चतुष्षष्टितमः पटलः - मन्त्रसंग्रह ६
कण्ठभेदविज्ञानविन्यासः
साधकालम्बकथनम्
साधकालम्बनं वक्ष्ये येन सिद्धो हि साधकः ।
प्राणविद्यासुद्धिः स्यादायुरारोग्यमालभेत् ॥२६३॥
श्रीकारुणोऽकारणगुप्तभावे
विभावयामि प्रियपादपद्मम् ।
एवं मनोयोगमुपेत्यं नित्यं
श्रीसाधकालम्बनमेव सम्पदम् ॥२६४॥
नित्योपलब्धिविज्ञाने सुन्दरीचरणाम्बुजे ।
आत्मानमर्पयन् भावैः साधकालम्बनं हि तत् ॥२६५॥
वर्णध्यानं श्रृणु प्रीतः शङ्कर प्राणशङ्कर ।
मूलदिब्रह्मरन्ध्रान्तमकारादीन् स्मरेद् बुधः ॥२६६॥
स्मृत्वा ग्रथित्वा मनुना विलोमेन पुनः पुनः ।
भावयेन्मनसा योगी सत्त्वाधिष्ठानतत्परः ॥२६७॥
कोटिसूर्यायुताभासं प्रत्येकग्रन्थिभेदतः ।
मन्त्राक्षरं परंब्रह्म ध्यात्वा ध्यात्वा विभाकरम् ॥२६८॥
भित्वा सहस्त्रारमध्यं क्षकारं भाति चन्द्रगम् ।
अनुलोमविलोमेन विभाव्य ध्यानमाचारेत् ॥२६९॥
अकारदिक्षकारान्तं वर्णध्यानं समीरितम् ।
दलभेदं प्रवक्ष्यामि यत्र यत्र पदे स्थितिः ॥२७०॥
विसर्गाद् बिन्दुपर्यन्तो दलभेदः प्रकीर्तितः ।
तथापि श्रृणु योगेन्द्र सङ्केतार्थविनिर्णयम् ॥२७१॥
देवतादक्षिणावर्त्या योगेन भावयेद्दलाम् ।
एवं मूलादिपद्मानां भेदः श्रीकण्ठभूषण ॥२७२॥
एवं सहस्त्रापदलभेदः प्रकीर्तितः ।
स्फूर्तिविद्यां प्रवक्ष्यामि अकस्मात्सिसिद्धिदायिनीम् ॥२७३॥
निरन्तरं जपेद्विद्यां समभावपरायणः ।
अकस्मात्स्फूर्तिविद्यः स्यात्काव्यवाक्पतिरीश्वरः ॥२७४॥
वाचां सिद्धिः करे तस्य कुब्जिकासिद्धिरेव च ।
यदि कण्ठाबुजे ध्यायेत् काकचञ्चुपुटस्थितः ॥२७५॥
इत्येताः स्फूर्तिविद्या हि सर्वपम्ददलस्थिताः ।
वियोगं सम्प्रवक्ष्यामि येन मन्त्री च निर्भयः ॥२७६॥
स्त्रीपुत्रधनमित्रादिलोभमोहादिपातकम् ।
वर्जयित्वा तनुक्लेशं विवेकं समुपाश्रयेत् ॥२७७॥
वियोगः स हि विज्ञेयो मन्त्रन्यासपरायणः ।
काले काले क्रियासिद्धिश्चण्डिकापर्श्वगो भवेत् ।
पूर्वस्यां दिशि पूर्वाहणे वदनाम्भोजमण्डलः ॥२७९॥
ज्ञानद्र्व्यसमरसैरुदयं भावयेद् रविम् ।
पूर्व पूर्वस्वजन्मादिज्ञासमोदयं लभेत् ॥२८०॥
आकाशे च मनो दत्वा आकाशाख्यं स्मरन्मनुम् ।
पूर्वजन्मादिसञ्ज्ञानं जानाति समभावकः ॥१८१॥
इति ते कथितं नाथ पूर्वज्ञानसमोदयम् ।
अथात्र संप्रवक्ष्यामि सिद्धः शुद्धः फलार्थभाक् ॥१८२॥
येन क्रमेण सम्भूयात् खेचरीमेलनं प्रभो ।
या या समरसप्राप्तिः सा सैव फलसिद्धिदा ॥१८३॥
श्रृणु संक्षेपतो वक्ष्ये पश्चाद्वक्तव्यमेव तत् ।
आसनादिकमाकृत्य कायसङ्कोचमाचरन् ॥२८४॥
कामलता क्षुद्रतरैर्भेदिता वसनाग्रकैः ।
तालुमूलोत्तरे मूले नियोज्य मधुपो भवेत् ॥२८५॥
तदैव जपमाकृत्य वायुं धृत्वा मधुं पिबेत् ।
सा स्यात्समरसप्राप्तिः कामलिङे स्थिरो भवेत् ॥२८६॥
इत्येषा कथिता विद्या लताभेदं श्रृणु प्रभो ।
श्वेतवाट्यलसूत्रेण निर्मिआ या लता शुभा ॥२८७॥
अथवा पद्मसूत्रेण लतां कुर्याद्वचक्षणः ।
अष्टादशाङ्गुलमितं नातिसूक्ष्मं प्रमावत् ॥२८८॥
जित्वाधः सन्निवेश्याथ घर्षयेत् कामसुन्दर् ।
तदा जित्वा स्वयं याति घर्षणेन पुनः पुनः ॥२८९॥
पश्चाज्जित्वा क्रियां कुर्यात्तालिमूले निधाय च ।
क्रमेनामृतमाप्नोति जिहवाधश्छेदने ध्रुवम् ॥२९०॥
सा स्यात्समरसप्राप्तिर्यदि मन्त्राक्षरं भजेत् ।
जीवब्रह्मबुद्धिमन्तास्तु तिष्ठन्ति निरञ्जने ॥२९१॥
कूष्माण्डाकारदेही च ब्रह्मसाधनतत्परः ।
सदा समरसप्राप्तिरनायासेन लभ्यते ॥२९२॥
जले स्थले भूमिगर्ते शरीरं नापि नश्यति ।
अजरामरदेही स्याद् योगोऽयं योगिदुर्लभः ॥२९३॥
कायकल्पमावक्ष्ये येन सिद्धपतिर्भवेत् ।
श्रृणुष्वैकमनाः शम्भो गृहस्थानां तु दुर्लभम् ॥२९४॥
महारण्ये पद्मवने शीतले गन्धशोभिते ।
कायकल्पनमाकृत्य भावयेत् कण्ठपङ्कजम् ॥२९५॥
उदारचित्तः सर्वत्र वैष्णवाचारतत्परः ।
पद्मे पद्मे स्वदेहस्य कल्पना च दले दले ॥२९६॥
क्रमशः कण्ठपद्मे च स्वीयदेहस्य कल्पना ।
क्रियते यदि योगेन्द्रैस्तदा देहस्य रक्षणम् ॥२९७॥
अन्यथा मृत्युवश्यः स्याद् योगभ्रष्टो भवेन्नरः ।
एवं क्रमेण सर्वत्र कुर्यात कायस्य कल्पनम् ॥२९८॥
जरामरणदुःखाद्यैर्मुच्यते मोहसङ्कटात् ।
अथान्यत् सम्प्रवक्ष्यामि कायकल्पनमेव तत् ॥२९९॥
N/A
References : N/A
Last Updated : April 30, 2011
TOP