ।
"विचकिलकेरसरपाटलिचम्पपुष्पानुवृत्तयो ग्रीष्मे ।
तत्र च तुहिनर्तुभवं मरुबकमपि केचिदिच्छन्ति" ॥

यथा- "कर्णे स्मेरं शिरीषं शिरसि विचकिलस्रग्लताः पाटलिन्यः कण्ठे मार्णालहारो वलयितमसिताभ्भोजनालं कलाच्योः ।
समोदं चन्दनाभ्भः स्तनभुवि नयने म्लाननाञ्जिष्ठपृष्ठे गात्रं लोलज्जलार्द्रं जयति मृगदृशां ग्रौष्मिको वेष एषः" ॥

यथाच - "अमिनवकुशसूचिस्पर्द्धि कर्णे शिरीषं मरुबकरिवारं पाटलादाम पण्ठे ।
स तु सरसजलार्देन्मीलितः सुन्दरीणां दिनपरिणतिजन्मा को ऽपि वेषश्चकास्ति" ॥

एवमुदाहरणान्तराणि ।
"ऋतुभववृत्त्यनुवृत्ती दिङ्मात्रेणात्र सूचिते सन्तः ।
शेषं स्वधिया पश्यत नामग्राहं कियद्ब्रूमः ॥

देशेषु पदार्थानां व्यत्यासो दृश्यते स्वरूपस्य ।
तन्न तथा बध्वीयात्कविबद्धमिह प्रमाणं नः" ॥

शोभान्धोगन्धसरैः फलार्चनाभ्यां च पुष्पमुपयोनि ।
षोढा दर्शितमेतत्स्यात्सत्पममनुपयोगि ॥

यथा- यत्प्राचि मासे कुसुमं निबद्धं तदुत्तरे बालफलं विधेयम् ।
तदग्रिमे प्रौढिधरं च कार्यं तदग्रिमे पाकपरिष्कृतं च ॥

द्रुमोद्भवानां विधिरेषु दृष्टो बल्लीफलाना न महाननेहा ।
तेषां द्विमासावधिरेव कार्यः पष्पे फले पाकविधौ च कालः ॥

अन्यर्व्याजं बहिव्याजं बाह्यान्तर्व्याजमेव च ।
सर्वव्याजं बहुव्याजं निर्व्याजं च तथा फलम् ॥

लकुचाद्यन्तर्व्याजं तथा बहिर्व्याजमत्र मोचादि ।
आम्राद्युभयव्याजं सर्वव्याजं च ककुभादि ॥

पनसादि बहुव्याजं नीलकपित्थादि भवति निर्व्याजम् ।
सकलफलानां षोढा ज्ञातव्यः कविभिरिति भेदः ॥

एकद्वित्र्यादिभेदेन सामस्त्येनाथवा ऋतून् ।
प्रबन्धेषु निबन्धीयात्क्रमेण व्युत्क्रमेण वा ॥

न च व्युत्क्रमदोषो ऽस्ति कवेरर्थपथस्पृशः ।
तथा तथा कापि भवेद् व्युत्क्रमो भूषाणां यथा ॥

अनुसन्धानशून्यस्य भूषणं दूषणायते ।
सावधानस्य च कवेर्दूषणं भूषणायते ॥

इति कालविभागस्य दर्शिता वृत्तिरीदृशी ।
कवेरिह महान्मोह इह सिद्धो महाकविः ॥

इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमे ऽधिकरणे कालविभागो नाम अष्टादशो ऽध्यायः


समात्पमिदं प्रथममधिकरणं कविरहस्यं काव्यमीमांसायाम्

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP