संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|काव्यमीमांसा| द्वितीयो ऽध्यायः काव्यमीमांसा प्रथमो ऽध्यायः द्वितीयो ऽध्यायः तृतीयो ऽध्यायः चतुर्थो ऽध्यायः पञ्चमो ऽध्यायः षष्ठो ऽध्यायः सप्तमो ऽध्यायः चतुर्थो ऽध्यायः नवमो ऽध्यायः दशमोऽध्यायः एकादशो ऽध्यायः द्वदशो ऽध्यायः त्रयोदशो ऽध्यायः चतुर्दशो ऽध्यायः पञ्चदशो ऽध्यायः षोडशो ऽध्यायः सप्तदशो ऽध्यायः अष्टादशो ऽध्यायः काव्यमीमांसा - द्वितीयो ऽध्यायः संस्कृत कवि राजशेखरद्वारा द्वारा रचित काव्यमीमांसा अलंकार शास्त्र पर लिखा गया एक विशालकाय ग्रंथ था, जिसमें मूलत: 18 अधिकरण थे। राजशेखर महाराष्ट्र देशवासी थे और यायावर वंश में उत्पन्न हुए थे। Tags : kavyamimansarajashekharकाव्यमीमांसाराजशेखरसंस्कृत शास्त्रनिर्देशः Translation - भाषांतर शास्त्रनिर्देशः इह वाङ्मयमुभयथा शास्त्रं काव्यं च ।शास्त्रपूर्वकत्वात् काव्यानां पूर्व शास्त्रेष्वभिनिविशेत ।तच्च द्विधा अपौरुषेयं पौरुषेयं च ।अफौरुषेय श्रुतिः ।सा च मन्त्रब्राह्मणो ।विवृतक्रियातन्त्रा मनन्त्राः ।मन्त्राणां स्तुतिनिन्दाव्याख्यानविनियोगादिग्रन्थो ब्राह्मणम् ।ऋग्यजुःसामवेदस्त्रयी ।अथर्व तुरीयम् ।तत्रार्थव्यवस्थितपादा ऋचः ।ताः सगीकयः सामानि ।अच्छन्दांस्यगीतानि यजूंषि ।ऋचो यजूंषि सामानि चार्थर्वाणि त इमे चत्वारोबेदाः ।इतिहासवेदधनुर्वेदौ गान्धर्वायुर्वेदावपि चोपवेदाः ।ऽवेदोपवेदात्मा सार्ववर्णिकः पञ्चमो नाट्यवेदःऽ इति द्रौहिणिः ।ऽशिक्षा, कल्पो, व्याकरणं, निरुक्तं, छन्दोविचितिः, ज्यौतिषं च षडङ्गानिऽ इत्याचार्याः ।उपकारकत्वादलङ्कारः सत्पममङ्गम् ऽिति यायावरीयः ।ऋते च तत्सरुपपरिज्ञानाद्वेदार्थानवगतिःऽ ।यथा- ऽद्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते ।तयोरन्यः पिप्पलं स्वाद्वत्ति अनश्नन्नन्यो अभिचाकशीतिऽ ॥सेयं शास्त्रोक्तिः ।प्रत्यधिकरणं च ऋचं यजुः सामाथर्वणां ब्राह्मणं चादाहृत्य भाषामुदाहरिष्यामः ।तत्र वर्णानां स्थानकरणप्रयत्नादिभिः निष्पत्तिनिर्णयिनी शिक्षा आपिशलीयादिका ।नानाशाखाधीतानां मन्त्राणां विनियोजकं सूत्रं कल्पः ।सा च यजुर्विद्या ।शब्दानामन्वाख्यानं व्याकरणम् ।निर्वचनं निरुक्तम् ।छन्दसां प्रतिपादियित्रीछन्दोविचितिः ।ग्रहगणितं ज्यौतिषम्, अलङ्कारव्याख्यानं तु पुरस्तात् ।पौरुषेयं तु पुराणम्, आन्वीक्षिकी, मीमांसा, स्मृतितन्त्रमिति चत्वारि शास्त्राणि ।तत्र वेदाख्यानोपनिबन्धनप्रायं पुराणमष्टादशधा ।यदाहुः- ऽसर्गः प्रतिसंहारः कल्पो मन्वन्तराणि वंशविधिः ।जगतो यत्र निबद्धं तद्विज्ञेयं पुराणमिति ॥"पुराणप्रविभेद एवेतिहासःऽ इत्येके ।स च द्विधा परक्रियापुराकल्पाभ्याम् ।यदाहुः- ऽपरक्रिया पुराकल्प इतिहासगतिद्विन्धा ।स्यादेकनायका पूर्वा द्वितीया बहुनायकाऽ ॥तत्र रामायणं भारतं चोदाहरणे ।आन्वीक्षिकीं तु विद्यावसरे वक्ष्यामः ।निगमवाक्यानां न्यायैः सहस्रेण विवेक्त्री मीमांसा ।सा च द्विविधा विधिविवेचनी ब्रह्मनिदर्शनी च ।अष्टादशैव श्रुत्यर्थस्मरणात्स्मृतयः ।ऽतानीमानि चतुर्दश विद्यास्थानानि, यदुत वेदाश्रत्वारः, षडङ्गानि, चत्वारि शास्त्राणिऽ इत्याचार्याः ।तान्येतानि कृत्स्नामपि भ्रूर्भुवःस्वस्त्रयीं व्यासज्य वर्त्तन्ते ।तदाहुः- ऽविद्यास्थानानां गन्तुमन्तं न शक्तो जीवेद्वर्षणां यो ऽपि साग्रं सहस्रम् ।तस्मात्सङ्क्षेपादर्थसन्दोह उक्तो व्यासः संत्यक्तो ग्रन्थभीरुप्रियार्थम् ॥"सकलविद्यास्थानैकायतनं पञ्चदशं काव्यं विद्यास्थानम्ऽ इति यायावरीयः ।गद्यपद्यमयत्वात् कविधर्मत्वात् हितोरदेशकत्वाच्च ।तद्वि शास्त्रण्यनुधावति ।ऽवार्त्ता कामसूत्रं शिल्पशास्त्रं दण्डनीतिरिति पूर्वैः सहाष्टादश विद्यास्थानानिऽित्यपरे ।आन्वीक्षिकी त्रयी वार्त्ता दण्डनीतिश्चेति विद्याः ऽ ।दण्डनीतिरेवैका विद्याऽित्यौशनसाः ।दण्डभयाद्वि कृत्स्नो लोकः स्वेषु स्वेषु कर्मस्ववतिष्ठते ।ऽवार्त्ता दण्डनीतिर्द्वे विद्येऽ इति बार्हस्पत्याः ।वृत्तिर्विनयग्रहणं च स्थितिहेतुर्लोकयात्रायाः ।ऽत्रयीवार्त्तादण्डनीतयस्तिस्रो विद्याःऽ इति मानवाः ।त्रयी हि वार्त्तादण्डनीत्योरुपदेष्ट्री ।ऽान्वीक्षिकीत्रयीवार्त्तादण्डनीतयश्चतस्रो विद्याःऽिति कौटल्यः ।आन्वीक्षिक्या हि विवेचिता त्रयी वार्त्तादण्डनीत्योः प्रभवति ।ऽपञ्चमी साहित्यविद्याऽ इति यायावरीयः ।सा हि वचसृणामपि विद्यानां निस्यन्दः ।आभिर्द्धर्मार्थौ यद्विद्यात्तद्विद्यानां विद्यात्वम् ।तत्र त्रयी व्याख्याता ।द्विधा चान्वीक्षिकी पूर्वोत्ररपक्षाभ्याम् ।अर्हद्भदन्तदर्शने लोकायत्तं च पूर्वः पक्षः ।सङ्खयं न्यायवैशेषिकौ चोत्तरः ।त इमे षट् तर्काः ।तत्र च तिस्रः कथा भवन्ति वादो, जल्पो, वितण्डा च ।मध्यस्थयोस्तत्त्वावबोधाय वस्तुतत्त्वपरामर्शो वादः ।विजिगीषोः स्वपक्षसिद्धये छलजातिनिग्रहादिपरिग्रहो जल्पः ।स्वपक्षस्यापरिग्रहित्री परपक्षस्य दूषयित्री वितण्डा ।कृषिपाशुपाल्ये वणिज्या च वार्त्ता ।आन्वीक्षिकीत्रयीवार्त्तानां योगक्षेमसाधनो दण्डस्तस्य नीतिर्दण्डनीतिः ।तस्यामायत्ता लोकयात्रेति शास्त्राणि ।सामान्यलक्षणं चैषाम्- ऽसरितामिव प्रवाहास्तुच्छाः प्रथमं यथोत्तरं विपुलाः ।ये शास्त्रसमारम्भा भवन्ति लोकस्य ते वन्द्याःऽ ॥सूत्रादिभिश्चैषां प्रणयनम् ।तत्र सूत्रणात् सूत्रम् ।यदाहुः- ऽल्पाक्षरमसन्दिग्धं सारवद्विश्चतोमुखम् ।अस्तोभमनवद्यञ्च सूत्रं सूत्रकृतो विदुःऽ ॥सूत्राणां सकलसारविवरणं वृत्तिः ।सूत्रवृत्तिविवेचनं पद्धतिः ।आक्षिप्य भाषणाद्भाष्यम् ।अन्तर्भाष्यं समीक्षा ।अवान्तरार्थविच्छेदश्च सा ।यथासम्भवमर्थस्य टीकनं टीका ।विषमपदभञ्जिका पञ्जिका ।अर्थप्रदर्शकारिका कारिका ।उक्तानुक्तदुरुक्तचिन्ता वार्त्तिकमिति शास्त्रभेदाः ।ऽभवति प्रथयन्नर्थं लीनं समभिप्लुतं स्फुटीकुर्वन् ।अल्पमनल्पं रचयन्ननल्पमल्यं च शास्त्रकविःऽ ॥शास्त्रैकदेशस्य प्रक्रिया प्रकरणम् ।अध्यायादयस्त्ववान्तरविच्छेदाः क्वतिभिः स्वतन्त्रतया प्रणीता इत्यपरिसङ्ख्येया अनाख्येयाश्च ।शाब्दार्थयोर्यथावत्सहभावेन विद्या साहित्यविद्या ।उपविद्यास्तु चतुःषष्ठिः ।ताश्च कला इति विदग्धवादः ।स आजीवः काव्यस्य ।तमौपनिषदिके वक्ष्यामः ।इत्यनन्तो ऽभियुक्तानामत्र संसम्भविस्तरः ।त्यक्तौ निपुणधीगम्यो ग्रन्थगौरवकारणात् ॥इति राजशेखरकृतौकाव्यमीमांसायां कविरहस्ये प्रथमे ऽधिकरणे द्वितीयो ऽध्यायः शास्त्रनिर्देशः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP