संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|काव्यमीमांसा| चतुर्थो ऽध्यायः काव्यमीमांसा प्रथमो ऽध्यायः द्वितीयो ऽध्यायः तृतीयो ऽध्यायः चतुर्थो ऽध्यायः पञ्चमो ऽध्यायः षष्ठो ऽध्यायः सप्तमो ऽध्यायः चतुर्थो ऽध्यायः नवमो ऽध्यायः दशमोऽध्यायः एकादशो ऽध्यायः द्वदशो ऽध्यायः त्रयोदशो ऽध्यायः चतुर्दशो ऽध्यायः पञ्चदशो ऽध्यायः षोडशो ऽध्यायः सप्तदशो ऽध्यायः अष्टादशो ऽध्यायः काव्यमीमांसा - चतुर्थो ऽध्यायः संस्कृत कवि राजशेखरद्वारा द्वारा रचित काव्यमीमांसा अलंकार शास्त्र पर लिखा गया एक विशालकाय ग्रंथ था, जिसमें मूलत: 18 अधिकरण थे। राजशेखर महाराष्ट्र देशवासी थे और यायावर वंश में उत्पन्न हुए थे। Tags : kavyamimansarajashekharकाव्यमीमांसाराजशेखरसंस्कृत वाक्यार्थयोनयः Translation - भाषांतर वाक्यार्थयोनयः "श्रुतिः, स्मृतिः, इतिहासः, पुराणं, प्रमाणविद्या, राजसिद्धान्तत्रयी, लोको, विरचना, प्रकीर्णकं च काव्यार्थानां द्वादश योनयः" इति आचार्याः ।"उचितसंयोगेन, योक्तृसंयोगेन, उत्पाद्यसंयोगेन, संयोगविकारेण च सह षोडश" इति यायावरीयः ।तत्र श्रौतः ।"उर्वशी हाप्सराः पुरुरवसमैडं चकमे" ।अत्रार्थे- "चन्द्राद् बुधः समभवद्भगवान्नरेन्द्र-माद्यं पुरुरवसमैडमसावसूत ।तं चाप्सराः स्मरवती चकमे किमन्यद् अत्रोर्वशी स्मितवशीकृतशक्रचेताः" ॥यथा वा- "यदेतन्मण्डलं तपति तन्महदुक्थं ता ऋचः स ऋचां लोको ऽथ यदेतदर्चिर्दीप्यते तन्महाव्रतं तानि सामानि स साम्नां लोतो ऽथ य एष तस्मिन्मण्डले पुरुषः सो ऽग्निस्तानि यजूंषां लोकः सैषा त्रय्येव विद्या तपति" ।अत्रार्थे- "एतद्यन्मण्डलं खे तपति दिनकृतस्ता ऋचो ऽर्चींषि यानि द्योतन्ते तानि सामान्ययमपि पुरुषो मण्डले ऽणुर्यजूंषि ।एवं यं वेद वेदत्रियमयमयं वेदवेदी समग्रो वर्गः स्वर्गापवर्गप्रकृतिरविकृतिः सो ऽस्तु सूर्यः श्रिये वः" ॥तच्चेदं वेदहरणं यदित्थं कथयन्ति--- "नमो ।स्तु तस्यै श्रुतये यां दुहन्ति पदे पदे ।ऋषयः शास्त्रकारश्च कवयश्च यथामति" ॥स्मार्त्तः- "बह्वर्थेष्वभियुक्तेन सर्वत्र व्यपलापिना ।विभावितैकदेशेन देयं यदभियुज्यते" ॥अत्रार्थे- "हंस प्रयच्छ मे कान्तां गतिस्तस्यास्त्वया हृता ।सम्भावितैकदेशेन देयं यदभियुज्यते" ॥ऐतहासिकाः- "न स सङ्कुचितः पन्था येन वाली हतो गतः ।समये तिष्ठ सुग्रीव मा वालिपथमन्वगाः" ॥अत्र- "मदं नवैश्वर्यलवेन लम्भितं विसृज्य पूर्वं समयो विमृश्यताम् ।जगज्जिघत्सातुरकण्ठकद्धतिर्न बालिर्नैवाहततृत्पिरन्तकः" ॥पौराणिकाः- "हिरण्यकशिपुर्दैत्यो यां यां स्मित्वाप्युदैक्षत ।भयभ्रान्तैः सुरैश्चक्रे तस्यै तस्यै दिशे नमः" ॥अत्र- "स सञ्चरिष्णुर्भुवनत्रये ऽपि यां यदृच्छयाशिश्रियदाश्रयः श्रियः ।अकारि तस्यै मुकुटोपलस्खलत्करैस्त्रिसन्ध्यं त्रिदशैर्दिशे नमः" ॥अत्राहुः- "श्रुतीनां साङ्गशाखानामितिहासपुराणयोः ।अर्थग्रन्थः कथाभ्यासः कवित्वस्यैकमौषधम् ॥इतिहासपुराणाभ्यां चक्षुर्भ्यामिव सत्कविः ।विवेकाञ्जनशुद्धाभ्यां सूक्ष्ममप्यर्थमीक्षते ॥वेदार्थस्य निवन्धेन श्लाध्यन्ते कवयो यथा ।स्मृतीनामितिहासस्य पुराणस्य तथा तथा" ॥द्विविधः प्रामाणिको मैमांसिकस्तार्किकश्च ।तत्र प्रथमः शब्दस्य सामान्यमभिधेयं विशेषश्चार्थः ।अत्र- "सामान्यवाचि पदमप्यभिधीयमानं मां प्राप्य जातमभिधेयविशेषनिष्टम् ।स्त्री काचिदित्यभिहिते सततं मनो मे तामेव वामनयनां विषयीकरोति" ॥तर्केषु साङ्खयीयः- "नासतो विद्यते भावो नाभावो विद्यते सतः ।उभयोरपि दृष्टो ऽन्तस्त्वनयोस्तत्त्वदर्शिभिः" ॥अत्र- "य एते यज्वानः प्रथितमहसो ये ऽप्यवनिपा मृगाक्ष्यो याश्वेताः कृतमपरसंसारकथया ।अमी ये दृश्यन्ते फलकुसुमनम्राश्च तरवो जगत्येवंरुपा विलसति मृदेषा भगवती" ॥न्यायवैशेषिकीयः-स किंसामग्रीक ईश्वरः कर्त्ता? इति पूर्वपक्षः ।निरतिशयैश्वर्यस्य तस्य कर्तृत्वमिति सिद्धान्तः ।अत्र- "किमीहः किङ्कायः स खलु किमुपायस्त्रिभुवनं किमाधारो धाता सृजति किमुपादान इति च ।अतर्क्यैश्वर्ये त्वय्यनवसरदुःस्थो हृतधियः कुतर्को ऽयं कांश्वन्मुखरयति मोहाय जगतः" ॥बोद्धीयः- विवक्षापूर्वा हि शब्दास्तामेव विवक्षां सूचयेयुः ।अत्र- "भवतु विदितं शब्दा वक्तुर्विवक्षितसूचकाः स्मरवति यतः कान्ते कान्तां बलात्परिचुम्बति ।न न न म म मा मा मां स्प्राक्षीर्निषेधपरं वचो भवति शिथिले मानग्रन्थौ तदेव विधायकम्" ॥लौकायतिकः - भूतेभ्यश्वैतन्यं मदशक्तिवत् ।अत्र- "बहुविधमिह साक्षिचिन्ताकाः प्रवदन्त्यन्यदितः कलेवरात् ।अपि च सुदति ते सचिन्तकाः प्रलयं यान्ति सहैव चिन्तया" ॥आर्हतः - शरीरपरिमाण आत्मा, अन्यथा शरीराफल्यमात्माफल्यं वा ।अत्र- "शरीरमात्रमात्मानं ये वदन्ति जयन्ति ते ।तच्चुम्बने ऽपि यज्जातः सर्वाङ्गपुलको ऽस्य मे" ॥सर्वपार्षदत्वात्काव्यविद्यायाः तानिमानन्यांश्चार्थान्व्युत्यत्तये प्रत्यवेक्षेत ।आहुश्च- "यांस्तर्ककर्कशानर्थान्सीक्तिष्वाद्रियते कविः ।सूर्यांशव इवेन्दौ ते काञ्चिदर्चन्ति कान्तताम्" ॥समयविद्यासु शैवसिद्धान्तीयः- "घोरघोरतरातीतब्रह्मविद्याकलातिगः ।परापरपदव्यापी पायादूः परमेश्वरः" ॥पञ्चरात्रः- "नाद्यान्तवन्तः कवयः पुराणाः सूक्ष्मा बृहन्तो ऽप्यनुशासितारः ।सर्वज्वरान्ध्वन्तु ममानिरुद्धप्रद्युम्नसङ्कर्षणवासुदेवाः" ॥बौद्धसिद्धान्तीयः- "कलिकृतकलुषाणि यानि लोके मयि निपतन्तु विमुच्यतां स लोकः ।मम हि सुचरितेन सर्वसत्त्वाः परमसुखेन सुखावनीं प्रयान्तु" ॥एवं सिद्धान्तन्तान्तरेष्वपि ।राजसिद्धान्तत्रय्यामर्थशास्त्रीयः - "शमव्यायामाभ्यां प्रतिविहिततन्त्रस्य नृपतेः परं प्रत्युच्चैर्नम कुञ्चयाग्रचरणं मां पश्य तावत्स्थितम् ।बहुव्याजं राज्यं न सुकरमराजप्रणिधिभिर् दुराराधा लक्ष्मीरनवहिदचित्तं छलयति" ॥नाट्यशास्त्रीयः- "एवं धारय देवि बाहुलतिकामेवं कुरुष्वाङ्गकं मात्युच्चैर्नम कुञ्चयाग्रचरणं मां पश्य तावत्स्थितम् ।देवीं नर्त्तयतः स्ववक्रमुरजेनाभ्भोधरध्वानिना शभ्भोर्वः परिपान्तु लम्बितलयच्छेदाहृतास्तालिकाः" ॥कामसूत्रीयः- "नाश्वर्यं त्वयि यल्लक्ष्मीः क्षिप्त्वाधोक्षमागता ।असौ मन्दरतस्त्वं तु प्रात्पः समरतस्तया" ॥लौकिकस्तु द्विधा प्राकृतो व्युत्पन्नश्च ।तयोः प्रथमः- "स्फुटितपिठरीबन्धश्लाध्यो विपक्षगृहेप्यभूत् प्रियतम ययोः स्नेहग्रन्थिस्तथा प्रथमं स नौ ।जनवदधुना सद्मन्यावां वसाव इहैव तौ धिगपरिचिते प्रेम स्त्रीणां चिराय च जीवितम्" ॥यथा वा- "इक्षुदण्डस्य मण्डस्य दध्नः पिष्टकृतस्य च ।वाराहस्य च मांसस्य शेषो गच्छति फाल्गुने" ॥द्वितीयो द्विधा समस्तजनजन्यः कतिपयजनजन्यश्च ।तयोः प्रथमो ऽनेकधा देशानां बहुत्वात् ।तत्र दाक्षिणात्यः- "पिबन्त्यास्वाद्य मरिचं ताम्बूलविशदैर्मुखैः ।प्रियाधरावदंशानि मधूनि द्रविडाङ्गनाः" ॥यथा वा- "विरम मदन कस्त्वं चैत्रघ का शक्ति रिन्दोर् इह हि कुसुमबाणाः कुण्ठिताग्राः स्खलन्ति ।हृदयभ्रुव इमास्ताः कुन्तलप्रेयसीनां प्रहतिकिणकठोरग्रन्थयो वज्रसाराः" ॥उदीच्यः- "नेपाल्यो वल्लभैः सार्द्धमार्द्रैणमदमण्डनाः ।ग्रन्थिपर्णकपालीषु नयन्ति ग्रीष्मयामिनीः" ॥द्वितीयः- "मिथ्यामीलदरालपक्ष्मणि वलत्यन्तः कुरङ्गीदृशो दीर्घापाङ्गसरित्तरङ्गतरले तत्पोन्मुखं चक्षुषि ।पत्युः केलिमतः कथां विरमयन्नन्योन्यपण्कूयनात् को ऽयं व्याहरतीत्युदीर्य निरगात्सव्याजमालीजनः" ॥कविमनीषानिर्मितं कथातन्त्रमर्थमात्रं वा विरचना ।तत्राद्या- "अस्ति चित्रशिखो नाम खङ्गवीद्याधराधिपः ।दक्षिणे मलयोत्सङ्गे रत्नवत्याः पुरः पतिः ॥तस्य रत्नाकरसुता श्रियो देव्याः सहोदरी ।स्वयंवरिधावासीत्कलत्रं चित्रसुन्दरी" ॥द्वितीया- "ज्योस्त्नां लिम्पति चन्दनेन स पुमान्सिञ्चत्यसौ मालतीमालां गन्धजलैर्मधीनि कुरुते स्वादून्यसौ फाणितैः ।यस्तस्य प्रथितान्गुणन्प्रथयति श्रीवीरचूडामणेः तारत्वं स च शाणया मृगयते मुक्ताफलानामपि" ॥अत्राहुः- "नीचैर्नार्थकथासर्गे यस्य न प्रतिभाक्षयः ।स कविग्रामणीरत्र शेषास्तस्य कुटुम्बिनः" ॥अभिहितेभ्यो यदन्यत्तत्प्रकीर्णकम् ।तत्र हस्तिशिक्षीयः- "मेघानां क्षणहासतामुपगतो हारः प्रकीर्णो दिशाम् आकाशोल्लसितामरवधूपीनस्तनास्फालकः ।क्षुण्णश्चन्द्र इवोल्बणो मदवशादैरावणप्रेरितः पायादूः परिपाकपाण्डुलवलीश्रीतस्करः शीकरः" ॥रत्नपरीक्षीयः- "द्वौ वज्रवर्णौ जगतीपतीनां सद्भिः प्रदिष्टौ न तु सार्वजन्यौ ।यः स्याज्जपाविद्रुमभङ्गशोणो यो वा हरिद्रारससन्निकाशः" ॥धनुर्वेदीयः- "स दक्षिणापाङ्गनिविष्टमुष्टिं नतांसमाकुञ्चितसव्यपादम् ।ददर्श चक्रीकृतचारुचापं प्रहर्तुमभ्युद्यतमात्मयोनिम्" ॥योगशास्त्रीयः- "यः सर्वेषां हृदयकमले प्राणिनामेकहंसस् त्वं जागर्षि स्वपिषि च मुहुर्बुध्यसे नापि बुद्धः ।तं त्वाराध्य प्रविततधियो बन्धभेदं विधाय ध्वस्तातङ्का विमलमहसस्ते भवन्तो भवन्ति" ॥एवं प्रकीर्णकान्तरमपि ।उचितसंयोगः- "पाण्ड्यो ऽयमंसार्पितलम्बहारः कॢत्पाङ्गरागो हरिचन्दनेन ।आभाति बालातपरक्तसानुः सनिर्झरोद्गार इवाद्रिराजः" ॥योक्तृसंयोगः- "कुर्वद्भिः सुरदन्तिनो मधुलिहामस्वादु दानोदकं तन्वानैर्नमुचिद्रुहो भगवताश्चक्षुः सहस्रव्यथाम् ।भज्जन् स्वर्गतरङ्गिणीजलभरे पङ्कीकृते पांसुभिर् यद्यात्राव्यसनं निनिन्द विमनाः स्वर्लोकनारीजनः" ॥उत्पाद्यसंयोगः- "उभौ यदि व्योम्नि पृथक्प्रवाहावकाशगङ्गापयसः पतेताम् ।तेनोपमीयेत तमालनीलमामुक्तमुक्तालतमस्य वक्षः" ॥संयोगविकारः- "गुणानुरागमिश्रेण यशसा तव सर्पता ।दिग्वधूनां मुखे जातमकस्मादर्द्धकुङ्कुमम्" ॥यथा वा- "उन्माद्यत्यम्बुराशिर्विदलति कुमुदं सङ्कुचन्त्यम्बुजानि स्यन्दन्ते चन्द्रकान्ताः पतितसुमनसः सन्ति शेफालिकाश्च ।पीयन्ते चन्द्रिकाम्भः क्रमसरलगलं किं च किञ्चिञ्चकोराश् चन्द्रे कर्पूरगौवद्युतिभृति नभसो याति चूडामणित्वम्" ॥इदं कविभ्यः कथितमर्थोत्पत्तिपरायणम् ।इह प्रगल्भमानस्य न जात्वर्थकदर्थना ॥इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमे ऽधिकरणे (अर्थानुशासने)षोडश काव्यार्थनयः अष्टमो ऽध्यायः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP