चतुष्षष्टितमः पटलः - मन्त्रसंग्रह ५
कण्ठभेदविज्ञानविन्यासः
सदाशिव एवं देवी का ध्यान
निराश्रयं निराकारं मम ध्यानमुदीरितम् ।
रुपातीतं निर्विकल्पं सर्वज्ञं योगवारिदम् ॥२२४॥
कोटिसूर्यप्रतीकाशं तेजोबिम्बं निराकुलम् ।
ज्वालामालासहस्त्राढ्यं कालानलशतोपमम् ॥२२५॥
दंष्ट्राकरालदुर्धर्षं जटामण्डलमण्डितम् ।
त्रिशूल वरहस्तञ्च घोररुपं भयानकम् ॥२२६॥
अनन्तानन्तमाहिमं सर्वगामिमीश्वरम् ।
सर्वतः पाणिपादं तत् सर्वतोऽक्षिशिरोमुखम् ॥२२७॥
सर्वमावृत्यं तिष्ठन्तं कण्ठस्थं कण्ठवायुगम् ।
मम ध्यानं सदा कृता परं ब्रह्ममयो भवेत् ॥२२८॥
ममाज्ञा गुरुसद्भावं श्रृणु यत्नेन भैरव ।
कण्ठस्थं दैवतं देवगुरुरुपं महागुणम् ॥२२९॥
आनन्दभैरवं पश्चान्महाकालं ततः परम् ।
ज्ञानानन्दं सदानन्दं भैरवान्दमेव च ॥२३०॥
श्यामानन्दं शिवानन्दं कालानन्दमतः परम् ।
सुधानन्दं हरानन्दं सुरानन्दमतः परम् ॥२३१॥
कुलानदं प्रियानन्दं यज्ञानन्दमतः परम् ।
ध्यानानन्दं परानन्दं योगानन्दं ततः परम् ॥२३२॥
क्रोधानन्दं क्रियानन्दं बोधानन्दं ततः परम् ।
देवानन्दं जयानन्दं विजयान्दमेव च ॥२३३॥
ब्रह्मानन्दं प्रभानन्दं पूर्णानन्दं ततः परम् ।
जगदानन्दरुपं च ममाज्ञागुरुक्रगम् ॥२३४॥
ममाज्ञगुरुसद्भावं कृत्वाऽभ्यर्च्य विभावयेत् ।
कण्ठपद्मे स्थिरो याति साधकः स्थिरचेतसा ॥२३५॥
कुलपीठपूजाकथनं
वक्ष्येऽहं देवदेवेश कुलपीठप्रदर्शनम् ।
कामस्थान कमकलावेष्टितं योगिनीपदम् ॥२३६॥
कामरुपं महापीठं कुलपीठं प्रकीर्तितम् ।
तस्य दर्शनमात्रेण जीवन्मुक्तो न संशयः ॥२३७॥
कुलपीठप्रदर्शन
तत्प्रकारविधिं वक्ष्ये सावधानोऽवधारय ।
कुलपीठे समागम्य यद तद्गतमानसः ॥२३८॥
तदैव पूजनं कृत्वा किं न सिद्धयति भूतले ।
आदौ भवेत् कालरुपभूपतिः सिद्धिदर्शकः ॥२३९॥
कुलपूजाविधानेन निजपीठे प्रपूजयेत् ।
कामेश्वरीं कालकन्यां कामकौतूहलोज्ज्वलाम् ॥२४०॥
कालरुपां प्रपूज्याथ सर्वभावेन पूजयेत् ।
सुधादानं पाद्यदानं अर्घ्यमांसादि मुद्रया ॥२४१॥
आचमनीयं सकुलं गन्धमालिङुनादिकम् ।
नखदंष्ट्राक्षतादीनि पुष्पाणि विविधनि च ॥२४२॥
समूहधूपदानं तु कुलपीठप्रदर्शकम् ।
तत्स्पर्शनं भवेद्दीपः प्रवेशो हि कुलान्तरे ॥२४३॥
तन्नैवैद्यं महासौख्यं सर्वतन्त्रेषु गोपितम् ।
कुलद्रव्यं तु पानार्थं ततस्ताम्बूलभक्षणम् ॥२४४॥
स्थापनं तर्पणं विद्धि मम पूजाक्रादिकम् ।
तन्मूलेन यथा पूर्वोक्तेन प्रकारयेत् ॥२४५॥
कुण्डलीगमनवर्णनम्
कुण्डलीगमनं वक्ष्ये संक्षेपाच्छृणु वल्लभ ।
कायशोधनमाकृत्य आसनादिमाचरेत् ॥२४६॥
प्राणायामं त्रिधा कृत्वा भूतन्यासं समाचरेत् ।
अङुन्यासकरन्यासौ बीजन्यासेषु षोढ्या ॥२४७॥
व्यापकं पञ्चधा कृत्वा भूअशुद्धिं समाचरेत् ।
जीवेनैक्यं विभाव्यैव ब्रह्मरन्ध्रे निवेशयेत् ॥२४८॥
ब्रह्मरन्ध्रे ततो गत्वा सुषुम्नामुखमाश्रयेत् ।
तन्मध्ये कर्णिकस्थानं च चतुर्दलम् ॥२४९॥
चतुर्दलान्ते सा देवी विभाति तामुपाश्रयेत् ।
तामुपकुञ्च्य यत्नेन सिद्धरुपी प्रबुद्धयेत् ॥२५०॥
देवैः सार्धं ततो गच्छेत् षड्दले काकिनीस्थले ।
तया सार्धं कुण्डलिन्या देवैर्गच्छेद् दशच्छदे ॥२५१॥
एव क्रमेण ह्रत्पद्मं षोडशारं ततः परम् ।
द्विदलं भेदमाकृत्य बोधिनीचक्रमाश्रयेत् ॥२५२॥
ततः कटाहमाभेद्य पूर्णशैलं समाश्रयेत ।
ततोऽसौ ह्रुन्मनीं भित्वा घटाधारे मनोलयम् ॥२५३॥
तदूर्ध्वे प्रलयाकारं ब्रह्मचक्रं निराकुलम् ।
तदूर्ध्वे ब्रह्मादण्डं तु तदूर्ध्वे केवलं जलम् ॥२५४॥
सर्वं जलं समालम्ब्य सहस्त्रारं प्रभामयम् ।
तदूर्ध्वे कर्णिकास्थानं सिद्धखड्गं तदूर्ध्वके ॥२५५॥
सर्वबीजमयं नाथ मातृकामण्डलं ततः ।
मातृकामण्डलोर्ध्वे च प्रेतबीजं सुधामयम् ॥२५६॥
प्रेतासनोपरि ध्यायेन्महाकालकुलेश्वरीम् ।
तत्रैव श्रीपदाम्भोजतले संस्थापयेन्मनः ॥१५७॥
पूर्वोक्तदेवताभिस्तु लययोगेन लेपयेत् ।
तत्रैव स्थित्वा संध्यायेन्मूलेऽनलमनुं प्रभो ॥२५८॥
वायुबीजेन प्रज्वाल्य दहेद्देहं यतीश्वरः ।
तन्नेत्रद्वयपर्यन्तं कर्णयुग्मवधि प्रभो ॥२५९॥
प्रदह्य भ्रूदले नेत्रे वहनौ वहिनलयं चरेत् ।
तच्छिखापटलेनैव क्षरन्ति ब्रह्मबिन्दवः ॥२६०॥
तद्बिन्दुधारया देहं वरुणैः प्लावयेत्ततः ।
शुद्धदेहं ततो ध्यायेद् बीजेन प्रथमाङ्कुरम् ॥२६१॥
अधोमार्गेण सन्ध्यायेत् कुण्डलिन्या गमागमम् ।
इत्येतत् कथितं नाथ कुण्डलीगमनादिकम् ॥२६२॥
N/A
References : N/A
Last Updated : April 30, 2011
TOP