संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|चतुष्षष्टितमः पटलः| मन्त्रसंग्रह ३ चतुष्षष्टितमः पटलः मन्त्रसंग्रह १ मन्त्रसंग्रह २ मन्त्रसंग्रह ३ मन्त्रसंग्रह ४ मन्त्रसंग्रह ५ मन्त्रसंग्रह ६ मन्त्रसंग्रह ७ चतुष्षष्टितमः पटलः - मन्त्रसंग्रह ३ कण्ठभेदविज्ञानविन्यासः Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल मन्त्रसंग्रह ३ Translation - भाषांतर राक्षसीक्रियाकथनम्चीनाचारं प्रवक्ष्यामि राक्षसीनां महाफलम् ।अष्टादश प्रकारन्तु चीनाचारं प्रचक्षते ॥५७॥सर्वत्र शुद्धसद्भावः प्रयोजनविरागवित् ।उत्तमोत्तमसंज्ञ चात्यन्तानुत्तममेव च ॥५८॥अत्यन्तोत्तमसंज्ञ चात्यन्तानुत्तममेव च ।अनुत्तमोत्तमं नाथ चात्युत्तममथापरम् ॥५९॥उत्तमं सप्तविद्यञ्च चीनाचारेषु योजयेत् ।अत्यन्ताधमसञ्ज्ञञ्चात्यन्ताधममेव च ॥६१॥अत्यधमाधमं चैवात्यन्ताधमाधमं तथा ।अत्यधमं तथा नाथाधमाधममथापरम् ॥६२॥अधमं सप्तमं विद्धि राक्षसीचीनसाधने ।दिनपक्षमासवर्षभेदेषु कारयेत् क्रमात् ॥६३॥आदावृत्तमसिद्धान्तश्रवणं कुरु शङ्कर ।यदा ऋतुमती पृथ्वी त्रिदिनं चाम्बुवाचिषु ॥६४॥तदिदनात्तु दिनं यावत्तावद्धि मांसचर्वणम् ।चीनद्रुमासवानन्दपञ्चतत्त्वनिषेवणम् ॥६५॥अबाधतो यः करोति चोत्तमोत्तमेव तत् ।अनुत्तमोत्तमं वक्ष्ये पूजाकालेषु योजयेत् ॥६६॥केवलं गुप्तभावेन पञ्चतत्त्वनिषेवणम् ।अत्यागं स्वीयबीजं तु कुलपीठस्य मन्थनम् ॥६७॥तत्पीठमथनोद्धृतसुधारसनियोजनम् ।आसवेषु च सर्वेषु तदासवनिषेवणम् ॥६८॥अष्टप्रकारमांसाढ्यं सदा चर्वणतत्परम् ।पूजाकालं विना द्र्व्यं नाहरेत् साधकोत्तमः ॥६९॥अनुत्तमोत्तमं तद्धि सर्वदेशे च सर्वदा ।अत्यन्तोत्तमचीनं तु वक्ष्याम्यत्र विधानतः ॥७०॥येन सिद्धो भवेन्मन्त्री सदाशिवादिदर्शनम् ।प्रत्यहं वत्सरं व्याप्य निशयामर्धरात्रके ॥७१॥पञ्चतत्त्वं समानीय अष्टनायिकया सह ।पूजयेत् क्रमतो मन्त्री तत्कथाश्रवणोत्सुकः ॥७२॥क्रमेण मथनं कृत्वाऽऽसवे संयोज्य नित्यशः ।शुद्धभावेन गृहणीयाद् ब्राह्मण्यां बीजमर्पयेत् ॥७३॥तद्बीजेन समासिञ्चेन्मस्तकादिषु पङक्जे ।दत्वा ताभ्यो दक्षिणादीन् स्वातन्त्र्यमपि चाचरेत् ॥७४॥अत्यन्तोत्तममेतद्धि न चारम्भो विशां विना ।अत्यन्तानुत्तमं विद्धि येन सिद्धो भवेन्मनुः ॥७५॥आनन्दे त्यागमापन्ने पुररानन्दमाश्रयेत् ।सर्वदानन्दसंयुक्तः प्रजपेद्यजनादिषु ॥७६॥न विषेषो दिवारात्रौ सर्वदारसंयुतः ।उक्तासनोपविष्टस्तु निर्जने कुलसाधनम् ॥७७॥अनुत्तमोत्तमं विद्धि मायाजालनिकृन्तनम् ।कालाकालं विहायादौ स्वकुलं परमेव वा ॥७८॥तन्नाम्नाहूय यत्नेन दापयेदासनाद्कम् ।महाशङ्क समानीय कुलद्रव्यं तथानघ ॥७९॥विधिना पूजनं कृत्वा कुलवारे च साधकः ।दाता भोक्ता संविदश्च शोधितस्य कुलेश्वर ॥८०॥स्वीयाङे न्यासजालादीन् तासामङे ततः परम् ।शिवपूजां ततः कृत्वा कुलपूजां समारभेत् ॥८१॥पीठे संयोज्य शम्भुं चाक्षुम्धोऽयुतजपं चरेत् ।जपं समर्पयेत् तस्या वामहस्ताम्बुजे सुधीः ॥८२॥विसर्जनं स्वबीजस्य ततो नित्याप्रतर्पणम् ।आसवे योजयित्वा तु तया सार्धं पिबेन्मधु ॥८३॥वामभागे कुलं कृत्वा लक्षजाप्यं समापयेत् ।कुलद्रव्यैश्च होमः स्यात् तद्दशांशेन तर्पणम् ॥८४॥तद्दशांशाभिषेक तु दशांशं विप्रभोजनम् ।ततः कुमारीभोज्य्ञ्च मधुमासासवैः प्रभो ॥८५॥प्रत्यहं वत्सरं व्याप्य कुलवारे कुजे शनौ ।वत्सरान्ते मम पदाम्भोजं पश्यति निश्चितम् ॥८६॥अनुत्तमोत्तमञ्चैतद् राक्षसीचीनसाधने ।अत्युत्तमं प्रवक्ष्यामि सावधानावधारय ॥८७॥सदा जितेन्द्रियो भूत्त्वा योगाभ्यासपरायणः ।मांसासवाद्यैः सन्तर्प्य कालिकां घोरनिः स्वनाम् ॥८८॥एकादशीव्यतीपाते कुलवारे कुले तिथौ ।कुलमानीय साक्षाद्वै परंब्रह्ममयो भवन् ॥८९॥केवलं लयभावेन देवीपूजां समारभेत् ।कुलदृष्ट्या च तद्बुद्ध्या तत्तद्धयानपरायणः ॥९०॥मूलाधारे महाचक्रे योगिनीकोटिराजिते ।कोटिब्रह्मालये सिद्धे सूक्ष्ममार्गेण साधकः ॥९१॥ज्योतिराकाशगङुभिर्यथाधाराभिराप्लृताम् ।पृथिवीं ब्रह्मजननीं ब्रह्मानन्दस्वरुपिणीम् ॥९२॥तथा कुलमयीं नित्यां नित्यानन्दस्वरुपिणीम् ।कुलकुण्डलिनीं देवीं विश्वमातां त्रिलोचनाम् ॥९३॥महाघनरसोल्लासां महोन्मादादिबिन्दुभिः ।गलिताभिर्महाधाराजन्याब्धिशतकोटिभिः ।गलिताभिर्महाधाराजन्यब्धिशतकोटिभिः ॥९४॥परिच्छिन्नाभिरुद्धते ज्योतीरन्ध्रे महापथे ।अत्रैव सततं भाति सूक्ष्मात्सूक्ष्मतराऽपरा ॥९५॥बिन्दूद्भवा महाधारा कोटिसौदामिनिप्रभा ।तस्या रुपस्य का पूजा कुलदेव्या महाप्रभो ॥९६॥केवलं बिन्दुधारभिस्तर्पयामि सदानघाम् ।कुलदेवीं जगद्रूपां स्थूलसूक्ष्मस्वरुपिणीम् ॥९७॥मूलदिब्रह्मरन्ध्रान्तं तर्पयामि सुरेश्वरीम् ।इत्येवं मनसा यस्य तस्य किं बाह्यपूजया ॥९८॥तथापि कल्पयाम्यत्र सा(शा)रदीये महोत्सवे ।यथा कुलवतीं दुर्गां तथाहं कुलनायिकाम् ॥९९॥मूलपद्मात्समाकृष्य नागिनीं नागकन्यकाम् ।कुहकोद्भवरुपस्थां मनुष्यगणकन्यकाम् ॥१००॥वामेऽहं कल्पयाम्यत्र कुलपीठे मनोरमे ।कुलदेवीं वामभागे पूजयाम्यधुनामुना ॥१०१॥तर्पयामि महाबिन्दुद्भवासघटामृतैः ।मांसाष्टककयुतैर्नित्यं मुद्राभिर्मीनमिश्रितैः ॥१०२॥यथान्तःकरणे सा तु तथा मे बाह्यतर्पणम् ।शुभं भवतु नित्यं मे महारात्रिश्च सौख्यदा ॥१०३॥कुलं भवतु सौख्यं मे बाह्यपूजा शुभा मम ।इत्येवं मनसा यस्य तस्याः सौख्यं कुतः प्रभो ॥१०४॥सर्वदा पूजनं तस्य चैव कालो निरर्थकः ।अभेदबुद्धया सर्वत्र पूजनं भावसाधने ॥१०५॥अत्युत्तममिति प्रोक्तं कौलानां योगसाधने ।जातिवृत्तं न तत्रैव यदीच्छति फलोदयम् ॥१०६॥उत्तमं सम्प्रवक्ष्येऽहं यथोचितफलोदयम् ।अन्न तन्त्रे क्रिया गुप्तमामन्त्रितं कुलम् ॥१०७॥गुप्तं कुलरसं नित्यं गुप्तपानं सदा प्रभो ।वर्षे वर्षे पूर्णसिद्धिं प्राप्नुयान्नात्र संशयः ॥१०८॥मासे मासे तर्पणं तु पक्षे पक्षे कुलक्रिया ।दिने दिने सदा पानं कौलानामिति लक्षणम् ॥१०९॥गुप्तक्रियाभिः सिद्धयेत् न प्रकाश्यं कदाचन ।सर्वत्यागी तदैव स्यात् प्रकाशो जायते यदि ॥११०॥उत्तमं भावमालम्ब्य क्षिप्रं सिद्धयति साधकः ।तस्यैव लक्षणं नित्यं तन्त्रनाथे निरुपितम् ॥१११॥शिवोक्तिलक्षणे प्रोक्तं भैरवेण मया सह ।तत्सर्व ज्ञानमालम्ब्य चोत्तम्स्त्वं भविष्यसि ॥११२॥अत्यन्तमध्यमं वक्ष्ये चीनाचारक्रमेण तु ।यत्कृत्वा मुनयः सर्वे कौललक्षणभावकाः ॥११३॥पीठोपपीठमध्ये च महापीठे कुलार्णवे ।महाचीनद्रुमलतावेष्टिते साधकान्विते ॥११४॥तत्रैकमासनं कृत्वा तिथित्रयदिने शुभे ।उक्तासनमुपानीय तत्र निश्चयचेतसा ॥११५॥लक्षमेकं जपेन्नित्यं कामनाविषयस्थितः ।कृष्णे वा शुक्लपक्षे वा होमदिविधिमाचरेत् ॥११६॥कुमारीं भोजयित्वा तु कण्ठे तौ भावयेत्सदा ।मासेन सिद्धिमाप्नोति कुलद्रव्यप्रसादत ॥११७॥अत्यन्तमध्यमं चीनं कथितं तव यत्नतः ।अतिमध्यममावक्ष्ये यज्ज्ञात्वा योगिराड् भवेत् ॥११८॥कालाकालं विहायाथ सदान्तः करणस्थितः ।भावयित्वा सुधादेवीं डाकिन्यादिस्वरुपिणीम् ॥११९॥पञ्चशक्तिं समानीय पूजयेत्कुलजै रसैः ।कुलपुष्पैः साधकेन्द्रः कुलीनं भावयेत्ततः ॥१२०॥यथा बाह्ये तथा ह्रच्चे कण्ठे मणिगृहे तथा ।वैकुण्ठे विष्णुकमले मूलाधारे पुनः पुनः ॥१२१॥ध्यात्वा ध्यात्वा तर्पयेद्यः स कामविजयी भवेत् ।अतिमध्यममेतत्तु योगिनामपि दुर्लभम् ॥१२२॥मध्यमध्यममावक्ष्ये कुलीनफलसागरम् ।वाञ्छासिद्धिकरं साक्षात् शिववद्विहरेन्मुदा ॥१२३॥मासमध्ये पञ्चवारं पञ्चतत्त्वनिषेवणम् ।यजनं भावनं नित्यं होमकर्म समापयेत् ॥१२४॥बाह्यक्रियासु निपुणः श्मशाने विपिनेऽपि वा ।भावयेत् कान्तं शिरसि काकिनीं साकिनीं कलाम् ॥१२५॥पञ्चशक्तिं द्वयं वापि गृहीत्वा तर्पणं चरेत् ।तर्पणान्ते जपेद्विद्यामहर्निशमनातुरः ॥१२६॥होमतर्पणकाले तु कुलशक्ति प्रपूजयेत् ।आसनं स्वागतं पाद्यमर्घमाचमनीयकम् ॥१२७॥मधुपर्कं च मनस्नानवसनाभरणानि च ।गन्धपुष्पधूपदीनैवेद्यं शीतलं जलम् ॥१२८॥पक्वान्नं पक्वमांसञ्च पक्वञ्च व्यञ्जनादिकम् ।कर्पूरवासितं नीरं ताम्बूलं तदनन्तरम् ॥१२९॥लाङादिसमायुक्तं दत्त्व गन्धानुलेपनम् ।गन्धमाल्यादिकं दत्वा प्रार्थयेत्सुहितं वरम् ॥१३०॥तस्यै दत्वा स्वमात्मानं कुलपीठे स्थिरो भवेत् ।कण्ठपद्मे मनो याति शक्तिमन्त्रप्रभावतः ॥१३१॥मध्यमध्यममेतद्धि कुलीनविप्रभोजनम् ।क्रमशः सिद्धिमाप्नोति मध्यमं श्रृणु भैरव ॥१३२॥यथा काले कुलद्रव्यं समानीय प्रयत्नतः ।नवशक्तिमेकशक्ति त्रिशक्तिं वासमाहरेत् ॥१३३॥गुप्तस्थाने समानीय गुप्तद्रव्यैः प्रपूजयेत् ।दशोपचारविधिना पूजयेदिष्टदेवताम् ॥१३४॥प्रातःकाले च मध्याहने सायाहने मध्यरात्रिके ।सहस्त्रजपमाकृत्यार्चनं वारचतुष्टयम् ॥१३५॥मध्यरात्रौ शक्तिमात्रं स्थापयेदग्रतः सुधीः ।साक्षान्मूर्तौ दिगम्बर्यां मुद्रया परिपूजयेत् ॥१३६॥जयन्ती मङुला काली भद्रकाली कपालिनी ।दुर्गा शिवा क्षमा धात्री स्वाहा स्वधा नमोऽस्तु चे ॥१३७॥अनेन मनुनाभ्यर्चं परंबह्मस्वरुपिणीम् ।कुलद्र्व्यं पिबेत् पश्चाच्छक्तिदत्तं पुनः पुनः ॥१३८॥शक्तिप्रसादं विधिना संशोध्य पानमाचरेत् ।शोधयामि परां देवीं कुलास्यपद्मनिर्गताम् ॥१३९॥पिबामि परमानन्दैस्तत्प्रसादात्कुलेश्वरी ।इत्यादि मध्यमं प्रोक्तं चीनाचारेषु दुर्लभम् ॥१४०॥अत्यन्ताधमचीनं तु वक्ष्याम्यत्र विशेषतः ।मासमध्ये त्रिदिनं तु तर्पणं तु त्रयं त्रयम् ॥१४१॥अष्टोत्तरशतं जाप्यं केवलं शक्तिशोधनम् ।ऋषिमातृकराङुदिन्यासं स्वीयतनौ चरेत् ॥१४२॥कुलाङेऽपि समाकृत्य पीठे शम्भुं नियोजयेत् ।धर्माधर्मकलास्नेहमात्माग्नौ मनसा स्त्रुचा ॥१४३॥सुषुम्नावर्त्मना नित्यमक्षवृत्तीर्जुहोम्यहम् ।स्वाहान्तमन्त्रमुच्चार्य नियोज्य जपमाचरेत् ॥१४४॥जपं समर्प्य विधिना स्तोत्रं कवचमापठेत् ।कवचान्ते ततो मन्त्री स्वबीजहोममाचरेत् ॥१४५॥कुलत्रिकोणगगनवायूज्वलकुलानले ।कुलप्रकाशिते पद्मतले च मनुनामुना ॥१४६॥प्रकाशाकाशहस्ताह्यामवम्ब्योन्मनीस्त्रुचा ।धर्माधर्मकलास्नेहपूर्णमग्नौ जुहोम्यहम् ॥१४७॥स्वाहेति मन्त्रमुच्चार्य ततस्तेनैव तर्पणम् ।तर्पणान्ते चाभिषेकं स्वशक्तिकुलजै रसैः ॥१४८॥शक्तिनां ब्राह्मणस्थाने भोजनञ्च समापनम् ।केवलं त्रिदिनं मासे चात्यन्ताधमलक्षणम् ॥१४९॥अत्यन्तात्यधर्मं चीनं वक्ष्यामि कुलवल्लभ ।राक्षसीक्रियया व्याप्तं भुजङाकारभोजनम् ॥१५०॥अहमेव परंब्रह्म बुद्धयात्मानं प्रतर्पयेत् ।आत्मम्भरी स्वयं नित्यं शक्तित्यागपरो नरः ॥१५१॥अन्तरे च न तु त्यागो मनसा कर्मसाधानम् ।पञ्चतत्त्वं स्वयं पीत्वा सदानन्दस्वरुपवान् ॥१५२॥बीजत्यागं न करोति लिङुं वक्त्रे पुनः पुनः ।दन्तावलियुते वक्त्रे बीजोच्चारणमुच्चकैः ॥१५३॥उपांशु मानसं वापि जप्त्वा ब्रह्ममयो भवेत् ।न तु बाह्ये महापूजा एकादशीव्रतं विना ॥१५४॥एकादश्यामाश्यं तु पूजयेत्सुरसुन्दरीम् ।यथाविधि विधानेन शक्तिं सन्तोषयेत् सुधीः ॥१५५॥सर्वदेशे सर्वपीठे तत्राशौचिर्न विद्यते ।अशुचेर्भावमालब्य नरकं खलु गच्छति ॥१५६॥विष्ठायां गन्धनिबिडे मांसमेदादिगन्धके ।सुगन्धदेशके वापि एकभावेन पूजयेत् ॥१५७॥पूजान्ते षट्सहस्त्राख्यस्तोत्रं कवचमापठेत् ।तदन्ते विहरेद्वीरो मदनाहलादवर्जितः ॥१५८॥अन्तरे कुण्डलीयुक्तः कामकर्ता स्वयं भवेत् ।न तु बाह्ये स्वबीजस्य त्याग एव सुरेस्वर ॥१५९॥तदा योगे स्थिरो याति चात्यन्तात्यधमादिभिः ।अत्यधमाधमं वक्ष्ये कालात्मञ्छुणु सादरम् ॥१६०॥मासमध्ये वारमेकं कुलाचारं सचीनकम् ।कुलमालां समानीय कुलेन पुटितं मनुम् ॥१६१॥शक्तियुक्तो जपेन्मन्त्री मन्त्रध्यानपरायणः ।चतुर्दण्डगतो रात्रौ जपारम्भ उदीरितः ॥१६२॥जपेत्तु सकलां रात्रिं वेददाण्डस्थिते न तु ।भयं नैव तु कर्तव्यं हास्यं तत्र विवर्जयेत् ॥१६३॥कालीतन्त्रविधानेन तारातन्त्रक्रमेण वा ।पूजाजपं समर्प्याथ शक्तिं सम्प्रार्थन्मुदा ॥१६४॥स्तोत्रं कवचमुच्चार्य विहरेच्च यथाविधिम् मासमध्ये दिनमेकं कृत्वा योगी भवेन्नरः ।पशुत्वं न समायाति वीरतन्त्रप्रसादतःएतदन्यदिने नाथ पञ्चतत्त्वाक्ततण्डुलम् ॥१६५॥वदनाम्भोरुहे दत्त्वा जपेत्तद्गतमानसः ।एवं वत्सरपर्यन्तं कृत्वा योगी भवेन्नरः ॥१६६॥अत्यधमाधमं कृत्वा पशुत्वमपि मुञ्चति ।कुलेश परमानन्दं वक्ष्येऽत्यन्ताधमाधमम् ॥१६७॥भवेयुः साधकाग्रयाश्च वीराः पशुगुणोदयाः ।उच्चदेशे गृहं कृत्वा मण्डलाकारमेव च ॥१६८॥शक्तिं बिना चरेत्कार्यं नृणां मुण्डत्रयोदशे ।आसनं तत्र संस्कृत्य जपेत्तु शङ्खमालया ॥१६९॥अनुकल्पितद्रव्येण साक्षात्कल्पितद्रव्यकैः ।पूजयेत्परया भक्त्या स्वात्मानं शक्तिकुण्डलीम् ॥१७०॥एकाकी निर्जने देशे तद्गतः प्रजपेन्मनुम् ।कुलपूजाक्रमेणैव आत्मशक्तिं प्रतर्पयेत् ॥१७१॥सहस्त्रनामयोगाङु षट्चक्रभेदनक्रमात् ।पठित्वा स्तोत्रकवचं विन्यसेदात्मनो ह्रदि ॥१७२॥गुप्तजाप्यक्रमेणैव सिद्धो भवति मानवः ।इत्येत्कथित नाथ महासिद्धिकरं परम् ॥१७३॥दिवारात्रौ साधकस्य विशेषो नास्ति शङ्कर ।पशुभावं परित्यज्य सिद्धोऽत्यन्ताधमाधमम् ॥१७४॥अत्यधमं प्रवक्ष्यमि चीनाचारक्रमेण तु ।येन सिद्धो भवेन्मन्त्री पशुभावं विमुञ्चति ॥१७५॥श्रृणु प्राणेश वरद सिद्धानामधिपाधिप ।पातालमण्डपं कृत्वा गन्धनिर्गमवर्जितम् ॥१७६॥तत्रासनं समाकृत्य तत्र मुण्डत्रयं त्रयम् ।तन्मध्ये निवसेन्नाथ कुलविद्यासमन्वितः ॥१७७॥कुलीना पण्डिता नारीं दिव्यालङ्कारमण्डिताम् ।सर्वदानन्दनिलयां रसिकां क्रोधवर्जिताम् ॥१७८॥सुन्दरीं यौवनाहलादललितां देवयोगिनीम् ।एवंभूतां देवशक्तिं वामभागे नियोज्य च ॥१७९॥पूजयेत्परया भक्त्या यथेष्टदेवतां प्रभो ।केवलं पूजनं कृत्वा त्रिदिनं कुलमन्दिरे ॥१८०॥अथ सप्तदिनान् वापि पूजाजविधिं चरेत् ।शक्तिं सन्तर्पयेद् भक्त्या नवकन्यामथापि व ॥१८१॥वस्त्रालङ्कारभूषाद्यैः कुलद्रव्यैर्यथाविधि ।सन्तोषयेत् सदा कामी लिङुध्यानपरायणः ॥१८२॥धूपदीपौ तथा दद्यात् सर्वदा साधकोत्तमः ।यथा तत्त्वान्तनाशः स्यात्तशा तच्चित्ततामसम् ॥१८३॥नश्यत्येव महाकाल अत्यधमप्रसादतः ।अधमाधममावक्ष्ये यथोक्तफलासिद्धये ॥१८४॥मन्त्री पीठे समागम्य मुक्तकेसो दिगम्बरः ।घृणालज्जाविराहिती निर्जने विपिनेऽपि वा ॥१८५॥गङागर्भे गिरौ वापि बिल्वमूले चतुष्पथे ।वटमूलेऽश्वत्थमूले चीनद्रुमतलेऽपि वा ॥१८६॥कृष्णपक्षे चतुर्दश्यां समारभ्य प्रयत्नतः ।मुण्डमेकमधः क्षिप्त्वा गन्धचन्दनलेपितम् ॥१८७॥हस्तार्धमानतो नाथ चाण्डालं हीनजातिगम् ।तत्र स्थित्वा जपेन्मन्त्री भयमात्रं विवर्जयेत् ॥१८८॥चाण्डालीशक्तिमानीय कुलद्रव्यं तथा प्रभो ।तदिदनात्तदिदनं यावत्तादष्टोत्तरं शतम् ॥१८९॥विधिना शोधनं कृत्वा शक्त्यै दत्वा स्वयं पिबेत् ।आनन्दसागरे मग्नः सर्वदर्शी निरामयः ॥१९०॥मांसमुद्राचर्वणं तु सदानन्दमयो भवन् ।प्रत्यहं साधनं कृत्वा वर्षमध्ये च मासकम् ॥१९१॥मासेन सिद्धिमाप्नोति राक्षसीक्रमतः प्रभो ।अधमाधमकार्येण पशुश्चीनाश्रितो भवेत् ॥१९२॥अधमं श्रृणु यत्नेन कौलानामतिदुर्लभम् ।अधमादिक्रमेणैव वत्सरान्मां प्रपश्यति ॥१९३॥पशुवत्सकलं कार्यं रातौ चापि कुलक्रिया ।कुलदेव्यास्त्रिरात्रौ च कुलपीठे मनोरमे ॥१९४॥पूजयेत् परमानन्दैः कुलध्यानपरायणः ।कुलपुष्पैः कुलद्रव्यैः साङोपाङैर्विधानतः ॥१९५॥कुलपूजां मध्यरात्रौ ब्राह्मणौ ब्राह्मणीयुतः ।क्षत्रिय़ः क्षत्रियायुक्तौ वैश्यो वैश्यान्वितः सदा ॥१९६॥शूद्रः शूद्रकलायुक्तो निजाभावे परायुतः ।जुहुयात् कालसर्पिण्या वदनाम्भोजसुन्दरे ॥१९७॥पुरशरणवत् कार्यं दिवारात्रौं प्रतर्पयेत् ।अकालमृत्युजेता स्यात् परानन्दमयो भवन् ॥१९८॥अनायासेन सिद्धिः स्यादधमस्य प्रसादतः ।रिपुविद्वेषणं वक्ष्ये देवेदेव श्रृणु प्रभो ॥१९९॥यस्य प्रसादमात्रेण निःशत्रुरवरान् भवेत् ।कण्ठपद्मे दृढो भूत्वा साकिनीं श्रीसदाशिवम् ॥२००॥पूजयित्वा विधानेन भावयेत् तद्गतो यदि ।मञ्जुघोषस्य मनुना पुटीकृत्य सदाशिवम् ॥२०१॥तारयद्वयमुच्चार्य रक्षात्मानं युगं तथा ।परपक्षं छेदयति योगशत्रून विनाशय ॥२०२॥युगलं युगलं तत्र रमावहिनत्रयं त्रयम् ।ततो मारययुग्मं तु खादयद्वयमेव च ॥२०३॥शत्रुकण्ठत्रिशूल्यन्ते निकण्ठरिपुपञ्चकान् ।हारयद्वयमुच्चार्य स्वाहान्तमनुमापेत् ॥२०४॥ N/A References : N/A Last Updated : April 30, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP