संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|काव्यमीमांसा| सप्तमो ऽध्यायः काव्यमीमांसा प्रथमो ऽध्यायः द्वितीयो ऽध्यायः तृतीयो ऽध्यायः चतुर्थो ऽध्यायः पञ्चमो ऽध्यायः षष्ठो ऽध्यायः सप्तमो ऽध्यायः चतुर्थो ऽध्यायः नवमो ऽध्यायः दशमोऽध्यायः एकादशो ऽध्यायः द्वदशो ऽध्यायः त्रयोदशो ऽध्यायः चतुर्दशो ऽध्यायः पञ्चदशो ऽध्यायः षोडशो ऽध्यायः सप्तदशो ऽध्यायः अष्टादशो ऽध्यायः काव्यमीमांसा - सप्तमो ऽध्यायः संस्कृत कवि राजशेखरद्वारा द्वारा रचित काव्यमीमांसा अलंकार शास्त्र पर लिखा गया एक विशालकाय ग्रंथ था, जिसमें मूलत: 18 अधिकरण थे। राजशेखर महाराष्ट्र देशवासी थे और यायावर वंश में उत्पन्न हुए थे। Tags : kavyamimansarajashekharकाव्यमीमांसाराजशेखरसंस्कृत वाक्यविधयः Translation - भाषांतर वाक्यविधयः, काकुप्रकाराः, पाठप्रतिष्ठा वाक्यं वचनमिति व्यवहरन्ति ।तच्च त्रिधा प्रणेतृभेदेन ब्राह्यं, शैवं, वैष्णवमिति ।तदिदं वायुप्रोक्तपुराणादिभ्य उपलब्धं यदुत ब्राह्यं वचः पञ्चधा स्वायम्भुवमैश्वरमार्षमार्षीकपुत्रकं च ।स्वयम्भूर्ब्रह्मा तस्य स्वायम्भुवम् ।तन्मनोजन्मानो भृगुप्रभृतयः पुत्रास्ते ईश्वरास्तेषामैश्वरम् ।ईश्वराणां सुता ऋषयस्तेषामार्षम् ।ऋषीणामपत्यानि ऋणीकास्तेषामार्षीकम् ।ऋषीकाणां सूनव ऋषिपुत्रकास्तेषामार्षिपुत्रकम् ।स्वयम्भुवः प्रथमं वचः श्रुतिः, श्रुतेरन्यञ्च स्वायम्भुवम् ।तदाहुः- "सर्वभूतात्मकं भूतं परिवादं च यद्भवेत् ।क्वचिन्निरुक्तमोक्षार्थं वाक्यं स्वायम्भुवं हि तत्" ॥तदेव स्तोकरुपान्तरपरिणतमैश्वरं वचः ।उक्तञ्च- "व्यक्तक्रममसंक्षित्पं दीत्पगम्भीरमर्थवत् ।प्रत्यक्षं च परोक्षं च लक्ष्यतामैश्वरं वचः" ॥आर्षम्- "यत्किञ्चिन्मन्त्रसंयुक्तं युक्तं नामविभक्तिभिः ।प्रत्यक्षाभिहितार्थं च तदृषोणां वचः स्मृतम्" ॥आर्षीकम्- "नैगमैर्विविधैः शब्दैर्निपातबहुलं च यत् ।न चापि सुमहद्वाक्यमृषीकाणां वचस्तु तत्" ॥आर्षिपुत्रकम्- "अविस्पष्टपदप्रायं यच्च स्याद्वहुसंशयम् ।ऋषिपुत्रवचस्तत्स्यात् ससर्वपरिदेवनम्" ॥तदुदाहरणानि पुराणेभ्य उपलभेत ।सारस्वताः कवयो नः पूर्वे इत्थङ्कारं कथयन्ति ।ब्रह्मविष्णुरुद्रगुहबृहस्पतिभार्गवादिशिष्येषु चतुःषष्टावुपदिष्टं वचः पारमेश्वरम् ।क्रमेण च सञ्चरद्देवैर्देवयोनिभिश्च यथामत्युपजीव्यमानं दिव्यमिति व्यपदिश्यते ।देवयोनयस्तु- "विद्याधरोप्सरोयक्षरक्षोगन्धर्वकिन्नराः ।सिद्धगुह्यकभूताश्च पिशाचा देवयोनयः" ॥तत्र पिशाचादयः शिवानुचराः स्वभूमौ संस्कृतवादिनः, मर्त्ये तु भूतभाषया व्यवहरन्तो निबन्धनीयाः ।अत्सरसस्तु प्राकृतभाषया ।तद्दिव्यं वचश्चतुर्द्धा ।वैबुधं वैद्याधरं गान्धर्वं योगिनीगतं च ।शेषाणामेतेष्वेवोपलक्षणं प्रकृतिसादृश्येन ।तत्र वैबुधम्- "समासव्याससंदृब्धं शृङ्गाराद्भुतसम्भृतम् ।सानुप्रासमुदारं च वचः स्यादमृताशिनाम्" ॥यथा- "यञ्चन्द्रकोटिकरकोरकभारभाजि बभ्राम बभ्रुणि जटाकुहरे हरस्य ।तद्वः पुनातु हिमशैलशिलानिकुञ्ज-भ्फात्कारडम्बरविरावि सुरापगाम्भः ॥" वैद्याधरम्- "स्तोकानुप्राससच्छायं चतुरोक्ति प्रसादि च ।द्राधीयसा समासेन विद्धि वैद्याधरं वचः ॥" यथा- "प्रणतसुरकिरीटप्रांशुरत्नांशुवंशच्छुरित-नखशिखाग्रोद्भासमानारुणाङ्घ्रे ।उदिततरणिवृन्दोद्दामधामोर्ध्वनेत्र-ज्वलननिकरदग्धानङ्गमूर्ते नमस्ते" ॥यथा वा- "भ्रमति भ्रमरकरविम्बतनन्दरवनचम्पकस्तबकगौरः ।वात्याहत इव वियति स्फुटलक्ष्मा रोहणीरमणः" ॥गान्धर्वम्- "ह्रस्वैः समासैर्भूयोभिर्विभूषितपदोच्चया ।तत्त्वार्थग्रथनग्राह्या गन्धर्वाणां सरस्वती" ॥यथा- "नमः शिवाय सोमाय सगणाय ससूनवे ।सवृषव्यालशूलाय सकपालय सेन्दवे" ॥योगिनीगतम्- "समासरुपकप्रायं गम्भीरार्थपदक्रमम् ।सिद्धान्तसमयस्थायि योगिनीनामिदं वचः" ॥यथा- "दुःखेन्धनैकदहनामृतवर्शषमेघ? संसारकूपपतनैकरावलंब? ।योगीन्द्रदर्पण? जगद्गतकृत्स्नतेजः-प्रत्यक्षचौरवर? वीरपते? नमस्ते" ॥महाप्रभावत्वाद्भौजङ्गममपि दिव्यमित्युपचर्यते ।"प्रसन्नमधुरोदात्तसमासव्यासभागवत् ।अनोजस्विपदप्रायं वचो भवति भोगिनाम्" ॥यथा- "सुसर्जितां श्रोतसुखां सुरुपामनेकरत्नोज्ज्वलचित्रिताङ्गीम् ।विद्याधरेन्द्रः प्रतिगृह्य वीणां पिनाकिने गायति मङ्गलानि" ॥"किमर्थं पुनरनुपदेश्ययोर्ब्राह्यपारमेश्वरयोर्वाक्यमार्गयोरुपमन्यासः?" इत्याचार्याः ।"सो ऽपि कवीनामुपदेशपरः" इति यायावरीयः ।यतो नाटकादावीश्वरादीनां देवानां च प्रवेशे तच्छायावन्ति वाक्यानि विधेयानीति दिव्यम् ।इह हि प्रयोवादो यदुत मर्त्यावतारव्यवहाररुचेर्भगवतो वासुदेवस्य वचो वैष्णवं तन्मानुषमिति व्यपदिशन्ति ।तच्च त्रिधा रीतित्रयभेदेन ।तदाहुः- "वैदर्भी गौडीया पाञ्चाली चेति रीतयस्तिस्रः ।आशु च साक्षान्निवसति सरस्वती तेन लक्ष्यन्ते" ॥रीतिरुपं वाक्यत्रितयं काकुः पुनरनेकयति ।"काकुर्वक्रोक्तिर्नाम शब्दालङ्कारोयम्" इति रुद्रटः ॥"अभिप्रायावान्पाठधर्मः काकुः, स कथमलङ्कारी स्यात्?" इति यायावरीयः ।सा च द्विधा साकाङ्क्षा निराकाङ्क्षा च ।वाक्यान्तराकाङ्क्षिणी साकाङ्क्षा, वाक्योत्तरभाविनी निराकाङ्क्षा ।तदेव वाक्यं काकुविशेषेण साकाङ्क्षम् ।तदेव काकुमन्तरेणनिराकाङ्क्षम् ।आक्षेपगर्भा, प्रश्नगर्भा, वितर्कगर्भा चेति साकाङ्क्षा ।विधिरुपा, उत्तररुपा, निर्णयरुपेति निराकाङ्क्षा ।तत्राक्षेपगर्भा- "यदि मे वल्लभा दूती तदाहमपि वल्लभा ।यदि तस्याः प्रिया वाचः तन्ममापि प्रियप्रियाः" ॥एवमेव निर्देष्टुर्विधिरुपा ।प्रश्नगर्भा- "गतः स कालो यत्रासीन्मुक्तानां जन्म वल्लिषु ।वर्त्तन्ते साम्प्रतं तासां हेतवः शुक्तिसम्पुटाः" ॥इयमेवोपदेष्टिरुत्तररुपा ।वितर्कगर्भा- "नवजलधरः सन्नद्धो ऽयं न दृत्पनिशाचरः सुकधनुरिदं दूराकृष्टं न नाम शरासनम् ।अयमपि पटुर्धारासारो न बाणपरम्परा कनकनिकषस्निग्धा विद्युत्प्रिया न ममोर्वशी" ॥इयमेवोपदेष्टुर्निर्णयरुपा ।ता इमास्तिस्रो ऽपि नियतनिबन्धाः ।तद्विपरीताः पुनरनन्ताः ।तत्राभ्युपगमानुनयकाकू- "युष्मच्छासनलङ्घनाम्भसि मया मग्नेन नाम स्थितं प्रात्पा नाम विगर्हणा स्थितिमतां मध्ये ऽनुजामामपि ।क्रोधोल्लासितशोणितारुणगदस्योच्छिन्दतः कौरवा-नद्यैकं दिवसं ममासि न गुरुर्नाहं विधेयस्तव" ॥अभ्यनुज्ञोपहासकाकू- "मथ्नामि कौरवशतं समरे न कोपाद् दुःशासनस्य रुधिरं न पुबाम्युरस्तः ।सञ्चूर्णयामि गदया न सुयोधनोरु सन्धिं करोतु भवतां नृपतिः पणेन" ॥एवं त्रिचतुरकाकुयोगो ऽपि ।तत्र त्रियोगः- "सेयं पश्यति नो कुरङ्गकवधूस्त्रस्तैवमरद्वीक्षते तस्याः पाणिरयं न मारुतवलत्पत्राङ्गुलिः पल्लवः ।तारं रोदिति सैव नैष मरुता वेणुः समापूर्यते सेयं मामभिभाषते प्रियतमा नो कोकिलः कूजति" ॥चदुर्योगः- "उच्यतां स वचनीयमशेषं नेश्वरे परुषता सखि सार्ध्वी ।आनयैनमनुनीय कथं वा विप्रियाणि जनयन्ननुनेयः" ॥"सख्या वा नायिकाया वा सखीनायिकयोरथ ।सखीनां भूयसीनां वा वाक्ये काकुरिह स्थिता" ॥पदवाक्यविदां मार्गो यो ऽन्यथैव व्यवस्थितः ।स त्वाङ्गाभिनयद्योत्या तं काकुः कुरुते ऽन्यथा ॥अयं काकुकृतो लोके व्यवहारो न केवलम् ।शास्त्रेष्वप्यस्य साम्राज्यं काव्यस्याप्येष जीवितम् ॥कामं विवृणुते काकुरर्थान्तरमतन्द्रिता ।स्फुटीकरोति तु सतां भावाभिनयचातुरीम् ॥इत्थं कविर्निबध्नीयादित्थं च मतिमान्पठेत् ।यथा निबन्धनिगदश्छायां काञ्चिन्निषिञ्चति ॥करोति काव्यं प्रायेण संस्कृतात्मा यथा तथा ।पठितुं वेत्ति स परं यस्य सिद्धा सरस्वती ॥यथा जन्मान्तराभ्यासात्कण्ठे कस्यापि रक्तता ।तथैव पाठसौन्दर्यं नैकजन्मविनिर्मितम् ॥ससंस्कृतमपभ्रंशं लालित्यालिङ्गितं पठेत् ।प्राकृतं भूतभाषां च सौष्ठवोत्तरमुद्गिरेत् ॥प्रसन्ने मन्द्रयोद्वाचं तारयेत्तद्विरोधिनि ।मन्द्रतारौ च रचयेन्निर्वाहिणि यथोत्तरम् ॥ललितं काकुसमन्वितमुज्ज्वलमर्थवशकृतपरिच्छेदम् ।श्रुतिसुखविविक्तवर्णं कवयः पाठं प्रशंसन्ति ॥अतितूर्णमतिविलम्बितमुल्बणनादं च नादहीनं च ।अपदच्छिन्नमनावृतमतिमृदुपरुषं च निन्दन्ति ॥गम्भीरत्वमनैश्चर्यं निर्व्यूढिस्तारमन्द्रयोः ।संयुक्तवर्णलावण्यमिति पाठगुणाः स्मृताः ॥यथा व्यघ्री हरेत्पुत्रान् दंष्ट्राभिश्च न पीडयेत् ।भीता पतनभेदाभ्यां तद्वदूर्णान्प्रयोजयेत् ॥विभक्तयः स्फुटा यत्र समासश्चाकदर्थितः ।अम्लानः पदसन्धिश्च तत्र पाठः प्रतिष्ठितः ॥न व्यस्तपदयोरैक्यं न भिदां तु समस्तयोः ।न चाख्यातपदम्लानिं विदधीत सुधीः पठन् ॥आगोपालकमायोषिदास्तामेतस्य लेह्यता ।इत्थं कविः पठन्काव्यं वाग्देव्या अतिवल्लभः ॥ये ऽपि शब्दविदो नैव नैव चार्थविचक्षणाः ।तेषामपि सतां पाठः सुष्ठु कर्णरसायनम् ॥पठन्ति संस्कृतं सुष्ठु कुण्ठाः प्राकृतवाचि तु ।वाराणसीतः पूर्वेण ये केचिन्मगधादयः" ॥आह स्म- "ब्रह्मन्विज्ञापयामि त्वां स्वाधिकारजिहासया ।गौडस्त्यजतु वा गाथामन्या वास्तु सरस्वती ॥नातिस्पष्टो न चाश्लिष्टो न रुक्षो नातिकोमलः ।न मद्रो नातितारश्च पाठी गौडेषु वाडवः ॥रसः को ऽप्यस्तु काप्यस्तु रीतिः को ऽप्यस्तु वा गुणः ।सगर्वं सर्वकर्णाटाष्टङ्कारोत्तरपाठिनः ॥गद्ये पद्ये ऽथवा मिश्रे काव्ये काव्यमना अपि ।गेयगर्भे स्थितः पाठे सर्वो ऽपि द्रविडः कविः ॥पठन्ति लटभं लाटाः प्राकृतं संस्कृतद्विषः ।जिह्वया ललितोल्लापलब्धसौन्दर्यमुद्रया ॥सुराष्ट्रत्रवणाद्या ये पठन्त्यर्पितसौष्ठवम् ।अपभ्रंशावदंशानि ते संस्कृतवचांस्यपि ॥शारतायाः प्रसादेन काश्मीरः सुकविर्जनः ।कर्णो गुडूचीगण्डूषस्तेषां पाठक्रमः किमु ? ॥ततः पुरस्तात्कवयो ये भवन्त्युत्तरापथे ।ते महात्यपि संस्कारे सानुनासिकपाठिनः ॥मार्गानुगेन निनदेन निधिर्गुणानां सम्पूर्णवर्णरचनो यतिभिर्विभक्तः ।पाञ्चालमण्लभ्रुवां सुभगः कवीनां श्रोत्रे मधु क्षरति किञ्चन काव्यपाठः ॥ललल्लकारया जिह्वां जर्जरस्फाररेफया ।गिरा भुजङ्गाः पूज्यन्ते काव्यभाव्यधियो न तु ॥पञ्चस्थानमुद्भववर्णेषु यथास्वरुपनिष्पत्तिः ।अर्थवशेन च विरतिः सर्वस्वमिदं हि पाठस्य" ॥सकाकुकलना पाठप्रतिष्टेयं प्रतिष्ठिता ।अर्थानुशासनस्याथ प्रकारः परिकीर्त्त्यन्ते ॥इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमे ऽधिकरणे सत्पमो ऽध्यायः वाक्यविशेषाः काकुकलना पाठप्रतिष्ठा च ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP